________________
४१४
बृहत्कल्प-छेदसूत्रम् -२-३/८८ लघुना भाजनेन भिक्षां पर्यटति, 'इति' एवं 'गौरवेण' यशःप्रवादलिप्सालक्षणेनावमं भाजनं करोति । अतिप्रमाणं पुनः पात्रममुना कारणेन करोति ॥ [भा.४०१९] अनिगूहियबल-विरिओ, वेयावच्चं करेति अहो! समणो।
ममतुल्लो न य कोयी, पसंसकामी महल्लेणं॥ वृ-'अर्थ' इत्युपन्यासे । अहो! अयं श्रमणः पुण्यात्मा अनिगृहितबल-वीर्यो महता भाजनेन सकलस्यापि गच्छस्य वैयावृत्यं करोति, एवं प्रशंसाकामी नास्ति कोऽपि मम बाहुबलमगीकृत्य 'तुल्यः' सध्श इति ख्यापनार्थमतिरिक्तं भाजनं करोति ॥ अथ लुब्धपदं व्याचेष्ट[भा.४०२०] अंतं न होइ देयं, थोवासी एस देह से सुद्धं ।
उक्कोसस्स व लंभे, कहि घेच्छ महल्ल लोभेणं ॥ वृ-क्षुल्लकभाजनेन गृहाङ्गणस्थितं साधुं दृष्ट्वा गृहस्वामी भणति-'स्तोकाशी' स्तोकाहारोऽयं मुनि अतोऽस्यान्तप्रान्तंभक्तंनदेयम्, किन्तु 'शुद्धम्' उत्कृष्टद्रव्यम् अस्य प्रयच्छथ, एवं विचिन्त्य लुब्धतया हीनप्रमाणं करोति । तथा 'उत्कृष्टस्य' शालि-मुद्रदाल्योदेव्यस्य प्रभूतस्य लाभे सति चिन्तयति-अनेन प्रमाणोपेतभाजनेन पूर्वसामान्यभक्तस्य भृतेन पश्चादुत्कृष्टद्रव्यं लभ्यमानं कुत्र ग्रहीष्यामि? इति विचिन्त्य लोभेन महत्तरंभाजनंगृह्णाति॥अथासम्प्राप्ति-ज्ञायकपदे व्याख्याति[भा.४०२१] जुत्तपमाणस्सऽसती, हीन-ऽतिरित्तं चउत्थो धारेति।
लक्खणजुय हीन-ऽहियं, नंदी गच्छ? वा चरिमो॥ वृ-युक्तप्रमाणं-यथोक्तप्रमाणोपेतं तद्अनेकशो गवेष्यमाणमपिन प्राप्यते, अतस्तस्याभावे हीनं वाऽतिरिक्तं वा पात्रं चतुर्थः सङ्ग्रह गाथोक्त कमप्रामाण्यादसम्प्राप्तिमान् धारयति । तथा यद् लक्षणयुक्तं तद् लक्षणा ऽ लक्षणवेदी हीनाधिक प्रमाणामपि ज्ञानादिवृद्धिनिमित्तं धारयति। यद्वा गच्छस्योपग्रहकरं यद् नन्दी भाजनं तद् गच्छार्थं चरमः' चरमद्वारवर्ती-ज्ञायको धारयति॥
गतमपवाद द्वारम्, अथ लक्षणाऽ लक्षण द्वारमोह[भा.४०२२] वर्ल्ड समचउरंसं, होइ थिरं थावरंच वनडं।
हुंडं वायाइद्धं, भिन्नं च अधारणिज्जाइं॥ वृ-'वृत्तं वर्तुलं तदपि 'समचतुरस्र' उच्छ्यपरिधिनाकुक्षिपरिधिनाचतुल्यं स्थिरं सुप्रतिष्ठानं दृढं वा स्थावरम्' अप्रातिहारिकं वर्णाढ्यं स्निगधवर्णोपेतंपाठान्तरेण “धनंतु"त्तिएतैर्गुणैर्युक्तं 'धन्य एवंविधं लक्षणयुक्तमुच्यते। तथा ‘हुण्डं विषमसंस्थितं क्वचिनिम्नंक्वचिदुन्नतमित्यर्थः, 'वाताविद्धं' निष्पत्तिकालमन्तरेणागिपिशुष्कम्अतएव सङ्कुचितंवलिभृतं च सातम्, 'भिन्नं नाम' सच्छिद्रं राजियुक्तं वा, एतान्यलक्षणतयाऽधारणीयानि॥
अथ लक्षणा-ऽलक्षणयुक्तयोरेव गुण-दोषानाह[भा.४०२३] संठियम्मि भवे लाभो, पतिट्ठा सुपतिट्टिए।
निव्वणे कित्तिमारोग्गं, वन्नहे नाणसंपया। कृ-'संस्थिते' वृत्त-समचतुरस्त्रपात्रेधार्यमाणे विपुलोभक्त-पानादिलाभो भवति । 'सुप्रतिष्ठिते' स्थिरे पात्रे चारित्रे गणे आचार्यादिपदे वा प्रतिष्ठा' स्थिरता सञ्जायते । 'निव्रणे' व्रणविकले कीर्तिरारोग्यं च भवति । 'वर्णाढ्ये स्निग्धवर्णपिते 'ज्ञानसम्पत् प्रभूतसूत्रा-ऽर्थलाभरुपाभवति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org