________________
उद्देशक : १, मूलं-१०, [भा. २१२७] क्षेत्र-काल-भावभेदभिन्नः, यथा पूर्वम्- “पासाणिट्टग-मट्टिय-खोड-कडग-कंटिगा भवे दव्वे ।" इत्यादिना मासकल्पप्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः । 'द्वारं नाम' ग्रामस्य मुखम्, ग्रामप्रवेश इत्यर्थः । स एव च निर्गमेनोपलक्षितः प्रवेशो निर्गम-प्रवेशोऽभिधीयते ।। इत्थं सूत्रे व्याख्याते सति शिष्यः प्राह[भा.२१२८] दारस्स वा विगहणं, कायव्वं अहव निग्गमपहस्स।
जइ एगट्ठा दुन्नि वि, एगयरं बूहि मा दो वि । वृ-यदि तदेव द्वारं स एव च निर्गम-प्रवेशस्ततो हे आचारय! द्वारपदस्य वा ग्रहणं कर्त्तव्यम् अथवा निर्गम-प्रवेशपथपदस्य, यदि नाम द्वेअपि पदे अमूएकार्थे ततः ‘एकतरम्' एकद्वारपदम् एकनिष्क्रमण-प्रवेशपदं वा सूत्रे ‘ब्रूहि भणेत्यर्थः, मा द्वे अपि ॥ एवं शिष्येणोक्ते सूरिराह[भा.२१२९] एगवगडेगदारा, एगमनेगा अनेग एगा य ।
चरिमो अनेगवगडा, अनेगदारा य भंगो उ॥ वृ-इह वगडा-द्वारयोश्चत्वारो भङ्गाः, तद्यथा-एका वगडा एकं द्वारम्, यथा पर्वतादिपरिक्षिप्ते क्वचिद् ग्रामादौ १। एका वगडा अनेकानि द्वाराणि, यथा प्राकारादिपरिक्षिप्ते चतुरिनगरादौ २अनेका वगडाएकं द्वारम्, यथा पद्मसरःप्रभृतिपरिक्षिप्ते बहुपाटके ग्रामादौ ३।अनेकावगडा अनेकानि द्वाराणि, यथा पुष्पावकीर्णगृहे ग्रामादौ ४, एषः 'चरमः' चतुर्थो भङ्गः ।।
यदि नामैवं चत्वारो भङ्गास्ततः प्रस्तुते किमायातम् ? इत्याह[भा.२१३०] तइंपडुच्च भंगं, पउमसराईहि संपरिक्खित्ते।
अन्नोन्नदुवाराण वि, हवेज एगंतु निक्खमणं॥ वृ-अत्र भङ्गचतुष्टये तृतीयं भङ्गं प्रतीत्य एकद्वारग्रहणमेकनिष्क्रमण-प्रवेशग्रहणं च सूत्रे कृतम् । कुतः ? इत्याह-पद्मसरसा आदिशब्दाद् गर्तया पर्वतेन वा सम्परिक्षिप्ते ग्रामादौ अन्यान्यद्वारकाणामपि पाटकानामेकमेव निष्क्रमणं भवेत्, तिसृषु दिक्षु पद्मसरःप्रभृतिव्याघातसम्भवादेकस्यामेव दिशि निष्क्रमण-प्रवेशौ भवत इति भावः । ततः किम् ? इत्याह[भा.२१३१] तत्थ वि यहोति दोसा, वीयारगयाण अहव पंथम्मि।
संकादीए दोसे, एगवियाराण वोच्छिहिई॥ वृ-'तत्रापि च तृतीयभङ्गे पृथक्पाटकेषु स्थितानामपि, किं पुनः प्रथमभङ्गे द्वितीयभङ्गे वा स्थितानामित्यपिशब्दार्थः, 'विचारगतानां' संज्ञाभूमौ सम्प्राप्तानाम् अथवा तस्या एव 'पथि' मार्गेगच्छतां ‘दोषाः' शङ्कादयोभवन्ति।ताँश्च शङ्कादीन्दोषान् “एकविचाराणाम्' एकसंज्ञाभूमीकानां निर्ग्रन्थानां निर्ग्रन्थीनांच सूरि स्वयमेव नियुक्तिगाथाभिर्यथावसरमुत्तरत्र वक्षति' भणिष्यति॥ तत्र प्रथमभङ्गे तावद् दोषानुपदिदर्शयिषुराह[भा.२१३२] एगवगडं पडुच्चा, दोण्ह वि वग्गाण गरहितो वासो।
जइ वसइ जाणओ ऊ, तत्थ उ दोसा इमे होति ।। कृ-एकवगडम् उपलक्षणत्वादेकद्वारंच क्षेत्रप्रतीत्य 'द्वयोरपिवर्गयोः' साधु-साध्वीलक्षणयोरेकत्र वासः ‘गर्हितः निन्दितः, न कल्पत इत्यर्थः। यदिसः 'ज्ञायकः' 'संयत्योऽत्र सन्ति' इतिजानानस्तत्रागत्य वसति ततः 'इमे' वक्ष्यमाणा दोषा भवन्ति ।। इदमेव सविशेषमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org