________________
१७६
बृहत्कल्प-छेदसूत्रम् -२-१/४२
‘त्रिकं’ कुल-गण-स्वलक्षणं ‘न वोलयति' न व्यतिक्रामतीत्यर्थः । किमुक्तं भवति ? - कुलस्थविरेण कृतं कुलं नातिक्रामति, गणस्थविरेण कृतं गणोनातिक्रामति, सङ्घस्थविरेण कृतं सङ्घये नातिक्रामति' । "हेट्ठिल्ला वि उवरिमे" त्ति 'अधस्तनाः' कुलस्थविरास्तेऽप्युपरितनैः - गणस्थ - विरैः सङ्घस्थविरैश्च कृतं नातिक्रामन्ति तथा गणस्थविरा: सङ्घस्थविरेभ्योऽधस्तनास्ततो यत् सङ्घस्थविरैः कृतं तद् गणस्थविरा नातिक्रामन्ति । उपरितनास्तु स्थविरा: 'भक्तव्याः' विकल्पयितव्याः कथम् ? इति चेद् उच्यते- कुलस्थविरैररक्तद्विष्टैर्यत् कृतं तद् गणस्थविराः सङ्घस्थविराश्च नान्यथा कुर्वन्ति, अथागमोक्तविधिमन्तरेण रक्तद्विष्टैः कृतं ततस्तन्न प्रमाणयन्ति । एवं गणस्थविरैरपि यदरक्तद्विष्टैः कृतं तत् सङ्घस्थविरा नातिक्रामन्ति, अथ रक्तद्विटैः कृतं ततो न प्रमाणयन्ति । अत एतेषु गुरुतरं प्रायश्चित्तम् ॥ अथ द्वितीयतृतीयचतुर्थनौदर्शनार्थमाहचंदुज्जोवे को दोसो, अप्पप्पाणे य फासुए दव्वे । भिक्खू वसभाऽऽयरिए, गच्छम्मि य अट्ठ संघाडा |
[भा. २८६१]
वृ- ज्योत्स्नाप्रकाशे भुक्त्वा समागत्य गुरुणामालोचयन्ति ततो भिक्षुभि प्रतिनोदिता यदि सम्यगावर्त्तन्ते ततश्चतुर्गुरुकमेव । अथ ब्रुवते 'चन्द्रोद्योते को नाम दोषः ? को वा अल्पप्राणेऽवगाहिमादौ प्राशुके द्रव्ये ?' एनं भणतां षड्लघवः । ततो वृषभैरभिधीयन्ते- 'आर्या ! भिक्षूणामतिक्रमं कुरुत्त' यद्यावर्त्तन्ते ततः षङ्गुरुका एव, अथ वृषभानतिक्रामन्ति ततः षङ्गुरुकाः। तत आचार्यैरभिहिता यद्यावृत्तास्ततः षङ्गुरुका एव, अनावृत्तानां छेदः । “गच्छम्मिय” त्ति कुल-गुण-सङ्घा इह गच्छशब्देनोच्यले, ततः कुलेन भणिता यदि सम्यगुपरतास्ततरछेद एव, अथ नोपरमन्ते ततो मूलम् । गणेनाप्यभिहिता यद्यावृत्तास्ततो मूलम्, अथ नावृत्तास्ततोऽनवस्थाप्यम् । ततः सङ्खेनाभिहिता यद्युपरमन्ते ततोऽनवस्थाप्यम्, अथ नोपरमन्ते ततः पाराञ्चिकम् । एषा प्रायश्चित्तवृद्धिर्दक्षिणतः कर्त्तव्या । अभीक्ष्णसेवायाम्-द्वितीयं वारं ज्योत्यसनाप्रकाशे भुञ्चानस्य षड्लघुकम्, तृतीयं वारं षङ्गुरुकम्, चतुर्थं छेदः, पञ्चमं मूलम्, षष्ठमनवस्थाप्यम्, सप्तमं वारं पाञ्चिकम् एषा प्रायश्चित्तवृद्धिर्वामतः स्थापयितव्या ।
एवं मणि-प्रदीपोद्दीप्तप्रकाशेष्वपि भिक्षु-वृक्षभाद्यतिक्रमनिष्पन्ना दक्षिणतोऽभीक्ष्णसेवानिष्पन्ना तुवामतो यथाक्रमं प्रायश्चित्तवृद्धि स्थापनीया । एषा द्वितीया नौरभिधीयते । तृतीयाऽपि नौरेवमेव कर्त्तव्या, नवरं तस्यां ज्योत्स्नादिप्रकाशेषु भुक्त्वा न कस्याप्याचार्यादेः कथयन्ति किन्तु भिक्षुप्रभृतयस्तेषां परस्परं संलापं श्रुत्वाऽन्यस्य वा श्रावकादेर्मुखादाकर्ण्य तान् प्रतिनोदयन्ति, शेषं सर्वमपि द्वितीयनौवद् द्रष्टव्यम् । चतुर्थी पुनरियम्-भिक्षूणामतिक्रमे चतुर्गुरु, वृषभाणामतिक्रमे षड्लघु, आचार्याणामतिक्र मे षङ्गुरु, गच्छस्य साधुसमूहरुपस्यातिक्रमे छेदः, कुलस्यातिक्रमे मूलम् गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम्, एषा दक्षिणतः प्रायश्चित्तवृद्धिः । द्वितीया त्वभीक्ष्णसेवानिष्पन्ना चतुर्गुरुकादारभ्य सप्तभिवरिः पाराश्ञ्चिकं यावद् वामतः स्थापनीया, एवं ज्योत्स्नायामुक्तम्। मणि- प्रदीपोद्दीप्तेष्वपि यथाक्रमं षड्लघुक-षङ्गुरुकच्छेदानादौ कृत्वा पाराञ्चिकान्ता दक्षिणतो वामतश्चैवमेव प्रायश्चित्तलते भवतः, तद्यथा-दक्षिणपार्श्ववर्त्तिनी वामपार्श्ववर्त्तिनीच; ततश्चतसृषु नौषु सर्वसङ्ख्ययाऽष्टौ लता लभ्यन्ते, ताश्चाष्टौ सङ्घाटका मन्तव्याः । यत आह चूर्णिकृत् “अट्ठ संघाड" त्ति जो जोण्हा-मणि-पदीवुद्दित्तेसु मूलपच्छित्तपत्थारो तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org