________________
उद्देश : १, मूलं - ४२, [भा. २८५८]
१७५
चउगुरुगा छग्गुरुगा, छेओ मूलं जहन्नम्मि ॥
वृ- ज्योत्स्नाया उद्योते भुञ्जानस्य चत्वारो गुखः, मणिप्रकाशे षङ्गुरवः, प्रदीपप्रकाशे च्छेदः, उद्दीप्तोद्योते मूलम् । अमूनि प्रायश्चित्तानि ज्योत्स्ननादिपदोपलक्षितानि यथाक्रममद्योऽधः स्थापनीयानि । एतानि जधन्यानि स्थानानि । किमुक्तं भवति ? - प्रसङ्गमन्तरेण जधन्यतोऽप्येतानि प्रायश्चित्तानि द्रष्टव्यानि || अथ प्रसङ्गतो यत् प्रायश्चित्तं भवति तद् बिभणिषुराह
[भा. २८५९ ] भोत्तूणय आगमनं, गुरुर्हि वसभेहि कुल गणे संघे । आरोवण कायव्वा, बिइया य अभिक्खगहणेणं ॥
वृ- रात्रौ ज्योत्स्नाप्रकाशादिषु भुक्त्वा गुरुणां समीपे तेषामागमनम् । आगतैश्चालोचनापरिणतैरन्यथा वा गुरुणां कथितम् । ततो गुरुभिरुक्तम्- दुष्ठु कृतं भवद्भिर्यनिशाभक्तमासेवितम् । इत्युक्ते यदि सम्यगावृत्ताः 'मिथ्यादुष्कृतम्, न भूय एवं करिष्यामः' इति ततश्चतुर्गुरवः । अथ नावृत्ताः किन्तु गुरुवचनातिक्रमं कुर्वन्ति-'को नाम दोषो यदि ज्योत्स्नाप्रकाशे दिवससङ्काशे भुक्तम् ? ' इति ततः षगुरुकाः । वृषभैरभिहिताः- आर्या ! किभेवं गुरुणां वचनमतिक्रामथ ?' यदि (इति) वृषभवचने सम्यगावृत्तास्ततः षड्गुरुका एव, अथ वृषभवचनातिक्रमं कुर्वन्ति ततश्छेदः । एवं कुलेन कुलस्थविरैर्वा नोदिता यद्यांवृत्तास्ततो मूलमेव, अथ नावृत्तास्ततोऽनवस्थाप्यम् । सङ्खेन सङ्घस्थविरैर्वा नोदिताः 'किमिति गणंगणस्थविरान् वा अतिक्रामथ ?' इत्युक्ते यद्यावर्त्तन्ते ततोऽनवस्थाप्यमेव, अनावर्त्तमानानां पाराञ्चिकम् । एषा च 'आरोपणा' प्रायश्चित्तवृद्धिर्गुरुवृषभादिवचनातिक्रमनिप्पन्ना प्रागुक्तजधन्यप्रायश्चित्तस्थानेभ्यो दक्षिणतः कर्त्तव्या । द्वितीया तु रात्रिभक्तस्यैव यद् अभीक्ष्णग्रहणं-पुनः पुनरासेवा तन्निष्पन्ना वामपार्श्वतः कर्त्तव्या । तद्यथाएकं वारं ज्योत्स्नाप्रकाशे भुञ्चतश्चत्वारो गुखः, द्वितीयं वारं षङ्गुरवः, तृतीयं वारं छेदः, चतुर्थं वारं मूलम्, पञ्चमं वारमनवस्थाप्यम्, षष्ठं वारं भुञ्चानस्य पाराञ्चिकम्, एषा ज्योत्स्नाप्रकाशे प्रायश्चित्तवृद्धिरुक्ता । एवं मणिष्काशेऽपि, नवरं गुरुभि प्रतिनोदिता यद्यावृत्तास्ततः षङ्गुरुकम्, अथ गुरुवचनमतिक्रामन्ति ततश्छेदः; एवं वृषभवचनातिक्रमे मूलम्, कुलस्थविरातिक्रमेऽनवस्थाप्यम्, गणस्थविर-सङ्घस्थविरातिक्रमे पाराश्चिकम्, अभीक्ष्णसेवायां तु पञ्चभिवरिः पाराञ्चिकम् । एवं प्रदीपेऽपि दक्षिणतो वामतश्चारोपणा, नवरमाचार्यातिक्रमे मूलम्, वृषभातिक्रमेऽनवस्थाप्यम्, कुल-गण-सङ्घस्थविरातिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायां तु चतुर्भिवरिः पाराञ्चिकम् । एवमुद्दीप्तप्रकाशेऽपि, नवरमाचार्यातिक्रमेऽनवस्थाप्यम्, वृषभ-कुल-गण-सङ्घस्थविराणां चतुर्णामप्यतिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायां तु त्रिभिवरैिः पाराञ्चिकम, एषा प्रथमा नौरवसातव्या । द्वितीयादयोऽपि वक्ष्यामाणा एवमेव स्थाप्याः ॥
शिष्यः, प्राह-कुल-गण-सङ्गस्थविर- वचनमतिक्रामतां यद् गुरुतरं प्रायश्चित्तमुक्तं तदत्र किं कारणाम् ? अत्रोच्यते-एते त्रयोऽपि स्थविरा आचार्यादपि गरीयांसो मन्तव्याः, प्रमाणपुरुषतया स्थापितत्वात् । कथं पुनरेते प्रमाणपुरुषाः ? उच्यते
[ भा. २८६०]
तिहिं थेरेहिं कयं जं, सट्ठाणे तं तिगं न वोलेइ ।
हेट्ठिल्ला वि उवरिमे, उवरिमथेरा उ भइयव्वा ॥
वृ- 'त्रिभिः' कुल-गण-सङ्घस्थविरैः यद् आभवद्व्यवहारादिविषयं कार्यं कृतं तत् कार्य स्वस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org