________________
३३०
बृहत्कल्प-छेदसूत्रम् -२-२/६८ तेना चारभडा वा, कम्मबंधे पसज्जणया॥ वृ-स्वयमेव करणेतावदिमे दोषाः-'संयतेनाशुचिना स्पृष्टमिदं भाजनम्' इति विचिन्त्य उदकेन स्पर्शनं-प्रक्षालनम्, तथा 'किमस्मदीयानि भाजनानि स्पृशसि ?' इति भण्डनं' कलहम्, “उण्हवण" त्ति तेषां भाजनानामग्निकायेनाङ्गारणम्,एतानि प्रान्तः सङ्खडिकारिणः कुर्वन्ति । तथा 'स्तेनाः' चौराः 'चारभटाः' राजपुरुषाएते तत्रागत्य तं संयतसंसृष्टं पिण्डं अपहरेषुः, ततश्च कर्मबन्धस्य प्रसजना भवति यावदसौ संयतो भूयो नावर्तते । किञ्च[भा.३६०५]भिंदेज्ज भाणं दवियं व उज्झे, डज्झेज्ज उण्हेण कडी व भुज्जे ।
संसत्तगं तं व जहिं व छुब्भे, विरोहि दव्वं व जहिं व छड्डे ।। वृ-संयतः सागारिकपिण्डमन्यत्र प्रक्षिपन् तद् बाजनं प्रमादतो भिन्द्यात्, तत्र पश्चात्कर्माऽन्यप्रवाहनादयो दोषाः । यद्वा तत्र भाजने यद् ‘द्रव्यं' शालि-दाल्यादि तद् अन्यत्र सञ्चारयन् 'उज्झेत्' परित्यजेत् । अथवा तद्रव्यमतीवोष्णं तेनासौ दह्येत, कटी वा तथाकुर्वतो 'भुज्येत' वक्रीभवेत् । यत्र वाऽसौ सागारिकपिण्डं प्रक्षिपति 'तद्' द्रव्यं 'संसक्तं' जन्तुसंसक्तियुक्तम्, ततः संयमविराधना । विरोधी वा तद् द्रव्यम्, प्रक्षेपणीयद्रव्येण सह भुज्यमानं रोगादिविकारकारकमित्यर्थः, तत्रात्मविराधना । 'यत्र वा' भूभागे तद् द्रव्यं प्रक्षिपन् प्रमादतः छर्दयति तत्र षट्कायविराधना ॥ अथ "तेना चारभडा वा, कम्मबंधे पसज्जणया॥" इति व्याचष्टे- . [भा.३६०६]तं तेन छूढे तहिगं च पत्ता, तेना भडा घोड कुकम्मिगा य ।
आसत्त नामऽहित आउ मंसा, न जिन्नऽनादेस न जा विउट्टे ॥ वृ. 'तद्' द्रव्यं तेन' संयतेन 'तत्र' भाजने प्रक्षिप्तम्, तत्र च प्राप्ताः ‘स्तेनाः' चौराः ‘भटाः' राजपुरुषाः 'घोटाः' पञ्चालचट्टाः ‘कुकर्मिणश्च' कुकर्मकारिणः एते तद् भाजनमुत्कृष्टशालिदाल्यादिद्रव्यभूतमपहत्य गच्छेयुः । तत्र केचिदाचार्यदेशीया ब्रुवते-यावत् तेषामासप्तमं कुलमनुवर्तते तावत् तस्य संयतस्य कर्मबन्धः । अपरे-तेषां यावद् नाम-गोत्रमनुवर्तते । अन्ये-यावत् तेषामस्थीनि सन्ति । अपरे पुनराहुः-यावत् ते आयुर्धारयन्ति । एक भणन्ति-यावत् तेषां तद्रव्याभ्यवहारप्रत्ययो मांसोपचयः । अन्ये तु ब्रुवते-यावत् तेषां तद् भक्तं भुक्तं सद् नाद्यपि जीर्णं तावत् प्रतिसमयं तस्य कर्मबन्धः । सूरिराह-एते सर्वेऽप्यनादेशाः । सिद्धान्तपक्षः पुनरयम्-यावदसौ संयतः 'न व्यावर्त्तते' न तस्मात् स्थानादालोचनाप्रदानादिना प्रतिक्रामति तावत् कर्मबन्धो मन्तव्यः॥किञ्च[भा.३६०७] निच्छंति व मरुगादी, ओभावण जंच अंतरायं तु।
कुज्जा व पच्छकम्म, पवत्तणं घाय बंधं वा ॥ वृ-संयतेन स्पृष्टमिति कृत्वा तद् भक्तं मरुकादयो भोक्तुं नेच्छन्ति । ततश्च 'अहो ! अमी अशुचयो यैः स्पृष्टमनमुच्छिष्टमिति कृत्वा ब्राह्मणादयो न भुञ्जते' इति महती साधूनामपभ्राजना स्यात् । यञ्च मरुकादीनां तद्भक्तमभुञ्जानानामन्तरायं तन्निष्पन्नं प्रायश्चित्तम् । पश्चात्कर्म वा स गृहपति कुर्यात्, मरुकादिभोजनार्थं भूयोऽप्यभिनवं भक्तपाकं कारयेदिति भावः । यद्वा 'साधुभिरिदं पवित्रीकृतम्' इति मत्वा भद्रकास्तस्यान्नादेः स्वगृहे प्रवर्तनं कुर्यु । अथ ते प्रान्तास्ततो घातं वा बन्धं वा कुपिताः सन्तः संयतानां कुर्युः ।। एते तावत् स्वयं करणे दोषा अभिहिताः । अथ स्वयं संसृष्टं कुर्तुमसमर्थी अन्यैः कारयन्ति यो वा कोऽप्यन्यः प्रक्षिपति तमनुमोदयन्ति तत इमे दोषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org