Page #1
--------------------------------------------------------------------------
________________
10-OF
-00-000-00-OROPON न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
Sooooooo
माणिकचन्द्र-दिगम्बर जैन-ग्रन्थमाला ।
(३०) पद्मचरितम् ।
(द्वितीयखण्डम्) -00-000-00-OFFOD
CO-OF
For Private 8 Personal use only
Page #2
--------------------------------------------------------------------------
________________
民免央央免免央央央央央央央央央免免免安免央央央党史史
B+叫叫叫KH440
पद्मचरितम् ।
如如如如如如印%和地
任辛苦苦苦苦苦等安安安安安莎莎莎莎莎莎莎莎亞洲
Page #3
--------------------------------------------------------------------------
________________
Page #4
--------------------------------------------------------------------------
________________
माणिकचन्द्र- दि ० - जैनग्रन्थमालायास्त्रिंशतितमो ग्रन्थः ।
श्रीमद्भविषेणाचार्यकृतं पद्मचरितम् ।
(द्वितीयखण्डं । )
न्यायतीर्थपण्डितदरबारीलालेन साहित्यरत्नेन संशोधितम् ।
प्रकाशिका - माणिकचन्द्र-दिगम्बर जैनग्रन्थमाला-समितिः ।
चैत्र, वीर नि० सं० २४५५, वि० सं० १९८५
मूल्यं रूप्यकद्वयम् ।
Page #5
--------------------------------------------------------------------------
________________
प्रकाशकनाथूराम प्रेमी, माणिकचन्द्र जैन ग्रन्थमाला। हीराबाग, पो० गिरगाँव, बम्बई ।
मुद्रकविनायक बाळकृष्ण परांजपे,
नेटिव ओपिनियन प्रेस, आंग्रेवाड़ी, गिरगांव-बम्बई।
Page #6
--------------------------------------------------------------------------
________________
द्वितीयखंडस्य पर्वसूची।
२२
१५
६८
षड्विंशतितमं पर्व-सीताभामंडलोत्पत्त्यभिधानं सप्तविंशतितमं पर्व-म्लेच्छपराजयसंकीर्तनं अष्टाविंशतितमं पर्व--रामलक्ष्मणरत्नमालाभिधानं एकोनत्रिंशत्तम पर्व--दशरथवैराग्यसर्वभूतहितागमाभिधानं त्रिंशत्तमं पर्व-भामंडलसमागमाभिधानं ... एकत्रिंशत्तमं पर्व-दशरथप्रव्रज्याभिधानं ... द्वात्रिशत्तमं पर्व--दशरथरामभरतानां प्रव्रज्यावनराज्यप्रस्थानाभिधानं त्रयस्त्रिंशत्तमं पर्व-व्रजकर्णोपाख्यानं ... चतुस्त्रिंशत्तमं पर्व--बालिखिल्योपाख्यानं ... पंचत्रिंशत्तमं पर्व-कपिलोपाख्यानं षत्रिंशत्तम पर्व-वनमालाभिधानं ... सप्तत्रिंशत्तमं पर्व-अतिवीर्यनिष्क्रमणाभिधानं
१०३ १२९
:
१५३
Page #7
--------------------------------------------------------------------------
________________
(६)
१७४ १८६ २०५ २०९ २२२
अष्टत्रिंशत्तमं पर्व-जितपद्मोपाख्यानं ... एकोनचत्वारिंशत्तमं पर्व-देशकुलभूषणोपाख्यानं चत्वारिंशत्तमं पर्व-रामगिर्युपाख्यानं ... एकचत्वारिंशत्तमं पर्व-जटायुरुपाख्यानं द्वाचत्वारिंशत्तमं पर्व-दंडकारण्यनिवासाभिधानं त्रिचत्वारिंशत्तमं पर्व-शंबूकवधाख्यानं ... चतुश्चत्वारिंशत्तमं पर्व-सीताहरणरामविलापाभिधानं पश्चचत्वारिंशत्तमं पर्व-सीतावियोगदाहाभिधानं षट्चत्वारिंशत्तमं पर्व-मायाप्रसाराभिधानं सप्तचत्वारिंशत्तमं पर्व-विटसुग्रीववधाख्यानं अष्टचत्वारिंशत्तम पर्व-कोटिशिलाक्षेपणाभिधान। एकोनपञ्चाशत्तमं पर्व-हनूमत्प्रस्थानं ... पंचाशत्तमं पर्व-महेन्द्रदुहितासमागमाभिधानं एकपंचाशत्तमं पर्व-गन्धर्वकन्यालाभाभिधानं द्विपंचाशत्तमं पर्व-हनूमल्लंकासुन्दरीकन्यालाभाभिधानं ...
:: :: :: :: :: :: :: :
: :: :: :: :: :: :: :
२३४ २४४ २५६
२८३ २९५ ३१५ ३२४ ३२९ ३३३
Page #8
--------------------------------------------------------------------------
________________
३६२
३६९ ३७६
३८०
३८६
त्रिपंचाशत्तमं पर्व-हनूमत्प्राभिगमनं ... चतुःपंचाशत्तम पर्व-लंकाप्रस्थानं ... पञ्चपञ्चाशत्तमं पर्व-विभीषणसमागमाभिधानं षट्पञ्चाशत्तमं पर्व-उभयबलप्रमाणविधानं सप्तपञ्चाशत्तमं पर्व--रावणबलनिर्गमनं ... अष्टपञ्चाशत्तमं पर्व-हस्तप्रहस्तवधाभिधानं एकोनषष्टितम पर्व-हस्तप्रहस्तनलनीलपूर्वभवानुकीर्तन षष्टितम पर्व-विद्यालाभः ... ... एकषष्टितम पर्व-सुग्रीवभामंडलसमाश्वासनं द्वाषष्टितमं पर्व-शक्तिसंतापाभिधानं ... त्रिषष्टितम पर्व-शक्तिभेदरामविलापाभिधानं 'चतुःषष्टितमं पर्व-विशल्यापूर्वभवाभिधानं ... पञ्चषष्टितम पर्व-विशल्यासमागमाभिधानं
: :: :: :: :: : : : :
३९०
३९३ ४७५ ४०७ ४१६ ४१९ ४२८
Page #9
--------------------------------------------------------------------------
________________
Page #10
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षविंशतितम पर्व। पइविंशतितमं पर्व। अतो जनकसंबंध शृणु श्रेणिक ते परं । निवेदयामि यद्वृत्तं भवावहितमानस ॥१॥ भामिनी जनकस्यासीद्विदेहा नाम सुंदरी । गर्भनिवेदनं तस्याः प्रत्यैक्षित चिरं सुरः ॥२॥ जगाद श्रेणिको नाथ तं गर्भ केन हेतुना । देवो ररक्ष विज्ञातुमेतमिच्छामि शिष्यतां ॥३॥ उवाच गौतमो राजा नाम्ना चक्रध्वजोऽभवत् । स्थाने चक्रपुराभिख्ये भार्या तस्य मनस्विनी ४ तयोश्चित्तोत्सवापत्यं कन्या गुरुगृहे च सा । रराज सितमृल्लेखैर्लेखनी कर्णपूरिका ॥५॥ राज्ञां पुरोहितस्यास्य धूमकेशस्य पिंगलः । स्वाहाकुक्षिभवोधीते सुतस्तत्रैव पाठके ॥६॥ विद्यालाभस्तयो सीदन्योन्यहृतचेतसोः । विद्याधर्मावगाहश्च जायतेवहितात्मनां ॥ ७॥ पुरासंसर्गतः प्रीतिः प्राणिनामुपजायते । प्रीतितोभिरतिप्राप्तीरतेर्विसंभसंभवः ॥८॥ सद्भावात्प्रणयोत्पत्तिः प्रेमैवं पंचहेतुकं । दुर्मोचं वध्यते कर्म पातकैरिव पंचभिः ॥९॥ अथासौ ज्ञातसद्भावा तेन चित्तोत्सवा रहः । हियतेस्म महारूपा कीर्तिदुर्यशसा यथा ॥१०॥ दूरं देशं यथाऽनायि तदाज्ञायि सुबंधुभिः । हृता प्रमाददोषेण मोहेन सुगतिर्यथा ॥११॥
Page #11
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षडविंशतितमं पर्व।
कन्यया मुदितश्चौरः पिंगलो धनवर्जितः । न विभाति यथा लोभी तृष्णया धर्मवर्जितः ॥१२॥ विदग्धनगरं चापदुर्गमं परराष्ट्रिणां । वहिः कृत्वा कुटी तत्र तस्थौ निस्वकपाटकः ॥ १३ ॥ ज्ञानविज्ञानरहितस्तृणकाष्ठादिविक्रयात् । अनुरक्षति तां पत्नी मनो दारिद्रयसागरे ॥ १४ ॥ पुत्रः प्रकाशसिंहस्य परराष्ट्रभयंकरः । जातोत्र प्रवरावल्यां राजा कुंडलमंडितः ॥ १५ ॥ तेन दृष्टान्यदा बाला निर्यातेन कथंचन । हतश्च पंचभिर्वाणैर्मारस्याभूत्सुदुःखितः ॥ १६ ॥ प्रच्छन्नं प्रेषिता दूती तया रात्रौ नृपालयं । यथासीत्कमलामेला सुमुखस्य प्रवेशिता ॥ १७ ॥ तया सह सुखं रेमे प्रीतः कुंडलमंडितः । उर्वश्या सह संरक्तो यथासीन्नलकूवरः ॥ १८ ॥ ततः स पिंगलाख्योऽपि श्रांतः स्वगृहमागमत् । तामपश्यद्विशालाक्षी मन्नो वैधुर्यसागरे ॥१९॥ विस्तीर्णेन किमुक्तेन सोयं विरहदुःखितः । न कचिल्लभते सौख्यं चक्रारुद इवाकुलः ॥२०॥ हृतभार्यो द्विजो दीनस्तं राजानमुपागमत् । ऊचे चान्विष्य मे राजन् पत्नी केनापि चोरिता २१ भीषितानां दरिद्राणामार्तानां च विशेषतः । नारीणां पुरुषाणां च सर्वेषां शरणं नृपः ॥२२॥ अमात्यं धृतमाहूय समायं पार्थिवोऽब्रवीत् । चिराय मा कृथा माम जायाऽस्यान्विष्यतामिति २३ जगादेति च तत्रैकः सविकारेण चक्षुषा । सा दृष्टा पथिकैर्देव पौदनस्थानवत्मनि ॥ २४ ॥
Page #12
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षड्राविंशतितम पर्व । क्षात्याबंदमध्यस्थां तपःकर्तुं समुद्यतां । विनिवर्तयतां क्षिप्रं किं विरौषि व्रज द्विज ॥ २५ ॥ कोवा प्राज्यकालोस्या दधत्यास्तरुणी तनुं । वरस्त्रीगुणपूर्णाया हरत्यास्तरुणं जनं ॥ २६ ॥ इत्युक्ते द्विज उत्थाय वढ्दा परिकरं दृढं । दधाव रंहसा विद्धो भ्रष्टाश्वतरको यथा ॥ २७॥ पौदने नगरेऽन्विष्य चैत्येषूपवनेषु च । अदृष्ट्वा पुनरागच्छद्विदग्धनगरं द्रुतं ॥ २८ ॥ नृपाज्ञया नरैः क्रूरैगलघातैः स तर्जनैः। यष्टिलोष्टप्रहारैश्च दूरं निवासितो भृशं ॥२९॥ स्थानभ्रंशं परिक्लेशमवमानं वधं तथा । अनुभूय परं दीघेमध्वानं स प्रपन्नवान् ॥ ३० ॥ रतिं न लभते क्यापि रहितः प्रियया तया । शुष्यत्यहनि रात्रौ च पतितोग्नाविवोरगः ॥३१॥ विशालपंकजवनं दावाग्निमिव पश्यति । सरोऽपि ग्राहमानोऽसौ दह्यते विरहाग्निना ॥ ३२ ॥ एवं सुदुःखितमतिः पर्यटन् पृथिवीतले । नगरस्य स्थितं दूरं ददर्श गगनांबरं ॥ ३३ ॥ आचार्यमायेगुप्तिं च समेत्य रचितांजलिः । प्रणम्य शिरसा हृष्टो धर्म शुश्राव तत्त्वतः ॥ ३४ ॥ श्रुत्वा धर्म मुनेः प्राप्तः स वैराग्यमनुत्तमं । प्रशशंस जिनेंद्राणां शासनं शांतमानसः ॥ ३५ ॥ अहो परममाहात्म्यो मार्गोयं जिनदोशितः । ममांधकारयातस्य यो भास्कर इवोदितः ॥३६ ॥ प्रपद्यहं जिनेंद्राणां शासनं पापनाशनं । देहं निर्वापयाम्यद्य दग्धं विरहवह्निना ॥ ३७॥
Page #13
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षडविंशतितमं पर्व ।
ततः संवेगमापद्य गुरुणात्यनुमोदितः । कृत्वा परिग्रहत्यागं दीक्षां दैगंबरीमितः ॥ ३८ ॥ तथापि विहरन् क्षोणी सर्वसंगविवर्जितः । चित्तोत्सवां समुत्कंठां जातुचित्प्रतिपद्यत ॥ ३९ ॥ सरित्पर्वतदुर्गेषु श्मसानेष्वटवीषु च । वसन् स परमं चक्रे तपो विग्रहशोषणं ॥ ४० ॥ न यस्य जलधेव काले खेदं गतं मनः । हेमंते हिमपंकेन वपुर्यस्य न कंपितं ॥ ४१ ॥ पूष्णोर्यस्य करैरुयैस्तापोऽणुरपि नो कृतः । स्मृत्वा सीदत्सतां जातु स्नेहस्य किमु दुष्करं ॥४२॥ दह्यमानं तथाप्येष शरीरं विरहाग्निना । पुनर्विध्यापयज्जैन वचनोत्करसीकरैः || ४३ ॥ अर्धदग्धतरुच्छायं तत्तस्य वपुरागतं । रमणीस्मरणेनोग्रतपसा च निरंतरं ॥ ४४ ॥ आस्तां तावदिदं वक्ष्ये मंडितस्याधुनेहितं । कथा ह्येतरयोगेन स्थिता रत्नावली यथा ॥ ४५ ॥ अनरण्ये च राज्यस्ये वृत्तमेतन्निबुध्यतां । कथानुक्रमयोगेन कथ्यमानमतः श्रृणु ॥ ४६ ॥ स्थानं दुर्ग समाश्रित्य मंडितेन वसुंधरा । विरोधितानरण्यस्य कुशीलेन यथास्थितेः ॥ ४७ ॥ देशा उद्वासितास्तेन दुर्जनेन गुणा यथा । विरोधिताच सामंता कषाय इव योगिना ॥ ४८ ॥ नाशक्रोदनरण्यस्तं गृहीतुं क्षुद्रमप्यलं । आखोर्गिरिविलस्थस्य किं करोति मृगाधिपः ॥ ४९ ॥ नक्तं दिवमनुष्यत्स तत्परो जयचिंतया । अनादरेण शारीरमपि कर्म प्रपन्नवान् ॥ ५० ॥
Page #14
--------------------------------------------------------------------------
________________
पपुराणम् ।
षडविंशतितमं पर्व। ततोसौ बालचंद्रेण सेनान्या जात्वभाष्यत । उद्विग्न इव कस्मात्त्वं सततं नाथ लक्ष्यसे ॥५१॥ उद्वेगकारणं भद्र मम मंडितकः परं । इत्युक्ते बालचंद्रेण प्रतिज्ञेयं समाश्रिता ॥ ५२ ॥ राजन्न साधयित्वा तं पापं मंडितकं तव । सकाशं नागमिष्यामि व्रतमेतन्मया कृतं ॥ ५३ ॥ इति राज्ञः पुरः कृत्वा संगरं रोषमुद्वहन् । बलेन चतुरंगेण सेनानी गंतुमुद्यतः ॥५४॥ चित्तोत्सवासमायुक्तचित्तो मुक्तान्यचेष्टितः । प्रमादबहुलो भिन्नमूलभृत्पक्षतायतिः ॥ ५५ ॥ अज्ञातलोकवृत्तांतो मंडितः खंडितोद्यमः । हेलया बालचंद्रेण गत्वा बद्धो मृगो यथा ॥५६॥ गृहीतबलराज्यं तं निर्वास्य विषयात्कृती । बालचंद्रोऽनरण्यस्य समीपं पुनरागमत् ॥ ५७ ॥ ततस्तेन सुभृत्येन कृतसुस्थवसुंधरः । परं प्रमोदमापनोऽनरण्यः सुखमन्वभूत् ॥ ५८ ॥ शरीरमात्रधारी तु मंडितः पादचारकः । पर्यटन् धरणी दुःखी पश्चात्तापसमाहतः ॥ ५९ ॥ परिणाप्याश्रमपदं श्रमणानां महात्मनां । नत्वा च शिरसाचार्य धर्म पप्रच्छ भावतः ॥६०॥ दुःखितानां दरिद्राणां वर्जितानां च वांधवैः । व्याधिसंपीडितानां च प्रायो भवति धर्मधीः ६१ प्राज्ये यस्य भगवन् , शक्तिर्जतोन विद्यते । परिग्रहपरस्यास्य धर्मः कश्चिन्न विद्यते ॥६२॥ कथं वा मुच्यते पापैश्चतुःसंज्ञापरायणः । एतदिच्छामि विज्ञातुं प्रसीद व्याकुरुष्व मे ॥ ६३ ॥
Page #15
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षइविंशतितम पर्व। गुरुः प्रोवाच वचनं धर्मः प्राणिदया स्मृता । मुच्यते देहिनः पापैरात्मनिंदाविगर्हणैः ॥ ६४ ॥ हिसायाः कारणं घोरं शुक्रशोणितसंभवं । पिशितं मा भक्षय त्वं शुद्धं चेद्धर्ममृच्छसि ॥ ६५ ॥ प्राणिनां मृत्युभीरूणां मांसेश्चमेप्रसेविकां । पूरयित्वा ध्रुवं याति नरकं पापमानवः ।। ६६ ॥ शिरसो मुंडनैः स्नानैर्विलिंगग्रहणादिभिः । नास्ति साधारणं जंतोर्मांसभक्षणकारिणः ॥६७॥ तीर्थस्नानानि दानानि सोपवासानि देहिनः । नरकान्न परित्राणं कुर्वति पिशिताशिनः ॥६८॥ सर्वजातिगता जीवा बांधवाः पूर्वजन्मसु । स्युरमी भक्षितास्तेन मांसभक्षणकारिणा ॥ ६९ ॥ पक्षिमत्स्यमृगान् हंति परिपथं च तिष्ठति । यो नरोऽस्मादपि क्रूरान् मधुमांसाद्गतिं व्रजेत्।।७०॥ न वृक्षाज्जायते मांसं नोद्भिद्य धरणीतलं । नांभसः पद्मवन्नापि सद्रव्योभ्यो यथौषधं ॥ ७१॥ पक्षिमत्स्यमृगान् हत्वा वराकान् प्रियजीवितान् । क्रूरैरुत्पाद्यते मांसं तन्नानंति दयापराः ॥७२॥ शून्येन वर्धितं यस्यां शरीरं तां मृतां सती । महिषीं मातरं कष्टं भक्षयति नराधमाः ॥ ७३ ॥ माता पिता च पुत्रश्च मित्राणि च सहोदराः । मक्षितास्तेन यो मांस भक्षयत्यधमो नरः ॥७४॥ इतः मापटलं मेरोरधस्तात्सप्तमं स्मृतं । तत्र रत्नप्रभाभिख्ये देवा भवनवासिनः ।। ७५ ॥ सकषायं तपः कृत्वा जायंते तत्र देहिनः । देवानामधमास्ते तु दुष्टकर्मसमन्विताः ॥ ७६ ॥
Page #16
--------------------------------------------------------------------------
________________
पंद्मपुराणम् ।
षइविंशतितम पर्व। अधस्तस्याः क्षितेरन्या दारुणाः षट्च भूमयः । नारका यासु पापस्य भुंजते कर्मणः फलं ॥७७॥ कुरूपा दारुणारावा दुःस्पशो ध्वांतपूरिताः । उपमोज्झितदुःखाना कारणीभूतविग्रहाः ॥ ७८ ॥ कुंभीपाकाख्यमाख्यातं नरकं भीमदर्शनं । नदी वैतरणी घोरा शाल्मलीकरकंटकाः ॥ ७९ ॥ असिपत्रवनच्छन्नाः शुरधाराश्च पर्वताः । ज्वलदग्निनिभास्तीक्ष्णलोहकीला निरंतरा ॥ ८ ॥ तेषु ते तीबदुःखानि प्राप्नुवंति निरंतरं । प्राणिनो मधुमांसादिघातकाश्चासुधारिणां ॥ ८१॥ नास्त्यांगुलमात्रोऽपि प्रदेशस्तत्र दुःखितः । क्रियते नारकैर्यत्र निमेषमपि विश्रमः ॥ ८२ ॥ प्रच्छन्नमि तिष्ठाम इति ध्यात्वा पलायिताः । हन्यते निर्दयैरयैर्नारकैरमरैश्च ते ॥ ८३॥ ज्वलदंगारकुटिले दग्धा मत्स्या इवानिले । विरसं विहिताक्रंदा विनिश्चित्य कथंचन ॥ ८४ ॥ नारकाग्निभयग्रस्ताः प्राप्ता वैतरणीजलं । चंद्रक्षारोर्मिभिर्भूयो दाते वह्नितोऽधिकं ।। ८५ ॥ असिपत्रवनं याताश्छायाप्रत्याशया द्रुतं । पतद्भिस्तत्र दार्यते चक्रखड़गदादिभिः ॥८६॥ विच्छिन्ननासिकाकर्णस्कंधजंघादिविग्रहाः । कुंभीपाके नियुज्यंते चांतशोणितवर्षिणः ॥ ८७ ॥ प्रपीड्यंते च यंत्रेषु क्रूरारावेषु विहला । पुनः शैलेषु भिद्यते तीक्ष्णेषु विरसस्वराः ॥ ८८ ॥ उल्लंघ्यंतेऽतितुंगेषु पादपेष्वंधकारिषु । ताज्यंते मुद्राघातैमहद्भिर्मस्तके तथा ॥ ८९ ॥
Page #17
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षडविंशतितम पर्व। जलं प्रार्थयमानानां तृष्णानां प्रदीयते । ताम्रादिकललं तेन दग्धदेहाः सुदुःखिताः ॥ ९० ॥ ब्रुवते नास्ति तृष्णा न इत्यतोऽपि वलादमी । पाय्यंते तदतिक्रूरैः संदंशव्यावृताननः ॥ ९१ ॥ प्रयात्यभूतले भूयो वक्षस्याक्रम दीयते । तेषां निर्दग्धकंठानां दह्यते हृदयं पुनः॥९२ ॥ निष्कामंति परीतंति निर्भिद्य जठरं सह । ज्वलता कललेनाशु तेषां कलुषकर्मणां ॥ ९३ ॥ परस्परकृतं दुःखं तथा भवनवासिभिः । नरका यत्प्रपद्यते कस्तद्वर्णयितुं क्षमः ॥ ९४ ॥ इति ज्ञात्वा महादुःखे नरके मांससंभवं । वर्जनीयं प्रयत्नेन विदुषा मांसभक्षणं ॥ ९५ ॥ अत्रांतरे जगादेवं कुंडलस्त्रस्तमानसः । नाथाणुव्रतयुक्तानां का गतिदृश्यते वद ॥९६॥ गुरुरूचे न यो मांस खादत्यतिव्रतः । तस्य वक्ष्यामि यत्पुण्यं सम्यग्दृष्टेविशेषतः ॥ ९७ ॥ उपवासादिहीनस्य दरिद्रस्यापि धीमतः । मांसभुक्तनिवृत्तस्य सुगतिर्हस्तवर्तिनी ॥ ९८ ॥ यः पुनः शीलसंपन्नो जिनशासनभावितः । सोऽणुव्रतधरः प्राणी सौधर्मादिषु जायते ।। ९९ ॥ अहिंसा प्रवरं मूलं धर्मस्य परिकीर्तितं । सा च मांसानिवृत्तस्य जायतेत्यंतनिर्मला ॥ १० ॥ दयावान् संगवान् योऽपि म्लेच्छश्चांडाल एव वा । मधुमांसानिवृत्तःसन् सोऽपि पापेन मुच्यते १०१ मुक्तमात्रः स पापेन पुण्यं गृह्णाति मानवः । जायते पुण्यबंधेन सुरः सन्मनुजो यथा ॥१०२॥
Page #18
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षइविंशतितमं पर्व । सम्यग्दृष्टिः पुनर्जतुः कृत्वाणुव्रतधारणं । लभते परमान् भोगान् विभुः स्वर्गनिवासिनां ॥१०३॥ इत्याचार्यस्य वचनं श्रुत्वा कुंडलमंडितः । मंदभाग्यतया शक्त्या रहितोऽणुव्रतेष्वपि ॥१०४ ॥ प्रणिपत्य गुरुं मूनो मधुमांसविवजेनं । जग्राह शरणोपेतं समीचीनं च दर्शनं ॥ १०५ ॥ कृत्वा चैत्ये नमस्कारं गुरोदिग्वाससां तथा । निष्कांतः सततो देशादिति चिंतामुपागतः १०६ मातुः सहोदरो भ्राता कृतांतसमविक्रमः । ध्रुवं मे सीदतः सोयं भविष्यत्यवलंबन ॥ १०७ ॥ राजा भूत्वा पुनः शत्रु जेष्यामीति सुनिश्चितः । आशां वहन् प्रवृत्तोसावातुरो दक्षिणापथं १०८ श्रमादिदुःखपूर्णस्य व्रजतोऽस्य शनैः शनैः । उदीयुर्व्याधयो देहे पापैरन्यभवार्जितैः ॥ १०९ ॥ संधिषु छिद्यमानेषु भिद्यमानेषु मर्मसु । सर्वस्य जगतो त्राणं मरणं तस्य ढौकितं ॥११० ।। मुंचते समये तस्मिञ्जीवं कुण्डलमंडितः । तत्रैव च्यवते देवः शेषपुण्यादिवश्युतः ॥ १११ ॥ गर्भे चित्तौ विदेहाया विधिना परियोजितौ । यस्य कर्मानुभावस्य विचित्रमिति चेष्टितं ॥११२॥ एतस्मिन्नंतरे साधुकालं कृत्वा स पिंगलः । तपोवलान्महातेजा महाकालोऽसुरोभवत् ॥ ११३ ॥ भवनेऽवधिना स्मृत्वा धर्मस्य च फलोदयं । दध्यौ चित्तोत्सवा केति तावज्जज्ञे यथाविधि ११४ दुष्टया किं तया कृत्यं कासौ कुंडलमंडितः । येनाहं प्रापितोऽवस्थां विधुरां विरहार्णवे॥११५।।
Page #19
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षविंशतितमं पर्व। पत्न्यां जनकराजस्य गर्भमाश्रित्य मंडितः । साकमन्येन जीवेन विवेद स्थित इत्यसौ ॥११६॥ सूतां तावदियं देवी युगलं किममानया । गर्भद्विततयोगिन्या मृतयास्ति प्रयोजनं ॥ ११७ ॥ ततो निलुंठितं संतं पापं मंडितकं ध्रुवं । नेष्यामि यदहं दुःखं ततमेव दुरीहितं ॥ ११८ ॥ इति संचितयन् क्रुद्धः पूर्वकर्मानुबंधतः । देवो रक्षति तं गर्भ सन्मृदन् पाणिना करं ॥११९।। इति ज्ञात्वा क्षमं कर्तुं दुःखं जंतोर्न कस्यचित् । कालव्यवहितं तद्धि कृतमात्मन एव हि।।१२०॥ कालेनाथ सुतं देवी प्रसूता युगलं शुभं । सुतं दुहितरं चांते जहार पुथुकं सुरः ॥ १२१ ॥ आस्फाल्य मारयाम्येनं शिलायां पूर्वमंडितं । इति ध्यातं पुरा तेन पुनरेवमचिंतयत् ॥ १२२ ॥ धिग्मया चिंतितं सर्व संसारपरिवद्धनं । जायते कर्मणा येन तत्कुर्वीत कथं बुधः ।। १२३ ॥ तृणस्यापि पुरा दुःखं श्रामण्येन कृतं मया । सर्वारंभनिवृत्तेन तपो विविधवाहिना ॥ १२४ ॥ गुरोस्तस्य प्रसादेन कृत्वा धर्म सुनिर्मलं । ईदृशी द्युतिमाप्तोऽस्मि करोमि दुरितं कथं ॥१२५॥ स्वल्पमप्यर्जितं पापं व्रजत्युपचयं परं । निमग्नो येन संसारे चिरं दुःखेन दह्यते ॥ १२६ ॥ निर्दोषभावनो यस्तु दयावान् सुसमाहितः। स्थितं करतले तस्य रत्नं सुगतिसंज्ञकं ॥ १२७ ॥ घृणावान् संप्रधाउँदं तमलंकृत्य बालकं । कुंडले कर्णयोरस्य चक्रे दीप्तांशुमंडले ॥ १२८ ॥
Page #20
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षडविंशतितम पर्व। पर्णलघ्वी ततो विद्यां संक्रमय्य शिशोः सुरः । सुखदेशे विमुच्यैनं गतो धाम मनीषितं ॥१२९॥ नक्तं शक्त्या स्थितेनासावुद्याने नभसः पतन् । विद्याभृतेंदुगतिना ददृशे सुखभाजनं ॥१३०॥ उडुपातः किमेष स्याद्विद्युत्खंडोऽथवा च्युतः । वितस्येति समुत्पत्य ददृशे पृथुकं शुभं ॥१३१॥ गृहीत्वा च प्रमोदेन देव्याः पुष्पवतीश्रुतेः । वरशय्याप्रसुप्तायां जंघादेशे चकार सः ॥ १३२ ॥ ऊचे चैतां हुतस्वान उत्तिष्ठोत्तिष्ठ सुंदरि । किं शेषे बालकं पश्य संप्रसूतासि शोभिनं ॥ १३३ ॥ ततः कांतकरस्पर्शसौख्यसंपत्प्रबोधिता । शय्यातः सहसोत्तस्थौ सा विघूर्णितलोचना ॥१३४॥ अर्भकं च ददर्शातिसुंदर सुंदरानना । तस्यास्तदंशुजालेन निद्राशेषो निराकृतः ॥ १३५ ॥ परं च विस्मयं प्राप्ता पप्रच्छ प्रियदर्शना । कयायं जनितो नाथ पुण्यवत्या स्त्रिया शिशुः १३६ सोज्वोचद्दयिते जातस्तवायं प्रवरः सुतः । प्रतीहि संशयं मागास्त्वत्तो धन्या परा तु का।।१३७॥ सावोचत्प्रिय बंध्यास्मि कुतो मे सुतसंभवः । प्रतारितास्मि देवेन किं मे भूप प्रतार्यते ॥१३८॥ सोवोचदेवि मा शंकां कार्षीः कर्मनियोगतः । प्रच्छन्नोऽपि हि नारीणां जायते गर्भसंभवः १३९ सावोचदस्तु नामेवं कुंडले त्वतिचारिणी । इंशी मत्येलोकेऽस्मिन् सुरत्ने भवतः कुतः॥१४०॥ सोऽवोचद्देवि नानेन विचारेण प्रयोजनं । शृणु तथ्यं पतन्नेष गगनादाहृतो मया ॥ १४१॥
Page #21
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षडविंशतितम पर्व। मया तु मोदितस्तेऽयं सुतः सुकुलसंभकः । लक्षणानि वदंत्यस्य महापुरुषभूमिकं ॥ १४२ ॥ श्रमं कृत्वापि भूयांसं भारमूवा च गर्भजं । फलं तनयलाभोऽत्र तो जातं सुखं प्रिये ॥१४३॥ कुक्षिजातोऽपि पुत्रस्य यः कृत्यं कुरुते न ना । अपुत्र एव कांतेऽसौ जायते रिपुरेव वा ॥१४४॥ तव सोयमपुत्रायाः सति पुत्रो भविष्यति । अंतयानेन किं कृत्यमत्र वस्तुनि शोभने ॥ १४५ ॥ एवमस्त्विति संभाष्य देवी सूतिगृहं गता। प्रभाते सुतजन्मास्यास्तुष्टया लोके प्रकाशितं १४६ ततो जन्मोत्सवस्तस्य पुरेऽस्मिन् स्थनूपुरे । संप्रवृत्तः समागच्छद्विस्मिताशेषबांधवः ॥ १४७ ॥ रत्नकुंडलभानूनां मंडले नयतो वृतः। प्रभामंडलनामास्य पितृभ्यां निर्मित ततः ॥ १४८ ॥ अर्पितः पोषणायासौ धात्र्या लीलामनोहरः । सर्वांतःपुरलोकस्य करपद्ममधुव्रतः ॥ १४९ ॥ विदेहा तु हृते पुत्रे कुररीवत्कृतस्वना । बंधूनपातयत् सर्वान् गंभीरे शोकसागरे ॥ १५ ॥ परिदेवनमेवं च चक्रे चाहतेव सा । हा वत्स केन नीतोऽसि मम दुष्करकारिणा ॥१५१ ॥ विघृणस्य कथं तस्य पापस्य प्रमृतौ करौ । अज्ञानं जातमात्रं त्वां गृहीतुं ग्रावचेतसः ॥१५२॥ पश्चिमाया इवाशाया संध्येवेयं सुता मम । स्थिता स तु परिप्राप्तो मंदायाः सूर्यवत्सुतः ॥१५३॥ ध्रुवं भवांतरे कोऽपि मया बालो वियोजितः । तदेव फलितं कर्म न कार्य बीजवर्जितं ॥१५४ ॥
Page #22
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षर्विशतितम पर्व । मारितास्मि न किं तेन पुत्रचोरणकारिणा। पुरुषाप्तास्मि यदुःखं समागत्यार्धवैशसं (?) ॥१५५॥ इति तां कुर्वतीमुच्चैर्विवलां परिदेवनं । समाश्वासयदागत्य जनको निगदन्निदं ॥१५६ ॥ प्रिये मागाः परं शोकं जीवत्येव शरीरजे । हृतः केनाप्यसौ जीवन् द्रक्ष्यसे ध्रुवमेव हि ॥१५७।। दृश्यते नेक्ष्यते भूयः पुनजोत्ववलोक्यते । पूर्वकमांनुभावन जाये! रोदिषि किं वृथा ॥१५८ ॥ वज स्वास्थ्यमिमं लेखं सुहृदो नीययाम्यहं । वाता दशरथस्येमा परिवेदयितुं प्रिये ॥ १५९ ॥ सचाहं च सुतस्याशु करिष्यावो गवेषणं । प्रच्छाद्य धरणी सर्वां चरेः कुशलचेष्टितैः ॥१६० ॥ दयितां सांत्वयित्वैवं लेखं मित्राय दत्तवान् । तं प्रवाच्य सशोकेन पूरितोऽति गरीयसा ॥१६१॥ मह्यामन्वेषितस्ताभ्यां नासौ दृष्टो यदाकः । मंदीकृत्य तदा शोकमस्थुः कृच्छ्रेण बांधवाः १६२ नासावासीज्जनस्तत्र पुरुषः प्रमदाथवा । यो न वाष्पपरीताक्षस्तच्छोकेन वशीकृतः ॥१६३॥ शोकविस्मरणे हेतुर्वभूव सुमनोहरा । जानकी बंधुलोकस्य शुभशैशवचेष्टिता ॥ १६४ ॥ प्रमदमुपगतानां योषितामंकदेशे । पृथुतनुभवकांत्या लिंपती दिकसमूहं ॥
विपुलकमलपाता श्रीरिवासौ सुकंठा । शुचिहसितसितास्यावर्धतांभोजनेत्रा ॥ १६५ ॥ प्रभवति गुणसस्यं येन तस्यां समृद्धं । भजदखिलजनानां सौख्यसंभारदानं ॥
Page #23
--------------------------------------------------------------------------
________________
१४
विंशतितमं पर्व |
तदतिशयमनोज्ञा चारुलक्ष्मान्वितांगा । जगति निगदितासौ भूमिसम्येन सीता ॥ १६६॥ वदनजितशशांका पल्लवच्छायपाणिः । सितमणिसमतेजः केशसंघातरम्या ||
पद्मपुराणम् ।
जितसमदनहंसस्त्रीगतिः सुंदर भ्रू - र्वकुल सुरभिवक्त्रा मोदबद्धालिवृंदा ॥ १६७ ॥ अतिमृदुभुजमाला शक्रशस्त्रानुमध्या । प्रवरसरसरंभास्तंभसाम्यस्थितोकः ॥
स्थल कमलसमानोत्तुंग पृष्ठोज्वलांघ्रिः । प्रभवदतिविशालच्छायवक्षोजयुग्मा ।। १६८ ।। प्रवरभवनकुक्षिष्वत्युदारेषु कांत्या । विविधविहितमार्गा लब्धवर्णा परं सा ॥
सततमुपगततः सप्तकन्याशताना - मतिशयरमणीयं शास्त्रमार्गेण रेमे ॥ १६९ ॥ अपि दिनकरदीप्तिः कौमुदी चंद्रकांतिः । सुरपतिमहिषी वा कापि वा सा सुभद्रा || यदि भजति तदीयासंगशोभां कथंचि - नियतमतिमनोज्ञास्तास्ततो वेदनीयाः ॥ १७० ॥ विधिरिव रतिदेवीं कामदेवस्य बुद्धया । दशरथतनयस्याकल्पयत्पूर्वजस्य ॥ जनकनरपतिस्तां सर्वविज्ञानयुक्तां । ननु रविकरसंगस्योचिता पद्मलक्ष्मीः ।। १७१ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते सीताभामंडलोत्पत्स्यभिधानं नाम षड़िशतितमं पर्व ।
Page #24
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१५
अथ सप्तविंशतितमं पर्व ।
ततो मगधराजेंद्रश्चारुवृत्तांतविस्मितः । पप्रच्छ गणिनामग्यं नूतनप्रश्रयान्वितः ॥ १ ॥ किं पुनस्तस्य माहात्म्यं दृष्टं जनकभूभृता । रामस्य येन सा तस्मै तेन बुद्धद्या निरूपिता ॥२॥ ततः करतला संग द्विगुणीभूतदंतभाः । जगौ गणधरो वाक्यं चित्तप्रह्लादना वहं ॥ ३॥ शृणु राजन् प्रवक्ष्यामि रामस्याक्लिष्टकर्मणः । यतः प्रकल्पिता कन्या जनकेन सुबुद्धिना ॥ ४ ॥ दक्षिणे विजयार्द्धस्य कैलाशा द्रेस्तथोत्तरे । अंतरेत्यंत बहवः संति देशा सहांतराः ॥ ५ ॥ तत्रार्धर्व देशो निःसंयमनमस्कृतिः । निर्विदग्धजनो घोरम्लेच्छलोकसमाकुलः ॥ ६ ॥ मयूरमालनगरे कृतांतनगरोपमे । अंतरंगतमो नामेत्यर्द्धवर्वरचारिणां ॥ ७ ॥ पूर्वापरायत क्षोण्यां यावंतो म्लेच्छसंभवाः । कपोतशुक कंबोजमांकनाद्याः सहस्रशः ॥ ८ ॥ गुप्ता बहुविधैः सैन्यैर्भीषणैर्विविधायुधैः । आंतरंगतमं प्रीत्या परिवार्य ससाधनाः ॥ ९॥ आर्यानेताञ्जनपदान् प्रचंडांतररंहसः । उद्वासयंत आजग्मुरिति कारुण्यवर्जिताः ॥ १० ॥ देशं जनकराजस्य ततो व्याप्तुं समुद्यताः । शलभा इव निशेषमुपप्लवविधायिनः ॥ ११ ॥
1
सप्तविंशतितमं पर्व ।
Page #25
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६ .
सप्तविंशतितम पर्व। जनकेन च साकेतां युवानः प्रेषिता द्रुतं । आंतरंगतमं प्राप्तसूचुर्दशरथस्य ते ॥ १२ ॥ विज्ञापयति देव त्वां जनको जनवत्सलः । पौलिंग्य परचक्रेण समाक्रांतं महीतलं ॥ १३ ॥ आर्यदेशाः परिध्वस्ता म्लेच्छैरुद्वासितं जगत् । एकवर्णाः प्रजां सर्वां पापाः कर्तुं समुद्यताः॥१४॥ प्रजासु विप्रनष्टासु जीवामः किं प्रयोजनं । चिंत्यतामिति किं कुर्मो व्रजामो वा कमाश्रयं ॥१५॥ किं वा दुर्ग समाश्रित्य तिष्ठामः समुहज्जनाः । नदीकीलींद्रभागान्वा गिरिं वा विपुलायं १६ अथवा सर्वसैन्येन निकुंजगिरिमाश्रिताः । सन्निरुद्धाः समागच्छत्परसैन्यं भयानकं ॥१७॥ साधुगोश्रावकाकीर्णा प्रजामेतां सुविह्वला । सम्यक् संधारयिष्यामस्त्यक्त्वा जीवं सुदुस्सहं ॥१८॥ अतो ब्रवीमि राजंस्त्वं यत्त्वया पाल्यते मही । तव राज्यं महाभाग त्वमेव हि जगत्पतिः ॥१९॥ यजते भावतः संतो यावंतः श्रावकादयः । पंचयज्ञान् प्रधानेन व्रीह्याद्यैर्यवबीजकैः ॥ २० ॥ मुक्तिः क्षतिगुणयुक्ता यच्च ध्यानपरायणाः । तप्यते सुतपो मोक्षसाधनं गगनांबराः ॥ २१॥ महांतश्च पुरस्कारा यच्चैत्यभवनादिषु । विधीयतेऽभिषेकांश्च जिनानां क्षीणकर्मणां ॥२२॥ प्रजाःसुरक्षितास्त्वेतत्सर्वं भवति रक्षितं । ततश्च धर्मकामार्थाः प्रेत्य चेह च भूभृतां ।। २३ ।। बहुकोषो नरेशो यः प्रीतः पालयति क्षिति । परचक्राभिभूतश्च नावसादं समश्रुतं ॥ २४ ॥
Page #26
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तविंशतितम पर्व। हिंसा धर्मविहीनानां यच्छता यागदक्षिणां । कुरुते पालनं यश्च तस्य भोगाः पुनर्भुवः ॥ २५ ॥ धर्मार्थकाममोक्षाणामधिकारा महीतले । जनानां राजगुप्तानां जायंते तेन्यथा कुतः ॥२६॥ नृपवाहुबलच्छायां समाश्रित्य सुखं प्रजाः । ध्यायंत्यात्मानमव्यग्रास्तथैवाश्रमिणो बुधाः ॥२७॥ यस्य देशं समाश्रित्य साधवः कुर्वते तपः । षष्ठमंशं नृपस्तस्य लभते परिपालनात् ॥ २८ ॥ अथैवमिति तत्सर्वमुपश्रित्य नराधिपः । द्रुतं रामं समाहूय दातुं राज्यं समुद्यतः ॥ २९ ॥ मुदितैः किंकरैर्भेरीघनानंदा समाहताः। आजग्मुः सचिवाः सर्वे गजवाजिसमाकुलाः ॥३०॥ जांबूनदमयान्कुंभान् गृहीत्वा वारिपूरितान् । बद्धा परिकर शूरा भासमानाः समागताः ॥३१॥ चारुनूपुरनिस्वाना दधाना वेषमर्चितं । वस्त्रालंकारमादाय पटलेग्थागताः स्त्रियः ॥ ३२ ॥ आटोपमीदृशं दृष्ट्वा किमेतदिति शब्दितं । रामं दशरथोऽवोचत्पालयेमां सुत क्षितिं ॥ ३३ ॥ रिपुचक्रमिहायातं यद्देवैरपि दुर्जयं । विजेष्ये तदहं गत्वा प्रजानां हितकाम्यया ॥ ३४ ॥ ततो राजीवनयनो राघवो नृपमब्रवीत् । किमर्थं तात संरंभमस्थाने प्रतिपद्यसे ॥ ३५ ॥ किं कार्य पशुसंज्ञैस्तैरसंभाषैर्दुरात्माभिः । येषामभिमुखीभावं प्रयासि रणकांक्षया ॥ ३६ ।। नह्याखूनां विरोधेन क्षुभ्यंति वरवारणाः । नचापि तूलदाहार्थ सनयति विभावसुः ॥ ३७॥
२-२
Page #27
--------------------------------------------------------------------------
________________
पञ्चधुराणम् ।
सप्तविंशतितम पर्व। तत्र प्रयातुमस्माकं युज्यते यच्छ शासनं । इत्युक्ते हर्षितांगस्तं परिष्वज्य पिताब्रवीत् ॥ ३८ ॥ त्वं बालः सुकुमारांगः पद्म पद्मनिभेक्षणः । कथं तां सहसे जेतुं न प्रत्येम्यहमर्भकः ॥ ३९ ॥ सोऽवोचत्सद्यमुत्पन्नो भृशमल्पोऽपि पावकः । कक्षं दहति विस्तीर्ण महद्भिः किं प्रयोजनं ॥४०॥ बालः सूर्यस्तमो घोरं द्युतिः ऋक्षगणस्य च । एको नाशयति क्षिप्रं भूतिभिः किम्प्रयोजनम् ॥४१॥ ततः सहृष्टरोमांगो नपो दशरथः पुनः । प्रमोदं परमं प्राप्तो विषादं च सवाष्पदृक् ॥ ४२ ॥ सत्वत्यागादिवृत्तीनां क्षत्रियाणामियं स्थितिः । उत्सहते प्रयातुं यद्विहातुमपि जीवितं ।। ४३ ॥ अथवा क्षयमप्राप्ते जंतुरायुषि नाश्नुते । मरणं गहनं प्राप्तः परं यद्यपि जायते ॥ ४४ ॥ इति चिंतयतस्तस्य कुमारौ रामलक्ष्मणौ । पितुः पादाब्जयुगलं प्रणम्योपगतौ बहिः॥४५॥ ततः सर्वास्त्रकुशलौ सर्वशास्त्रविशारदौ । सर्वलक्षणसंपूर्णौ सर्वस्य प्रियदर्शनौ ॥ ४६॥ चतुरंगबलोपेतौ पूर्यमाणौ विभूतिभिः । संप्रयातौ रथारूढौ दीप्यमानौ स्वतेजसा ॥ ४७ ॥ पूर्वमेव तु निर्यातो जनकः सोदरान्वितः । अंतरं योजने द्वेच परसैन्यस्य तस्य च ॥४८॥ शत्रुशब्दममृक्षतो जनकस्य महारथाः । विविशुर्लेच्छसंघातं मेघदमिव ग्रहाः ॥ ४९ ॥ प्रवृत्तश्च महाभीमः संग्रामो रोमहर्षणः । बृहत्प्रहरणाटोप आयेम्लेच्छभटाकुलः ॥५०॥
Page #28
--------------------------------------------------------------------------
________________
पुराणम्।
મ
सप्तविंशतितमं पर्व |
जनकः कनकं दृष्ट्वा परं गहनमागतं । अचोदयदतिक्रुद्धो दुर्वारकरिणां घटां ॥ ५१ ॥ वर्वरैस्तु महासैन्यैर्भमैर्भयैः पुनः पुनः । भीमैर्जनकराजोऽपि दिक्षु सर्वासु वेष्टितः ॥ ५२ ॥ एतस्मिन्नंतरे प्राप्तः पद्मः सौमित्रिणा सह । अपारं गहनं सैन्यमपश्यच्चारुलोचनः ।। ५३ ।। दृष्ट्वा तस्य सितच्छत्रं विशीर्णा शत्रुवाहिनी । तमसां संततिः स्फीताः पौर्णमासीविधुं यथा ५४ आश्वासितश्च वाणोधैर्जनको ध्वस्तकंकटः । तेन जंतुर्यथा दुःखी धर्मेण जगदायुषा ।। ५५ ।। राघवो रथमारूढो युक्तं चपलवाजिभिः । कवचोद्योतितवपुः हारकुंडल मंडितः ॥ ५६ ॥ धनुरायतमास्थाय शरपाणिहरिध्वजः । प्रकीर्ण कोल्वणच्छत्रो धरणीधीरमानसः ॥ ५७ ॥ प्रविशन् विपुलं सैन्यं लीलया लोकवत्सलः । सुभटैः पूर्यमाणः सन् भात्यर्क इव रश्मिभिः ५८ संरक्ष्य जनकं प्रीतः कनकं च यथाविधि । बलं विध्वंसयच्छत्रोरिभवत्कदलीवनं ॥ ५९ ॥ तथैव लक्ष्मणस्तत्र वाणानाकर्णसंहतान् । ववर्ष वायुना नुन्नः सागरे जलदो यथा ॥ ६० ॥ निशितानि च चक्राणि शक्तींश्च कनकानि च । शूलं क्रकच निर्घातान्येवमाद्यान्यचिक्षिपत् ।। ६१ ।। सौमित्रिभुजनिर्मुक्तैस्तैः पतद्भिरितस्ततः । म्लेच्छदेहानि कृत्यंते द्रुमाः परशुभिर्यथा ॥ ६२ ॥ भठान् शवरसैन्येऽस्मिन्वाणैर्निर्भिन्नवक्षसः । केचिच्छिन्नभुजग्रीवा निपतंति सहस्रशः ।। ६३ ।।
1
Page #29
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तविंशतितम पर्व। ततः पराङ्मुखीभूता लोककंटकवाहिनी । तथापि लक्ष्मणस्तेषामनुधावति पृष्ठतः ॥ ६४ ॥ अनिवार्य समालोक्य तं सौमित्रि मृगाधिपं । अपरे म्लेच्छशार्दूला समंतात्क्षोभमागताः ॥६५॥ बृहद्वादित्रनिर्घोषैः कुर्वाणा भैरवं रवं । चापासिचक्रबहुला कृतसंघातपंक्तयः ॥ ६६ ॥ रक्तवस्त्रशिरस्त्राणाः केचिद्वर्वरधारिणः । असिधेनुकराः क्रूरा नानावांगधारिणः ॥ ६७॥ केचिद्भिन्नांजनच्छाया शुष्कपत्रत्विषोऽपरे । केचित्कर्दमसंकाशाः केचित्ताम्रसमत्विषः ॥ ६८ ॥ कटिसूत्रमणिप्रायाः पत्रचीवरधारिणः । नानाधातुविलिप्तांगा मंजरीकृतशेखराः ॥ ६९ ॥ वराटकामदशना विशालपिठरोदराः । विरेजुः सैन्यमध्यं ते कुटजा इव पुष्पिताः ॥ ७० ॥ अपरे शवरा रेजुर्भाषणायुधपाणयः । पीनजंघाभुजस्कंधा असुरा इव दर्पिताः ॥ ७१॥ निर्दया पशुमांसादो मूढाः प्राणिवधोद्यताः । आरभ्य जन्मनः पापाः सहसारभ्यकारिणः ७२ वराहमहिषव्याघ्रवृककंकादिकेतवः । नानायानच्छदच्छत्रास्तत्सामंता सुभीषणाः ॥७३ ॥ नानायुद्धकृतध्वांता महावेगपदातयः । सागरोमिनिभाश्चंद्रा नानाभीषणनिस्वनाः ॥ ७४ ॥ लक्ष्मणक्ष्माधरं वन्बु क्षुब्धाः शरदनीरदाः । निजसामंतवातेन प्रेरिताः पुरुरंहसः॥ ७५ ॥ अधावल्लक्ष्मणस्तेषां निपाताय समुद्यतः। यथा नदत्समूहानां महावेगो गजाधिपः ॥ ७६ ॥
Page #30
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२१
सप्तविंशतितमं पर्व |
1
मृद्यमाना निपेतुस्ते स्वैरवेव सुधातले । विदुद्रुवुरसंख्याश्च भीत्या विकृतमूर्तयः ॥ ७७ ॥ ततः साधरयन् सैन्यमातरंगतमो नृपः । समं सकलसैन्येन लक्ष्मणाभिमुखं स्थितः ॥ ७८ ॥ तेनाभ्यागतमात्रेण प्रवृत्ते भैरवे मृधे । लक्ष्मणस्य धनुश्छिन्नं वाणैः सततवर्षिभिः ।। ७९ ।। कृपाणं यावदादत्ते लक्ष्मणो विरथीकृतः । समीरणजवात्तावत्पद्मो रथमचोदयत् ॥ ८० ॥ लक्ष्मणस्योपनीतश्च रथोऽन्यः क्षेपवर्जितः । अपारमदहत्सैन्यं रामः कक्षमिवानलः ॥ ८१ ॥ कांश्चिच्चिच्छेद वाणोषैः कांश्चित्कनकतोमरैः । चत्रैः शिरांसि केषांचित्कुचितोष्ठान्यपातयत् ८२ ननाश भयपूर्णा च यथासंम्लेच्छवाहिनी । विध्वस्तचामरच्छत्रध्वजचापसमाकुला ॥ ८३ ॥ निमिषांतरमात्रेण रामेणाक्लिष्टकर्मणा । म्लेच्छा निराकृता सर्वे कषाया इव साधुना ॥ ८४ ॥ आगतो यश्च सैन्येन निष्पारेणोदधिर्यथा । भीतो वैर्दशभिः सोयं म्लेच्छराजो विनिस्मृतः ॥ ८५ ॥ पराङ्मुखीकृतैः क्लीवैः किमेभिर्निहतैरिति । सौमित्रिणा समं रामः कृती निववृते सुखं ॥ ८६ ॥ अमी भयाकुला म्लेच्छा विहाय विजिगीषुतां । आश्रित्य सह्यविंध्याद्रीन् समयेनावतस्थिरे ८७ कंदमूलफलाहारास्तत्यजू रौद्रकर्मतां । राघवाद्भयमापन्ना वैनतेयादिवोरगाः ॥ ८८ ॥ सानुजः सानुजं पद्मो विग्रहे शांतविग्रहः । विसर्ज्य जनकं हृष्टं जनकाभिमुखोगमत् ॥ ८९ ॥
Page #31
--------------------------------------------------------------------------
________________
२२ ।
पद्मपुराणम् ।
अष्टाविंशतितम पर्स। प्रजातपरमानंदा रोमविस्मितमानता । रराज पृथिवी सर्वा भूत्या कृतयुगे यथा ॥ ९ ॥ धर्मार्थकामसंसक्तैः पुरुषैर्भूषितं जगत् । व्यतीतहिमसंरोधैर्नक्षत्रैरंबरं यथा ॥ ९१ ॥ माहात्म्यादमुतो राजन् दुहिता लोकसुंदरी । जनकेन प्रसन्नेन राघवस्य प्रकल्पिता ॥ ९२ ॥
किं वात्रकृत्यं बहुभाषितेन । श्री श्रेणिक स्वं ननु कर्म पुसां ॥
समागते गच्छति हेतुभावं । वियोजने वा सुजनेन साकं ।। ९३ ॥ सोयं महात्मा भुवने समस्ते । गतः प्रतापं परमं सुभाग्यः॥
गुणैरनन्यप्रमितरुपेतो । रविर्यथोद्भुतपरो मयूखैः ॥ ९४ ॥ इत्याः रविषेणाचार्यनोक्ते पद्म-चरिते म्लेच्छपराजयसंकीर्तनं नाम सप्तविंशतितम पर्व |
अथाष्टाविंशतितमं पर्व। ईदृक् पराक्रमाकृष्टो नारदः पुरुविस्मयः । धृतिं न लभते कापि राससंकथया विना ॥१॥ श्रुतश्च तेन वृत्तांतो रामस्य किल मैथिली । पित्रा दातुमभीष्टेति प्रकटा सर्वविष्टसे ॥२॥
Page #32
--------------------------------------------------------------------------
________________
पंडापुराणम् ।
अष्टाविंशतितमं पर्व।
अर्चितयच्च पश्यामि कन्यां तामद्य कीदृशीं । शोभनैर्लक्षणैर्येन रामस्य परिकल्पिता ॥ ३ ॥ पद्मगर्भदलं यस्मिन् कृत्वा स्तनतटे रहः । मत्कांत्या सदृशा नेदमिति बुद्धयावलोकते ॥ ४ ॥ समये नारदस्तस्मिन् सीतालोकनलालसः । विशुद्धहृदयः प्रापदारुरोह च तद्गृहं ॥ ५ ॥ ततो दर्पणसंक्रांतं जटामुकुटभीषणं । नारदीयं वपुर्वीक्ष्य कन्या त्राससमाकुला ॥ ६ ॥ हा मातः कोयमत्रेति कृत्वा प्रस्खलितं स्वनं । विवेश गर्भभवनं वेपमानशरीरिका ॥ ७ ॥ नारदोऽनुपदं तस्याविशन्नतिकुतूहल: । नारीभिर्द्वारपालीभिः सावष्टुंभमरुध्यत ॥ ८ ॥ यावत्तस्य च तासां च कलहो वर्तते महान् । तावच्छब्देन संप्रापुर्नराः खड्गधनुर्धराः ॥ ९॥ गृह्यतां गृह्यतां को कोयमित्युद्धत्वस्वनाः । कुंचितोष्ठान्नरान् दृष्ट्वा सशस्त्रान् हंतुमुद्यतान् ॥ १० ॥ नारदः परमं विभ्रद्भयमुत्कटवेपथुः । ऊर्ध्वरोमा खमुत्पत्य विश्रांतोष्टापदाचले ॥ ११ ॥ अर्चितयच्च हा कष्टं प्राप्तोऽस्मि जननं पुनः । निष्क्रांतोऽस्मि महादावात्पक्षी ज्वालाहतो यथा १२ शनैः शनैस्ततः कंपं तद्दिग्न्यस्तेक्षणोऽमुचत् । समार्ज च ललाटस्थान् स्वेदबिंदून् स्थवीयसः १३ समादधे स्खलत्पाणिर्जटाभारं समाकुलं । मुहुः स्मृत्वा च निश्वासान्मुमुचे दीर्घवेगिनः || १४ || ततः स्वैरं भयाद्धष्टो दध्यावेवं प्रकोपवान् । निश्चितस्थितशेषांगो मूर्धानं कंपयन्मनाम् ॥ १५ ॥
२३
Page #33
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२४
अष्टाविंशतितम पर्व।
अदुष्टमानसः पश्यन् यातो रूपदिदृक्षया । रामानुरागतः प्रापमवस्था मृत्युगोचरां ॥ १६ ॥ अहो प्रौदकुमार्यास्तचेष्टितं दुष्टविभ्रमं । गृहीतोऽस्मि नयेनैष कृतांतसदृशैर्नरैः ॥१७॥ क्व मे पापाधुना याति व्यसने पातयामि तां । नृत्याम्यातोद्यमुक्तोऽपि किमुतातोद्यसंयतः॥१८॥ विचिंत्यैवं द्रुतं गत्वा नगरं रथनूपुरं । सीतारूपं पटे न्यस्य प्रत्यक्षमिव सुंदरं ॥ १९ ॥ चकारोपवने चंद्रगते क्रीडनसमनि । उत्सत्य च वहिस्तस्थौ पुरस्याप्रकटात्मकः ॥ २० ॥ अन्यदाथ तमुद्देशं कुमारबहुभिः समं । भामंडलकुमारोसौ रममाणः समाययौ ।। २१ ॥ तत्राज्ञानात्समालोक्य स्वसारं चित्रगोचरं । ह्रीश्रुतिस्मृतिमुक्तात्मा द्राक् प्रभामंडलोऽभवत् २२ ततः शोचति निश्वासान्मुंचतेत्यंतमायतान् । शुष्यति क्षिपति सस्तं गात्रं यत्र क्वचिद्रुतं ॥२३॥ न रात्रौ न दिवा निद्रां लभते ध्यानतत्परः । उपचारेण कांतेन न जातु सुखमश्नुते ॥ २४ ॥ पुष्पाणि गंधमाहारं दृष्टि श्वेडं यथा भृशं । करोति लोठन भूयः संतापी जल कुहि मे ॥ २५ ॥ मौनमाचरति स्मित्वा करोति च कथां मुहुः । सहसोत्तिष्ठति व्यर्थ याति भूयो निवर्तते ॥२६॥ ततो गृहगृहीतस्य सदृशैस्तैर्विचेष्टितैः । ज्ञातं तदातुरत्वस्य कारणं मतिशालिभिः ॥ २७ ॥ जगदुश्चैवमन्यान्यं कन्येयं केन चित्रिताः । पटोत्र निहितो गेहे स्याद्वा नारदचेष्टितं ॥ २८ ॥
Page #34
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व। ततः श्रुत्वा कुमार तमाकुलं स्वन कर्मणा। नारदत्तस्य बंधनां विस्रब्धो दर्शनं ददौ ॥ २९ ॥ आदरेण च तैः पृष्टः कृतपूजानमस्कृतिः । मुने कथय कन्येयं दृष्टा क्य भवतेदृशी ॥ ३० ॥ महोरगांगना किं स्याद्भवेत्किंवा विमानजा । मर्त्यलोकं समायाता त्वया दृष्टा कथंचन ॥३१॥ अवद्धारस्ततोऽवोचद्विनयं परमं महत् । भूयो भूयः स्वयं गच्छद्विस्मयं कंपयन् शिरः ॥ ३२ ॥ अस्त्यत्र मिथिला नाम पुरी परमसुंदरी । इंद्रकेतोःस्तुतस्तत्र जनको नाम पार्थिवः ॥ ३३ ॥ विदेहेति प्रिया तस्य मनोबंधनकारिणी । गोत्र सर्वस्वभूतेयं सीतेति दुहिता तयोः ॥ ३४ ॥ निवेद्यैवमसौ तेभ्यः कुमारं पुनरुक्तवान् । बाल मा याः विषादं त्वं तवेयं सुलभैव हि ।। ३५॥ रूपमात्रेण यातोसि किमस्या भावमीदृशं । ये तस्या विभ्रमा भद्र ! कस्तां वर्णयितुं क्षमः ३६ तया चित्तं समाकृष्टं तवेति किमिहाद्भुतं । धHध्याने दृढं बद्धं मुनीनामपि सा हरेत् ॥ ३७ ॥ आकारमात्रमत्रतत्तस्या न्यस्तं मया पटे । लावण्यं यत्तु तत्तस्या तस्यामेवैतदीदृशं ॥ ३८ ॥ नवयौवनसंभूतकांतिसागरवीचिषु । सा तिष्ठति तरंतीव संसक्तास्तनकुंभयोः ॥ ३९ ॥ तस्या श्रोणी वरारोहा कांतिसंप्लावितांशुका । वीक्षितोन्मूलयत्स्वांत समूलमपि योगिनां ॥४०॥ मुक्त्वा भवंतमन्यस्य सेयं कस्योचिता भवेत् । यत्नं वस्तुनि कुर्वन्नाजायतां योग्यसंगमः ॥४१॥
Page #35
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। इत्युक्त्वा चरितार्थः सन्नारदोऽगान्मनीषितं । दध्यौ भामंडलोप्येवं स्मरसावकताडितः॥४२॥ क्षेपिष्टं प्रमदारत्नं न लभेयं यदीदृशं । न जीवेयं तदावश्यं स्मराकुलितमानसः ॥ ४३ ॥ धारयंती परां कांतिमियं मे हृदयं स्थिता । कथं च कुरुते तापमग्निज्वालेव सुंदरी ॥ ४४ ॥ दहति त्वचमेवार्को बहिरंतश्च मन्मथः । अंतर्द्धिरस्ति सूर्यस्य मन्मथस्य न विद्यते ॥ ४५ ॥ द्वयमेव ध्रुवं मन्ये प्राप्तव्यमधुना मया । तया वा संगमः साकं मरणं वा स्मरेषुभिः ॥४६॥ अनारतमतिध्यायनशने शयने न च । न प्रासादे नचोद्याने धृति भामंडलोऽगमत् ।। ४७ ॥ स्त्रियोऽथ नारदं मत्वा कुमारासुखकारणं । स संभ्रमं समुद्विग्ना पितुरस्त्र न्यवेदयत् ॥ ४८ ॥ तथानर्थसमुद्रेन नारदेनाहता पटे । चित्रीकृत्यांगना क्यापि रूपातिशययोगिनी ॥ ४९ ॥ समालोक्य कुमारस्तां विहलीभूतमानसः । धृतिं न लभते क्यापि त्रपया दूरमुज्झितः ॥ ५० ॥ मुहुस्तामीक्षते कन्यां सीताशब्दं समुच्चरन् । करोति विविधां चेष्टां वायुनेव वशीकृतः ॥ ५१ ।। उपायश्चित्यतामाशु तस्योत्पादयितुं धृति । यावन मुच्यते प्राणैर्भोजनादिपराद्भुखः ॥ ५२ ॥ ततश्चंद्रगतिः श्रुत्वा वार्तामेतां समाकुलः । आगत्य कांतया साकं सुतमेवमभाषत ॥ ५३॥ मज सोः क्रियाः पुत्र सुचेता भोजनादिकाः । अयं वृणोमि तां कन्यां भवतो मनसि स्थितां ॥
Page #36
--------------------------------------------------------------------------
________________
पह्मपुराणम्।
अष्टाविंशतितमं पर्व। परिशांत्य सुतं कांतां रहश्चंद्रायणोऽवदत् । प्रमोदं च विषादं च विस्मयं च वहन्निदं ॥ ५५ ॥ आर्ये विद्याभूतां कन्याः संत्यज्य प्रतिमोज्झिताः । भूगोचराभिसंबंधः कथमस्मासु युज्यते ५६ क्ष्मागोचरस्य निलयं गंतुं वा युज्यते कथं । यदा वा तेन नो दत्ता मुखच्छाया तदातु का ५७ तस्मात्केनाप्युपायेन कन्यायाः पितरं प्रियं । इहैव नययाम्याशु नान्यः पंथा विराजते ॥५८॥ नाथ युक्तमयुक्तं वा त्वमेव ननु मन्यते । तथापि तावकं वाक्यं ममापि हृदयंगमं ॥ ५९॥ ततश्चपलवेगाख्यं भृत्यमाहूय सादरं । कर्णजापेन विज्ञातवृत्तांतमकरोन्नृपः ॥ ६ ॥ आज्ञादानेन तुष्टोसौ मिथिलां त्वरितो ययौ । हृष्टहंसयुवामोदसूचितामिव पद्मिनीं ॥ ६१॥ अवतीयांवराच्चारुसप्तिवेषमुपाश्रितः । वित्रासयितुमुद्युक्तो गीमहिषश्ववारणान् ।। ६२॥ देशघाते यथा यातः समाकंदस्तदापरः । शुश्राव च जनौधेभ्यो जनकस्तद्विचेष्टितं ॥ ६३ ॥ निर्ययौ च पुरायुक्तः प्रमोदोद्वेगकौतुकैः । ईक्षांचक्रे च तं सप्ति नवयौवनसंगतं ॥ ६४ ॥ उदमानं मनोयोगं भास्वत्प्रवरलक्षणं । प्रदक्षिणमहावर्त तनुवक्त्रोदरं बलं ॥६५॥ सुशफामृदंगानां कुर्वाणमिव ताडनं । पृथग्जनेर्दुरारोहं दधतं प्रोथुवेपथु ॥ ६६ ॥ ततः शुद्धः प्रमोदः सन् जगाद जनको मुहुः । ज्ञायतामेष कस्याश्वः प्राप्तो निदोमतामिति ६७
Page #37
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व। ततो द्विजगणा ऊचुः प्रियोद्योधतचेतसः । राजन्नस्य न ना कोऽपि तुरंगो विद्यते समः ॥६॥ कैव वार्ता पृथिव्यां तु राज्ञामीदृग्भवेदिति । अथ वा किं न कालेन नृप दृष्टस्त्वयेयता ॥६९ ॥ रथे दिवाकरस्यापि श्रुतिविभ्रमगोचरः । विद्यते नेति जानीमः स्थूरीपृष्टोऽमुना समः ॥ ७० ॥ नूनं भवंतमुद्दिश्य कृतवंतं परं तपः । सृष्टोयं विधिना सप्तिरतः स्वीक्रियतां प्रभो! ॥७१॥ ततोऽसौ विनयी निन्ये प्रग्रहद्वयसंयुतः । मंदुराकुंकुमाद्रांगप्रचलचारुचामरः ॥ ७२ ॥ संवृतो मासमात्रोऽस्य ययौ कालो गृहीतितः । उपचारैरलं योग्यैः सेव्यमानस्य संततं ॥ ७३ ॥ पाशकोत्रांतरे नत्वा जनकाय न्यवेदयत् । नाथ नागस्य सदेशे ग्रहणं दृश्यतामिति ॥७४॥ ततोसौ मुदितस्तुंगमारुह्य वरवारणं । उद्दिष्टपदविस्तेन विवेश सुमहद्वनं ॥ ७॥ दुरे च सरसो दुर्गे स्थितं दृष्ट्वा वरं द्विपं । जगादानय तत्क्षिप्रं कंचिदश्वं महाजवं ॥७६ ॥ ढौकितश्च स मायाश्वः सद्यः स्फुरितविग्रहः । आरुरोह स तं यातश्चोत्पत्य तुरगो नमः ॥ ७७॥ हाहाकारं नृपाः कृत्वा वहंतः शोकमुद्धतं । निवृत्ताः सहसा भीता विस्मयव्याप्तमानसाः ॥७८॥ ततो नदीगिरेर्देशान् अरण्यानि च भूरिशः । प्रयाति लंघयन् सप्तिः मनोवदनिवारणः ॥७॥ नाति दूरे ततो दृष्टा प्रसादं तुंगमुच्चलं । ह्रियमाणः स शाखायां दृढ़ लग्नो महातरोः ॥८॥
Page #38
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
अष्टाविंशतितम पर्व। अवतीर्य ततो वृक्षाद्विश्रम्य च सविस्मयः । चरणाभ्यां परिक्रामन् प्रययौ स्तोकमंतरं ॥ ८१ ॥ ददर्श च महातुंगं शालं चामीकरात्मकं । गोपुरं च सुरत्नेन तोरणेनातिशोभिनं ॥ ८२॥ नानाजातीश्च वृक्षाणां लताजालकयोगिनां । फलपुष्पसमृद्धानां नानाविहगशोभिनां ॥ ८३ ॥ संध्याभ्रकूटसंकाशान्प्रासादान्मंडलस्थितान् । सेवां प्रासादराजस्य कुर्वाणानिव तत्परां ॥८४ ॥ ततोऽसौ खडमालंव्य दक्षिणो दक्षिणे करे । केसरीवातिनिश्शंकः प्रविवेश स गोपुरं ॥ ८५ ॥ अपश्यच्च परिस्फीताः पुष्पजातीर्वहुत्विषः । मणिकांचनसोपाना वापी च स्फटिकांमसः ॥८६॥ रमणांश्च महामोदान् विशालान् कुंदमंडपान् । चलत्पल्लवसंघातान् कृतसंगीतषट्पदान् ।।८७॥ ततश्च माधवीतुंगजालकांतरयोगिना । विस्फारितप्रसन्नेन चक्षुषा चारुकांतिना ॥ ८८॥ रत्नवातायनयुक्तं मुक्ताजालकशोभितैः । शातकौंभमहास्तंभसहस्रकृतधारणं ॥ ८९ ॥ नानारूपसमाकर्णि मेरुश्रृंगसमप्रभ । वज्रवद्धमहापीतमद्राक्षीद्भवनं नृपः ॥९॥ अचिंतयञ्च किंत्वेतद्विमानं पतितं खतः । वासवस्य हृतं किंवा दैत्यैः क्रीडागृहं भवेत् ॥ ९१ ॥ पातालादुत्थितः किंवा नागेंद्रस्यायमालयः । कुतोऽपि कारणत्सूर्यमरीचिकृतखंडनः ॥ ९२ ॥ अहो मे ययुना तेन भद्रेणोपकृतं परं । अदृष्टपूर्वमेतद्यत्साधु वेश्मावलोकितं ॥ ९३॥
Page #39
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। विवेश चिंतयन्नेवं भवनं तन्मनोहरं । संफुल्लवदनांभोजो ददर्श च जिनाधिपं ॥ ९४ ॥ हुताशनशिखागौरं पूर्णचंद्रनिभाननं । पद्मासनस्थितं तुंगं जटामुकुटधारिणं ॥ ९५ ॥ प्रातिहार्यसमायुक्तं हेमतामरसार्चितं । चित्ररत्नकृतच्छायं तुंगसिंहासनस्थितं ॥ ९६ ॥ ततोंजलिपुटं मूर्ध्नि कृत्वा हृष्टतनूरुहः । प्रणामं प्रयतः कुर्वन् भक्त्या मूर्छामुपागतः ॥ ९७ ॥ क्षणेन प्राप्य संज्ञां च स्तुतिं कृत्वा सुसंस्कृतां । विस्रब्धं जनकस्तस्थौ विस्मयं परमुद्वहन् ॥१८॥ कृती चपलवेगश्च मायां संहृत्य सत्वरः । खड्गविद्याधरो भूत्वा संग्राप रथनूपुरं ॥ ९९ ॥ स्वामिने चावदन्नत्वा तुष्टो जनकमाहृतं । रम्बकाननसंवीते स्थापितं जिनवेश्मनि ॥ १००॥ आगतं जनकं ज्ञात्वा परं हर्षमुपागमत् । आप्तवर्गेण संयुक्तश्चंद्रयानो महामनाः ॥ १०१॥ गृहीत्वा च परां पूजां नानाकाहनसंकुलः । मनोरथरथारूदो ययौ जिनवरालयं ॥१०२ ॥ दृष्वा तत्सुमहत्सैन्यमागच्छत्परमोज्वलं । तूर्यशंखमहानादमाविमो जनकोऽभवत् ॥ १०३ ॥ ततो हरिगजद्वीपिनागहंसादिवाहिनां । पुरुषाणामिदं मध्ये विमानं स व्यलोकयन् ॥ १०४ ॥ अचियच्च ते नूनमेते विद्याधरा जनाः । विजया गिरेरूज़ ये वसंतीति मे श्रुतं ॥ १०५ ॥ मध्येयमस्य' सैन्यस्य स्वविमानकृतस्थितिः । शोभते परमो दीप्त्या कोपि विद्याधराधिषः १०६
Page #40
--------------------------------------------------------------------------
________________
प्रद्मपुराणम् ।
अष्टाविंशतितम पर्व। एवं चिंतापरे तस्मिन्नृपतौ दैत्यपुंगवः । संप्रापञ्चैत्यभवनं सम्मदी नतविग्रहः ॥ १० ॥ दृष्टा दैत्याधिपं प्राप्तं भीमसौम्यपरिग्रहं । जनकः किमपि ध्यायंस्तस्थौ सिंहासनांतरे ॥१०८॥ भक्त्या शशांकयानोऽपि कृत्वा पूजामनुत्तमां । प्रणम्य विधिना चक्रे जिनानां परमस्तुति १०९ विपंची च विधायांके प्रियामिव सुखस्वरां । महाभावनया युक्तो जगौ जिनगुणात्मकं ॥११०॥ त्रिभुवनवरदपभिष्टुत-मतिशयपूजाविधानविनिहितचित्तैः ॥
प्रणतं सुरवृषभगणैः । प्रणमत नाथं जिनेंद्रमक्षयसौख्यं ॥ १११ ।। ऋषभं सततं परमं । वरदं मनसा वचसा शिरसा सुजनाः॥
भजत प्रवरं विलयं । प्रगतं विहितं सकलं दुरितं भवति ॥ ११२ ॥ अतिशयपरमं विनिहितदुरितं । परमगतिगतं नमत जिनवरं ॥
सर्वसुरासुरपूजितपादं । क्रोधमहारिपुनिर्मितभंग ॥ ११३ ॥ उत्तमलक्षणलक्षितदेहं । नौमि जिनेंद्रमहं प्रयतात्मा ॥
भक्त्या विनमितसर्वजनौघं । नतिमात्रविनाशितभक्तभयं ॥११४ ॥ अनुपमगुणधरमनुपमकायं । विनिहतभवमयसकलकुचेष्टं ।
Page #41
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। कलिमलघनपटविनयनदक्षं । प्रणमत जिनवरमतिशयपूतं ॥ ११५ ॥ इति गायति दैत्येंद्रे जिनसिंहासनांतरात् । निर्ययौ भयमुत्सृज्य जनको नाम शोभनः ॥११६॥ ततश्चंद्रायणोऽवोचदीपञ्चलितमानसः । को भवान् विजने देशे वसत्यत्र जिनालये ॥ ११७ ॥ उरगाणां पतिः किंस्याकिंवा विद्याधराधिपः । सखे वद कुतःप्राप्तो भवान् किंसंज्ञकोऽपि वा ॥ मिथिलानगरीतोहं प्राप्तो जनकसंज्ञकः । हृतो मायातुरंगेण नभस्वरमहीपते ॥ ११९ ॥ इत्युक्ते जनकेनैतावन्योन्यं प्रातेमानसौ । इच्छाकारांजली कृत्वा सुखासीनौ बभूवतुः ।। १२० ॥ क्षणं स्थिवा च वृत्तांतैरन्योन्यविनिवेदितैः । जनितान्योन्यसन्मानौ तौ विश्रंभं समीयतुः १२१ ततश्चंद्रायणोऽवोचद्धीमान् कृत्वा कथांतरं । पुण्यवानस्मि येन त्वं मिथिलापतिरीक्षितः॥१२२॥ अस्ति ते दुहिता राजन् लक्षणैरन्विता शुभैः । कर्णगोचरमायाता मम भूरिजनाननात् ॥१२३॥ सा भामंडलसंज्ञाय मत्पुत्राय प्रदीयतां । त्वया विहितसंबंधं मन्ये स्वं परमोदयं ॥ १२४ ॥ सोऽवोचत्सर्वमेतत्स्यात् कृतं विद्याधराधिप । किंतु दाशरथेला ज्येष्ठस्य परिकल्पिता ॥१२५॥ सुहृचंद्रगतिरूचे सा कस्मात्तस्य कल्पिता । सोवोचच्छ्रयतामस्ति भवतां चेत्कुतूहलं ॥१२६ ॥ धनगोरत्नसंपूर्णा मदीया मिथिला पुरी । अर्द्धवर्वरकैम्लेंच्छरवाध्यत सुदारुणैः ॥१२७॥
Page #42
--------------------------------------------------------------------------
________________
३३
अष्टाविंशतितमं पर्व ।
पद्मपुराणम् ।
अपीsयंत प्रजाः सर्वाः स्वहियंत धनोत्कराः । धर्मयज्ञान्न्यवर्तत श्रावकाणां महात्मनां ॥१२८॥ ततो महाहवे जाते रक्षित्वा मां सहानुजं । पद्मेन विजिता म्लेच्छा ये सुरैरपि दुर्जयाः ।। १२९ ।। लक्ष्मणश्चानुजस्तस्य शक्रोपमपराक्रमः । कुरुते शासनं नित्यं महाविनयसंयुतः ॥ १३० ॥ यदि नाम न तत्सैन्यं ताभ्यां स्याद्विजितं द्विषा । म्लेच्छलोकेन संपूर्णा ततः स्यादखिला मही ।। विवेकरहितास्ते हि लोकपीडामया इव । महोत्पाता इवात्यंतभीषणा विषदारुणाः ।। १३२ ।। प्राप्य तौ गुणसंपूर्णौ सुपुत्रौ लोकवत्सलौ । इंद्रवद्भवने राज्यं सुखं दशरथोऽभजत् ॥ १३३ ॥ तस्य राज्येऽधुना जाते नयशौर्यविलासिनः । वातोऽपि नाहरत्किचित्प्रजानां पुरुसंपदां ॥ १३४ ॥ ततः प्रत्युपकारं कं करोमीति समाकुलः । न रात्रौ न दिवा निद्रां संप्राप्तोऽस्मि विचितयन् १३५ रक्षिता येन मे प्राणास्तस्य रामस्य नो समः । कश्चित्प्रत्युपकारोऽस्ति किमुताधिक्यगोचरः १३६ तं महोपकारेण प्रतीकारविवर्जितं । मन्ये तृणमिवात्मानं भोगभीतिपरांमुखः ॥ १३७ ॥ नवयौवनपूर्णा दृष्ट्वा दुहितरं शुभां । गतो विरलतां शोकः शोकस्थानेऽपि मे ततः ।। १३८ ॥ तया कल्पितया तस्य रामस्य पुरुतेजसः । नावेव शोकजलधेस्तारितोहं सुजातया ।। १३९ ॥ ततो नभश्वरा ऊचुरंधकारी - कृताननाः । अहो मानुषमात्रस्य बुद्धिस्तव न शोभना ॥ १४० ॥ २-३
Page #43
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। म्लेच्छः किं गृहणं क्षुद्रैर्यदि तेषां पराजये । प्रशशंस परां शक्तिं भूमिगोचरिणोर्बुधः ॥ १४१ ॥ म्लेच्छनिर्घाटनात्स्तोत्रं त्वया पद्मस्य कुर्वता । कृता प्रत्युतनिंदेयमहो हास्यमिदं परं ॥ १४२ ।। शिशोर्विषफले प्रीतिनिःश्वस्य वदरादिषु । ध्वांक्षस्य पादपे शुष्के स्वभावः खलु दुस्त्यजः १४३ कुसंबंधं परित्यज्य क्षितिगोचरिणामतः । कुरु विद्याधरेंद्रेण संबंधमधुना सह ॥ १४४ ॥ क्व महासंपदो देवैः सदृशो व्योमचारिणः । क्व भूमिगोचराःक्षुद्राः सर्वथैवातिदुःखिताः १४५ जनकोवोचदत्यंतविपुलः क्षारसागरः । न तत्करोति यद्वाप्यः स्तोकस्वादुपयोभृतः ॥ १४६ ॥ अत्यंतधनबंधन तमसा भूयसापि किं । अल्पेन तु प्रदीपेन जन्यते लोकचेष्टितं ॥ १४ ॥ असंख्या अपि मातंगा मदिनः कुर्वते न तत् । केसरी यत्किशोरःसंश्चंद्रमंडलकेसरः ॥ १४८ ॥ इत्युक्ते केऽपि नोत्यर्थं समं कृतमहारवाः । भूमिचेष्टां समारब्धा निंदितुं गगनायनाः॥ १४९ ॥ विद्यामाहात्म्यनिर्मुक्ता नित्यं स्वेदसमन्विताः । शौर्यसंपत्परित्यक्ता शोचनीया धराचराः॥१५०॥ वद तेषां पशूनां च को भेदो जनक त्वया । दृष्टो येन त्रपां त्यक्त्वा दुर्बुद्धिस्तान् विकत्थसे १५१ उवाच जनको धीरः हा कष्टं किं श्रुतं मया । वसुधाराजरत्नानां निंदितं पापकर्मणा ॥ १५२ ॥ कथं त्रिभुवनख्यातो वंशो नाभेयसंभवः । कर्णगोचरमेतेषां न प्राप्तो लोकपावनः ॥ १५३ ।।
Page #44
--------------------------------------------------------------------------
________________
पश्नपुराणम् ।
अष्टाविंशतितमं पर्व।
अर्हतस्त्रिजगत्पूज्याश्चक्रिणो हरयो बलाः । उत्पद्यते नरा यस्यां सा कथं निंदिता मही ॥१५४॥ पंचकल्याणसंप्राप्तिः पुंसां वदत खेचराः । स्वप्नेऽपि जातु किं दृष्टा भवद्भिः खेचरावनौ।।१५५॥ इक्ष्वाकुवंशसंभूता गोष्पदीकृतविष्टपाः । अनीक्षितपरच्छत्रा महारत्नसमृद्धयः ॥ १५६ ।। सुरेंद्रकीर्तितोदारकीर्तयो गुणसागराः । व्यतीता बहवो भूमौ कृतकृत्या नरोत्तमाः ॥ १५७ ।। पुत्रोऽनरण्यराजस्य तत्र वंशे महात्मनः । जातः सुमंगलाकुक्षौ नृपो दशरथोऽभवत् ॥ १५८ ॥ यो लोकहितमुद्दिश्य विरहेदपि जीवितं । मूर्धा वहति यस्याज्ञां शेषामिव जनाऽखिलः॥ १५९ ॥ चतस्रो यस्य संपन्ना सर्वशोभागुणोज्वलाः । आशा इव महादेव्यः सुभावाः सुप्रसाधिताः १६० शतानि वरनारीणां पंच यस्य सुचेतसः । वक्त्रनिर्जितचंद्राणां हरति चरितैनः ॥ १६१ ॥ पद्मो नाम सुतो यस्य पद्मालिंगितविग्रहः । दीप्तिनिर्जिततिग्मांशुः कीर्तिनिर्जितशीतगुः ॥१६२॥ स्थैर्यनिर्जितशैलेंद्रः शोभाजितपुरंदरः । शौर्येण यो महापद्मं जयेदपि सुविभ्रमः ॥ १६३ ॥ अनुजो लक्ष्मणो यस्य लक्ष्मीनिलयविग्रहः । द्रवंति शत्रवो भीता दृष्ट्वा यस्य शरासनं ॥ १६४ ॥ वायसा अपि गच्छंति नभसा तेन किं भवेत् । गुणेष्वत्र मनः कृत्यमिदजालेषु को गुणः॥१६५॥ ग्रहणं वा भवद्भिः किं यत्र देवाधिपा अपि । क्रियते भूमिसंभूतैर्नमंतः क्षितिमस्तकाः ॥१६६।।
Page #45
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। इत्युक्ते रहसि स्थित्वा सन्मंत्र्य गगनायनाः । ऊचुर्न वेत्सि कार्याणि जनकैकाग्रमानसः॥१६७॥ पद्मो लक्ष्मण इत्युच्चैर्गर्जितं वहसे वृथा । अथ विप्रत्ययः कश्चित्ततोऽस्माद्भज निश्चयं ॥ १६८ ॥ समयं शृणु भूनाथ वज्रावर्तमिदं धनुः । इदं च सागरावर्तममरैः कृतरक्षणं ॥ १६९ ॥ इमे वाणासने कर्तुमधिज्ये यदि तौ क्षमौ । अनेनैव तयोः शक्तिं ज्ञास्यामः किं बहूदितैः॥१७०॥ वज्रावतं समारोप्य पद्मो गृह्णातु कन्यकां । अस्माभिः प्रसभं पश्य तामानीतामिहान्यथा॥१७१॥ ततः परममित्युक्त्वा धनुषी वीक्ष्य दुग्रहे । मनकाष्वाकुलीभावं जनको मनसागमत् ।। १७२ ॥ ततः कृत्वा जिनेंद्राणां पूजां स्तोत्रं तु भावतः । गदासीरादिसंयुक्त पूजां नीते शरासने॥१३॥ उपादाय च ते शूरा जनकं च नभश्चराः । मिथिलाभिमुखं जग्मुश्चंद्रोऽपि रथनूपुरं ॥ १७४ ।। ततः कृतमहाशोभं समंगलमहाजनं । विवेश जनको वेश्म पौरलोकावलोकितः ॥ १७५ ॥ विधायायुधशालां च समावृत्त्य नभश्चराः । वहंतः परमं गर्व नगरस्य वहिः स्थिताः ॥ १७६ ॥ जनकस्तु सखेदांगः कृत्वा किंचित्स भोजनं । चिंतयाकुलितो भेजे तल्पमुत्साहवर्जितः॥१७७॥ तत्र चोत्तमनारीभिर्विनीताभिः सुविभ्रमं । चंद्रांशुचयसंकाशैश्वामरैरभिवीजितः ॥ १७८ ॥ उष्णदीघोतिनिश्वासान् विमुंचन् विषमानलं । दधत्या विविध भावमभाष्यत विदेहया ॥१७९॥
Page #46
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। का क्व कामिस्त्वया दृष्टा नारी या तेन लक्षितः । तद्वियोगकथामेतामवस्थामसि संश्रितः१८० प्राकृता कापि सा नारी कामिनीगुणरिक्तिका । इति या स्मरसंसक्तं भवंतं नानुकंपते ॥१८॥ नाथ वेदय मे स्थानं येन तामानयामि ते । भवदुःखेन मे दुःखं जनस्य सकलस्य वा ॥ १८२॥ उदारे सति सौभाग्ये कथमिष्टोऽसि नो तया । ग्रावमानसया येन धृतिं न लभसे भृशं ॥१८३॥ उत्तिष्ठ भज निश्शेषाः क्रिया राजजनोचिताः। शरीरे सति कामिन्यो भविष्यंति मनीषिताः१८४ इत्युक्ते पार्थिवोऽवोचत् कांतां प्राणगरीयसीं । अन्यथा खेदितस्यास्य किं मे चित्तस्य खेद्यते ।। शृणु देवि यतोवस्थामीदृशीमहमागतः । अपरिज्ञातवृत्तांता किमर्थमिति भाषसे ॥ १८६ ॥ तेन मायातुरंगेण नीतोहं विजयाचलं । समयेनामुना तत्र मुक्तः पत्या खगामिनां ॥ १८७ ॥ वज्रावर्तमधिज्यं चेद्धनुः पद्मः करिष्यति । ततः स्यात्तस्य कन्येयं तनयस्य ममान्यथा ॥१८८॥ कर्मानुभावतस्तच्च मया साध्वसतोऽपि वा । प्रतिपन्नमभाग्येन बंधावस्थामुपेयुषा ॥ १८९ ॥ समुद्रावर्तसंख्येन तच्चापेन समन्वितं । आनीतं खेचरैरुप्रैबहिःस्थानस्य तिष्ठति ॥ १९ ॥ मन्ये तस्य सुरेशोऽपि न शक्तोऽधिज्यताकृतौ । दिग्ज्वालानलतुल्यस्य दुर्निरीक्ष्यस्य तेजसा १९१ कृतांतायैव तत्क्रुद्धमनाकृष्टमपि स्वनत् । अनधिज्यमपि स्वैरं भीष्मं तिष्ठत्यनारतं ॥ १९२ ॥
Page #47
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्य। अधिज्येन क्षते यस्मिन् पद्मन मदियं ध्रुवं । हरिष्यते खगैः कन्या मांसपेशीव जंबुकात् ॥१९॥ विंशतिवासराणां च वस्त्वन्यत्र कृतोऽवधिः । वरानीता वराकीयं भूयोऽस्माभिः क वीक्षिता ।। एवमुक्तेऽस्रसंपूर्णलोचना सहसाभवत् । विदेहापहृतं बालमस्मरच प्रसंगतः ॥ १९५ ॥ अतीतागामिशोकाभ्यामभितः पीडितेव सा | चकार वारिनेत्राभ्यां कुररीव कृतस्वना ॥१९६॥ परिदेवनमेवं च चक्रे विह्वलमानसा । कुर्वती परिवर्गस्य द्रविणं चेतसामलं ॥ १९७ ॥ कीदृग्वामं मया नाथ देवस्यापकृतं भवेत् । पुत्रेण यन्न संतुष्टं हतुं कन्यां समुद्यतं ॥ १९८ ॥ स्नेहालंबनमेकैव बालिकेयं सुचेष्टिता । मम ते बांधवानां च प्रेमभावो जनस्य च ॥ १९९ ॥ दुःखस्य यावदेतस्य नांतं गच्छामि पापिनी । द्वितीयं तावदेवन्मे कृतसनिधि वर्तते ॥२०॥ शोकावर्तनिमनां तां करुणं रुदतीमिति । नियम्यादु प्रियोवोचदतः शोकसमाकुलः ॥२०१॥ अलं कांते रुदित्वा ते ननु कर्मार्जितं पुरा । नर्तयत्यखिलं लोकं नृत्ताचार्यों ह्यसौ परः ॥२०२॥ अथवा मयि विश्वस्त हृतो दुष्टेन बालकः । अप्रमत्तस्य बालां तु हतुं शक्तोऽस्ति को मम।।२०३॥ आप्तप्रधारणन्यायमप्ररित्यज्यता मया । पृष्टासि दयिते वस्तु जानाम्येत्सुखावहं ॥ २०४ ।। सारेवंविधैाक्यैः कांतेन कृतसांत्वना । विदेहा विरलीकृत्य शोकं कृच्छ्रादवस्थिता ॥२०५॥
Page #48
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३५
अष्टाविंशतितमं पर्व ।
ततो धनुर्ग्रहप्रांते विशाला रचितावनिः । स्वयंवरार्थमाहूताः पार्थिवा सकलाः क्षितौ ॥ २०६॥ प्रेषितः कोशलां दूतः पद्माद्याः समुपागताः । मातृपित्रादिसंयुक्ता जनकेनाभिपूजिताः ||२७|| ततो हर्म्यतले कांते स्थिता परमसुंदरी । कन्या सप्तशतांतस्था सीता शूरभटावृता ॥ २०८ ॥ प्रांतेषु सर्वसामंता वेश्मनोऽस्यावतस्थिरे । कुर्वाणा विविधां लीलां महाविभववर्तिनः ॥ २०९ ॥ ततः स्थित्वा पुरस्तस्या कंचुकी सुबहुश्रुतः । जगाद तारशब्देन हेमवेत्रलताकरः || २१० ॥ राजपुत्रि परीक्षस्व पद्मोसौ पद्मलोचनः । अयोध्याधिपतेराद्यः पुत्रो दशरथश्रुतेः ॥ २११ ॥ लक्ष्मीवान् लक्ष्मणश्चायमनुजोस्य महाद्युतिः । भरतोयं महाबाहुः शत्रुघ्नोयं सुचेष्टितः || २१२ || सुतैर्दशरथोऽमीभिर्गुणसागरमानसैः । वसुधां शास्ति निर्दग्धभयांकुरसमुद्भवां || २१३ ।। हरिवाहननामायं धीमानेष धनप्रभः । अयं चित्ररथः कांतो दुर्मुखोयं प्रभाववान् ॥ २१४ ॥ श्रीसंजयो जयो भानुः सुप्रभो मंदरो बुधः । विशालः श्रीधरो वीरो बंधुर्भद्रवलः शिखी ।। २१५ ।। एतेऽन्ये च महासत्वा महाशोभासमन्विताः । विशुद्धवंशसंभूताचंद्र निर्मलकांतयः ॥ २१६ ॥ कुमाराः परमोत्साहा गुणभूषणधारिणः । महाविभवसंपन्ना भूरिविज्ञानकोविदाः || २१७ ॥ गजोयमस्य शैलाभस्तुरंगोस्यायम्मुन्नतः । रथोस्यायं महाभागो भटोस्यायं कृताद्भुतः || २१८ ॥
Page #49
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व ।
सांकाश्य पुरनाथोयमयं रधपुराभिधः । गवाधुमदधीशोयमयं नंदनिकाधिपः ॥ २१९ ॥ विभुः सूरपुरस्यायमेष कुंडपुराधिपः । अयं मगधराजेंद्र : कांपिल्यविभुरेष च ।। २२० ॥ अयमक्ष्वाकुसंभूतो नृपोयं हरिवंशजः । अयं कुरुकुलानंदो भोजोयं वसुधापतिः ।। २२१ ।। इत्यादिवर्णनायुक्ताः श्रूयतेऽमी महागुणाः । इदं त्वदर्थमेतेषां समारब्धं परीक्षणं ।। २२२ ॥ वज्रावर्तमिदं चापमारोपयति यो नरः । कुमारि वरणीयोसौ भवत्या पुरुषोत्तमः ॥ २२३ ॥ क्रमेण मानिनस्ते च कुर्वाणाः स्वविकत्थनं । वज्रावर्तधनुस्तेन ढौकिता चारुविभ्रमा || २२४ || आसीदत्सु कुमारेषु धनुर्मुचति पावकं । विद्युत्सटा समाकारं निश्वसद्भीषणोरगं ।। २२५ ॥ चक्षुस्तत्र द्रुतं चिद्धनुर्ज्यालासमाहतं । त्रस्ताः पिधाय पाणिभ्यां पराचीनत्वमाश्रिताः २२६ तस्थुर्द्वरत एवान्ये दृष्ट्वा स्फुरितपन्नगान् । कंपमानसमस्तांगा निमीलितविलोचनाः || २२७ ॥ केचिद्वराकुलाः पेतुः क्षितावन्ये गिरोज्झिताः । डुतं पलायिताः केचिदेके मूर्छामुपागताः २२८ केचित्पन्नगवातेन क्षिप्ता मर्मरपुत्रवत् । अपरे स्तंभमायाताः स्थिताः शांतर्द्धयोऽपरे ।। २२९ ।। केचिदूचुर्यदि स्थानं गमिष्यामो निजं ततः । जीवदानानि दास्यामश्चरणौ देहि देवते ॥ २३० ॥ ऊचुरन्ये न नारीभिः सेवां मानसवासिनः । ध्रियमाणाः करिष्यामो रूपिण्यापि किमेतया २३१
1
४०
Page #50
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व।
अन्ये जगुरियं नूनं केनापि क्रूरचेतसा । प्रयुक्ता परमा माया बधार्थ पृथिवीक्षितां ॥ २३२ ॥ अन्ये जगुः किमस्माकं कामेनास्ति प्रयोजनं । ब्रह्मचर्येण नेष्यामः समयं साधवो यथा ॥२३३॥ ततः पद्मः समुत्तस्थौ वरकासुकलालसः । डुढौके च महानागमंथरां गतिमुद्वहन् ॥ २३४ ॥ आसीदति शुभे तस्मिन् रूपं भेजे धनुर्निजं । सुचारुपरमं सौम्यमंतेवासी गुराविव ॥ २३५ ॥ ततो विसन्धमादाय धनुरुद्वेष्टय चांशुकं । समारोपयदभ्युच्चैर्ध्वनितं विपुलं प्रभं ॥ २३६ ॥ महाजलधरध्वानशंकिभिः शिखिभिः कृतं । मुक्तककारवैर्नृत्यं वद्धविस्तीर्णमंडलैः ॥ २३७ ।। अलातचक्रसंकाशः संजातो दिवसाधिपः । सुवर्णरजसाच्छन्ना इवासन् व्योमवाहवः ॥ २३८ ।। साधु साध्विति देवानां बभूव नभसि स्वनः । ननृतुयंतराः केचिन्मुंचंतः पुष्पसंहतीः ॥२३९॥ ततो टनिजटंकारवधिरीकृतविष्टपं । आचकर्ष धनुः पद्मः संप्राप्तं चक्रताविव ।। २४० ॥ विकलीभूतनिश्शेषहषीकः सकलो जनः । तदावर्तमिव प्राप्तो भ्राम्यति त्रस्तमानसः ।। २४१ ॥ प्रवातघूर्णतांभोजपलाशाधिककांतिना । चक्षुषा स्मरचापेन सीता रामं निरैक्षत ।। २४२ ॥ रोमांचार्चितसर्वांगा दधती परमस्रजं । प्रीता रामं डुढोके सा वीडाविनमितानना ॥ २४३ ॥ पार्श्वस्थया तया रेजे स तथा सुंदरा यथा । यथायमिति दृष्टांत यो गदेत्स गतत्रपः ॥ २४४ ॥
Page #51
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। अवतारितमौवीं स कृत्वा सायकासनं । तस्थौ विनयसंपन्नः स्वासने सीतया सह ॥ २४५ ॥ सकंपहृदया सीता रामाननदिदृक्षया । भावं कमपि संप्राप्ता नवसंगमसाध्वसा ॥ २४६ ॥ क्षुब्धाकूपारनिस्वानं सागरावर्तकामुकं । तावच लक्ष्मणोधिज्यं कृत्वास्फालयदुन्नतं ॥ २४७॥ शरे निहित दृष्टिं तं समालोक्य नभश्चराः । वदंतो देव मा मेति मुमुचुः कुसुमोत्करान् ॥ २४८ ॥ आकृष्य कार्मुकं क्रूरं मौवींसंरावमूर्जितः । अवतार्य च पद्मस्य पार्श्वे सुविनयस्थितः॥ २४९ ॥ विक्रांताय तथा तस्मै विद्याभचंद्रवर्धनः । अष्टादश ददौ कन्या धियेवाप्रौढिका इति ॥२५०॥ विद्याधरैः समागत्य परमं भयपूरितैः । वृत्तांते कथिते तस्मिश्चंद्रश्चितापरः स्थितः ॥२५१ ॥ वृत्तांतमिममालोक्य भरतः पुरुविस्मयः । अशोचदैवमात्मानं मनसा संप्रबुद्धवान् ॥ २५२ ॥ कुलमेकं पिताप्येक एतयोर्मम चेदृशं । प्राप्तमद्भुतमेताभ्यां न मया मंदकर्मणा ॥ २५३ ॥ अथवा किं मनो व्यर्थ परलक्ष्म्याभितप्यसे । पुरा चारूणि कमोणि न कृतानि ध्रुवं त्वया२५४ पद्मगर्भदलच्छाया साक्षाल्लक्ष्मीरियोज्वला । ईदृशी पुरुपुण्यस्य पुंसो भवति भामिनी ॥२५५॥ कलाकलापनिष्णाता विज्ञाना केकया ततः । विज्ञाय तनयाकूतं कर्णे प्रियमभाषत ।। २५६ ॥ भरतस्य मया नाथ शोकवल्लक्षितं मनः । तथा कुरु यथा नायं निर्वेदं परमृच्छति ॥ २५७ ।।
Page #52
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
अष्टाविंशतितमं पर्व।
अस्त्यत्र कनको नामजनकस्यानुजो नृपः । सुप्रभायां ततो जाता सुकन्या लोकसुंदरी ॥२५८॥ स्वयंवराभिधं भूयः समुद्घोष्य नियोज्यतां । तथायं यावदायाति नान्यं तं भावनांतरं ॥२५९॥ ततः परममित्युक्त्वा वार्ता दशरथेन सा । कर्णगोचरमानीता कनकस्य सुचेतसः ॥ २६० ॥ यदाज्ञापयतीत्युक्त्वा कनकेनान्यवासरे । समाहूता नृपाः क्षिप्रं गता ये निलयं निजं ॥२६॥ ततो यथोचितस्थानस्थितभूनाथमध्यगं । नक्षत्रं गणमध्यस्थं शर्वरीवरविभ्रमं ॥ २६२ ॥ उपात्तसुमनोदामा कानकी कनकप्रभा । सुप्रभा भरतं वत्रे सुभद्रा भरतं यथा ॥ २६३ ॥ अत्यंतविषमीभावं पश्य श्रेणिक कर्मणां । यतोऽसौ संप्रबुद्धः सन् कन्यया मोहितः पुनः॥२६४॥ विलक्षाः पार्थिवाः सर्वे जग्मुः स्थानं यथायथं । अस्थुश्च विकथाशक्त्या बंधुवर्गसमागमे।।२६५॥ यादृक् येन कृतं कर्म भुंक्त तादृक् स तत्फलं। नझुप्तान् कोद्रवान् कश्चिदश्नुते शालिसंपदं २६६।। केतुतोरणमालाभिमंडितायां महाद्युतौ । अगुल्फकुसुमापूर्णा विशाला पण्यवत्मनि ॥ २६७ ।। स शंखतूर्यनिस्वानपूरिताखिलवेश्मनि । मिथिलायां तयोश्चके विवाहः परमोत्सवः ॥ २६८ ॥ द्रविणेन तथा लोकः सकलो परिपूरितः । महाप्रलयमायातं देहीति ध्वनितं यथा ॥ २६९ ॥ ये विवाहोत्सवं दृष्टुं स्थिता भूपाः सुचेतसः । परमं प्राप्य सन्मानं ययुस्ते स्वं स्वमालयं २७०
Page #53
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४४
सकलविष्टपनिर्गतकीर्तयः । परमरूपपयोनिधिवर्तिनः ॥ पितृजनार्पित संमदसंपदः । परमरत्नविभूषितविग्रहाः || २७१ ॥ विविधयानसमाकुलसैनिकाः । जलनिधिस्वनतूर्यनिनादिताः ॥ विविशुरभ्युदयेन सुकोशलां । दशरथस्य सुता वधुके तथा ।। २७२ ।। समवलोकितुमुत्तमविग्रहे । पुरि तदा वधुके सकलो जनः ॥
रहितसामिकृतिस्वमनः क्रियः । श्रयति राजपथं भृशमाकुलः ।। २७३ ।। कृतसमस्तजनप्रतिमाननाः । पुरुगुणास्तवसन्नतमूर्तयः ||
स्वनिलयेषु महासुखभोगिनो । दशरथस्य सुताः सुधियः स्थिताः ॥ २७४ ॥ समवगम्य जनाः शुभकर्मणः । फलमुदारमशोभनतोऽन्यथा ॥
कुरुत कर्म बुधैरभिनंदितं । भवत येन खेरधिकप्रभाः ।। २७५ ।। इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते रामलक्ष्मणरत्नमालाभिधानं नामाष्टाविंशतितमं पर्व
1
अष्टाविंशतितमं पर्व ।
Page #54
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एक्रोनत्रिंशत्तम पर्व । एकोनत्रिंशत्तमं पर्व। आषाढधवलाष्टम्याः प्रभृत्यथ नराधिपः । महिमानं जिनेंद्राणां प्रयतः कर्तुमुद्यतः ॥ १॥ सर्वाः प्रियास्तदा तस्य तनया बांधवास्तथा । विधातुं जिनींबंबानामिति कर्तव्यमुद्यताः ॥२॥ पिनष्टि पंचवर्णानि कश्चिच्चूर्णानि सादरः । कश्चिद्ग्रथ्नाति माल्यानि लब्धवर्णः सुभक्तिषु॥३॥ वासयत्युदकं कश्चिद्रवयत्यपर क्षितिं । पिनष्टि परमान् गंधान कश्चिद्वहुविधच्छवीन् ॥ ४ ॥ द्वारशोभां करोत्यन्यो वासोभिरतिभासुरैः । नानाधातुरसैः कश्चित्कुरुते भित्तिमंडनं ॥५॥ एवं जनः परां भक्तिं वहन् प्रमदपूरितः । जिनपूजासमाधानात्पुण्यमर्जयदुत्तमं ॥६॥ ततः सर्वसमृद्धीनां कृतसंभारसन्निधिः । चकार स्नपनं राजा जिनानां तूर्यनादितं ॥ ७॥ अष्टाहोपोषितं कृत्वाभिषेकं परमं नृपः । चकार महती पूजां पुष्पैः सहजकृत्रिमैः ॥ ८॥ यथा नंदीश्वरे द्वीपे शक्रः सुरसमन्वितः । जिनेंद्रमहिमानंदं कुरुते तद्वदेव सः॥९॥ ततः सदनयातानां महिषीणां नराधिपः । प्रजिघाय महापूतं शांतगंधोदकं कृती ॥१०॥ तिसृणां तरुणीस्त्रीभिनीतं शांत्युदकं द्रुतं । प्रतीता मस्तके चक्रुस्ततो दुरितनोदनं ॥ ११ ॥
Page #55
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
M
एकोनत्रिंशतमं पर्व। वृद्धकंचुकिनो हस्ते दत्तं जिनवरोदकं । अप्राप्य सुप्रभा कोपं शोकं च परमं गता ॥ १२ ॥ अचिंतयच्च नो साध्वी बुद्धिरेषा महीभृतः । यदेता मानिता नाहं शांतिवारिविसर्जनात् ॥१३॥ को वात्र नपतेर्दोषः प्रायः पुण्यं पुरा मया । नार्जितं येन संप्राप्ता निकारमिदमीदृशं ॥ १४ ॥ पुण्यवत्य इमा श्लाघ्या महासौभाग्यसुंयुताः । पूतं यासां जिनेंद्रांबु प्रीत्या प्रहितमुत्तमं ॥१५॥ अपमानेन दग्धस्य हृदयस्यास्य मेऽधुना । शरणं मरणं मन्ये तापः शाम्यति नान्यथा ।। १६ ॥ विशारसंज्ञमाहूय भांडागरिकमेककं । जगाद भद्र नाख्येयं त्वयेदं वस्तु कस्यचित् ॥ १७॥ विषेणात्यंतपरमं मम जातं प्रयोजनं । तदानय द्रुतं भक्तिर्मयि चेत्तव विद्यते ॥१८॥ गत्वा स यावदन्विष्यश्विरयत्यतिशंकितः । तावत्तल्पगृहं गत्वा सातिष्ठत्स्रस्तगात्रिका ॥ १९ ॥ नृपतिश्चागतो वीक्ष्य प्रियास्तिस्रस्तया विना | समन्विष्यागमत्तस्याः समीपं त्वरितक्रमः।।२०॥ अपश्यञ्च मनश्चौरीमंशुकच्छन्नविग्रहां । अनादरेण सत्तल्पे शक्रयष्टिमिव स्थितां ॥ २१॥ गृहाण तदिदं देवि क्ष्वेडमित्यवदच्च सः । प्रेष्यो दशरथश्चैतं देशं प्राप्याशृणोद्धनि ।। २२ ॥ हा देवि किमिदं मुग्धे प्रारब्धमिति च ब्रुवन् । स निराकरोद्भजिष्यंतं तत्तल्पे चोपविष्टवान् २३ राजानमागतं ज्ञात्वा सहसा सत्रपोत्थिता । क्षितावुपविविक्षती कांतेनांके निवेशिता ॥२४॥
Page #56
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। अवाचि च प्रिये कस्मात्कोपं प्राप्ता त्वमीदृशं । सर्वतो दयिते येन जीवितेप्यसि निस्पृहा ॥२५॥ सर्वतो मरणं दुःखमन्यस्मादुःखतः परं । प्रतिकारस्तु यद्यस्य तदुःखं वद कीदृशं ॥ २६ ॥ त्वं मे हृदयसर्वस्वं दयिते वद कारणं । क्षणेनापनयं यस्य करिष्यामि वरानने ॥ २७॥ श्रुतं वेत्सि जिनेंद्राणां सदसद्गतिकारणं । तथापि मतमीहक्ते धिक्कोपं ध्वांतमुत्तमं ॥ २८ ॥ प्रसीद देवि कोद्यापि कोपस्यावसरस्तव । प्रसादध्वनिपर्यंतप्रकोपा हि महास्त्रियः ॥ २९ ॥ तयोक्तं नाथ कः कोपस्त्वयि मे दुःखमीदृशं । समुत्पन्न न यद्याति शांति पंचयता विना॥३०॥ देवि तत्कतरं दुःखमित्युक्तैवमभाषत । शांत्यंबुदानमन्यासां मम नेति कुतो वद ॥ ३१ ॥ दृष्टेन केन कार्येण हीनाहं विदिता त्वया । यदवंचितपूर्वास्मि वंचिता पंडिताधुना ॥ ३२ ॥ यावदेवं वदत्येषा तावदायाति कंचकी । देवि जैनांबु नाथेन तुभ्यं दत्तमिति ब्रुवन् ॥ ३३॥ अत्रांतरे प्रियाः प्राप्ता इतरास्तामिदं जगुः । अयि मुग्धे प्रसादस्य स्थाने प्राप्तासि किं रुषा ३४ यस्यास्माकं जुगुप्साभि सीभिर्जलमाहतं । वरिष्ठेन पवित्रेण तव कंचुकिनामुना ॥ ३५ ॥ ईदृशी नाम नाथस्य संप्रीतिर्भवतीं प्रति । यतोयं जनितो भेदः किमकांडे प्रकुप्यसि ॥ ३६॥ प्रसीद दयितस्यास्य लमस्यैव प्रयत्नतः । प्रणयादपराधेऽपि ननु तुष्यंति योषितः ॥ ३७ ॥
Page #57
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
. ४८
एकोनत्रिंशत्तमं पर्व। दयिते क्रियते यावत्कोपो दारुणमानसे । तावत्संसारसौख्यस्य विघ्नं जानीहि शोभने ॥३८॥ विपादयितुमस्माकमात्मानपुचितं ननु । किंत्वत्र जिनचंद्राणां वारिणां नः प्रयोजनं ॥ ३९ ॥ सपत्नीभिरपि प्रीतमिति सांत्वितया तया । चक्रे शांत्युदकं मूर्धि रोमांचार्चितगात्रया ॥ ४० ॥ ततः प्रकुपितोऽवोचद्राजा कंचुकिन तकं । व्याक्षेपः क नु ते जातो वदापसद कंचुकिन्॥४१॥ ततो भयाद्विशेषेण कंपिताखिल विग्रहः । कंचुकी कथमप्यूचे क्षितिजानुशिरोंजलिः ॥ ४२ ॥ हृदयस्थापिता कृच्छादानीता वक्त्रगोचरं । ओष्ठे प्रणिहिता वर्णा व्यलीयंतेस्य भूरिशः ॥४३॥ सखत्कारं मुहुःकुर्वन् स्फुरयन्नधरं मुहुः । हृदयं संस्पृशन् कृच्छ्रादुपनीतेन पाणिना ॥ ४४ ॥ पश्चान्मस्तकभागस्थश्चंद्रांशुसितमूर्द्धजः । मंदवाताहतश्वेतचामरोपमकूर्चकः ॥ ४५ ॥ मक्षिकाच्छदनच्छातत्वक्तिरोहितकैकसः । धवलिभ्रुवलिच्छन्नशोणप्रभनिरीक्षणः ॥ ४६॥ अभिलक्ष्य शिराजालसंवेष्टितचलत्तनुः । असंपूरितपुस्ताभः कृच्छ्राद्वासोऽपि धारयन् ॥ ४७॥ हिमाहत इवात्यर्थ कपोलौ कंपयन् श्लथौ । विवक्षया मुहुर्जिह्वां स्थानानि स्खलितां नयन्॥४८॥ अप्येकाक्षरनिष्पति मन्यमानो महोत्सवं । वर्णातराभिसंधानाद्वर्णमन्यं समुच्चरन् ॥ ४९ ॥ संधानवर्जितान् वर्णान् परमश्रमकारिणः । कंटकानिव कृच्छ्रेण मुमोच परिजजेरात् ॥ ५० ॥
Page #58
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। जराधीनस्य मे नाथो किमागो भृत्यवत्सलः । संप्राप्तोऽसि यतः कोपं देव विज्ञानभूषण ॥५१॥ पुरा करिकराकारभुजं ककेशमुन्नतं । पीनोत्तुगं महोरस्कमालानसदृशोरुकं ।। ५२ ॥ आसीन् मम वपुः शैलराजकूटसमाकृति । कर्मणामिति चित्राणां कारणं परमोदयं ॥ ५३ ॥ अभूतां चूर्णने देव शक्ती हस्तकपाटयोः । करौ पाणिप्रहारश्च पर्वतस्यापि भेदकः ॥ ५४ ॥ उच्चावच्चां क्षितिं वेगात्पुराहं परिलंघयन् । राजहंस इवावायं नाथ स्थानमभीप्सितं ॥ ५५ ॥ आसीत् दृष्टेरवष्टभस्तादृशा मम पार्थिव । आमन्येऽपि क्षितेरीशं यादृशेन तृणोपमं ॥ ५६ ॥ अंगनाजनदृष्टीनां मनसां च महास्थिरं । आलानमेतदासीन्मे शरीरं चारुविभ्रमं ॥ ५७ ॥ लालितं परमै गैः प्रसादेन पितुस्तव । विसंघटितमेतन्मे कुमित्रमिव सांप्रतं ॥ ५८॥ अधत्त यः पुरा शक्ति रिपुदारणकारिणीं । करेण यष्टिमालंव्य तेन भ्राम्यामि सांप्रतं ॥ ५९॥ विक्रांतपुरुषाकृष्टशरासनसमं मम । पृष्टास्थि स्थितमाक्रांते मूर्ध्नि मृत्योरिवांघ्रिणा ॥६० ॥ दंतस्थानभवा वर्णाश्चिरं क्वापि गता मम । ऊष्मवर्णोष्मणा तापमशक्ता इव सेवितुं ॥ ६१ ॥ आलंबे यदि नो यष्टिमेतां प्राणगरीयसीं । क्षितौ पतेत्ततः पक्वमिदं हतशरीरकं ॥ ६२ ॥ वलीनां वर्तते वृद्धिरुत्साहस्य परिक्षयः । राजन् श्वसिमि देहेन यदेतेन तदद्भुतं ॥६३ ॥
Page #59
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनत्रिंशत्तमपर्व।
अद्य स्वीनममुं कायं जरया जर्जरीकृतं । नाथ धतुं न शक्नोमि वाद्ये वस्तुनि का कथा ॥ ६४॥ नितांतपटुताभांजि हृषीकाणि पुरा मम । संप्रत्युद्देशमात्रेण स्थितानि जडचेतसः॥६५॥ पदमन्यत्र यच्छामि पतत्यन्यत्र दुर्घटे । श्याममेवाखिलं दृष्टया पश्यामि धरणीतलं ॥ ६६ ॥ गोत्रक्रमसमायातमिदं राजकुलं मम । यत शक्नोपि न त्यक्तुमपि प्राप्येदृशी दशां ॥ ६७ ॥ पकं फलमिवैतन्मे शरीरं कापि वासरे । नेष्यत्याहारतां मृत्युमर्मरच्छदनोपमां ॥ ६८॥ न तथासन्नमृत्योर्मे स्वामिन् संजायते भयं । भवच्चरणसंसेवाविरहाद्भाविनो यथा ॥ ६९ ॥ व्याक्षेपो मे कुतः कश्चिद्दधतस्तनुमीदृशीं । भवदाज्ञा प्रतीक्ष्यैव यस्य जीवितकारणं ॥ ७०॥ स त्वं नाथ जराधीनं मम ज्ञात्वा शरीरकं । कोपमर्हसि नो कर्तुं धीर धत्स्व प्रसन्नतां ॥७१ ॥ निशम्य तद्वचो राजा गंडं कुंडलमंडितं । वामे करतले न्यस्य चिंतामेवमुपागमत् ॥ ७२ ॥ जलबुद्धदनिस्सारं कष्टमेतच्छरीरकं । संध्याप्रकाशसंकाशं यौवनं बहुविभ्रमं ॥ ७३ ॥ सौदामिनीत्वरस्यास्य कृते देहस्य मानवाः । आरंभते न किं कृत्यं नितांतं दुःखसाधनं ।।७४॥ अतिमत्तांगनापांगभंगतुल्याः प्रतारकाः । भोगिभोगसमाभोगास्तापोपचयकारिणः ॥ ७५ ॥ विषयेषु यदायत्तं दुष्प्रापेषु विनाशिषु । दुखमेतद्विमूढानां सुखत्वेनावभासते ॥ ७६ ॥
Page #60
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। आपातरमणीयानि सुखानि विषयादयः। किपाककलतुल्यानि चित्रं प्रार्थयते जनः ॥ ७७ ॥ पुण्यवंतो महोत्साहाः प्रबोधं परमं गताः । विषवद्विषयान् दृष्टा ये तपस्यंति सज्जनाः ॥ ७८ ॥ कदा नु विषयांस्त्यक्त्वा निर्गतः स्नेहचारकात् । आवरिष्यामि जैनेंद्रं तपो निवृतिकारणं॥७९॥ सुखेन पालिता क्षोणी भुक्ता भोगा यथोचिताः । विक्रांता जनिता पुत्रा किमद्यापि प्रतीक्ष्यसे । अन्वयवतमस्माकमिदं यत्सूनवे श्रियं । दत्वा संवेगिनो धीराः प्रविशंति तपोवनं ॥ ८१ ॥ चिंतयित्वाप्यसावेवं राजा कर्मानुभावतः । भोगेषु शिथिला शक्तिर्गृह एव रतिं ययौ ॥ ८२ ॥ यत्प्राप्तव्यं यदा येन यत्र यावद्यतोऽपि वा । तत्प्राप्यते तदा तेन तत्र तावत्ततो ध्रुवं ॥८३ ॥ कियत्यपि ततोऽतीते काले मगधसुंदरः । पर्यटन विधिना क्षोणीसंघेन महतावृतः ।। ८४ ॥ सर्वभूतहितो नाम सर्वभूतहितो मुनिः । नगरी तां समायासीन्मनःपर्ययवेदकः ॥ ८५॥ सरस्याश्च तटे कालं श्रांतं संघमतिष्ठिपत् । पितेव पालयन् न्यस्तकायवामानसक्रियः ॥ ८६ ॥ प्राग्भावेषु स्थिताः केचिद्गुहास्वन्ये तपस्विनः । केचिद्विविक्तगेहेषु केचिज्जैनेंद्रवेश्मसु ॥८७॥ नगानां कोटरेष्वन्ये यथाशक्तिसमुद्यताः । तपांसि चराचार्यादधिगम्यानुमोदनां ॥ ८८ ॥ आचार्यस्तु विविक्तैषी पुर्या उत्तरपश्चिमां । तपः समुचितं क्षेत्रं विशालमतिसुंदरं ॥ ८९ ॥
Page #61
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। उद्यानं स महावृक्षं सयूथ इव वारणः । प्रविवेशात्मदशमो महेंद्रोदयकीर्तनं ॥ ९ ॥ तस्मिन् शिलातले रम्ये विपुले निर्मले समे । पशूनामंगनानां च पंडुकानां च दुर्गमे ॥ ९१ ॥ द्वेषिलोकविमुक्तेसौ सूक्ष्मप्राणिविवर्जिते । दूरावष्टंभशाखस्य स्थितो नागतरोरधः ॥ ९२ ॥ मार्तडमंडलच्छायो गंभीरः प्रियदर्शनः । वर्षाः क्षपयितुं तस्थौ कर्माणि च महामनाः ॥ ९३ ॥ संप्राप्तश्च महाकालः प्रवासिजनभैरवः । प्रस्फुरद्विधुदुर्गोष्टक्रूरधाराधरध्वनिः ॥ ९४ ॥ तर्जयनिव लोकस्य कृततापं दिवाकरं । भयात्पलायितं कापि स्थूलधारांधकारतः ॥ ९५ ॥ जातमुर्वीतलं सम्यक् कंचुकेन कृतावृतिः । वर्द्धते सुमहानद्यो वीचिपातितरोधसः ॥ ९६ ॥ जायते प्राप्तकंपानां चित्तोद्भांतिः प्रवासिनां । असिधारात्रतं जैनो जनो सक्तं निषेवते ॥ ९७ ॥ भूरिशोवग्रहांश्चक्रुमुनयः क्षितिगोचराः । स्वयानलब्धयश्चैते पांतु त्वा मगधाधिप ॥ ९८॥ अथ भेरीनिनादेन शंखनिस्वनशोभिना । दोषांते कोशलानाथो विवृद्धो भास्करो यथा ॥१९॥ ताम्रचूडाः खरं रेणुदंपतीनां वियोजकाः । सारसाश्चक्रवाकाश्च सरसीषु नदीषु च ॥ १० ॥ भेरीपणववीणाथैगीतैश्च सुमनोहरैः । व्यावृतश्चैत्यगेहेषु जायते विपुलो जनः ॥ १०१॥ विघूर्णमाननयनः सकलारुणलोचनः । विमुंचते जनो निद्रां प्रियामिव न्हियान्वितः॥ १०२ ॥
Page #62
--------------------------------------------------------------------------
________________
फ्नपुराणम् ।
एकोनत्रिंशत्तमंपर्व। प्रदीपाः पांडुरा जाता शशांकश्च गतप्रभः । विकासं यांति पद्मानि कुमुदानि निमीलनं ॥१०३॥ ध्वस्ता ग्रहादयः सर्वे दिवाकरमरीचिभिः । जिनप्रवचनज्ञस्य वचनैवोदिनो यथा ॥ १०४ ॥ एवं प्रभातसमये संपन्नेत्यंतनिर्मले । कृत्वा प्रत्यंगकर्माणि नमस्कृत्वार्चितं जिनं ॥ १०५ ॥ आरुह्य वासितां भद्रां कुथापटविराजितां । शतैरवनिनाथानां सेव्यमानोऽमरत्विषां ॥ १०६ ॥ देशे देशे नमस्कुर्वन् मुनींश्चैत्यालयांस्तथा । महेंद्रोदयमुर्वीशो ययौ छत्रोपशोभितः ।। १०७॥ विष्टपानंदजननीविभूतीस्तस्य भूभृतः । राजन् संवत्सरेणापि शक्या कथयितुं न सा ॥१०८॥ मुनिरायातमात्र: सन् गुणरत्नपयोनिधिः । श्रोत्रयोर्गोचरं तस्य संप्राप्तस्तत्र मंडले ॥ १०९ ॥ करेणोरवतीर्यासौ राजामितपरिच्छदः । महाप्रमोदसंपूर्णो विवेशोद्यानमेदिनीं ॥ ११० ॥ विन्यस्य भक्तिसंपन्नः पादयोः कुसुमांजलिं । सर्वभूतहिताचार्य शिरसा स नमस्करोत् ॥१११।। ततः सिद्धावसंवद्धामश्रृणोद्गुरुतः कथां । अनुयोगान्यतीतानां माविनां च महात्मनां ॥ ११२ ॥ लोकं द्रव्यानुभावांश्च युगानि च यथाविधि । स्थिति कुलकराणां च वंशांश्च बहुधागतान् ११३ पदार्थान् सर्वजीवादीन् पुराणानि च सादरं । श्रुत्वा प्रणम्य संघेशं नगरं पार्थिवोऽविशत् ११४ दत्वा स्थानं क्षणमवनिभृन्मंत्रिणां स क्षितीशां । कृत्वा जैनी गुणगणकथां विस्मयं चातिपूर्णः॥
Page #63
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। अंतर्गेहं प्रविशति तदा मज्जनादि क्रियाश्च । प्रीतश्चक्रे विपुलविभवः स प्रजापत्यभिख्यः ११५ संपूर्णानां परममहसा चंद्रकांताननानां । चक्षुश्चेतोहरणनिपुणैर्विभ्रममंडितानां ॥ श्रीतुल्यानां परमविनयं विभ्रतीनां प्रियाणां । पद्मालीनां रविरिव रतिं तत्र कुर्वन् स तस्थौ ११६ इत्याचे रविषेणाचार्यप्रोक्त पद्म-चरिते दशरथवैराग्यसर्वभूतहितागमाभिधानं नाम एकोनत्रिंशत्तम पर्व ।
अथ त्रिंशत्तमं पर्व। सतः कालो गतः क्वापि धनौघडमरो नृपः । प्रोद्यधुपुष्कर धौतमंडलाग्रसमप्रभं ॥१॥ पद्मोत्पलादिजलजपुष्पमुन्मादकृद्धभौ । साधूनां हृदयं यद्भभूव विमलं जलं ॥२॥ शरत्कालः परिप्राप्तः प्रकटं कुमुदैईसन् । नष्टमिंद्रधनुर्जाता धरणी पंकवर्जिता ॥३॥ विद्युत्संभावनायोग्यास्तूलराशिसमत्विषः । क्षणमात्रमदृश्यंत घनलेश्या क्वचित्क्वचित् ॥ ४॥ संध्यालोकललामोष्ठी ज्योत्स्नातिविमलांबरा | निशानववधर्भाति चंद्रचूडामणिस्तदा ॥५॥ चक्रवाककृतच्छाया मत्तसारसनादिताः । वाप्यः पद्मवनभ्राम्यद्राजहंसैविराजिरे ॥६॥
Page #64
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व।
भामंडलकुमारस्य सीतां चिंतयतस्तु तत् । क्रतुनार्चितमप्येवं जातमग्निसमं जगत् ॥ ७ ॥ अरत्याकर्षितांगोसौ परित्यज्यान्यदा त्रपां । पितुः पुरः परं मित्रं वसंतध्वजमब्रवीत् ॥८॥ दीर्घसूत्रो भवानेवं परकार्येषु शीतलः । गणरात्रमिदं दुःखं तस्यां मे गतवेगतः ॥९॥ उद्वेगविपुलावर्ते प्रत्याशाजलधौ मम । निसर्गतः सखे कस्माद्दीयते नावलंबनं ॥१०॥ इत्यार्तध्यानयुक्तस्य निषम्य गदितं बुधाः । सर्वे गतप्रभाभूता विषादं परमं ययुः ॥ ११ ॥ तान् वीक्ष्य शोकसंतप्तान्वारणानिव शुष्यतः । आवर्जितशिरोनीडां क्षणं भामंडलोऽगमत् ॥१२॥ वृहत्केतुस्ततोऽवोचत्किमद्याप्युपगुह्यते । निवेद्यतां कुमारस्य निराशो येन जायते ॥ १३ ॥ ततस्ते कथयांचक्रुस्तस्मै सर्व यथाविधि । चंडयानं पुरस्कुत्य कथमप्युज्झिताक्षराः ॥ १४ ॥ जनको बालकन्यायादिहैवास्माभिराहृतः । याचितश्चातियत्नेन पद्मस्योचे प्रकल्पितां ॥ १५ ॥ उक्तप्रत्युक्तमालाभिरमाभिस्तेन निर्जितैः । धनूरत्नावधिश्चके कृतसन्मंत्रणैः किल ॥१६॥ धनूरत्नलता तस्य रामस्याक्लिष्टकर्मणः । शार्दूलस्य क्षुधार्तस्य मांसपेशी यथार्पिता ॥ १७ ॥ कन्या स्वयंवरा साध्वी कथाहृदयहारिणी । नवयौवनलावण्यपरिपूरितविग्रहा ॥ १८ ॥ अबालेंदुमुखी बाला मदनेन समर्पिता । वैदेही रामदेवस्य श्रीसमा वनिताभवत् ॥ १९ ॥
Page #65
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व । न चापे सांप्रतं जाते गदासीरादिसंयुते । अमराधिष्ठिते नापि कन्या त्रैलोक्यसुंदरी ॥२०॥ अपि द्रष्टुं न ये शक्ये सुपर्णोरंगदानवैः । रामलक्ष्मणवीराभ्यामाकृष्टे ते शरासने ।। २१ ।।। प्रसह्य साधुना हर्तुमशक्या त्रिदशैरपि । किमुतात्यंतमस्माभिनिस्सारैधनुषी विना ॥ २२ ॥ पूर्वमेव हृता कस्मान्नेति चेन्मन्यते शिशो । यज्जामाता दशास्यस्य जनकस्य सुहृन्मधुः ॥२३॥ अवगम्य कुमारैवं विनीतः स्वस्थतां भज । शक्रोति न सुरेंद्रोऽपि विधातुं विधिमन्यथा ॥२४ ।। ततः स्वयंरोदंतं श्रुत्वा भामंडलो बिया । विषादेन च संपूर्णः कृच्छ्रे चिंतांतरं गतः ॥२५॥ निरर्थकमिदं जन्म विद्याधरतया समं । यतः प्राकृतवत्कश्चिन्न संप्राप्तोऽस्मि तां प्रियां ॥ २६ ॥ ईयाक्रोधपरीतश्च सभामाह हसनसौ । वाचः खेचरताभीतिं भजतां भूमिगोचरात् ॥ २७ ॥ आनयाम्येष सत्कन्यां स्वयं निर्जित्य भूचरान् । न्यासापहारिणां कुर्वे पक्षाणां च विनिग्रहं २८ इत्युक्त्वासौ सुसन्नह्य विमानी वियदुद्गतः । पुरकाननसंपूर्ण प्रथिवीतलमैक्षत ॥ २९ ॥ ततो दृष्टिगता तस्य विदग्धविषये क्रमात् । महीधसंकटे रम्ये नगरे चात्मसेविते ॥ ३० ॥ दृष्टं मया कदाप्येतदिति चिंतामुपागतः । जातिस्मरत्वमासाद्य समवाप्य स मूर्छनं ॥ ३१ ॥ पितुरंते ततो नीतः सचिवैराकुलात्मकैः । चंदनद्रवसिक्तांगः प्रमदाभिः प्रबोधितः ॥ ३२ ॥
Page #66
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशचमं पर्व ।
अन्योन्यं दत्तनेत्रं च हसित्वा ताभिरौच्यत । कुमार युक्तमेतत्ते कातरत्वमनुत्तमं ॥ ३३ ॥ अदृष्ट्वावनिचर्यार्थं निश्शेषरहितं नयः । गुरूणामग्रतो मोहं यत्प्राप्तोऽसि विचक्षणः || ३४ ॥ भज खेचरनाथानां कन्या देव्यधिकप्रभाः । जनजल्पनकं व्यर्थ वृत्तं सुंदर माकृथाः || ३५ ।। ततोसावत्रीदेवं व्रीडाशोकनताननः । धिग्मया घनमोहेन विरुद्धं चिंतितं महत् || ३६ || नीचानामपि नात्यंतमीदृशं कर्म युज्यते । अहो कर्मभिरत्यर्थमशुभैरभिचेष्टितः ।। ३७ । एकस्मिन्नुषितः कुक्षौ कापि सार्धमहं तया । दुष्कर्मविगमाज्ज्ञाता कथंचित्साधुना मया ॥ ३८ ॥ ततस्तं शोकभारेण पीडितं चंद्रविक्रमः । अंकमारोप्य चुंबित्वा पप्रच्छ पुरुविस्मयः ॥ ३९ ॥ वद पुत्रक किंत्वेत्वदीदृशं भाषितं त्वया । सोवोचत्तात वक्तव्यं चरितं श्रृणु मामकं ॥ ४० ॥ पूर्वजन्मनि वास्येऽस्मिन् विदग्धनगरे नृपः । अभूवं परराष्ट्राणां ध्वंसको मंडितध्वनिः ॥ ४१ ॥ सर्वस्यामवनौ ख्यातः सततं विग्रहप्रियः । पालको निजलोकस्य महाविभवसंयुतः ॥ ४२ ॥ हृता तत्र मया जाया विप्रस्याशुभकर्मणा । माययाऽपाकृतश्चासौ गतः काप्यतिदुःखितः ||४३|| ततोनरण्य सेनान्या गमितस्तुषशेषतां । पर्यटन् धरणीं कापि प्राप्तोऽस्मि मुनिसंश्रयं ॥ ४४ ॥ तत्र त्रिलोकपूज्यानां सर्वज्ञानां महात्मनां । मतं भगवतां प्राप्तमहतां पावनं मया ॥ ४५ ॥
५७
Page #67
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तमं पर्व। तत्र बांधवभूतस्य गुरोः शासनतो मया । अनामिषं व्रतं शुद्धं गृहीतं क्षुद्रशक्तिना ।। ४६ ॥ शासनस्य जिनेंद्राणामहो माहात्म्यमुत्तमं । तथापि यन्महापापो नावतीर्णोऽस्मि दुर्गतिं ॥४७॥ अनन्यशरणत्वेन व्रतेन नियमेन च । स ममान्येन जीवेन विदेहाकुक्षिमागमत् ॥ ४८ ॥ सुखेन च प्रसूता सा कन्यया सहितं तु के । केनाप्यपहतश्चायं गृध्रेण पिशितं यथा ॥ ४९ ॥ नक्षत्रगोचरातीतं तेन नीतोऽस्मि पुष्करं । असौ नूनं स यस्यासौ हृता जाया मया पुरा ॥५०॥ मारयामीति तेनोक्त्वा भूयः कृत्वानुकंपनं । शनैरस्मि विमुक्तः खात् कुंडलाभ्यामलंकृतं ॥५१॥ पतद्वीक्ष्य तदा रात्रावुद्याने परमे त्वया । गृहीत्वा तात दत्तोस्मि जायायै करुणावता ॥५२॥ सोहं भवत्प्रसादेन तदंके वृद्धिमागतः । परं विद्याधरत्वं च कृतदुर्लडितक्रियः ॥ ५३॥ इत्युक्त्वा विररामासौ विस्मयं च जनो गतः । हाकारबहुलं शब्दं कुर्वन् कंपितमस्तकः ॥५४॥ इमं चंद्रगतिः श्रुत्वा वृत्तांतमतिचित्रितं । लोकधर्मतरुं वध्यं विदित्वा भवबंधनं ।। ५५ ।। भूतमात्रमति त्यक्त्वा सुनिश्चित्यात्मकर्मणां । परं प्रबोधमायातः संवेगं च सुदुर्लभं ॥ ५६ ॥ आत्मीयं राज्यमाधाय तत्र पुत्रे यथाविधि । सर्वभूतहितस्यागात्पादमूलं त्वरान्वितः ॥ ५७ ॥ भगवान् स हि सर्वत्र विष्टपे प्रथितात्मकः । गुणरश्मिसमूहेन भव्यानंदविधायिना ॥ ५८ ॥
Page #68
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तमं पर्व ।
महेंद्रोदययातं तमभ्यर्च्य प्रणिपत्य च । स्तुत्वा च भावतोवादीदेवं मूर्धाहितांजलिः ।। ५९ ।। भगवंस्त्वत्प्रसादेन संप्राप्य जिनदीक्षणं । तपोविधातुमिच्छामि निर्विण्णो गृहवासतः ॥ ६० ॥ एवमस्त्विति तेनोक्तेनारंभे स समाहिताः । भामंडलः परं चक्रे महिमानं च भावतः ।। ६१ ।। कलं प्रवरनारीभिर्गीतं वंशस्वसानुगं । जगर्ज तूर्यसंघाताः करतालसमन्विताः ॥ ६२ ॥ श्रीमान् जनकराजस्य तनयो जयतीति च । इत्युच्चैर्वेदिनां नाद: संजज्ञे प्रतिनादवान् || ६३ || तेनोद्यानसमुत्थेन नादेन श्रोत्रहारिणा । नक्तं कृतो विनीतायां कृतनिद्रोऽखिलोजनः ॥ ६४ ॥ ऋषिसंबंधमुद्धानं श्रुत्वा जैनाः प्रमोदिनः । जाता जाना विपन्नाश्च मिथ्यादर्शनपूरिताः ||६५ || रोमांचार्चितसर्वांगा विस्फुरद्वामलोचना । सीता सिक्तामृतेनैव बुबुधे ध्वनिनामुना ।। ६६ ।। अचिंतयच्च कोन्वेष जनको यस्य नंदनः । जयतीति मुहुर्नादः श्रूयतेत्यंतमुन्नतः || ६७ ॥ कनकस्याग्रजो राजा ममापि जनकः पिता । जातमात्रश्च मे भ्राता हृतो यः किंत्वसौ भवेत् ६८ ध्वात्वेति सोदरस्नेहसं प्लावितमानसा | मुक्तकंठं रुरोदासौ परिदेवनकारिणी ॥ ६९ ॥ ततो रामभिरामांगः प्रोवाच मधुराक्षरं । कस्माद्रोदिषि वैदेहि भ्रातृशोकेन कर्षिता ॥ ७० ॥ भवत्या यद्यसौ भ्राता स्वो ज्ञातास्मो न संशयः । अथवान्यः क्वचित्कोऽपि पंडिते शोचितेन किं ।।
५९
Page #69
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व ।
कारणं यदतिक्रांतं मृतमिष्टं च बांधवं । हृतं विनिर्गतं नष्टं न शोचंति विचक्षणाः ।। ७२ ॥ कातरस्य विषादोऽस्ति दयिते प्राकृतस्य च । न कदाचिद्विषादोऽस्ति विक्रांतस्य बुधस्य च ७३ एवं तयोः समालापं दंपत्त्योः कुर्वतोः क्षपा । कृपयैव गता शीघ्रं जातमंगलनिस्वना ॥७४ ॥ ततो दशरथः कृत्वा प्रत्यंगवस्तु सादरः । नगरीतो विनिष्क्रांतः ससुतः सांगनाजनः ।। ७५ ।। इतश्चेतश्च विस्तीर्णा पश्यन् खेचरवाहिनीं । ययौ स विस्मयापन्नः सामंतशतपूरितः ॥ ७६ ॥ ईक्षांचके च देवेंद्रपुरतुल्यं विनिर्मितं । क्षणाद्विद्याधरैः स्थानं तुंगप्राकारगोपुरं ॥ ७७ ॥ पताकातोरणैश्चित्रं रत्नैश्च कृतमंडनं । प्रविवेश तदुद्यानं साधुलोकसमाकुलं ॥ ७८ ॥ नत्वा स्तुत्वा च तत्रासौ गुरुं गुणगुरुं नृपः । ददर्शोदयने भानोश्चंद्रयानस्य दीक्षणं ।। ७९ ॥ नभश्चरैः समं पूजां कृत्वा सुमहतीं गुरोः । एकपार्श्वे निविष्टोसौ सर्वबांधवसंगतः ॥ ८॥ श्रीप्रभामंडलोप्येकं पार्श्वमाश्रित्य खेचरैः । समस्तैः सहितस्तस्थौ किंचिच्छोकमित्रोद्वहन् ८१ खेचरा भूचराश्चैते मुनयश्चांतिकं स्थिता । शुश्रुवुर्गुरुतो धर्ममनगारं तथेतरं ॥ ८२ ॥ चरितं निरगाराणां शूराणां शांतमीहितं । शिवं सुदुर्लभं सिद्धं सारं क्षुद्रभयावहं ।। ८३ ।। भव्यजीवा यमासाद्य लभंते संशयोज्झितं । सम्यग्दर्शनसंपन्ना गीवोणेद्रसुखं महत् ।। ८४ ॥
Page #70
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व।
कचित्केवलमासाद्य लोकालोकप्रकाशनं । लोकप्राग्भारमारुह्य भजते नैर्वृतं सुखं ।। ८५ ॥ तिर्यग्नरकदुःखाग्निज्वालाभिः परिपूरितः । संसारो मुच्यते येन तं पंथानं महोत्तमं ॥ ८६ ॥ सर्वप्राणिहितोवोचन्मंद्रगर्जितनिस्वनः । प्रह्लादं सर्वचित्तानां जनयन्विदिताखिलः ॥ ८७ ।। संदेहतापरिच्छेदि तद्वचोंबु मुनींद्रजं । कांजलिपुटैः पीतं प्राणिभिः प्रीतमानसैः॥८८॥ ततो दशरथोऽपृच्छत्संजाते वचनांतरे । चंद्रकीर्तेः खगेंद्रस्य वैराग्यं नाथ किं कृतं ॥ ८९ ॥ सीता तत्र विशुद्धाक्षी ज्ञातुमिच्छुः सहोदरं । शुश्रूषया मनश्चक्रे विनीतात्यंतनिश्चलं ॥ ९० ॥ शुद्धात्मा भगवानूचे शृणु राजन् विचित्रतां । जीवानां निर्मितामेकां कर्मभिः स्वयमर्जितैः॥९१॥ संसारे सुचिरं भ्रांत्या जीवोयमतिदुःखितः । कर्मानिलेरितः प्राप्तश्चंद्रेण द्युतिमंडलः ॥९२ ॥ अर्पितः पुष्पवत्यै च स्त्रीचिंताकुलतारकः । स्वसारं च समालोक्य गाढाकल्पकमागतः॥ ९३ ॥ जनकः कृत्रिमाश्वेन हृतश्चापस्वयंवरा । जाता विदेहजा चिंतां परां भामंडलोऽगमत् ॥ ९४ ॥ अस्मरच्च भवं पूर्व मूर्छितः पुनरश्वसीत् । पृष्टश्चंद्रेण चावोचदिति पूर्वभवकियां ।। ९५ ।। भरतस्थे विदग्धाख्य पुरं कुंडलमंडितः । अधार्मिकोऽहरत्कांतां पिंगलस्य मनःप्रियां ॥ ९६ ॥ बालेंदुहृतसर्वस्वो विषयात्स निराकृतः । श्रमणाश्रममासाद्य प्राप व्रतमनामिषं ।। ९७ ।।
Page #71
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
त्रिंशत्तम पर्व ।
धम्येध्यानगतः कृत्वा कालं कलुषवर्जितः । जनकस्य विदेहायाः स सहायस्तनुश्रितः॥९८ ॥ अरण्याम्पिगलः प्राप्तो दृष्ट्वा शून्यकुटीरकं । कोटरानलजीर्णागदाहदुःखं समाप्तवान् ॥ ९९ ॥ यदर्थ दुःखितो प्राक्षीनेत्रांबुकृतदुर्दिनः । दृष्टा स्यात्पुंडरीकाक्षी रामेत्युन्मत्तविभ्रमः ॥ १० ॥ हा कांत इति कूटांश्च विलापमकरोदिति । प्रभावती सवित्री तां तातं चक्रध्वजं च तं ॥१०१॥ विभूतिमतितुंगांश्च वाधवांश्व सुमानसान् । परित्यज्य मयि प्रीत्या विदेशमपि संगता ॥१०२॥ रूक्षाहारकुवस्त्रत्वं मदर्थ सेवितं त्वया । मामुत्सृज्य क्व यातासि सर्वावयसुंदरि ॥ १०३ ॥ खिन्नोऽसौ धरणीं दुःखं भ्रांत्वा स गिरिकाननान् । वियोगवह्निना दग्धः सोत्कंठस्तपसि स्थितः। ततो देवत्वमासाद्य चिंतामेवमुपागमत् । तिर्यग्योनि किमेता सा कांता सम्यक्त्ववर्जिता ॥१०५॥ स्वभावार्जवसंपन्ना भूयो वा मानुषी भवेत् । जीवितांते जिनं स्मृत्वा किं वा देवत्वमागता॥ इति ध्यायन विनिश्चित्य श्रब्धदृष्टिप्रकोपवान् । क्वासौ शत्रुर्दुरात्मेति ज्ञात्वा कुक्षिसमाश्रितं ॥ प्रसूतमेककं कृत्वा शांतः कर्मनियोगतः । बालं मुमोच जीवेति वदन् विद्यालघूकृतं ॥ १०८ ॥ ज्योत्स्नाकृतादृहासायां रात्रौ प्राप्तः पतंस्त्वया । तदा स्मरसि किं नेदं पुष्पवत्यै समर्पितः १०९ प्राप्तो भवत्प्रसादेन विद्याधरविधिर्मया । नूनं माता विदेहा मे सा च सीता सहोदरी ॥ ११ ॥
Page #72
--------------------------------------------------------------------------
________________
६३
पद्मपुराणम् ।
त्रिंशत्तम पर्व। इत्युक्ते विस्मयं प्राप्ता सर्वा वैद्याधरी सभा । चंद्रायणश्च संविमो न्यस्य भामंडले श्रियं ॥१११॥ माता पिता च ते वत्स दुःखं शोकेन तिष्ठति । तयोर्नेत्रोत्सवं यच्छेत्येवमुक्त्वा समागतः॥११२॥ जातस्य नियतो मृत्युस्ततो गर्भस्थितिः पुनः । इति भीतो भवादेष चंद्रः प्राज्यमाप्तवान् ११३ अत्रांतरे विदेहाजः संशयं परिपृच्छति । स्नेहश्चंद्रायणादीनां मयि कस्मात्परः प्रभो ॥ ११४ ॥ ततः सर्वहितोऽवोचन्निबोध द्युतिमंडलः । यथा पिता च माता च तव पूर्वभवे स्थितौ ॥११५॥ दास्यामे तु विप्रोभूद्विमुचिस्तस्य भामिनी । अनुकोशातिभूतिश्व तनयः सरिसा स्नुषा ॥११६॥ ऊर्या मात्रा सहप्राप्तः कयानाख्योऽन्यदा द्विजः । अहरत्सरसां सारं धनमंतर्गतं च यत् ११७ अतिभूतिश्च तद्धेतोः शोकी बधाम मेदिनीं । ततो निष्पुरुषे गेहे शेषं स्वमपि लुंठितं ॥१८॥ विमुचिर्दक्षिणाकांक्षी देशांतरगतः पुरा । श्रुत्वा कुलकुटं भग्नं निवृत्तस्त्वरयान्वितः ॥ ११९ ॥ तीर्णवस्त्रावशेषांगामनुकोषां सुविह्वलां । सांत्वयित्वा तया सार्धमुर्गा चान्वेष्टुमुद्यतः ॥ १२० ॥ प्रजाभिः पृथिवीपृष्ट कथ्यमानं समंततः । अवधिज्ञानकरणैर्जगद्येनावभासितं ॥ १२१ ॥ तमाचार्य परिप्राप्तः पुरे सर्वारिनामनि । प्रष्टुं किल महाशोको नष्टचित्तस्तुषात्मजः ॥ १२२ ॥ दृष्टा गणेश्वरीमृद्धिं श्रुत्वा च विविधां स्थितिं । तीव्र संवेगमासाद्य विमुचिमुनितां गतः १२३
Page #73
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
६४
त्रिंशत्तम पर्व |
पार्श्वे कमलकांताया आर्याया सुसमाहिता । सममूर्यानुकोशापि प्रव्रज्य तपसि स्थिता ॥ १२४ ॥ त्रयोऽपि ते शुभध्यानाः कृत्वा कालमलोलुपाः । लौकांतिकं गता लोकं नित्यलोकमनाकुलं ॥ अतिभूतिप्रभृतयो हिंसावादस्य शंसकाः । द्वेषकाः संयतानां च कुध्याना दुर्गतिं गता ।। १२६ ।। मृगीत्वं सरसा प्राप्ता वलाहकनगोरसि । व्याघ्रभीता च्युता यूथान्मृता दावानलाहता || १२७|| जाता मनस्विनीदेव्याः सुता चित्तोत्सवाह्वया । दुःखदानप्रवीणस्य प्रशमात्पापकर्मणः ॥ १२८ ॥ कयानः क्रमशो भूत्वा पारसीकः क्रमेलकः । म्रुत्वा पिंगलनामाभूद्भूमकेशस्य नंदनः || १२९ ॥ हंसस्ताराक्षसरसि सोतिभूतिः क्रमादभूत् । श्येनैविलुप्त सर्वांग चैत्यस्य पतिततके ॥ १३० ॥ अध्याप्यमानं गुरुणा यशोमित्रं पुनः पुनः । अश्रौषीदर्हतां स्तोत्रं मुक्तवानथ जीवितं ॥१३१॥ दशवर्षसहस्रायुः किंनरोभून्नगोत्तरे । विदग्धनगरे च्युत्वा जातः कुंडलमंडितः ॥ १३२ ॥ अहरपिंगलः कन्यां तथा कुंडलमंडितः । यदत्रायं पुरावृत्तः संबंधः परिकीर्तितः ॥ १३३ ॥ यो विचिरित्यासीत्सोयं चंद्रगतिर्नृपः । अनुकोशा तु जायास्य जाता पुष्पवती पुनः १२४ कानोयं सुरो हर्ता सरसा हृदयोत्सवा । ऊरी जाता विदेहा तु सोतिभूतः प्रभाह्वयः ॥ १३५ ॥ ततो दशरथः श्रुत्वा तं वृत्तांतमशेषतः । भामंडलं समाश्लिष्य वाष्पपूर्णनिरीक्षणः ॥ १३६ ॥
Page #74
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तमापर्व । अद्भुतैर्जिनमूर्धानो जातरोमोगमा भृशं । आनंदवाष्पलोलाक्षा सभायामभवञ्जनाः ॥ १३७ ॥ उद्गीर्णमाननेनेव प्रीत्या तं वीक्ष्य सोदरं । मृगीव रुदती स्नेहाद्दधावोद्धृतबाहुकाः ॥ १३८ । हा भ्रातः प्रथम दृष्टो मयाद्यासीतिशब्दिनी । तमाश्लिष्य चिरं सीता रुदित्वा धृतिमागता ।। संभाषितः स रामेण संभ्रमालिंगितश्चिरं । लक्ष्मणेन तथान्येन बंधुलोकेन सादरं ॥ १४० ॥ नमस्कृत्य मुनि श्रेष्ठं ततः खेचरभूचराः । उद्यानात्ममदापूर्णा निरीयुः सुविराजिताः॥ १४१॥ भामंडलेन संमंत्र्य द्रुतं दशरथो ददौ । लेख जनकराजस्य नीतं गगनयायिना ॥ १४२ ॥ प्रेषितं भानुमार्गेण तस्य हंसधृतं वरं । यानं विद्याधरैवीरभूरिभिः परिवारितं ॥ १४३ ॥ प्रभामंडलमादाय ततो भूत्यातिकांतया । तुष्टो दशरथोऽयोध्यां सुत्रामसदृशोऽविशत् ॥ १४४ ॥ अक्षीणसर्वकोशोसावुपचारं परं नृपः । प्रीतो भामंडले चक्रे सर्वलोकसमन्वितः ॥ १४५ ॥ रम्ये सुविपुले तुंगे वाप्युद्यानविभूषिते । गृहे दशरथोद्दिष्टे तस्थौ भामंडलः सुखं ।। १४६ ॥ दारिद्रयान्मोचितो लोकः परमोत्सवजन्मना । दानेन वांछिताधिक्यं प्राप्तेन धरणीतले ॥१४॥ गत्वा पवनवेगेन जनको लेखहारिणा । सहसा वर्द्धितो दिष्टया पुत्रागमनजन्मना ॥ १४८ ॥ प्रवाच्य चार्पित लेखं सुदृढ़ः प्रत्ययः परं । प्रमोदं जनकः प्राप रोमांचार्चितविग्रहः ॥ १४९ ॥
Page #75
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
६६
त्रिंशन्तमं पर्व ।
भद्र किं किमयं स्वप्नः स्याज्जाग्रत्प्रत्ययोथवा । एहि दौकस्व ढौकस्व तावन्वाद्य परिष्वजे १५० इत्युक्त्वानंदवाष्पेण तरतारकलोचनः । साक्षात्पुत्रमिव प्राप्तं लेखहारं स सध्वजे ॥ १५१ ॥ नग्नतापरिहारेण देहस्थं वस्त्रभूषणं । ससंभ्रमं ददौ तस्मै मुदा वृत्तमिवाचरन् ॥ १५२ ॥ समेति बंधुलोकोस्य यावद्विद्याभिवर्द्धकः । तावत्तद्यानमायातं छादयद्गनं रुचा || १५३ ॥ अपृच्छत्तस्य वृत्तांतमतृप्तश्च पुनः पुनः । उक्तं विद्याधरैस्तस्य यथावदतिविस्तरं ॥ १५४ ॥ ततो यानं समारुह्य समस्तैर्बंधुभिः समं । निमेषेण परिप्राप्तो विनीतां तूर्यनादितां ।। १५५ ।। अवतीर्यावरादाशु पुत्रमालिंग्य निर्भरं । सुखमीलितनेत्रोसौ क्षणं मूर्छामुपागतः ॥ १५६ ॥ प्रबुध्य च विशालेन चक्षुषा वाष्पवारिणा । आचेचनकमैक्षिष्ट तनयं पाणिना स्पृशन् ॥ १५७॥ माता तं मूर्छिता दृष्ट्रा परिष्वज्य प्रबोधिनी । आचक्रंद सुकारुण्यं तिरश्रामपि कुर्वती ॥ १५८ ॥ परिदेवनमेव च चक्रे पुत्रक हा कथं । हृतोऽसि जातमात्रस्त्वं केनाप्युत्तमवैरिणा ॥ १५९ ॥ त्वदीक्षाचितया देहो दग्धोऽयं वह्नितुल्यया । भवद्दर्शनतो येन चिरान्निर्वापितोऽद्य मे ।। १६० ।। धन्या पुष्पवती सुखी यया तेंऽगानि शैशवे । क्रीडया धूसराय के निहितानि सुचुंचितं ॥ १६१॥ चंदनेन विलिप्तस्य कुंकुमस्थासकांचितं । दधतः शैशवं दृष्टं कौमारं ते तथा वपुः ॥ १६२ ॥
Page #76
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व । नेत्राभ्यामसुमुत्सृज्य स्तनाभ्यां च पयश्चिरं । सुपुत्रसंगमानंदं विदेहा परमं गता ॥ १६३ ॥ अर्हच्छासनदेवीव भैरावतनामनि । सा तत्र लोचने कृत्वा तस्थौ मना सुखांबुधौ ॥१६४॥ मासमात्रमुषित्वातो बंधुसंगममोदिना । पद्मो भामंडलेनोचे विनयं विभ्रतं परं ।। १६५ ॥ वैदेह्याः शरणं देव त्वमेवोत्तमबांधवः । छंदेऽस्या वर्ततां येन नो यात्युद्वेगमेषका ॥ १६६ ॥ स्वसारं च समालिंग्य स्नेहादेनां सुवेष्टितं । उपादिवादसौ भूयो भूयः प्रवरमानसः ॥ १६७ ।। मातालिंग्यागदत्सीतां सुते श्वसुरयोः प्रिये । परिवर्गे च तत्कुर्याः श्लाघ्यतां येन गच्छसि १६८ सर्वानामंत्र्य विन्यस्य कनके मिथिलेशितां । गृहीत्वा पितरौ यातः स्थानं भामंडलो निजं १६९
वीक्ष्यस्व माहात्म्यमिदं कृतस्य । धर्मस्य पूर्व मगधाधिराज ॥
विद्याधरेंद्रो यदवापि बंधुः । सीता च पत्नी गुणरूपपूर्णा ।। १७० ॥ अधिष्ठिते देवगणैश्च चापे । सकंकटे सीरगदादियुक्ते ॥
लब्धे सुरैरप्यतिदुर्लभे ये । पद्मन लक्ष्मीनिलयश्च भृत्यः॥ १७१ ॥ इदं जनो यः सुविशुद्धचेताः । शृणोति भामंडलबंधुयोगं ॥
अभीष्ट योगानरुजश्चिराय । रविप्रभोसौ लभते शुभात्मा ॥ १७२ ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते भामंडलसमागमाभिधानं नाम त्रिंशत्तमं पर्व ।
Page #77
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व ।
अथैकत्रिंशत्तमं पर्व। उवाच श्रेणिको भूपः सर्वधुरनरण्यजः । इमां विभूतिं संप्राप्य चक्रे किं गणनायक ॥ १ ॥ पुरातनं च वृत्तांतं रामलक्ष्मणयोस्तयोः । तवैव विदितं सर्व तन्नो ब्रूहि महायशः ॥२॥ इति पृष्टो महातेजा जगाद मुनिपुंगवः । निरवयं तया तत्त्वं यथा सर्वज्ञभाषितं ॥३॥ स्वसंशयमशेषज्ञं राजा दशरथोन्यदा । प्रणम्य साधुमप्राक्षीत्सर्वभूतहितं हितं ॥४॥ मया जन्मानि भूरीणि परिप्राप्तानि यानि तु । वेदयेकमपि नो तेषां तत्सर्व विहितं त्वया ॥५॥ तान्यहं ज्ञातुमिच्छामि भगवन्नुच्यतामिति । भवत्प्रसादतो मोहं निराकर्तुमहं यजे ॥६॥ श्रोतुं समुद्यतस्यैव भवान् दशरथस्य तु । सर्वभूतहितः साधुरिदं वचनमब्रवीत् ॥ ७॥ शृणु राजन् प्रवक्ष्यामि यन्मां पृच्छसि सन्मते । त्वया पर्यट्य संसारे मतिरासादिता यथा ॥८॥ न त्वयैकेन संसारो भ्रांतोन्यैरपि संसृतः । चिन्वानैः कर्मभिः कर्मदुःखसंजननो महान् ॥९॥ अस्मिन् जगत्रये राजन् जंतूनां स्वहितैषिणां । स्थितयस्तिस्र उद्दिष्टा उत्तमाधममध्यमा ॥१०॥ अभावी च तथा भावी सैहीं च गतिरुत्तमा । पुनरावृत्तिनिर्मुक्ता कल्याणी जिनदेशिता ॥११॥
Page #78
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व।
सेयं सिद्धगतिः शुद्धा सनातनसुखावहा । इंद्रियव्रणरोगातेोहेनधैिर्न दृश्यते ॥ १२ ॥ श्रद्धासंवेगहीनानां हिंसादिष्वनिवर्तिनां । चतुर्गतिकसंवर्ता गतिरुग्रतमो रजा ॥ १३ ॥ अभव्यानां गतिः क्लिष्टा विनाशपरिवर्जिता । भव्यानां तु परिज्ञेया गतिर्निवृतिभाविनी ॥१४॥ धर्मादिद्रव्यपर्यंत लोकालोकमशेषतः । पृथिवी प्रभृतीन्कायानाश्रितांश्चेतनाभृतः ॥ १५ ॥ जीवराशिरनंतोयं विद्यते नास्य संक्षयः । दृष्टांतः सिकताकाशचंद्रादित्यकरादिकः ॥ १६ ॥ अनादिमंतनिर्मुक्तं त्रैलोक्यं स चराचरं । स्वकर्मनिचयोपेतं नानायोनिकृताटनं ।। १७ ॥ सिद्धाःसिद्धयंति सेत्स्यति कालेतपरिवर्जिते । जिनदृष्टेन धर्मेण नैवान्येन कथंचन ॥ १८ ॥ यःसंदेहकलंकेन निचितः पापकर्मणा । अभावितस्य धर्मेण का तस्य श्रद्दधानता ॥ १९ ॥ कुतःश्रद्धाविमुक्तस्य धर्मो धर्मफलानि च । अत्यंतदुःखविज्ञानं सम्यक्त्वरहितात्मनां ॥ २० ॥ अत्युग्रकर्मनिर्मोके वेष्टितानां समंततः । मिथ्याधर्मानुरक्तानां स्वहितादुःखवर्तिनां ॥ २१ ॥ सेनापुरेऽथ दीपिन्या उपास्तिर्नाम भावना । सा च मिथ्याभिमानेन परिपूर्णा निरर्गलं ॥२२॥ अश्रद्दधानात्सरंभमत्सरोडधारिणी । दुर्भावा सततं साधुनिंदनासक्तशब्दिका ॥ २३ ॥ प्रयच्छति स्वयं नान्नं यच्छंतं नानुमन्यते । निवारयति यत्नेन विद्यमानं सुभूर्यपि ॥ २४ ॥
Page #79
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व। एवमादिमहादोषा कुतीर्थपरिभाविता । कालमेत्याश्रमद्भीमे निष्पारे भवसागरे ॥ २५ ॥ उपास्तिर्देहि देहीति समभ्यस्याक्षरद्वयं । पुण्यकर्मानुभावेन पुरे चंद्रपुरातये ॥ २६ ॥ सुतोभूद्भद्रधारिण्योर्भाग्यवान् बहुबांधवः । धारणो नामतस्तस्य पत्नी नयनसुंदरी ॥ २७ ॥ देशकालप्रयत्नेभ्यः साधुभ्यः शुद्धभावतः । दत्वासौ पारणां सम्यक्काले संत्यज्य विग्रहं ॥२८॥ विदेहे धातकीखंडे मेरोरुत्तरतः कुरौ । भुक्त्वा पल्यत्रयं भोगं समारूढं त्रिविष्टपं ॥ २९ ॥ च्युतातः पुष्कलावत्यां नगर्या नंदिघोपतः । वसुधायां समुत्पन्नो नामतो नंदिवर्धनः ।। ३० ॥ नदिघोषोन्यदा धर्म श्रुत्वोद्यानं प्रबुद्धवान् । नंदिवधेनमाधाय पृथिवीपरिपालने ॥ ३१ ॥ यशोधरमुनेः पार्श्वे प्रव्रज्य सुमहत्तपः । कृत्वा स्वर्ग समारूढस्तनुं त्यक्त्वा यथाविधि ॥ ३२ ॥ गृहिधर्मसमासक्तो नमस्कारपरायणः । पूर्वकोटिमहाभोगान् भुक्त्वा श्रीनंदिवर्धनः ॥ ३३ ॥ सन्यासेन तनुं त्यक्त्वा प्रयातः पंचमं दिवं । ततश्युतो विदेहेऽस्मिन् गिरिराजस्य पश्चिमे ॥३४॥ ख्याते शशिपुरे स्थाने विजयार्द्धनगोत्तमे । सूर्यजयोऽभवद्विद्युल्लतायां रत्नमालिनः ॥ ३५ ॥ अन्यदा सिंहनगरं रत्नमाली महाबलः । प्रस्थितो विग्रहं कर्तुं यत्रासौ वज्रलोचनः ॥३६॥ रथैः प्रभास्वरैर्दिव्यैः पदादिगजवाजिभिः । नानाशस्त्रकृतध्वांतःसामंतेः सुमहाबलैः ॥ ३७॥
Page #80
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । तं दष्टोष्ठं धनुःपाणिं कवचावृतविग्रहं । दग्धकाममरिस्थानं क्रोधादाग्नेयविद्यया ॥ ३८ ॥ रथाग्रारूढमायांतं वेगिनं भीषणाकृति । नभस्थं सहसा कश्चिदमरोभिदधाविति ॥ ३९ ॥ रत्नमालिन् किमारब्धमिदं संरंभमुत्सृज । विबुध्यस्व वदाम्येष वृत्तांतं तव पूर्वकं ॥ ४० ॥ इहासीद्धारते वास्ये मांसादोऽधमकर्मकृत् । गांधायों भूतिरुच्चीभृदुपमन्युः पुरोहितः ॥४१॥ साधोः कमलगर्भस्य श्रुत्वा व्याकरणं च सः । नाचरामि पुनः पापमिति व्रतमुपाददे ॥ ४२ ॥ पंचपल्योपमं स्वर्गे तेनायुः समुपार्जितं । उपमन्यूपदेशेन भस्मसाद्भावमाहृतं ॥ ४३ ॥ मुंचते सुकृतं चासाववस्कंदेन चारिभिः । प्रपत्य हिंसितः साकमुपमन्युः पुरोधसा ॥ ४४ ॥ पुरोहितो गजो जातो युद्धेसी जर्जरीकृतः । संप्राप्य जय्यमप्राप्यमितरैर्दुःखभाजनैः ॥ ४५ ॥ पुनस्तत्रैव गांधार्या भूतिपुत्रस्य धीमतः । देव्यां योजनगंधायां पुत्रोभूदरिसूदनः ॥ ४६॥ दृष्ट्वा कमलगर्भ च पूर्वजन्म समस्मरत् । प्रव्रज्यासौ ततो मृत्वा शतारेहं सुरोऽभवं ॥४७॥ स त्वं भूतिमृगो जातो मंदारण्ये दुराकृतिः । अकामनिर्जरा तस्य दावदग्धोस्य भूकुना ॥४८॥ कंबोजेन सताकारि यत्त्वया कर्म दारुणं । क्लिजाख्येन तदासी (१) च्छकरानरकं गतः ४९ महास्नेहानुबंधेन ततस्त्वं संप्रबोधितः । अयमुदृत्य जातोऽसि रत्नमाली खगेश्वरः ॥ ५० ॥
Page #81
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । पर्याप्तानि न किं तानि दुःखानीत्युदितश्च सः । सूर्यजयसुतं राज्ये निधाय कुलनंदनं ॥ ५१ ॥ वृत्तांतश्रवणात्तस्मात्परं निर्वेदमीयुषा । सूर्यजयेन सहितं सत्कर्मोदयचेतसा ॥ ५२ ॥ रत्नमाली पुनर्नानादुर्गतित्रस्तमानसः । ययौ शरणमाचार्य सौम्यं तिलकसुंदरं ॥ ५३॥ सूर्यजयस्तपः कृत्वा महाशुक्रमुपागमत् । च्युतोऽनरण्यराजर्षेः सुतो दशरथोऽभवत् ॥ ५४ ।। स्वल्पेन सुकृतेन त्वमुपास्तिप्रमुखैर्भवैः । न्यग्रोधवीजवदृद्धि संप्राप्तोऽसि शुभोदयात् ॥ ५५ ॥ नंदिवर्धनकालेन नंदिघोषपिता च यः । सोहं अवेयकाद्वष्टः सर्वभूतहितोऽभवं ।। ५६ ॥ यो भूतिरुपमन्युश्च तावंतौ तद्वशानुगौ । जनको कनकश्चेति जातौ सुकृतचेतसा ॥ ५७ ।। संसारे न परः कश्चिन्नात्मीयः कश्चिदंजसा । सैषा शुभाशुभैर्जतोरुद्वर्तपरिवर्तना ॥ ५८ ॥ उदाहृतमिदं श्रुत्वा विनीतो वीतसंशयः । अनरण्यसुतो जातः प्रबुद्धः संयमोन्मुखः ॥ ५९ ॥ सर्वादरसमेतश्च संपूज्य चरणौ गुरोः । प्रणम्य च विशुद्धात्मा प्रविवेश सुकोशलं ॥ ६ ॥ एवं च मानसे चक्रे सार्वभूमीश्वरं पदं । पद्माय सुधिये दत्वा माधवीयां श्रये गतिं ॥ ६१ ॥ धर्मात्मा सुस्थिरो रामस्त्रिसमुद्रां वसुंधरां । अनुपालयितुं शक्तो भ्रातृभिः परिवारितः ॥ ६२॥ चिंतयत्येवमेवास्मिन् राज्यमोहपरांमुखे । मुक्त्यर्थाहितचेतस्के श्रीमद्दशरथे नृपे ॥ ६३ ।।
Page #82
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
एकत्रिंशत्तमं पर्व । तिरोधानं गता कापि स्वच्छज्योत्स्नापटा शरत् । चंद्रास्याहिमभीतेव सरोसहनिरीक्षणा ॥६४॥ प्राप्तः प्रालेयसंघातो विच्छायीकृतनीरजः । हेमंतो जडवातेन व्याकुलीकृतविष्टपः ॥ ६५ ॥ स्फुटिताधरपादांतः पृष्टन्यस्तपटच्चराः । दंतवीणाकृतस्वाना रूक्षव्याकुलमूर्धना ॥ ६६ ॥ तित्तिरच्छदनच्छायक्रोडजंघा विभावसोः । सततात्सेवनात्कुक्षिपूरणानचेतसः ॥ ६७ ॥ शरीरच्छायया तुल्या प्रपक्वत्रपुषत्वचः । दुर्गेहिनी वचःशस्त्रैरत्यन्तं तष्टमानसाः ॥ ६८ ॥ काष्ठादानयनाशक्त्या दिवाभास्करतापिताः । कुठारादिधराः स्कंधौ दधानाः किणकर्कसौ॥६९।। शाकाम्लखलकाद्यंतपरिपूरितकुक्षयः । दुःखं नयंति तत्कालं दुष्कुटीषु धनोज्झिताः ॥ ७० ॥ वरप्रासादयातास्तु शीतसंगमहारिभिः । संवातांगा वरैर्वस्त्रै पामोदानुबंधिभिः ॥७१ ॥ षड्रसं स्वादुसंपन्नं हेमरुक्मादिपात्रगं । भुंजानाः सुरभिस्निग्धमाहारं निजलीलया ॥ ७२ ॥ कुंकुमप्रविलिप्तांगा असितागुरुधृपिताः । अक्षीणघननिश्चिता गवाक्षकृतवीक्षणाः ।। ७३ ।। गीतनृत्यादिसंप्राप्ता विनोदं परमं सदा । माल्यभूषणसंपन्नाः सुभाषितकथोद्यताः ॥ ७४ ॥ विनीताभिः कलाज्ञाभिः सरूपाभिः समं नराः । क्रीडंति वरनारीभिः तदा पुण्यानुभावतः ७५ पुण्येन लभ्यते सौख्यमपुण्येन च दुःखिता । कर्मणामुचितं लोकः सर्व फलमुपाश्नुते ।। ७६ ॥
Page #83
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तमं पर्व ।
तदा दशरथो भीतो भृशं संसारवासतः । निर्वृत्यालिंगनाकांक्षी विरक्तो भोगवस्तुतः ॥ ७७ ॥ द्वास्थमाज्ञायपयद्भूमिन्यस्तजानुकरं दुतं । भद्राद्दय स्वसामंतान मंत्रिभिः सहितानिति ॥ ७८ ॥ नियुज्यात्मसमं द्वारे शासनं तेन तत्कृतं । आगतास्ते नमस्कृत्य यथास्थानमवस्थिताः ॥ ७९ ॥ नाथाज्ञापय किं कृत्यमिति चोक्तेन भूभृता । विनीता जगदे शंसत्प्रव्रजामीति निश्चितं ॥ ८० ॥ ततस्तन्मंत्रिणोवोचन् गण्यमानाश्च पार्थिवाः । नाथ किं कारणं जातं मतावस्यां तवाधुना ॥ ८१ ॥ जगादास समक्षं भो नत्वेतत्सकलं जगत् । शुष्कं तृणमिवाजस्रं दह्यते मृत्युवह्निना ॥ ८२ ॥ अग्राह्यं यदभव्यानां भव्यानां ग्रहणोचितं । सुरासुरनमस्कार्यं प्रशस्यं शिवसौख्यदं ॥ ८३ ॥ त्रिलोके प्रकटं सूक्ष्मं विशुद्धमुपमोज्झितं । श्रुतं तन्मुनितो जैनं श्रुतमद्य मयाचिरात् ॥ ८४ ॥ परमं सर्वभावानां सम्यक्त्वमतिनिर्मलं गुरुपादप्रसादेन प्राप्तोहं वर्त्म निर्वृतेः ॥ ८५ ॥ नानाजन्ममहावर्ती मोहपंकसमाकुलां । कुतर्कग्राहसंपूर्णा महादुःखोमिततां ॥ ८६ ॥ मृत्युकल्लोलसंयुक्तां कुदृष्टिजलनिर्भरां । समाक्रंदमहारावां विधर्मजववाहिनी ॥ ८७ ॥ भवापगां मम स्मृत्वा नरकांभोधिगामिनीं । पश्यतांगानि कंपते वित्रासेन समंततः ॥ ८८ ॥ वृथावोचत मां किचिदात्मानं मोहिता भृशं । तमसः प्रकटे देशे कुतः स्थानं खौ सति ॥ ८९ ॥
७४
Page #84
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । अभिषिचत मे पुत्र प्रथमं राज्यपालेने । त्वरितं येन निर्विघ्नं प्रविशामि तपोवनं ॥९॥ इत्युक्ते निश्चितं ज्ञात्वा महाराजस्य मंत्रिणः । सामंताश्व परं शोकं प्राप्ता विनतमस्तकाः ॥९१॥ लिखंतो भूमिमंगुल्या वाष्पाकुलनिरीक्षणाः । क्षणेन निष्प्रभीभूतास्तस्थुमौनं समाश्रिताः ॥९२।। प्राणेशं निश्चितं ज्ञात्वा निग्रंथव्रतसंश्रयं । एकीभूतं शुचं प्राप्तं सर्वमंतःपुरं परं ।। ९३ ॥ विनोदान् प्रस्तुतान्मुक्त्वा वाष्पपूरितलोचनाः । भूषणस्वनभूयिष्ठं रुरुदुः प्रमदांगनाः ॥९४ ॥ पितरं तादृशं दृष्ट्वा भरतः प्रतिबुद्धवान् । अचिंतयदहो कष्टं दुश्छेद्यं स्नेहबंधनं ॥९५ ॥ अव्यापारेण तावस्य किमेतेन प्रबोधिनः । चिंता राज्यगता कास्य प्रवज्यां कर्तुच्छितः ॥९६॥ आपृच्छया न मे किंचित्कार्यमाशु विशाम्यहं । तपोवनं महादुःखसंसारक्षयकारणं ।। ९७ ॥ देहेनापि किमतेन व्याधिगेहेन नाशिना । बांधवेषु तु कावस्था स्वकर्मफलभोगिषु ॥ ९८ ॥ जंतुरेककया वायं भवपादपसंकुले । मोहांधो दुःखविपिने कुरुते परिवर्तनं ॥ ९९ ॥ ततः कलाकलापज्ञा भरतस्येगितादिभिः । केकया चिंतितं ज्ञात्वा दधाना शोकमुत्तमं ॥१०॥ कथं मे न भवेद्भत्तो न च पुत्रो गुणालयः । एतयोवोरणे कुर्वे कमुपायं सुनिश्चितं ॥ १०१॥ एवं चिंतामुपेतायाः परमं व्याकुलात्मनः । तस्या वरोऽभवच्चित्ते गत्वा च त्वरितं ततः॥१०॥
Page #85
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व। प्रीत्या परमया दृष्ट्वा सावष्टंभ नराधिपं । जगादार्धासने स्थित्वा तेजसा पुरुणान्विता ॥१०॥ सर्वेषां भूभृतां नाथ पत्नीनां च पुरस्त्वया । मनीषितं ददामीति यदुक्ताहं प्रसादिना ॥१०४॥ वरं संप्रति तं यच्छ मह्यं कीर्तिसमुज्ज्वला । दानेन तेऽखिलं लोकं कीर्तिभ्रमति निर्मला १०५ ततो दशरथोऽवोचहि त्वं दक्षिणां प्रिये । प्रार्थयस्व यदिष्टं ते यच्छाम्येष वराशये ॥ १०६ ।। इत्युक्ते मुंचती वाष्पमवोचज्ज्ञातनिश्चया । कथं नाथ त्वया चेतः कृतं निष्ठुरमीदृशं ॥१०७ ॥ वद किं कृतमस्माभिर्येनासि त्यक्तुमुद्यतः । ननु जीवितमायातमस्माकं त्वयि पार्थिव ॥१०८॥ अत्यंत दुर्धरोद्दिष्टा प्रव्रज्या जिनसत्तमैः । कथमाश्रयितुं बुद्धिस्तामद्य भवता कृता ॥ १०९ ॥ देवेंद्रसदृशैर्भोगैरिदं ते लालितं वपुः । कथं चक्ष्यति जीवेश श्रामण्यं विविधं परं ॥ ११ ॥ एवमुक्तो जगादासौ कांते सत्वस्य को भरः । वांछितं वद कर्तव्यं स्वयं यास्यामि सांप्रतं१११ इत्युक्त्वा लिखितं क्षोणी प्रदेशिन्या नतानना । जगाद नाथ पुत्राय मम राज्यं प्रदीयतां ११२ ततो दशरथोऽवोचत्प्रिये कास्मिन्नपत्रपा । न्यासस्त्वया मयि न्यस्तः सांप्रतं गृह्यतामसौ ११३ एवमस्तु शुचं मुंच निर्ऋणोऽहं त्वया कृतः । किं वा कदाचिदुक्तं ते मया जनितमन्यथा ११४ पचं लक्षणसंयुक्तमाहूय च कृतानतिं । ऊचे विनयसंपन्नं किंचिद्विगतमानसः॥११५॥
Page #86
--------------------------------------------------------------------------
________________
GIG
पद्मपुराणम्।
एकत्रिंशत्तम पर्व । वत्स पूर्व रणे घोरे कलापारगयानया । कृतं केकयया साधु सारथ्यं मम दक्षया ॥ ११६ ॥ तदा तुष्टेन पत्नीनां भूभृतां च पुरो मया । मनीषितं प्रतिज्ञातं नीतं न्यासत्वमेतया ॥११७ ॥ देहि पुत्रस्य मे राज्यमिति तं याचतेऽधुना । किमप्याकूतमापन्ना निरपेक्षा मनस्विनी ॥११८॥ प्रतिज्ञाय तदेदानीं ददाम्यस्य न चेन्मतं । प्रव्रज्यां भरतः कुर्यात्संसारालंबनोज्झितः ॥ ११९ ।। इयं च पुत्रशोकेन कुर्यात्प्राणविवर्जनं । भ्रमेच्च मम लोकेस्मिन्नकीर्तिर्वितथोद्भवा ।। १२० ॥ मयोदा नच नामेयं यद्विधायाग्रज क्षमं । राज्यलक्ष्मीवधृसंगं कनीयान् पाप्यते सुतः ॥१२॥ भरतस्याखिले राज्ये दत्ते स त्वं सलक्ष्मणः । क गच्छेत्परमं तेजो दधानः क्षत्रगोचरं ॥१२२॥ तदहं वत्स नोवेद्मि किं करोमीति पीडितं । अत्यंतदुःखवेगोरुचिंतावातिरस्थितः ॥ १२३ ॥ ततः पद्मो जगादेवं विद्विनयमुत्तमं । सद्भावप्रीतिचेतस्कः पादन्यस्तनिरीक्षणः॥ १२४ ॥ तात रक्षात्मनःसत्यं त्यजास्मत्परिचिंतनं । शक्रास्यापि श्रिया किं मे त्वय्यकीर्तिमुपागते॥१२५॥ जातेन ननु पुत्रेण तत्कर्तव्यं गृहैषिणा । येन नो पितरौ शोकं कनिष्टमपि गच्छतः ॥ १२६ ॥ पुनाति त्रायते चार्य पितरं येन शोकतः । एतत्पुत्रस्य पुत्रत्वं प्रवदंति मनीषिणः ॥ १२७ ॥ सभानुरंजनी यावत्कथेयं वर्तते तयोः । तावद्भवंति हन्मीति कठोरीकृतमानसः ॥ १२८ ॥
Page #87
--------------------------------------------------------------------------
________________
७८
एकत्रिंशत्तमं पर्व |
सौधादवतरद्वेगाल्लोकहाकारनादितः । निरुद्धो भरतः पित्रा स्नेहविक्लव चेतसा ।। १२९ ॥ उपविश्यांकमारोप्य परिश्वज्य सुचुंबितं । इति चाभिदधे भूमौ तिष्ठासुर्वशः पितुः || १३० ।। राज्यं पाल वत्स त्वमहं यामि तपोवनं । स जगौ न भजे राज्यं प्रात्राज्यं तु करोम्यहं १३१ भज तावत्सुखं पुत्र सारं मनुजजन्मनः । नवेन वयसा कांतः वृद्धः संप्रवजिष्यसि ॥ १३२ ॥ इत्युक्तेऽभिदधे तात किं मोहयसि मां वृथा । मृत्युः प्रतीक्षते नैव बालं तरुणमेव वा ॥ १३३ ॥ गृहाश्रमे महावत्स श्रूयते धर्मसंचयः । अशक्यः कुनरैः कर्तुं कुरुते राज्य संगतः ॥ १३४ ॥ इत्युक्तेभिदधे तात हृषीकवशवर्तिनः । कामक्रोधादिपूर्णस्य का मुक्तिगृहसेविनः ।। १३५ ॥ मुनीनां वत्स केषांचिद्भवेनैकेन जायते । नैव मुक्तिस्ततो धर्मं कुरु समन्यवस्थितः ।। १३६ ।। इत्युक्तोऽभिदधे तात यद्यप्येवं तथापि किं । गृहधर्मेण तस्मिन् हि मुक्त्यभावः सुनिश्चितः १३७ अपि चानुक्रमान्मुक्तिर्न ममान्यस्य शोचिता । गरुड़ः किं पतंगानां वेगेन सदृशो भवेत् ॥ १३८ ॥ कामार्चिषा परं दाहं व्रजंतः कुत्सिता वराः । जिह्नाधमांगकार्याणि कुर्वते न च निर्वृतिः ॥ १३९ ॥ निक्षिप्यते हि कामानौ भोगसर्पिर्यथा यथा । नितरां वृद्धिमायाति तापकृत्स तथा तथा ॥ १४० ॥ भुक्त्वा भोगान् दुरुत्पादान् दुरक्षान् क्षणभंगिनः । नियतं दुर्गतिं याति पापात्परमदुःखदं १४१
पद्मपुराणम् ।
Page #88
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
एकत्रिंशसमं पर्व। अनुमन्यस्य मां तात नितांतं जन्मभीरुकं । करोमि विधिनारण्ये तपोनिवृतिकारणं ॥ १४२ ॥ अथ गेहेऽपि लभ्येत श्रेयो जनकनैर्वृतं । त्वमेव कुरुषे कस्मादस्य त्यागं महामति ॥ १४३ ॥ तार्यते दुःखतो यस्मात्तपश्चाभ्यनुमोदते । एतत्तातस्य तातत्वं प्रवदंति विचक्षणाः ॥ १४४ ॥ जीवितं वनितामिष्टं पितरं मातरं धनं । भ्रातरं च परित्यज्य याति जीवोयमेककः ॥ १४५ ॥ सुचिरं देवभोगेऽपि यो न तृप्तो हताशकः । स कथं तृप्तिमागच्छेन्मनुष्यभवभोगकैः ॥ १४६ ॥ पिता तद्वचनं श्रुत्वा हृष्टरोमा प्रमोदतः । जगाद वत्स धन्योऽसि विबुद्धो भव्यकेसरी ॥१४॥ तथापि धीर नो भंगः कदाचित्प्रणयस्य मे । त्वया कृतो विनीतानां भवान् हि शिरसि स्थितः।। शृणु सारथ्यतुष्टेन मयासौं जीवसंशये । प्रतिज्ञातं जनन्यास्ते वांछितं नृपसाक्षिकं ॥ १४९ ॥ ऋणतां तच्चिरं नीतमद्याहं प्रापितोऽनया । राज्यं प्रयच्छ पुत्रस्य ममेति बहुमानतः ॥ १५० ॥ स त्वं निष्कंटकं तात राज्यं शक्रोपमं कुरु । असत्यसंधानकीर्तिम माभ्रमीनिखिलं जगत् १५१ इयं च तव शोकेन परमेणाभितापिता । माता म्रियेत सौख्येन सततं लालितांगिका ॥ १५२ ॥ न करोति यतः पातं पित्रोः शोकमहोदधौ । अपत्यत्वमपत्यस्य तद्वदंति सुमेधसः ॥ १५३ ॥ ततः पद्योऽपि तत्पाणौ गृहीत्वैवमभाषत । प्रेमनिर्भरया पश्यन् दृष्टया मधुरनिस्वनः ॥१५४॥
Page #89
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तमं पर्व ।
तातेन भ्रातरुक्तं यत्कोन्यस्तद्गदितुं क्षमः । नहि सागररत्नानामुपपत्तिः सरसो भवेत् ॥१५५|| वयस्तपोधिकारे ते जायतेऽद्यापि नोचितं । कुरु राज्यं पितुः कीर्तिरुह्यानु शशिनिर्मला १५६ इयं च शोकतप्तांगा माता यद्याति पंचतां । न तद्युक्तं महाभागे नंदने त्वादृशे सति ॥१५७।। पितुः पालयितुं सत्यं त्यजामोऽपि वयं तनुं । कथं त्वं तु कृतं प्राज्ञः श्रियं न प्रतिपद्यसे ॥१५८॥ नद्यां गिरावरण्ये वा तत्र वासं करोम्यहं । यत्र कश्चिन्न जानाति कुरु राज्यं यथेप्सितं ॥१५९।। भोगं सर्व परित्यज्य पंथानमपि संश्रितः । न करोमि पृथिव्यां ते कांचित्पीडां गुणालय १६० माश्वसीदीर्घमुष्णं च मुंच तावद्भवाद्यं । कुरु वाक्यं पितुः क्षोणी रक्ष न्यायपरायणः ॥१६॥ इक्ष्वाकूणां कुलं श्रीमद्भषयामलविभ्रमं । अत्यंतविपुलं भ्रातः शशी गृहकुलं यथा ॥ १६२ ॥ भ्राजते त्रायमानः सन् वाक्यं तत्पितृकस्य यत् । लब्धवर्णैरिदं भ्रातुभ्रातृत्वं परिकीर्तितं १६३ इत्युक्त्वा भावतः पादौ शिरसा भूतलस्पृशा । पितुः प्रणम्य तप्ताश्वीनिर्गतो लक्ष्मणान्वितः ॥ अत्रांतरे नृपो मूर्छा संप्राप्तोऽपि न केनचित् । ज्ञातः स्तंभसमायुक्तवपुः पुस्तसमाकृतिः ॥१६५॥ स तूर्ण धनुरादायगत्वा नत्वा च मातरं । आपृच्छयतां च गच्छामि तावदन्यमहीमिति १६६ सखीत्वं मूर्छया तस्या दुःखज्ञाननिवारणात् । क्षणं कृतं परिप्राप्तसंज्ञाचास्त्राकुले क्षणा ॥१६७॥
Page #90
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । ऊचेऽपराजिता हा त्वं वत्स क प्रस्थितोऽसि मां । कस्मात्यजसि सच्चेष्ट क्षिप्त्वा शोकमहोदधौ १६८ मनोरथशतैः पुत्र त्वं प्राप्तो दुर्लभो मया । प्रारोह इव शाखाया मातुरालंबनं सुतः ॥ १६९ ॥ परिदेवनमेवं तां कुर्वती हृदयंगमं । जगाद प्रणतः पयो मातृभक्तिपरायणः ॥ १७० ॥ अंब मागाद्विषादं त्वं दक्षिणस्यामहं दिशि । निरूप्य संश्रयं योग्यं नेष्यामि त्वां विसंशयं १७१ तातेन पृथिवी दत्ता जननीवरदानतः । भरतायेति ते कर्णजाहं नूनमुपागतं ॥ १७२ ॥ अंते तस्या महारण्ये विंध्याद्रौ मलयेऽथवा । अन्यस्मिन् चार्णवस्यांते पश्य मातः कृतं पदं १७३ मयि स्थिते समीपेऽस्मिन् लोके भास्करसंमते । आज्ञैश्वर्यमयी कांतिभरतेंदोने जायते ॥ १७४॥ ततः प्ररुदती माता जगादात्यंतदुःखिता। पुत्रं विनतमाश्लिष्य स्नेहकातरलोचना ॥ १७५ ॥ तनयायैव मे गंतुमुचितं भवता समं । कथं त्वाहमपश्यंती प्राणान् धारयितुं क्षमा ॥ १७६ ॥ पिता नाथोऽथवा पुत्रः कुलस्त्रीणां त्रयी गतिः । पितातिक्रांतकालो मे नाथो दीक्षासमुत्सुकः॥ जीवितस्य त्वमेवैकः सांप्रतं मेऽवलंबनं । त्वयापि रहिता साहं वद गच्छामि कां गति ॥१७८॥ सोवोचदुपलैरंब क्षितिरत्यंतकर्कशा । भवत्या विषमा पद्भयां गंतुं सा शक्यते कथं ॥ १७९ ॥ तस्मादेकक एवाहं विधाय सुखमाश्रयं । यानेन केनचिन्भेष्ये भवंती त्यजनं कुतः ॥ १८०॥
Page #91
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तमं पर्व |
यथा स्पृशामि ते मातः पादावेष तथा ध्रुवं । आगमिष्यामि नेतुं त्वं मुंच कार्यविचक्षणे ॥ १८९ ॥ एवमुक्ते विमुक्तः सन् परिसांत्वा सुभाषितैः । पुनश्च पितरं प्राप्तप्रवोधं प्रणिपत्य सः ॥ शेषं मातृजनं गत्वा परिसांव्य सुभाषितैः । अविषण्ण महाचेताः सर्वन्यायविचक्षणः ॥ परिष्वंगं कृत्वा संभाषणं तथा । सीतायाः सदनं प्राप्तः प्रेमनिर्भरमानसः ॥ १८४ ॥ प्रिये त्वं तिष्ठ चात्रैव गच्छाम्यहं पुरांतरं । ततो जगाद साध्वीसा यत्र त्वं तत्र चाप्यहं ।। १८५ ।। मंत्रिणो नृपतीन् सर्वान् परिवर्ग च सादरं । आपृच्छच्छेषवर्गेऽपि भीषणोल्लापताकुलः ॥ १८६॥ प्रीत्या संवर्धितं भूयः कृतालिंगनमारतं । मित्रवर्गं सवाष्पाक्षं पुनरुक्तं न्यर्वतयत् ॥ १८७ ॥ स्निग्धेन चक्षुषा पश्यन् प्रधानान्वाजिवारणान् । निरगच्छत्पितुर्गेहान्मंदर स्थिरमानसः ॥ १८८ ॥ आडुढौकन् द्रुतं चारून् सामंतान् वाजिवारणान् । पद्मेन न गृहीतास्ते परमन्यायवेदिना ॥ १८९ ॥ विदेशगमनोद्युक्तं दृष्ट्वा तं जानकी भृशं । श्रीमदंशुकसंवीता विकसत्पद्मलोचना ॥ १९० ॥ प्रणम्य श्वसुरं श्वश्रूराच्छय च सुहृज्जनं । विनीतानुययौ नाथं पौलोमीव सुराधिपं ॥ १९१ ।। मुद्यतं तु स्नेहनिर्भरमानसः । लक्ष्मणोऽचिंतयत्क्रोधं वहन्नयनलक्षणं ।। १९२ ।। अन्यायमीदृशं कर्तुं कथं तातेन वांछितं । स्वार्थसंसक्तनित्याशं धिक् स्त्रैणमनपेक्षितं ॥ १९३ ॥
1
८२
१८२ ॥
१८३ ॥
Page #92
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
८३
एकत्रिंशत्तमं पर्व ।
अहो महानुभावोयं ज्यायान् पुरुषसत्तमः । मुनेरपीदृशं स्वांतं दुष्करं जातु जायते ॥ १९४ ॥ किमयैव करोम्यन्यां सृष्टिमुत्सृज्य दुर्जनात् । भरतस्य बलादाहो करोमि विमुखां श्रियं ॥। १९५ ।। विधातुमथ सामर्थ्य भनज्मि चिरमूर्जितं । निरुद्धयापादयोर्ज्येष्ठं करोमि श्रीसमुत्सुकं ॥ १९६ ॥ न युक्तमथवा चित्तं जातको धानुगस्य मे । क्रोधः करोति मोहांधमपि दीक्षामुपाश्रितं ॥ १९७ ॥ किमनेन विचारेण कृतेनानुचितेन मे । ज्येष्ठस्तातश्च जानाति सांप्रतासांप्रतं बहु ॥ १९८ ॥ सितकीर्तिसमुत्पत्तिर्विधातव्या हि नः पितुः । तूष्णीमेवानुगच्छामि ज्यायसं साधुकारिणं ॥ १९९ ॥ प्रशमय्य स्वयं को पमित्यादाय शरासनं । प्रशाम्यापृच्छ्य चाशेषं जनं गुरुपुरस्सरं ॥ २०० ॥ महाविनयसंपन्नौ मार्गयोग्यकृताकृतिः । लक्ष्मीनिलयवक्षस्कः पद्मस्यानुपदं ययौ । २०१ ॥ पितरौ परिवर्गेण सहितौ तनयान्वितौ । वर्षेव कुर्वाणौ तौ धाराभिर्नयनांभसा ॥ २०२ ॥ परिसांत्वनसूरिभ्यां प्राप्ताभ्यां निश्चयं परं । कृच्छान्निवर्तितौ ताभ्यां प्राणिपत्य पुनः पुनः॥ २०३ ॥ निर्वृत्यमानबंधूनां समूहेनान्विताविमौ । राजगेहाद्विनिक्रांतौ देवाविव सुरालयात् ॥ २०४ ॥ वर्तते किमिदं मातः कस्येदं व्रतमीदृशं । अभाग्येयं पुरी कष्टमथवा सकला मही ॥ २०५ ॥ यामोऽनेन समं दुःखमेताभ्यां सह गम्यते । महाशक्ताविमौ कृच्छ्राद्धरणीधरगहरात् || २०६ ।।
Page #93
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । पश्य सीता कथं याति नाथेनानुमोदिता । अस्या सुविहितं सर्व पतिभ्राता करिष्यति ॥२०७॥ अहो परमधन्येयं जानकी रूपशालिनी । विनयांशुकसंवीता भतोरं यानुगच्छति ॥२०८॥ अस्माकमपि नारीणामेषैव भवताद्गतिः । उदाहरणभूतेयं भर्तृदेवतयोषिताम् ॥ २०९ ॥ पश्य मातरमुज्झित्वा नेत्रांबुप्लाविताननां । एष लक्ष्मीधरो गंतुमुद्युक्तो ज्यायसा समं ॥२१०॥ अहो प्रीतिरहो भक्तिरहो शक्तिरहो क्षमा । अहो विनयसंभारः श्रीमतोऽस्य विराजते ॥२१॥ भरतस्य किमाकूतं कृतं दशरथेन किं । रामलक्ष्मणयोरेषा का मनीषा व्यवस्थिता ॥ २१२ ॥ कालः कर्मेश्वरो दैवं स्वभावः पुरुषः क्रिया । नियतिर्वा करोत्येवं विचित्रकसमीहितं ॥२१३ ॥ वर्ततेनुचितं वाढं क गता स्थानदेवताः । एवमादिस्तदा जज्ञे ध्वनिर्जनसमूहतः ॥ २१४ ॥ कुमाराभ्यां समं गंतुमुत्सुके सकले जने । पुरी शून्यगृहा जाता नष्टाशेषसमुत्सवा ॥ २१५ ॥ पुष्पप्रकरसंपूर्णाः समस्ता द्वारभूमयः । पिच्छलत्वं समानीताः शोकपूर्णाजनानुभिः ॥२१६ ॥ जनस्योत्सायमाणस्य विरूपिण्यो नरोत्तमैः । वीचयः सागरस्येव विक्षोभ्यते महानिलैः ॥२१७॥ भक्तिभिः पूज्यमानोऽपि संभाषणसमुद्यतः । दाक्षिण्यपरमः पद्मो मेने विघ्नं पदे पदे ॥२१८ ॥ प्रसक्त इव तं दृष्टुमसमंजसमीदृशं । मंद मंदांशुसंघातो रविरस्तमुपागमत् ॥ २१९ ॥
Page #94
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तमं पर्व। रविणा दिवसस्यांते त्यक्ताः सर्वमरीचयः । ज्येष्ठचक्रधरेणेव संपदो मुक्तिमिच्छता ॥२२० ॥ दधाना परमं रागमुचितांबरयोगिनी । अन्वियाय रविं संध्या सीता दाशरथिं यथा ॥ २२१ ॥ ततो विशेषविज्ञानविध्वंसनविधायिना । रामघ्रज्योद्भवेनेव तमसा व्याततं जगत् ॥ २२२ ॥ अनुप्रयातुकामस्य कर्तुं लोकस्य वंचनं । ससीतौ तावरेशस्य स्थान प्राप्ती क्षपामुखे ॥ २२३ ॥ भवांतकस्य भवनं नित्यालंकृतपूजितं । चंदनाम्भोजलिप्तक्ष्म त्रिद्वारं तुंगतोरणं ॥ २२४ ॥ दर्पणादिविभूषं तत्ससीती सप्रदक्षिणं । प्रविष्टावनपेक्षौ तौ यथाविधि विशारदौ ॥ २२५ ॥ तृतीये तु जनो द्वारे प्रतिहारेण रुध्यते । कर्मणा मोहनीयेन शिवमिच्छन् कुदृष्टिवत् ॥ २२६ ।। स्थापियित्वा धनुर्वम पुंडरीकनिभेक्षणौ । जिनेंद्रवदनं दृष्ट्वा तौ परां धृतिमागतौ ॥ २२७ ॥ मणिपीठस्थितं सौम्यं प्रलंबितभुजद्वयं । श्रीवत्सभामुरोरस्कं व्यक्तनिश्शेषलक्षणं ॥ २२८ ॥ संपूर्णचंदवदनं विबुद्धकमलेक्षणं । अस्मयमाणनिर्माणं विंबमष्टादशं जिनं ।। २२९ ॥ प्रणम्य सर्वभावेन समय॑ च सादरौ । स्थितौ तत्र विभावयों चिंतयंती सुहज्जनं ॥२३०॥ तत्र तावुषितौ ज्ञात्वा मातरः पुत्रवत्सलाः । एत्य वाष्पाकुलाः स्नेहात्परिष्वज्य पुनः पुनः २३१ पुत्राभ्यां सह संमंत्र्य दर्शने तृप्तिवर्मिताः । दोलारूढमिवात्मानो जग्मुर्दशरथं पुनः ॥ २३२ ॥
Page #95
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व। सर्वासामेव शुद्धीनां मनःशुद्धिः प्रशस्यते । अन्यथालिंग्यतेऽपत्यमन्यथालिंग्यते पतिः ॥२३३॥ ततस्ता गुणलावण्यरूपवेषमहोदयाः । जग्मुर्मधुरवादिन्यः प्रियं मंदरनिश्चलं ॥ २३४ ।। कुलपोतं निमज्जंतं प्रियशोकमहार्णवे । संधारयमसौमित्रिं विनिवर्तय राघवं ।। २३५ ॥ सोवोचत्तमसा युक्तं जगद्वात्र विकारिकं । प्रमाणं चेन्मदीयेच्छा सुखमेवास्तु जंतुषु ॥ २३६ ॥ जन्ममृत्युजराव्याधैर्मास्म कश्चिद्विवाध्यतां । नाना कर्मस्थितौ त्वस्यां को नु शोचति कोविदः २३७ पर्याप्तिर्नास्ति मृष्टानामिष्टानां दर्शनेषु वा । बांधवानां सुखानांच जीवितस्य धनस्य च ॥२३८॥ असमाप्तेंद्रियसुखं कदाचित्स्थितिसंक्षये । पक्षी वृक्षमिव त्यक्त्वा देहं जंतुर्गमिष्यति ॥ २३९ ॥ पुत्रवत्यो भवंत्योऽत्र निवर्तयत सत्सुतौ । उपयुक्तं सुविश्रब्धा पुत्रभोगोदयद्युतिं ॥ २४०॥ त्यक्तराज्याधिकारोहं निवृत्तः पापचेष्टितात् । भवादुग्रं भयं प्राप्तः करोमि चरितं मुनेः ॥२४१॥
एवं निश्चितचित्तो । दशरथनृपतिस्समग्रमोदासीन्यं ॥
भेजे रविसमतेजाः । सकलकुभावाभिलाषदोषविमुक्तः ॥ २४२॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते दशरथप्रव्रज्याभिधानं नामैकत्रिंशत्तमं पर्व ।
Page #96
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व ।
अथ द्वात्रिंशत्तमं पर्व। अथ तत्र क्षणं नीत्वा निद्रांती धृतकंकटौ । अर्धरात्रे महाध्वांते निश्शब्दे शांतमानवे ॥१॥ विधाय जानकी मध्ये जिनं नत्वा सकार्मुकौ । सुवेषौ प्रस्थितौ दीपैः पश्यंताविव कामिनः॥२॥ कश्चित्सुरतखिन्नांगो बाहुपंजरवर्तिनीं । कृत्वा प्राणसमां निद्रामतिगाढां निषेवते ॥३॥ कृत्वापराधकः पूर्व कोपिनी कश्चिदंगनां । प्रत्याययत्यलीकेन शपथेन पुनः पुनः ॥ ४ ॥ अपरो मानमुत्सृज्य कांतया स्मरतप्तया । कृतकं कोपमायातः सुवाग्भिः परिसांत्व्यते ॥ ५॥ सुरतायासखिन्नांगा देहे कस्यचिदंगना । लीना तत्त्वमिव प्राप्ता गाढां निद्रां निषेवते ॥६॥ नवसंगमनां कश्चिजायां विमुखवर्तिनीं । कृच्छ्रात्प्रस्तावमानीय संभाषथति संमदी ॥ ७॥ कस्मैचित्पूर्ववैगुण्यं कथयत्यंगनाखिलं । अपरो वेदयत्यस्मै विस्रब्धः कृतमाननः॥८॥ कश्चित्परगृहं प्राप्तो धूर्तः संकुचितांगकः । उद्वासयति मार्जारं वातायनकृतस्थिति ॥९॥ अपरः कृतसंकेतां शून्यदेवकुलांतरे । कुलटामाकुलीभूतो मुहुरुत्थाय वीक्षते ॥ १० ॥ चिरादुपगतं कंचिद्ध्वनरोषाभिंसारिका । ताडयत्युत्तरीयेण वध्वा मेखलया खलम् ॥११॥
Page #97
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व। भभिसारिकया साकमन्यः प्राप्यसमागमं । शुनोऽपि पदशब्देन याति त्रासमनुत्तमं ।। १२ ॥ इनि नियूददेशेषु मंडपेषु च कामिनां । श्रृण्वंतौ वीक्ष्यमाणौ च वृत्तांतौ जग्मतुः शनैः ॥ १३ ॥ अपहारेण निर्गत्य पुरीतः पश्चिमेन तौ । आश्रितो मार्गयोगेन दक्षिणो दक्षिणां दिशं ॥ १४ ।। त्रियामांते ततोऽस्पष्टे सामंता वेगवाहिनः । राघवेण समं गंतुमुत्सुका भक्तिनिर्भराः ॥ १५॥ यथाश्रुति परिज्ञाय बंधुवंचनकारिणः । समीपं रामदेवस्य प्रापुर्मथरगामिनः ॥ १६ ॥ ते चक्षुर्गोचरीकृत्य समेतो रामलक्ष्मणौ । महाविनयसंपन्नाः पद्भद्यामेव डुढोकिरे ।। १७॥ प्रणिपत्ते च भावेन संक्रमे संवभापिरे । यावत्तावन्महासैन्यं तद्वेषार्थमाययौ ॥ १८ ॥ प्रशशंसुश्च ते सीतामितिनिर्मलचेतसः । वयमस्याः प्रसादेन राजपुत्रो समागताः ॥ १९ ॥ अयास्यद्यदि नैताभ्यां सममेषा सुमंथरा । ततः कथमिव प्राप्स्यामेतौ पवनरहसौ ॥ २० ॥ इयं नः सुसती माता परमप्रियकारिणी । एतस्याः सदृशा नान्या प्रशस्तास्ति क्षिताविह ॥२१॥ तौ सीतागतिचिंतत्वान्मंदमंदं नरोत्तमौ । गत्यूतमात्रमध्वानं सुखयोगेन जग्मतुः ॥ २२॥ सस्यानि बहुरूपाणि पश्यंती क्षितिमंडले । सरांसि कंजरम्याणि तरूंश्च गगनस्पृशः ॥ २३ ॥ आपूर्यमाणपर्यतौ वेगवनिर्जराधिपः । घनागमेनदीगंगाकालिंदीप्रवहाविव ॥ २४ ॥
Page #98
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व।
ग्रामखेटमटंबेषु घोषेषु नगरेषु च । लोकेन पूजितौ वीरौ भोजनादिभिरुत्तमौ ॥ २५ ॥ केचिदध्वजखेदेन सामंता व्रजतोस्तयोः । पश्चादज्ञापियत्वैव विवृत्ता ज्ञातनिश्चयाः ॥ २६ ॥ अपरे त्रपया केचिद्भीत्यान्ये भक्तितत्पराः । अव्रजन् विनयात्पद्यां दत्त्वा दुःखस्य मानसं २७ ततो हरिगजत्रातसंकुलारावभैरवां । परियात्राटवीं प्राप्तौ लीलया रामलक्ष्मणौ ॥ २८ ॥ तस्यां बडुलशर्वयां तुल्यध्वांतां महानगैः । निम्नगां शर्वरीमेतौ शवराश्रितरोधसां ॥ २९ ॥ तस्या रोधसि विश्रम्य नानास्वादुफलोचिते । कांश्चित्पावर्तयद्भूपान् पद्मः सुप्रतिबोधनः॥३०॥ महतापि प्रयत्नेन निवृत्ता नापरे नृपाः । पझेन सहित गंतुं किल संजातनिश्चयाः ॥ ३१ ॥ ततस्ते निम्नगां दृष्ट्वा महानीलावभासिनी । चंडवेगोर्मिसंघातनिर्मितोदारनिश्चितां ॥ ३२ ॥ उन्मज्जत्प्रवलग्राहकृतकल्लोलसंकुलां । वीचीमालासमाघातनिपतन्मृदुरोधसां ॥ ३३ ॥ महींद्रकंदरास्फालप्रांते सूत्कारनादिनीं । उद्वर्तमानमीनांगस्फुरद्भास्कररोचिषां ॥ ३४ ॥ उद्वृत्तनक्रसूत्कारजात दूरगशीकरां । उड्डीयमाननिश्शेषभयपूर्णपतत्रगां ॥ ३५ ॥ संत्रासकंपमानांगा जगू रामं सलक्ष्मणं । समुत्तारय नाथास्मानपि पद्मप्रसादवान् ॥ १६ ॥ भृत्यानां भक्तिपूर्णानां प्रसादं कुरु लक्ष्मण । देवि ते कुरुते वाक्यं जानकी बेहि लक्ष्मणं ॥३७॥
Page #99
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व ।
एवमादिगदंतस्ते कृपणा बहु तो नदीं । डुढौकिरे प्रसनुश्च नानाचेष्टाविधायिनः ॥ ३८ ॥ ततस्तान् राघवोऽवोचद्विश्रब्धो रोधसि स्थितः। अधुना विनिवर्तध्वं भद्रा भीममिदं वनं ॥३९॥ अस्माभिः सह युष्माकमियानेषैव संगमः । एषा नद्यवधिर्जाता भवतीत्सुक्यवर्जिता ॥ ४०॥ तातेन भरतः स्वामी सर्वेषां वो निवेदितः । विसाध्वसास्तमावृत्य तिष्ठत क्षितिपालिनः ॥४१॥ ततस्ते पुनरित्यूचुनोथास्माकं भवान् गतिः। प्रसादं कुरु मात्याक्षीरस्मान् कारुण्यकोविद ॥४२॥ त्रिराश्रयाकुलाभूता त्वयेयं रहिता प्रजा । वद कं शरणं यातु सदृशः कस्तवापरः ॥ ४३ ॥ व्याघ्रसिंहगजेंद्रादिव्यालजालसमाकुले । वसामो भवता सार्धमरण्ये न विना दिवि ॥ ४४ ॥ तनोति वर्तते चित्त प्रतियामः कथं वयं । महत्तरत्वमेतेन हृषीकेष्वर्जितं ननु ॥ ४५ ॥ किं नो गृहेण किं भोगैः किं दारैः कि बंधुभिः । भवता नररत्नेन मुक्तानां पापकर्मणां ॥ ४६॥ क्रीडास्वपि त्वया देव वंचिता स्मो न जातुचित् । सम्मानेनाधुना कस्माज्जातोस्वत्यंतनिष्टुरः ४७ कोपराधो वदास्माकं भवच्चरणरेणुना । परमां वृद्धिमेतानां भक्तानां भृत्यवत्सल ॥४८॥ अहो जानकि लक्ष्मीश रचितोयं शिरोंजलिः । प्रसादयितमीशं नः प्रसादी भवतोरयं ॥ ४९ ॥ सीता लक्ष्मीधरश्चैवमुच्यमानौ सुदक्षिणौ । तस्थतुः पद्मपादानन्यस्तनेत्री निरुत्तरौ ॥ ५० ॥
Page #100
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व। ततः पद्मो जगादेदं भवतामुत्तरं स्फुटं । निवर्तध्वमयं भद्रा यातोऽस्मि सुखमास्यतां ॥५१॥ इत्युक्त्वा निरपेक्षौ तौ परमोत्साहसंगतौ । अवतरतुरत्यंतगंभीरां तां महापगां ॥५२॥ उत्तीर्णः सरितं पद्मो जानकी विकचेक्षणां । करेण सुखमादाय पनिप्रीमिव दिग्गजः ॥ ५३ ॥ अंभोविहारविज्ञानबुधयोः सा तयाधुनी । नाभिदन्नी बभूवोद्यां क्रीडामाचरतोश्चिरं ॥ ५४॥ तदातिशोभते सीता पद्महस्ततलस्थिता । सुधीरा श्रीरिवोत्तुंगशतपत्रगृहस्थिता ॥ ५५ ॥ पारगः सीतया सार्धं लक्ष्मणेन च स क्षणात् । वृक्षरंतर्धिमायातश्चेतस्तंभनविग्रहः ॥ ५६ ॥ विप्रलापं ततः कृत्वा महांतं साश्रुलोचनाः । भवनाभिमुखीभूताः केचित्कृच्छ्रेण भूभृतः॥५७॥ तदाशान्यस्तनेत्रास्तु केचित्पुस्तमया इव । तस्थुः प्राप्यापरे मूछों निपेतुर्धरणीतले ॥ ५८ ॥ विवोध्य केचिदत्रोचुर्धिक् संसारमसारकं । धिग्भोगान्भोगिभोगाभान् भंगुरान्भीतिभाविनः।।५९॥ ईदृशामपि शूराणां यत्रावस्थेयमीदृशी । तत्र ग्रहणमस्मासु किमेरंडप्रफल्गुषु ॥ ६० ॥ वियोगमरणव्याधिजराव्यसनभाजनं । जलवुद्वदनिस्सारं कृतघ्नं धिक् शरीरकं ॥ ६१ ॥ भाग्यवंतो महासत्वास्ते नराः श्लाघ्यचेष्टिताः । कपिभ्रूभंगुरां लक्ष्मी ये तिरस्कृत्य दीक्षिताः६२ इति निर्वेदमापन्ना बहवो नरसत्तमाः । प्रव्रज्याभिमुखीभूता बभ्रमुस्तत्र रोधसि ॥ ६३ ॥
Page #101
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
द्वात्रिंशत्तम पर्व।
अपेक्षांचक्रिरे तुंगं विशालं शुभमालयं । परिवतिमतिश्याममहानोकहमालया ॥ ६४ ॥ अनुसमुश्च तं नानापुष्पजातिसमाकुलं । मकरंदरसास्वाद गुंजत्संभ्रांतषट्पदं ॥ ६५ ।। ददृशुश्च विवेकेषु देशेषु समवस्थितान् । साधून स्वाध्यायसंसक्तमानसान पुरुतेजसः ॥ ६६ ॥ क्रमेण तान्नमस्यंतः शनैर्मस्तकपाणयः । विविशुर्जिननाथस्य भवनं भृशमुज्वलं ॥ ६७ ॥ रम्येष्वद्रिनितंबेषु काननेषु सरित्सु च । तत्र काले मही प्रायो भूषितासीज्जिनालयैः ॥६८ ॥ तत्र कृत्वा नमस्कारं जिनानां शुभ्रभावनाः । रत्नसंभवगंभीरं संयतेंद्र डुढौकिरे ॥ ६९ ॥ प्रणम्य शिरसा तस्य संवेगभरवादिनः । नाथोत्तारय संसारादस्मादिति बभाषिरे ॥ ७० ॥ सत्यकेतुगणीशेन तथास्त्विति कृतध्वनौ । जग्मुस्ते परमं तोषं निर्गताः स्मो भवादिति ॥ ७१ ॥ निदग्धो विजयो मेरुः क्रूरः संग्रामलोलुपः । श्रीनागदमनो धीरः शठः शत्रुदमो धरः ॥७२॥ विनोदः कंटकः सत्यः कठोरः प्रियवर्धनः । एवमाद्या नृपा धर्म नैग्रंथ्यं समशिश्रयन् ।। ७३ ॥ साधनानि भटास्तेषां गृहीत्वा नगरी गताः । द्रुतमपेयितुं दीनाः पुत्रादीनां त्रपाचिताः॥ ७४ ॥ अणुव्रतानि संगृह्य केचिनियमधारिणः । आराधयितुमुद्युक्ता बोधिबुद्धिविभूषणाः ।। ७५ ॥ सम्यग्दर्शनमात्रेण संतोषमपरे गताः । श्रुत्वातिविमलं धर्म जिनानां जितजन्मनां ॥७६ ॥
Page #102
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व । सामंतैर्बहुभिर्गत्वा भरताय निवेदितः । वृत्तांतो सुस्थितश्चायं ध्यायन् किमपि दुःखितः ॥७७।। अथानरण्यराजस्य तनयः सुप्रबोधनः । राज्याभिषिचनं कृत्वा भरतस्य सुचेतसः ॥ ७८ ॥ किंचित्पद्मवियोगेन संतप्तं चित्तमुद्वहन् । शोकांभोधिनिमनेन परिवर्गेण वीक्षितः ॥ ७९ ॥ कृतसांत्वनमप्युच्चैर्विलपत्स समाकुलं । अंतःपुरं परित्यज्य नगरीतो विनिर्गतः ॥ ८० ॥ गुरुपूजां परां कृत्वा द्वासप्ततिनृपान्वितः । सर्वभूतहितस्यांते शिश्रिये श्रमणश्रिया ।। ८१ ॥ अथाप्येकविहारस्य शुभं ध्यानमभीप्सतः । मानसं पुत्रशोकेन कलुषं तस्य जन्यते ॥ ८२ ॥ अन्यदा योगमाश्रित्य दध्यावेवं विचक्षणः । धिक् स्नेहं भवदुःखानां मूलं बंधमिमं मम ॥८३॥ अन्यजन्मसु ये दारा पितृभ्रातृसुतादयः । क गतास्ते ममानादो संसार गणनोज्झिताः॥८४॥ अनेकशोभया प्राप्ता विविधा विषया दिवि । नरकानलदाहाश्च संप्राप्ता भोगहेतवः ॥ ८५ ॥ अन्योन्यभक्षणादीनि तिर्यक्त्वे च चिरं मया । प्राप्तानि दुःखशल्यानि बहुरूपासु योनिषु ॥८६॥ श्रुताः संगीतनिश्वाना वंशवीणा तु गामिनः । भूयश्च परमानंदाश्चित्तदारणकारिणः ॥ ८७॥ स्तनेष्वप्सरसां पाणिलोलितो नेत्रहारिषु । पुनः कुठारघातेन दुर्वृत्तेन पृथककृतः ॥ ८८ ॥ आखादितं महावीर्यमबं सुरभि षड्रसं । त्रपुसीसादिकललं पुनश्च नरकावनौ ॥ ८९ ॥
Page #103
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
९४
द्वात्रिंशत्तमं पर्व ।
1
वीक्षितं परमं रूपं मनोद्रवणकारणं । पुनश्चात्यंतवित्रासकारणं दत्तवेपथुः ॥ ९० ॥ आघातः स चिरामोदो गंधो मुदितषट्पदः । पुनश्च पूतिरत्यंतमुद्वासितमहाजनः ॥ ९१ ॥ आलिंगिता मनोर्यो नार्यो लीलाविभूषणाः । पुनश्च कूटशाल्मल्यः तीक्ष्णकंटकसंकटाः ।। ९२ ।। किं न स्पृष्टं न कि दृष्टं किं घ्रातं न किं श्रुतं । मुहुरास्वादितं किं न भवे दासेन कर्मणां ॥ ९३ ॥ न सा क्षितिर्न तत्तोयं नासौ वह्निर्न सोऽनिलः । देहतां यो न मे प्राप्तो भवे संक्रामतश्चिरं ॥ ९४ ॥ त्रैलोक्ये स न जीवोऽस्ति यो न प्राप्तः सहस्रशः । पित्रादितां मम स्थानं न तद्यत्रोषितोस्मि न || अध्रुवं देहभोगादि शरणं नास्ति विद्यते । संसारोयं चतुःस्थान एकोहं दुःखमुक्तिषु ॥ ९६ ॥ अशुचेः कायतोन्योहं धारमक्षाणि कर्मणां । संवरो वारणं तेषां निर्जरा जायते ततः ॥ ९७ ॥ लोको विचित्ररूपोयं दुर्लभा बोधिसत्तमा । स्वाख्यातोयं जिनैर्धर्मः कृच्छ्रेणाधिगतो मया || ९८ || ध्यानेन मुनिदृष्टेन विशुद्धेनैवमादिना । आर्तध्यानमसौ धीरः क्रमेण निरनीनशत् ॥ ९९ ॥ येषूच्छ्रितसितच्छत्रोवरस्तंवेरमाश्रितः । महाजिषु पराजिग्ये शत्रूनत्यं तमुद्धतान् ॥ १०० ॥ विषमानधिकुर्वाणः परीषहगणान्भृशं । शांतस्तेष्वेव देशेषु निर्ग्रथो विजहार सः ॥ १०१ ॥ नाथे तथा स्थिते तस्मिन् विदेशे च गतेंगजे । परं सुमित्रया सत्रा शोकं भेजेऽपराजिता १०२
Page #104
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व।
ते दृष्ट्वा दुःखिते वाढमजस्रास्रितलोचने । भरताभिश्रियं मेने भरतो विषदारुणं ॥१०३॥ अथैवं दुःखमापन्ने भृशं ते वीक्ष्य केकया । पश्चादुत्पन्नकारुण्यात्पुत्रमेवमभाषत ॥ १०४ ॥ पुत्र राज्यं त्वया लब्धं प्रणताखिलराजकं । पद्मलक्ष्मणनिर्मुक्तमलमेतन्न शोभते ॥ १०५ ॥ विना ताभ्यां विनीताभ्यां किं राज्यं का सुखासिका। का वा जनपदे शोभा तव का वा सुवृत्तता। राजपुच्या समं बालौ क तौ यातां सुखैधितौ । विमुक्तवाहनौ मार्गे पाषाणादिभिराकुले।।१०७॥ मातरौ दुःखिते एते तयोर्गुणसमुद्रयोः । विरहे मापतां मृत्युमजस्रपरिदेवते ॥ १०८ ॥ तसादानय तो क्षिप्रं समं ताभ्यां महासुखः । सुचिरं पालय क्षोणीमेवं सर्व विराजते ॥१०९॥ व्रज तावत्वमारुह्य तुरंगं जातरंहसं । आव्रजाम्यहमप्येषा सुपुत्रानुपदं तव ॥ ११०॥ इत्युक्तो धृतिमासाद्य साध्वेवमिति सस्वनः । संभ्रांतोऽश्वसहस्रेण भरतस्तत्पथं श्रितः ॥ १११॥ कृत्वापुरस्सरान् पद्मपान्प्रित्यागतानरान् । पवनाश्वसमारूढः स ययौ भृशमुत्सुकः ॥११२॥ प्राप्तश्च तामरण्यानीमनेकपकुलाकुलां । नानावृक्षावृतादित्यां गिरिगहरभीषणां ॥ ११३ ॥ बंधयित्वा महावृक्षरुडुपानां ससंहतीः । तां धुनीमुत्ततारासौ क्षणेन सहवाहनः ॥ ११४ ॥ इतो दृष्टावितो दृष्टौ पुरुषो सहयोषिता । इति पृच्छन्नशृण्वंश्च जगामानन्यमानसः ॥ ११५॥
Page #105
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व । अथ तौ परमारण्ये विश्रांतौ सरसस्तरे । ससीतौ भरतोऽपश्यत्पार्श्वन्यस्तशरासनौ ॥ ११६ ॥ प्रभूतदिवसप्राप्तं ताभ्यां सीता व्यपेक्षया । षद्भिर्दिनैस्तमुद्देशं भरतः प्रतिपन्नवान् ॥ ११७ ॥ अवतीर्य तुरंगाच्च मार्ग लोचनगोचरं । गत्वा पद्मां समाश्लिष्य पादौ पद्मस्य मूर्च्छितः ॥ ११८ ॥ ततो विवोधितस्तेन कृत्वा संभाषणं क्रमात् । मूर्द्धाजलिर्जगादैवं पद्मं विनतविग्रहः ॥ ११९ ॥ विडंवनमिदं कस्मान्नाथ मे भवता कृतं । परं राज्यापदेशेन न्याय सर्वस्व कोविद ।। १२० ।। आस्तां तावदिदं राज्यं जीवितेनापि किं मम । भवता विप्रयुक्तस्य गुरुचेष्टितकारिणा ॥ १२१ ॥ उतिष्ठ स्वपुरी यामः प्रसादं कुरु मे प्रभो । राज्यं पालय निश्शेषं यच्छ मेतिसुखासिकां ।। १२२ ।। भवामि छत्रधारस्ते शत्रुघ्नश्चमराश्रितः । लक्ष्मणः परमो मंत्री सर्व सुविहितं ननु ॥ १२३ ॥ पश्चात्तापानलेनालं संतप्ता जननी मम । तव लक्ष्मीधरस्यापि वर्तते शोककारिणी ॥ १२४ ॥ वत्येवमसौ यावत्केकया तावदागता । वेगिनं रथमारुह्य सामंतशतमध्यगा ।। १२५ ।। दृष्ट्वा परमशोकेन निर्भरीकृतमानसा । हाकारमुखरा चेतावालिंग्य रुदिता चिरं ।। १२६ ।। ततोऽस्रसरितश्छेदे विप्रलापेऽतिखेदिता । क्रमात्संभाषणं कृत्वा केकयैवमभाषत ॥ १२७ ॥ पुत्रोत्तिष्ठ पुरी यामः कुरु राज्यं सहानुजः । ननु त्वया विहीनं मे सकलं विपिनायते ॥ १२८ ॥
९६
Page #106
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व ।
भरतः शिक्षणीयोयं तवात्यंतमनीषिणः । स्त्रैणेन नष्टबुद्धर्मे क्षमस्व दुरनुष्ठितं ॥ १२९ ॥ ततः पद्मो जगादैवं किं न वेत्सि त्वमंबिके । क्षत्रिया ननु कुर्वति सकृत्कार्यमनन्यथा ।। १३० ॥ उक्तं तातेन यत्सत्यं तत्कर्तव्यं मया त्वया । भरतेन च दुष्कीर्तिर्माभूदस्य जगत्त्रये ॥ १३१ ॥ पुनश्चोवाच भरतं भ्रातांगाद्विचिंततां । शंकसे यधनाचारान्नायं मदनुमोदनात् ॥ १३२॥ इत्युक्त्वा पुनरप्यस्य पदो राज्याभिषेचनं । चकार कानने रम्ये समक्षं सर्वभूभृतां ॥ १३३ ॥ प्रणम्य केकयां शांत्वा संभाष्य च पुनः पुनः । भ्रातरं च परिष्वज्य प्राहिणोत्सोऽतिकृच्छ्रतः १३४ तौ विधाय यथायोग्यमुपचारं ससीतयोः । रामलक्ष्मणयोर्यातौ मातापुत्रौ यथागतं ॥ १३५ ॥ परिध्वस्ताखिलद्वेषं सर्वप्रकृतिसौख्यदं । चकार भरतो राज्यं प्रजासु जनकोपमः ॥१३६॥ राज्ये तथाविधेयस्य धृतिनाभूदपि क्षणं । दुस्सहं दधमानस्य शोकशल्यं मनस्विनः ॥ १३७॥ त्रिकालमरनाथस्य वंदारुर्भोगमंदधीः । ययौ श्रोतुं च सद्धर्म चैत्यमस्येयती धृतिः॥१३८॥ तत्राचार्यो द्युतिनाम स्वपरागमपारगः । महता साधुसंघेन सततं कृतसेवनः ॥ १३९ ॥ अग्रतोवंग्रहं तस्य चकार भरतः सुधीः । पद्मदर्शनमात्रेण करिष्ये मुनितामिति ॥ १४०॥ कृतावग्रहमेवं तमुवाच भगवान् द्युतिः । कुर्वन् मयूरवृंदानां नर्तनं धीरया गिरा ॥ १४१ ॥
Page #107
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व । भव्य भो यावदायाति पद्मः पद्मनिरीक्षणः । तावद्गृहस्थधर्मेण भवाप्तपरिकर्मकः ॥१४२ ॥ अत्यंतदुस्सहा चेष्टा निग्रंथानां महात्मनां । परिकर्मविशुद्धस्य जायते सुखसाधना ॥१४३॥ उपरिष्टात्करिष्यामि काले तप इति ब्रुवन् । अनेको मृत्युमायाति नरोतिजडमानसः ॥१४४॥ अनर्घ्यरत्नसदृशं तपो दिग्याससामिति । एवमप्यक्षमं वक्तुं परस्तस्योपमा कुतः ॥ १४५ ॥ कनीयांस्तस्य धर्मोयमुक्तोयं गृहिणां जिनैः । अप्रमादी भवेत्तस्मिन्निरतो बोधिदायिनि ॥ १४६ ॥ यथा रत्नाकरद्वीपं मानवः कश्चिदागतः । रत्नं यत्किंचिदादत्ते यात्यस्य तदनर्घतां ॥१४७ ॥ तथास्मिन्नियमद्वीपे शासने धर्मचक्रिणां । य एव नियमः कश्चिद्ग्रहीतो यात्यनर्घतां ॥१४८ ॥ अहिंसारत्नमादाय विपुलं यो जिनाधिपं । भक्त्यार्चयत्यसौ नाके परमां वृद्धिमश्नुते ॥ १४९ ॥ सत्यव्रतधरः सम्भिर्यः करोति जिनार्चनं । भवत्यादेयवाक्योऽसौ सत्कीर्तिव्याप्तविष्टपः ॥१५०॥ अदत्तादाननिर्मुक्तो जिनेंद्रान्यो नमस्यति । जायते रत्नपूर्णानां नदीनां स विभुनरः ॥ १५१ ॥ यो रत्यं परनारीषु न करोति जिनाश्रितः । सोथ गच्छति सौभाग्यं सर्वनेत्रमलिम्लुचः १५२ जिनानर्चति यो भक्त्या कृतावधिपरिग्रहः । लभतेऽसावतिस्फीतान लाभान् लोकस्य पूजितः१५३ आहारदानपुण्येन जायते भोगनिर्भरः । विदेशमपि यातस्य सुखिता तस्य सर्वदा ॥ १५४ ॥
Page #108
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व। अभीतिदानपुण्येन जायते भयवर्जितः । महासंकटयातोऽपि निरुपद्रवविग्रहः ॥ १५५ ।। जायते ज्ञानदानेन विशालसुखभाजनं । कलार्णवामृतं चासौ गंडूषं कुरुते नरः ॥ १५६ ॥ यः करोति विभावर्यामाहारपरिवर्जनं । सर्वारंभप्रवृत्तोऽपि यात्यसौ सुखदां गतिं ॥ १५७ ॥ चंदनं यो जिनेंद्राणां त्रिकालं कुरुते नरः । तस्य भावविशुद्धस्य सर्वे नश्यति दुष्कृत ॥ १५८ ॥ सामोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानं पुष्पकं प्राप्य स क्रीडति यथेप्सितं ॥१५९॥ भावपुष्पैर्जिनं यस्तु पूजयतीति निर्मलैः । लोकस्य पूजनीयोसौ जायतेऽत्यंतसुंदरः ॥ १६० ।। धूपं यश्चंदनाशुभ्रागुर्वादिप्रभवं सुधीः । जिनानां ढौकयत्येष जायते सुरभिः सुरः ॥ १६१ ॥ यो जिनेंद्रालये दीपं ददाति शुभभावतः । स्वयंप्रभशरीरोसौ जायते सुरसमनि ॥ १६२ ॥ छत्रचामरलंबूषपताकादर्पणादिभिः । भूषयित्वा जिनस्थानं याति विस्मायिनीं श्रियं ॥ १६३ ॥ समालभ्य जिनान गंधैः सौरभ्यव्याप्तदिङ्मुखैः। सुरभिः प्रमदानंदो जायते दयितः पुमान् १६४ अभिषेकं जिनेन्द्राणां कृत्वा सुरभिवारिणा । अभिषेकमवाप्नोति यत्र यत्रोपजायते ॥ १६५ ।। अभिषेकं जिनेंद्राणां विधाय क्षीरधारया । विमाने क्षीरधवले जायते परमद्युतिः ॥ १६६ ॥ दधिकुभर्जिनेंद्राणां यः करोत्यभिषेचनं । दध्याभकुट्टमे स्वर्गे जायते स सुरोत्तमः ॥१६७ ।।
Page #109
--------------------------------------------------------------------------
________________
१००
पद्मपुराणम्।
