________________
उद्देशक : ३, मूलं - ८५, [ भा. ३८४७ ]
खल्लग खउसा वग्गुरि, कोसग जंघड जंघा य ॥
वृ- 'एकपुटम्' एकतलं चर्म सकलकृत्स्नमुच्यते। 'द्विपुटादिकं द्वि-त्रिप्रभृतितलं तु प्रमाणतः कृत्स्नम् । तथा खल्लका द्विधा-अर्धखल्लका समस्तखल्लका च । या पादार्द्ध छादयति साऽर्धखल्लका, या पुनरुपानत् सम्पूर्णं पादं स्थगयति सा समस्तखल्लका । या तु घुण्टकं पिदधाति सा खपुसा । या पुनरङ्गुलीश्छादयित्वा पादावप्युपरि च्छादयति सा वागुरा । यत्र तु 'पाआणादिषु प्रतिस्फलिताः पादनखाः मा भज्यन्ताम्' इति बुध्या अङ्गुल्योऽङ्गुष्ठो वा प्रक्षिप्यन्ते स कोशकः । या तु सम्पूर्णा जङ्घां पिदधाति सा जङ्घा । जङ्घार्धपिधयिनी सैवार्धजङ्घा । एतान्यपि प्रमाणकृत्स्नानि ॥
अथैतदेव स्पष्टयति
३७९
[भा. ३८४८] पायस्स जं पमाणं, तेन पमाणेन जा भवे कमणी । मज्झम्मि तु अक्खंडा, अन्नत्थ व सकलकसिणं तु ॥
वृ- पादस्ययत् प्रमाणं तेन प्रमाणेन या युक्ता क्रमणिका मध्यप्रदेशेऽन्यत्र वाऽखण्डा भवति तदेतत् सकलकृत्स्नमुच्यते ॥
[भा. ३८४९] दुपुडादि अद्धखल्ला, समत्तखल्ला य वग्गुरी खपुसा । अद्धजंघ समत्ता य, पमाणकसिणं मुनेयव्वं ॥
वृ- 'द्विपुटादिका' द्वि-त्रिप्रभृतितलोपेता या उपानद् या वाऽर्धखल्ला समस्तखल्ला वागुरा खपुसा अर्धजङ्घा समस्तजङ्घा चेति सर्वमप्येतत् प्रमाणकृत्स्नं ज्ञातव्यम् ॥
तत्रैव कानिचिद् विषमपदानि व्याचष्टे
[भा. ३८५० ] उवरिं तु अंगुलीओ, जा छाए सा तु वग्गुरी होति । खपुसा य खलुगमेत्तं, अद्धं सव्वं च दो इयरे ॥
वृ-या पादयोरङ्गुलीश्छादयित्वोपर्यपि छादयति सा वागुरा भवति । खलुकः घुण्टकः तन्मात्रं यावदाच्छादयन्ती खपुसा । 'इतरे तु द्वे' जङ्घा -ऽर्धजङ्घालक्षणे अर्धां सर्वां च जङ्घां यथास्वं छादयत इति ॥ गतं प्रमाणकृत्स्नम्, अथ वर्णकृत्स्न-बन्धनकृत्स्ने प्रतिपादयति
[भा. ३८५१]
वन्नड्ड वन्नकसिणं, तं पंचविहं तु होइ नायव्वं । बहुबंधनकसिणं पुन, परेण जं तिण्ह बंधाणं ।।
वृ-यत् चर्म वर्णेन आढ्यम्-उज्वलमित्यर्थः तद् वर्णकृत्स्नम् । तच्च कृष्णादिवर्णभेदात् पञ्चविधं ज्ञातव्यम् । यत्तु त्रयाणां बन्धानां 'परतः ' बहुभिर्बन्धैर्बद्धं तद् बन्धनकृत्स्नमुच्यते ॥
अथैतेष्वेव प्रायश्चित्तमाह
[भा. ३८५२ ] लहुओ लहुगा दुपुडादिए गुरुगा य खल्लगादीसु । आणादिणो य दोसा, विराधना संजमा - Sऽदाए ।
वृ- सकलकृत्स्नं गृह्णतां लघुमासः । द्विपुटादिषु चत्वारो लघवः । 'खल्लकादिषु' समस्ताऽर्धखल्लकाखपुसा-वागुरा-जङ्घा -ऽर्धजङ्घासु चत्वारो गुरुकाः । आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया भवति । तत्र क्रमणिकादिभि पिनद्धाभिः कीटिकादिव्यपरोपणात् संयमविराधना, आत्मविराधना तु बन्धे छिन्ने सति प्रस्खलनं भवेत् प्रमत्तं वा देवता छलयेत् ॥ [भा. ३८५३ ] अंगुलिकोसे पनगं, सगले सुक्के य खल्लगे लहुओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org