________________
२६६
बृहत्कल्प-छेदसूत्रम् -२-१/५० साताः॥ इदमेव स्पष्टयति[भा.३२८९] उदिन्नजोहाउलसिद्धसेणो, स पत्थिवो निज्जियसत्तुसेनो।
समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे । वृ-उदीर्णा-प्रबला ये योधास्तैराकुला-सङ्कीर्णा सिद्धा-प्रतिष्ठिता सर्वत्राप्यप्रतिहता सेना यस्य स तथा, अत एव च 'निर्जितशत्रुसेनः' स्ववशीकृतविपक्षनृपतिसैन्यः एवंविधः स सम्प्रतिनामा पार्थिवः अन्धान् द्रविडान् चशब्दाद् महाराष्ट्र-कुडुक्कादीन्प्रत्यन्तदेशान् ‘घोरान् प्रत्यपायबहुलान् समन्ततः ‘साधुसुखप्रचारान्’ साधूनां सुखविहरणान् ‘अकार्षीत् कृतवान् ।।
कल्पे माणिक्यकोशे जिनपतिनृपतेः सूरिभिस्तनियुक्तैस्तस्यैवाहकतानैर्नयपथनिपुणैश्चिन्त्यमानाधिकारे।
पेटा उद्देशकाः स्युः षडिह गहनतामुद्रिता अर्थरनैः, पूर्णास्तत्राऽऽद्यपेटा प्रकटनविधये कुञ्चिकैषाऽस्तु टीका ॥
उद्देशकः-१ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहतकल्पसूत्रे प्रथमोद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्ति युक्त) संघदासगणिविरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाता।
(उद्देशकः-२) वृ-व्याख्यातः प्रथम उद्देशकः, समप्रति द्वितीयः प्रारभ्यते, तस्य चेदमादिसूत्रम्
म. (५१) उवस्सयस्स अंतोवगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि घा तिलाणि वा कुलत्थाणि वा गोहूमाणि वा जवाणि वा जवजवाणि वा उक्खित्ताणि वा विक्खित्ताणि विइकिनाणि वा विपकिन्नाणि वा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदभवि वत्थए।
वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३२९०] एरिसए खेत्तम्मी, उवस्सए केरिसम्मि वसितव्वं ।
पुव्वुत्तदोसरहिते, बीयादिजढेस संबंधो॥ वृ-'ईशे प्रथमोद्देशकान्त्यसूत्रवर्णिते आर्यक्षेत्रे विहरभिरुपाश्रये कीशे वस्तव्यम् ? इति चिन्तायामनेन सूत्रेणोपवर्ण्यते । पूर्वम्-आद्योद्देशके ये उपाश्रयस्य दोषाः-सागारिकत्वादय उक्ताः तैः रहितो बीजादिपरित्यक्तश्च य उपाश्रयस्तत्र वस्तव्यमिति । एष पूर्वसूत्रेण सहास्य सम्बन्धः।। [भा.३२९१] अहवा पढमे सुत्तम्मि पलंबा वनिया न भोत्तव्वा ।
तेसिं चिय रक्खडा, तस्सहवासं निवारेति ॥ वृ-'अथवा' इति सम्बन्धस्य प्रकाशन्तरताद्योतकः। प्रथमोद्देशके 'प्रथमे प्रलम्बसूत्रे सविस्तरं प्रलम्बान्युपवर्णितानि, तानि च न भोक्तव्यानीति प्रतिषिद्धानि; अतो द्वितीयोद्देशकेऽपि प्रथमसूत्रे 'तेषामेव' प्रलम्बानां रक्षार्थं तैः-बीजाख्यैः प्रलम्बैः सह वासम्-अवस्थानं निवारयति ।। [भा.३२९२] अवि य अनंतरसुत्ते, उवस्सतो अधिकतो निसिं जत्थ ।
समणाण न निग्गंतुं, कप्पति अह तेन जोगो उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org