SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५९ उद्देशक : ३, मूलं-८१, [भा. ३७४२] व्युत्सर्जनीयमिति भावः । एवं व्युत्सृष्टमपि त्रिविधम् । एषु त्रिष्वपि तस्याः स्थिरीकरणार्थं सूरिणा गन्तव्यम् । यावत् 'कालगता सा संयती' इति वार्ता श्रुता, तां च श्रुत्वा तस्याः शरीरमहिमा) गणधरः स्वयमेव गच्छेत् ॥ [भा.३७४३] जाहे वि य कालगया, तेहा वि य दुन्नि तिन्नि वा दिवसे । गच्छेज्ज संजईणं, अनुसद्धिं गणहरो दाउं॥ वृ-यदापि च प्रवर्तिनीप्रभृतिका महानिनादसंयती कालगता भवति तदा द्वौ त्रीन् वा दिवसान् संयतीनामनुशिष्टिं प्रदातुं गणधरो गच्छेत् ।। गतं “गम्यते कारणजाते" इति मूलद्वारम् । अथ प्राघुणकद्वारमाह[भा.३७४४] अप्पबिति अप्पतितिया, पाहुणया आगया सउवचारा । सिज्जायर मामाए, पडिकुटुदेसिए पुच्छा ॥ वृ-प्राघुर्णकाः साधव आत्मद्वितीया आत्मतृतीया वा तत्रागताः, तैश्च तत्र श्रुतम्, यथाअत्र संयत्यस्तिष्ठन्ति ततस्ते तासां वसतिं सोपचाराः प्रविशन्ति । सोपचारा नाम-त्रिषु स्थानेषु । प्रयुक्तनैषेधिकीशब्दाः, यद्वा संयतीभिर्येषां वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते। तेषुसमागतेषुप्रवर्तिनी यदि स्थविरा तत आत्मद्वितीया निर्गच्छति, अथ तरुणी ततआत्मतृतीया। या च तत्र स्थविरा सा पुरतस्तिष्ठत । ततः साधवः शय्यातरकुलं मामाककुलं प्रतिकुष्टकुलानि च-रजकादिसम्बन्धीनि औद्देशिकं च येषु कुलेषु क्रियते तानि प्रवर्त्तिन्याः समीपे पृच्छन्ति । अथोपचारं व्याख्याति[भा.३७४५] आसंदग कट्ठमओ, मिसिया वा पीढगं व कट्ठमयं । तक्खणलंभे असई, पडिहारिग पेहऽभोगऽन्ने । वृ-यदि साधुषु समागतेषु तक्षश्रणादेव काष्ठमय आसन्दकोऽशुषिरादिगुणोपेतः प्राप्यते, वृषिका व काष्ठमयं वापीठकलभ्यते ततस्तदानीमेव तद् ग्रहीतव्यम् । अथ तत्क्षणादेवासन्दकादि न लभ्यते ततोऽनागतं प्रातिहारिकं गृहीत्वा स्थापयन्ति । “पेह"त्ति तच्चोभयसन्ध्यं प्रत्युपेक्षन्ते। "भोगऽन्ने"त्ति अकारप्रश्लेषादयो नाम-संयतीजनस्तस्य प्रातिहारिकस्य भोगंन करोति । ततस्ते तत्रोपविष्टाः संयतीनां निराबाधादिवार्ता पृष्टवा शय्यातरकुलादीनि पृच्छन्ति ॥अथ केन विधिना ते पृच्छन्ति ? केन वा विधिना तास्तेषां दर्शयन्ति? इत्युच्यते[भा.३७४६] बाहाइ अंगुलीइ व, लट्ठीइ व उज्जुअं ठिओ संतो । न पुच्छेज्ज न दाएजा, पच्चावाया भवे तत्थ ॥ वृ-शय्यातरादिकुलं पृच्छन् दर्शयन् वा 'बाहया' बाहुं प्रसार्य, एवमङ्गुल्या वा यष्टया वा गृहस्य 'ऋजुकं' सम्मुखं स्थितः सन् न पृच्छेद् न वा दर्शयेत् । कुतः? इत्याह-यतस्तत्रैवं पृच्छयमाने दर्यमाने वा प्रत्यपाया बहवो भवन्ति ।। तानेवाह[भा.३७४७] तेनेहि अगनिना वा, जीवियववरोवणं व पडिनीए । खरए खरिया सुण्हा, नढे वट्टक्खुरे संका॥ वृ- बाह्वादिकं प्रसार्य साधुना यद् गृहं पृष्टम् संयत्या वा दर्शितम् ततः स्तेनैः किञ्चिदपहृतं भवेत्, अग्निना वा तद् गृहंदग्धम्, प्रत्यनीकेन वा तस्मिन् गृहे कस्यापि जीवितव्यपरोपणं कृतम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy