________________
१०
बृहत्कल्प-छेदसूत्रम् -२-१/८
समुशिति । एवंविधं विधिं दृष्ट्वा किं भवति ? इत्याह[भा. २०७९ ] दट्टू निहुयवासं, सोयपयत्तं अलुद्धयत्तं च । इंदियदमं च चासिं, विनयं च जणो इमं भणइ ॥
वृ- 'तासां' संयतीनां 'निभृतवासं' विकथादिविरहेण निव्यापारतयैवावस्थानम्, 'शौचप्रयनं' वारकग्रहणादिरूपम्, अलुब्धत्वं च विकृत्यादिष्वभ्युत्थानाभिग्रहश्रवणेन, 'इन्द्रियदमं च' श्रोत्रादीन्द्रियनिग्रहम्, 'विनयं च ' प्रवर्तिन्यादिष्वभ्युत्थानादिरूपं दृष्टवा 'जनः' लोक इदं ब्रवीति । [भा. २०८०] सचं तवो य सीलं, अनहिक्खाओ अ एगमेगस्स । जइ बंभं जइ सोयं, एयासु परं न अन्नासु ॥
[भा.२०८१] बाहिरमलपरिछुद्धा, सीलसुगंधा तवोगुणविसुद्धा । धन्नाण कुलुप्पन्ना, एआ अवि होज्ज अम्हं पि ॥
वृ- 'सत्यं' वाक्कार्मणोरविसंवादिता, 'तपः' अनशनादि, ‘शीलं' सुस्वभावता, 'अनधिकखादश्च' विषमभोजनम् 'एकैकस्याः' परस्परममूषाम्, तथा यदि 'ब्रह्म' ब्रह्मचर्यं यदि 'शौचं ' शुचिसमाचारता, एतानि सत्यादीनि यदि परम् 'एतासु संयतीषु दृश्यन्ते 'नान्यासु' शाक्यादिपाषण्डिनीषु । ततो यद्यष्येता बाह्यमलेन परिक्षिप्तास्तथापि शीलेन सुगन्धाः तपोगुणैः - अनशनादिभिः यद्वा तपसाप्रतीतेन गुणैश्च-उपशमादिभिर्विशुद्धाः 'धन्यानां कुलोत्पन्नाः' एता येषां कुले उत्पन्नास्तेऽपि धन्या इति भावः । ‘अपि' सम्भवनायातम्, सम्भाव्यते किमयमर्थ यदस्माकमपि भगिनी - दुहित्रादय एतादृश्यः स्वकुलोज्वालनकारिण्यो भवेयुः ? |
[भा. २०८२ ] एवं एत्थ वसंतीणुवसंतो सो य सिं अगारिजणो । गिण्हेति य सम्मत्तं, मिच्छत्तपरम्मुहो जाओ ।।
वृ एवं तत्र वसन्तीनां तासां स अगारीजनः 'उपशान्तः' प्रतिबुद्धस्ततो मिथ्यात्वपराङ्मुखो जातः सन् सम्यक्त्वं गृह्णाति, चशब्दाद् देशविरतिं गृहवासभग्नो वा कश्चित् तद्गुणग्रामरञ्जितमनाः सर्वविरतिमपि प्रतिपद्यते ।। गतं भिक्षार्थनाविधिद्वारम् । अथ प्रत्यनीकद्वारमाहतरुणीण अभिद्दवणे, संवरितो संजतो निवारेइ । तह वि य अठायमाणे, सागारिओ तत्थुवालभइ ॥
[भा. २०८३]
वृ-तरुणीनां संयतीनामभिद्रवणे प्रत्यनीकेन विधीयमाने सति 'संवृतः संयतीवेषाच्छादितः संयतो निवारयति । तथापि चातिष्ठति तस्मिन् 'सागारिकः' शय्यातरः 'तत्र' उपसर्गे तमुपालभते । एनामेव निर्युक्तिगाथां भावयति
[भा.२०८४] गणिणिअकहणे गुरुगा, सा वि य न कहेइ जइ गुरूणं पि । सिद्धम्मि य ते गंतुं, अनुसट्ठी मित्तमाईहिं ॥
वृ- कश्चित्तरुणो विषयलोलुपतया संयतीनामुपद्रवं कुर्यात् ततस्तत्क्षणादेव ताभि प्रवर्त्तिन्याः कथनीयम् । यदि न कथयन्ति ततश्चत्वारो गुरवः । साऽपि च प्रवर्त्तिनी यदि गुरूणां न कथयति तदापि चतुर्गुरवः आज्ञादयश्च दोषाः, तस्मात् कथयितव्यम् । ततः 'शिष्टे' कथिते 'ते' आचार्यास्तस्याविरतकस्य पार्श्व गत्वा साध्वीशीलभङ्गस्य दारुणविपाकतासूचिकामनुशिष्टिं ददति । यद्युपरमते ततः सुन्दरम् अथ नोपरमते ततो यानि तस्य मित्राणि आदिशब्दाद् ये वा भ्रात्रादयः स्वजनास्तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org