द्वात्रिंशत्तम पर्व । सार्पषा जिननाथानाम् कुरुते योऽभिषेचनं । कांतिद्युतिप्रभावाढयो विमानेशः स जायते १६८ अभिषेकप्रभावेण श्रूयंते बहवो बुधाः । पुराणेनंतवीर्याद्या झुभूलब्धाभिषेचनाः ॥ १६९ ॥ भक्त्या वल्युपहारं यः कुरुते जिनसमनि । संप्राप्नोति परां भूतिमारोग्यं स सुमानसः ॥१७० ॥ गीतनर्तनवादित्रैर्यः करोति महोत्सवं । जिनसमन्यसौ स्वर्गे लभते परमोत्सवं ॥ १७१ ॥ भवनं यस्तु जैनेंद्र निर्मापयति मानवः । तस्य भोगोत्सवः शक्यः केन वक्तुं सुचेतसः ॥१७२॥ प्रतिमा यो जिनेंद्राणां कारयत्यचिरादसौ । सुरासुरोत्तमसुखं प्राप्य याति परं पदं ॥ १७३ ॥ व्रतज्ञानतपोदानैर्यान्युपात्तानि देहिनः । सर्वैत्रिष्वपि कालेषु पुण्यानि भुवनत्रये ॥ १७४ ॥ एकस्मादपि जैनेंद्रबिंवाद्भावेन कारितात् । यत्पुण्यं जायते तस्य न सम्मात्यतिमात्रतः ॥१७५।। फलं यदेतदुद्दिष्टं स्वर्गे संप्राप्य जंतवः । चक्रवादितां लब्ध्वा तन्मयोऽपि भुंजते ॥ १७६ ॥ धर्ममेवं विधानेन यः कश्चित्प्राप्य मानवः । संसारार्णवमुत्तीर्य त्रिलोकाग्रेऽवतिष्ठते ।। १७७ ॥ फलं ध्यानाचतुर्थस्य षष्ठस्योद्यानमात्रतः । अष्टमस्य तदारंभे गमने दशमस्य तु ॥ १७८ ॥ द्वादशस्य ततः किंचिन्मध्ये पक्षोपवास । फलं मासोपवासस्य लभते चैत्यदर्शनात् ॥१७९ ॥ चैत्यांगणं समासाद्य याति पाण्मासिकं फलं । फलं वर्षोपवासस्य प्रविश्य द्वारमश्नुते ॥१८॥
Page #110
--------------------------------------------------------------------------
________________
१०१
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व । फलं प्रदक्षिणीकृत्य भुक्ते वर्षशतस्य तु । दृष्ट्वा ज़िनास्यमाप्नोति फलं वर्षसहस्रजं ॥ १८१ ॥ अनंतफलमाप्नोति स्तुतिं कुर्वन् स्वभावतः । नहि भक्तेर्जिनेंद्राणां विद्यते परमुत्तमं ॥ १८२ ॥ कर्म भक्त्या जिनेंद्राणां क्षयं भरत गच्छति । क्षीणको पदं याति यस्मिन्ननुपमं सुखं ॥१८३ ॥ इत्युक्तेत्यंतसद्भक्तिः प्रणम्य चरणी गुरोः । जग्राह भरतो धर्म सागारं सुविधानतः ॥ १८४ ॥ बहुश्रुतोऽतिधर्मज्ञो विनीतः श्रद्धयान्वितः । विशेषतो ददौ दानं स साधुषु यथोचितं ॥१८५॥ सम्यग्दर्शनरत्नं स हृदयेन सदा वहन् । चकार विपुलं राज्यं साधुचेष्टापरायणः ॥ १८६ ॥ प्रतापश्चानुरागश्च समस्तां तस्य मेदिनीं । बभ्राम प्रतिघातेन रहितां गुणवारिधेः॥ १८७ ॥ अध्यर्द्ध तस्य पत्नीनां शतं देवीसमत्विषां । न तत्र सक्तिमायाति शतपत्रं यथांभसि ॥ १८८॥ चिंतास्य नित्यं मगधाधिपासीत् । कदा नु लप्स्ये निस्गारदीक्षां ॥
तपः करिष्यामि कदा नु घोरं । संगैर्विमुक्तो विहरन् पृथिव्यां ॥ १८९ ॥ धन्या मनुष्या धरणीतले ते । ये सर्वसंगान् परिवयं धीराः॥
दग्ध्वाखिलं कर्म तपोबलेन । प्राप्ताः पदं निर्धतिसौख्यसारं ॥ १९० ।। तिष्ठामि पापो भवदुःखमनः । पश्यन्नपीदं क्षणिकं समस्तं ॥
Page #111
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
द्वात्रिंशत्तम पर्व। पूर्वाह्नदृष्टोऽत्र जनोऽपरोह । न दृश्यते कश्चिदहोस्मि मूढः ॥ १९१ ॥ व्यालाज्जलाद्वा विषतोऽनलाद्वा । वज्राद्विमुक्तादहितेन शस्त्रात् ॥
शुलाद्वराद्वा मरणं जनोयं । प्राप्नोति दीनो ननु बंधुमध्ये ॥ १९२ ।। बहुप्रकारैमरणैर्जनोयं । प्रतक्यते दुःखसहस्रभागी ॥
क्षीरार्णवस्येव तटे प्रसुप्तो । मत्तोतिवेगप्रसृतोर्मिजालैः ॥ १९३ ॥ विधाय राज्यं घनपापदिग्धो । हा कं प्रपत्स्ये नरकं कुघोरं ॥
शरासिचक्रांगनगांधकारं । किंवा नु तिर्यक्त्वमनेकयोनि ॥ १९४ ॥ लब्ध्वापि जैनं समयं यदेत-न्मदान्मदीयं दुरितानुवद्धं ।।
करोति नो निस्पृहतामुपेत्य । विमुक्तिदक्षं निरगारधर्म ॥ १९५ ॥ एवं च चिंता सततं प्रपन्नो । दुष्कर्मविध्वंसनहेतुभूतां ॥
पुराणनिग्रंथकथाप्रसक्तो । ददर्श राजा न रविं न चंद्रं ॥ १९६ ॥ इत्यार्षे रविषणाचार्यप्रोक्त पद्म-चरिते दशरथरामभरतानां प्रव्रज्यावनराज्यप्रस्थानाभिधान
नामद्वात्रिंशत्तमं पर्व।
Page #112
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१०३
अथ त्रयस्त्रिंशत्तमं पर्व |
ततो जनोपभोग्यानां प्रदेशानां समीपतः । रमणीयान् परिप्राप पद्मस्तापससंश्रयान् ॥ १ ॥ तापसा जटिलास्तत्र नानावल्कलधारिणः । सुस्वादुफलसंपूर्णाः पादपा इव भूरयः ॥ २ ॥ विशालपत्रसंछन्ना मठकाः सवितर्द्दिकाः । पलाशोदुंबरैधानां पूलिकाभिर्युताः कचित् ॥ ३ ॥ अकृष्टपच्यमानेन शुष्यता पूरितांगणाः । वर्तयद्भिः सुविश्रब्धैः रोमंथं राजिता मृगैः ॥ ४ ॥ सजटैर्वदुभिर्युक्ता रद्भिः सततं पटु । ललतोच्छ्रितपुच्छ्रेण तार्णकेन कृताजिराः ॥ ५ ॥ पठद्भिर्विशदं युक्ताः शारिकाशुककौशिकैः । वीरुधां पुष्परम्याणां छायासु समवस्थितैः ॥ ६ ॥ कन्याभिर्घटकैः स्वादु वारिणा भ्रातृतेक्षितैः । पूर्णालवालकैर्वालस्तरुभिः कृतराजनः ॥ ७ ॥ फलैर्बहुविधैः पुष्पैर्वासितैः स्वादुवारिभिः । सादरैः स्वागतस्वानैः सार्घदानैस्तथाशनैः ॥ ८ ॥ संभाषणैः कुटीदानैः शयनैर्मृदुपल्लवैः । तापसैरुपचारैस्ते पूजिता श्रमहारिभिः ॥ ९ ॥ आतिथेयाः स्वभावेन तेहि सर्वत्र तापसाः । रूपेश्वेवं प्रकारेषु विशेषेण सुवृत्तयः ॥ १० ॥ उषित्वा गच्छतां तेषां ययुर्मार्गेण तापसाः । पाषाणानपि तद्रूपं द्रवीकुर्यात्किमन्यकैः ॥ ११ ॥
त्रयस्त्रिंशत्तमं पर्व |
Page #113
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
त्रयस्त्रिंशत्तमं पर्व ।
शुष्कपत्राशिनस्तत्र तापसा वायुपायिनः । सीतारूपहृतस्वांता धृतिं दूरेण तत्यजुः ॥ १२ ॥ तानूचुस्तापसा वृद्धाःसांत्ववाचा पुन पुनः । तिष्ठतं यदि नास्माकमाश्रमे शृणुतं ततः ।। १३ ।। सर्वातिभ्यसमेतास्वप्यटवीषु विचक्षिणौ । विश्रभं जातु मागातां नारीश्विव नदीष्विव ॥ १४ ॥ तापसमा दृष्ट्वा पद्मं पद्मनिरीक्षणं । लक्ष्मणं च जहुः सर्व कर्तव्यं शून्यविग्रहाः ।। १५ ।। काश्चिदुत्कंठ्या युक्तास्तन्मार्गाहितलोचनाः । व्रजंत्यन्यापदेशेन सुदूरं विहलात्मिकाः ॥ १६ ॥ मधुरं ब्रुवते काचिद्भवतोऽस्माकमाश्रमे । किं न तिष्ठतु सर्व नः करिष्यामो यथोचितं ॥ १७ ॥ अतीत्य त्रीनितः कोशानरण्यानी जनोज्झिता । महानोकहसंछन्ना हरिशार्दूलसंकुला ॥ १८ ॥ समित्फलप्रसूनार्थं तापसा अपि तां भुवं । न व्रजंति महाभीमां दर्भशचीभिराचितां ॥ १९ ॥ चित्रकूटः सुदुर्लभ्यः प्रविशालो महीधरः । भवद्भिः किं न विज्ञातः प्रकोपं येन गच्छतः ॥२०॥ तापस्योवश्यमस्माभिर्गतव्यमिति चोदिताः । कृच्छ्रेण ता न्यवर्तत कुर्वाणास्तत्कथां चिरं ॥२१॥ ततस्ते भूमहींद्राग्रग्रावत्रातसुकर्कशं । महातरुसमारूदुबलीजालसमाकुलं ।। २२ ।। क्षुदतिक्रुद्धशार्दूलनखविकृतपादपं । सिंहाहतद्विपोद्गीर्णरक्तमौक्तिकपिच्छलं ।। २३ ।। उन्मत्तवारणस्कंधतटस्कंधमहातरुं । केसरिध्वनिवित्रस्तसमुत्कीर्णकुरंगकं ॥ २४ ॥
१०४
Page #114
--------------------------------------------------------------------------
________________
प्रअपुराणम् ।
त्रयस्त्रिंशत्तम पर्व। सुप्ताजगरनिश्वासवायुपूरितगहरं । वराहयूथपोताग्रविषमीकृतपल्वलं ।। २५ ॥ महामहिषशृंगाग्रमग्रवल्मीकसानुकं । ऊर्चीकृतमहाभोग संचरद्भोगिभीषणं ॥ २६ ॥ तरक्षक्षतसारंगरुधिरभ्रांतमक्षिकं । कंटकासक्तपुच्छाग्रप्रताम्यच्चमरीगणं ॥ २७ ॥ दर्पसंपूरितवाविन्मुक्तशूचीविचित्रितं । विषपुष्परजोघाणघूर्णितानेकजंतुकं ॥ २८ ॥ खड़िखड्समुल्लीढतरुस्कंधच्युतद्रवं । उद्धांतगवयवातभग्नपल्लवजालकं ॥ २९ ॥ नानापक्षिकुलं क्रूरकूजितं प्रतिनादितं । शाखामृगकुलाक्रांतचलत्प्राग्भारपादपं ॥ ३०॥ तीव्रवेगगिरिस्रोतः शतनिर्धारितक्षमं । वृक्षाग्रविस्फुरत्स्फीतदिवाकरकरोत्करं ॥ ३१ ॥ नानापुष्पफलाकीर्ण विचित्रामोदवासितं । विविधौषधिसंपूर्ण वनसस्यसमाकुलं ॥ ३२॥ काचेन्नीलं क्वचित्पीतं कचिद्रक्तं हरित्क्वचित् । पिंजरच्छायमन्यत्र विविशुर्विपिनं महत् ॥ ३३ ॥ तत्र ते चित्रकूटस्य निझरेष्वतिचारुषु । कीडंतो दर्शयंतश्च सद्वस्तूनि परस्पर।कुलकं(द्वादशभिः) फलानि स्वादुहारीणि स्वादमानाः पदे पदे । गायंतो मधुरं हारि किन्नरीणां त्रपाकरं ॥ ३५ ॥ पुष्पैर्जलस्थलोद्भूतैर्भूषयंतःपरस्परं । सुगंधिभिर्द्रवैरंगं लिंपंतस्तरुसंभवैः ॥ ३६ ॥ उद्यानमिव निर्याता विकसत्कांतिलोचनाः । स्वच्छंदकृतसंस्काराः सत्त्वलोचनतस्कराः ॥३७॥
Page #115
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तम पर्व।
लतागृहेषु विश्राता मुहुर्नयनहारिषु । कृतनानाकथासंगा किंचिन्नमविधायिनः ॥ ३८ ॥ व्रजंतो लीलया युक्ता निसर्गादतिरम्यया । पर्यटतो वनं चारु त्रिदशा इव नंदनं ॥ ३९ ॥ पक्षानैः पंचभिर्मासैस्तमुद्देशमतीत्य ते । जनैः समाकुलं प्रापुर्देशमत्यंतसुंदरं ॥ ४० ॥ गोघंटारवसंपूर्ण नानासस्योपशोभितं । अवंतीविषयं स्फीतं ग्रामपत्तनसंकुलं ॥४१॥ मार्ग तत्र कियंतं चिदतिक्रम्य जनोज्झितं । विषयकांतमापुस्ते पृथु स्वाकारधारिणः ॥ ४२ ॥ छायां न्यग्रोधजां श्रित्वा विश्रातास्ते परस्परं । जगुः कस्मादयं देशो दृश्यते जनवर्जितः॥४३॥ सस्यानि कृष्टपच्यानि दृश्यंतेत्रातिभूरिशः । उद्यानपादपाश्चैते फलैः पुष्पैश्च शोभिताः ॥ ४४ ॥ पुंड्रेक्षुवाटसंपन्ना ग्रामास्तुंगावनिस्थिताः । सरांस्यच्छिन्नपद्भानि युक्तानि विविधैः खगैः॥४५॥ अध्वायं घटकैमग्नैः शकटैश्च विशंकटः । करंडैः कुंडकैदँडैः कुंडिकाभिः कटाशनैः ॥ ४६॥ विकीर्णास्तंडुला माषा मुद्गाः सूर्यादयस्तथा । वृद्धोक्षोयं मृतो जीर्णगोण्यस्योपरि तिष्ठति ॥४७॥ देशीयमतिविस्तीर्णः शोभते न जनोज्झितः । अत्यंतविषयासंगो यथा दीक्षासमाश्रितः॥४८॥ ततोऽत्यंतमृदुस्पर्शे निषण्णं रत्नकंवले । देशोद्वासकृतालापं रामं पार्श्वस्थकार्मुकं ॥ ४९ ॥ पागभेदलामाभ्यां पाणिभ्यां पूजितेहिता । द्राग्विश्रमायतुं सक्ता सीता प्रेमांबुदीर्घिका ॥५०॥
Page #116
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१०७
त्रयस्त्रिंशत्तम पर्व। उत्सार्य चारुलग्नां तां सादरक्रमकोविदः । संवाहयितुमासक्तो लक्ष्मणो ज्यायसोदितः ॥५१॥ निरूपय कचित्तावद्ग्रामं नगरमेव वा । घोषं वा लक्ष्मणः क्षिप्रं श्रांतेयं हि प्रजावती ॥ ५२ ॥ ततोऽन्यस्यातितुंगस्य वृक्षास्योर्द्धसमाश्रितः । दृश्यते किंचिदत्रेति पद्मनोच्येत लक्ष्मणः ॥५३॥ सोवोचद्देव पश्यामि रूपपर्वतसन्निभान् । शारदाभ्रसमुत्तुंगैः अंगजालैविराजितान् ।। ५४ ॥ प्राग्भारसिंहकर्णस्थजिनबिंबोपलक्षितान् । प्रासादान् परमोद्यानान् प्रचल-द्धव (चप) लध्वजान् ५५ ग्रामांश्चायतवापीभिः सस्यैश्च कृतवेष्टनान् । नगराणि च गंधर्वपुरैर्विभ्रंति तुल्यतां ॥५६॥ दृष्टिगोचरमात्रे तु सन्निवेशाः सुभूरयः। दृश्यंते न पुनः कश्चिदेकोप्यालोक्यते जनः ॥ ५७ ॥ समं किं परिवर्गेण विनष्टाः स्युरिह प्रजाः । उपानीताः किमु म्लेच्छवंदित्वं क्रूरकर्मभिः ॥५८॥ एकस्तु पुरुषाकारो दृश्यते चाति दूरतः । स्थाणुने पुरुषोयं तु ननु चैष चलाकृतिः ॥ ५९॥ यात्येष किमुतायाति पश्याम्यागच्छती त्ययं । तावदायातु मार्गेण जानाम्येनं विशेषतः ॥६०॥ अयं मृग इवोद्विग्नो द्रुतमायाति मानवः । रूक्षोर्द्धमूर्धजो दीनो मलोपहतविग्रहः ॥ ६१ ॥ कूर्चाच्छादितवक्षस्को वसानाचीरखंडकं । स्फुटितांघ्रिः स्रवत्स्वेदो दर्शयन् पूर्वदुष्कृतं ॥ ६२ ॥ आनयेममितः क्षिप्रमिति पझेन भाषितः । अवतीर्य गतस्तस्य सविस्मय इवांतिकं ॥ ६३ ॥
Page #117
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
- १०८
त्रयस्त्रिंशत्तम पर्व। दृष्ट्वा तं पुरुषो दृष्टरोमा विस्मयपूरितः। विलंबितगतिः किंचिदकरोदिति मानसे ।। ६४ ॥ समाकंपित वृक्षोयमवतीर्य समागतः । किमिंद्रो वरुणो दैत्यः किं नागः किन्नरो नरः ॥ ६५ ॥ वैवस्वतः शशांको नु वह्निर्वैश्रवणो नु किं । भास्करो न भवं प्राप्तः कोयमुत्तमविग्रहः ॥ ६६ ॥ इति ध्यायन् महाभीत्या मुकुलीकृस्य लोचने । निश्चेष्टावयवो भूमौ पपाताध्यक्तचेतनः ॥६७ ॥ उत्तिष्ठोत्तिष्ठ भद्र त्वं माभैषीरिति भाषितः । प्रत्यागतधृतिीतो लक्ष्मणेनांतिकं गुरोः ॥ ६८ ॥ ततः सौम्याननं राममभिरामं समंततः । दृष्ट्वा कांतिसमुद्रस्थं चक्षुरुत्सवकारिणं ॥ ६९ ॥ सीतया शोभितं पार्श्व वर्तिन्यातिविनीतया । मुमोच पुरुषः सद्यः क्षुधादिजपरिश्रमं ।। ७० ॥ ननाम चांजलिं कृत्वा शिरसा स्पृष्टभूतलः । छायायां भव विश्वस्त इति चोक्त उपाविशत् ।।७१॥ अपृच्छत्तं ततः पद्मः क्षरन्निव गिरामृतं । आगतोऽसि कुतो भद्र कोवा किंसंज्ञकोऽपि वा ॥७२॥ सोवोचद्रूरतः स्थानाच्छीरगुप्तिः कुटुंबिकः । देशोयं विजनः कस्मादिति पृष्टोऽवदत्पुनः ॥७३॥ सिंहोदर इति ख्यातो देवोस्त्युज्जयिनीपतिः । प्रतापप्रणतोदारसामंतः सुरसन्निभः ॥ ७४ ॥ दशांगपुरनाथोस्य वनकर्णश्रुतिर्महान् । अत्यंतदयितो भृत्यः कृतानेकाद्भुतक्रियः ।। ७५ ।। मुक्त्वा त्रिभुवनाधीशं भगवंतं जिनाधिपं । निर्ग्रथांश्च नमस्कारं न करोत्यपरस्य सः ॥ ७६ ॥
Page #118
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तम पर्व ।
साधुप्रसादतस्तस्य सम्यग्दर्शनमुत्तमं । पृथिव्यां ख्यातिमायातं देवेन किमु न श्रुतं ॥ ७७ ॥ प्रसादः साधुना तस्य कृतः कथमितीरितः । लक्ष्मीधरकुमारेण पद्माभिप्रायसूरिणा ॥ ७८ ।। उवाच पथिको देव समासात्कथयाम्यहं । प्रसादः साधुना तस्य यथायमुपपादितः ॥ ७९ ॥ अन्यदा वज्रकोयं दशारण्यसमाश्रितां । प्राविशत् सत्वसंपूर्णामटवीं मृगयोद्यतः ।। ८० ।। जन्मनः प्रभृति क्रूरः ख्यातोयं विष्टपेऽखिले । हृषीकवशगो मूहः सदाचारपरांमुखः ॥ ८१ ॥ लोभसंज्ञासमासक्तः सूक्ष्मतत्त्वांधचेतसः । भोगोद्भवमहागर्भपिशाचग्रहदूषितः ।। ८२ ॥ तेन च भ्रमता तत्र कर्णिकारखनांतरे । दृष्टः शिलातले साधुर्दधानः शममुत्तमं ॥ ८३ ।। परित्यक्तावृतिष्मेि समाप्तनियमास्थितिः । विहंग इव निश्शंकः केसरीव भयोज्झितः ॥ ८४ ॥ स ग्रावभिः करैभानोरतितप्तः समंततः । अभ्याख्यातशतेस्तीदुर्जनस्येव सज्जनः ॥ ८५ ॥ अश्वारूढ़ः स तं दृष्ट्वा कृतांतसमदर्शनः । रत्नप्रभवगंभीरं परमार्थनिवेशनं ॥ ८६ ॥ पापघातकरं सर्वभूतकारुण्यसंगतं । कुंतपाणिरुवाचैवं भूषितं श्रमणश्रिया ।। ८७ ॥ अत्र किं क्रियते साधो सोवोचद्धितमात्मनः । अनाचरितपूर्व यज्जन्मांतरशतेष्वपि ॥ ८८॥ जगाद विहसन् भूभृदनया खल्ववस्थया । न किंचिदपि ते सौख्यं कीदृशं हितमात्मनः ।।८९॥
Page #119
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
११०
श्रयस्त्रिंशत्तम पर्व ।
मुक्तलावण्यरूपस्य कामार्थरहितस्य च । अचेलस्यासहायस्य कीदृशं हितमात्मनः ॥ ९० ॥ स्नानालंकाररहितैः परपिंडोपजीविभिः । भवादृशैर्नरैः कीदृक् क्रियते हितमात्मनः ॥ ९९ ॥ दृष्ट्वा तं कामभोगार्त दयावान् संयतोवदत् । हितं पृच्छसि किं त्वं मां छिन्नाशापाशबंधनं ॥९२॥ इंद्रियैर्वचितान् पृच्छ हितोपायवहिष्कृतान् । मोदेनात्यंत वृद्धेन भ्राम्यते ये भवांबुधौ ॥ ९३ ॥ हंता सत्वसहस्राणामात्मानर्थपरायणः । यास्येष नरकं घोरमवश्यं नष्टचेतनः ॥ ९४ ॥ नूनं त्वया न विज्ञाता घोरा नरकभूमयः । उत्थायोत्थाय पाशेषु यत्परां कुरुषे रतिं ॥ ९५ ॥ पृथिव्यः सति सप्ताधो नरकाणां सुदारुणाः । सुदुर्गंधा सुदुष्प्रेक्षाः सुदुष्पर्शा सुदुस्तराः ॥ ९६ ॥ तीक्ष्णायस्कीलसंकीर्णा नानायंत्रसमाकुलाः । क्षुरधाराद्रिसंयुक्तास्तप्तलोहतलाधिकाः ॥ ९७ ॥ iratantriता महाध्वांता महाभयाः । असिपत्रवनच्छन्ना महाक्षारनदीयुताः ॥ ९८ ॥ पापकर्मपरिक्लिष्टैर्गजैरिव निरंकुशैः । तत्र दुःखसहस्राणि प्राप्यते पुरुषाधमैः ।। ९९ । भवंतमेव पृच्छामि त्वादृशैर्विषयातुरैः । क्रियते पापसंसक्तैः कीदृशं हितमात्मनः ॥ १०० ॥ इंद्रियप्रभवं सौख्यं किंपाकसदृशं कथं । अहन्यहन्युपादाय मन्यसे हितमात्मनः ॥ १०१ ॥ हितं करोत्यसौ स्वस्थ भूतानां यो दयापरः । दीक्षितो गृहजातो वा बुधो निर्मलमानसः १०२
Page #120
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
१११
त्रयस्त्रिंशत्तमं पर्व । कृतं तैरात्मनः श्रेयो ये महाव्रततत्पराः । अथवाणुव्रतैर्युक्ताः शेषा दुःखस्य भाजनं ॥ १०३ ॥ परलोकादि हेतुं त्वं कृत्वा सुकृतमुत्तमं । इहलोकेधुना पापं कृत्वा यास्यसि दुर्गतिं ॥ १०४ ॥ अमी निरागसः क्षुद्रा वराकाःक्षितिशायिनः । अनाथा लोलनयना नित्योद्विग्ना वने मृगाः १०५ आरण्यतृणपानीयकृतविग्रहधारिणः । अनेकदुःखसंछन्ना पूर्वदुष्कृतभोगिनः ॥ १०६ ॥ रात्रावपि न विदंति निंद्रां चकितचेतसः । साध्वाचारैर्न युक्तं ते कुलजैर्हिसितुं नरैः ॥१०७॥ अतो ब्रवीमि राजंस्त्वां यदीच्छस्यात्मनो हितं । त्रिधा हिंसां परित्यज्य कुर्वहिसां प्रयत्नतः ।। ऊ_रित्युपदेशोचैर्यदासौ प्रतिबोधितः । तदा प्रणतिमायातः फलैरिव महीरुहः ॥ १०९॥ उत्तीर्य प्रसृतः सप्तेजानुपीड़ितभूतलः । प्रणनामोत्तमांगेन सुसाधु रचितांजलिः ॥ ११०॥ निरीक्ष्य सौम्यया दृष्टया तमेवं चाभ्यनंदयत् । श्लाघ्योयं वीक्षितः सिद्धो मुनिस्त्यक्तपरिग्रहः ॥ शकुंतयो मृगाश्चामी धन्या वननिवासिनः । शिलातलनिषण्णं ये पश्यंतीमं समाहितं ॥११२ ॥ अतिधन्योहमप्यद्य मुक्तपापेन कर्मणा । यदेतत्रिजगद्वंद्यं प्राप्तः साधुसमागमं ॥ ११३ ॥ बंधुस्नेहमयं बंधं छित्वा ज्ञाननखैरयं । केसरीव विनिष्क्रांतः प्रभुः संसारपंजरात् ॥ ११४ ॥ अनेन साधुना पश्य वशीकृत्य मनोरिपुं । नाग्न्योपकारयोगेन शीलस्थानं प्रपाल्यते ॥ ११५ ॥
Page #121
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
११२
त्रयस्त्रिंशत्तम पर्व ।
अहं पुनरतृप्तात्मा तावदस्मिन् ग्रहाश्रमे । अणुव्रतविधौ रम्ये करोमि परमां धृति ॥ ११६ ॥ इति संचिंत्य जग्राह तस्मात्साघोहस्थितिं । चकारावग्रहं चैवं भावप्लावितमानसः ॥ ११७ ॥ देवदेवं जिनं मुक्त्वा परमात्मानमच्युतं । निग्रंथांश्च महाभागान नमाम्यपरानिति ॥ ११८ ॥ प्रीतिवर्धनसंज्ञस्य मुनेस्तस्य महादरः । चकार महती पूजामुपवासं समाहितः ॥ ११९ ॥ उपासीनस्य चाख्यातं परमं साधुना हितं । यत्समाराध्य मुच्यते संसाराद्भव्यदेहिनः ॥१२०॥ सागारं निरगारं च द्विधा चारित्रमुत्तमं । सावलं गृहस्थानां निरपेक्षं खवाससां ॥ १२१ ॥ दशेनस्य विशुद्धिश्च तपीज्ञानसमन्विता । प्रथमाद्यनुयोगाश्च प्रसिद्धा जिनशासने ॥ १२२ ॥ सुदुष्करं विगेहानां चारित्रमवधाये सः । पुनः पुनमतं चक्रेऽणुव्रतेष्वेव पार्थिवः ॥ १२३ ॥ निधानमधनेनैव प्राप्तं विभ्रदनुत्तमं । धर्म्यध्यानमसौ बुद्धा परमां धृतिमागतः ॥ १२४ ॥ नितांतक्रूरकर्मायमुपशांतो महीपतिः । इति प्रमोदमायातः संयतोऽपि विशेषतः ॥ १२५ ॥ गते साधौ तपोयोग्यं स्थानं सुकृतसत्रिणि । विभूत्या परया युक्तः सुलाभः सुखतर्पितः १२६ विहितातिथिसन्मानोऽपरेयुः कृतपारणः । प्रणम्य चरणौ साधोः स्वस्थानमविशन्नृपः ॥१२७॥ वहन् परमभावेन बजकर्णः सदा गुरुं । बभूव वीतसंदेहश्चितामेवमुपागतः ॥ १२८ ॥
Page #122
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
११३
प्रयस्त्रिंशत्तम पर्व। भृत्यो भूत्वा विपुण्योहं सिंहोदरमहीभृतः । अकृत्वा विनयं भोगान् कथं सेवे निकारिणः १२९ इति चिंतयतस्तस्य प्रसन्नेनांतरात्मना । विधिना प्रेर्यमाणस्य मतिरेवं समुद्गता ॥ १३० ॥ कारयाम्यूमिका स्वाणी सुव्रतस्वामिबिंबिनीं । दधामि दक्षिणांगुष्ठे तां नमस्कारभागिनी १३१ घटिता सा ततस्तेन पाणिभासुरपीठिका । पिनद्धा चातिहृष्टेन नयप्रवणचेतसा ॥ १३२ ॥ स्थित्वा सिंहोदरस्याग्रे कृत्वांगुष्ठं पुरः कृती । प्रतिमां तां महाभागो नमस्यति स संततं १३३ रंधविन्यस्तचित्तेन वैरिणा कथितेन्यदा । वृत्तांतत्र परं कोपं. पापः सिंहोदरोऽगमत् ।। १३४ ॥ माययाह्वयच्चैनं दशांगनगरस्थितं । वधार्थमुद्यतो मानी मत्तो विक्रमसंपदा ॥ १३५ ॥ बृहद्गतितनूजस्तु प्रगुणेनैव चेतसा । प्रवृत्तोश्वशतेनास्य विनीतो गंतुमंतिकं ॥ १३६ ॥ दंडपाणिरुवाचैकः पीवरोदारविग्रहः । कुंकुमस्थासकोद्भासी तमागत्यैवमुक्तवान् ॥ १३७॥ यदि भोगशरीराभ्यां सुनिर्विण्णोसि पार्थिव । तत उज्जयिनी गच्छ नोचेन्नो गंतुमर्हसि ॥१३८॥ क्रुद्धः सिंहोदरो यत्ते वधं कत्तुं समुद्यतः । अनमस्कारदोषेण कुरु राजन्नभीप्सितं ॥ १३९ ॥ एवं स गदितो दध्यौ केनाप्येष दुरात्मना । मात्सर्यहतचित्तेन भेदःकर्तुमभीप्सितः ॥ १४०॥ तं विसर्पन्महामोदं किंचित्खेदमुपागतं । सोऽपृच्छत्कोऽसि किनामा कुतो वासि समागतः १४१
Page #123
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
११४
त्रयस्त्रिंशत्तम पर्व कथं वा तव मंत्रोयं विदितोत्यंतदुर्गमः । एतद्भद्र समाचक्ष्व ज्ञातुमिच्छाम्यशेषतः ॥ १४२ ।। सोऽवोचत्कुंदनगरे वणिग्धनपरायणः । समुद्रसंगमो नामा यमुना तस्य भामिनी ॥ १४३ ॥ विद्युज्ज्वालाकुले काले प्रसूता जननी च मां । बंधुभिर्विद्युदंगाख्या मयि तेन नियोजिता १४४ क्रमाच्च यौवनं विभ्रदवंतीनगरीमिमां । आगतोऽस्म्यर्थलाभाय युक्तो वाणिज्यविद्यया ॥१४५॥ वेश्यां कामलतां दृष्ट्वा कामवाणेन ताडितः । न रात्रौ न दिवा यामि नितिं परमाकुलः १४६ एका रात्रिं वसामीति तया कृतसमागमः । प्रीत्या दृढ़तरं वद्धो यथा वागुरया मृगः ॥ १४७ ॥ जनकेन ममासंख्यैर्यदब्दैरर्जितं धनं । तन्मयास्य सुपुत्रेण षड्भिर्मासैविनाशितं ॥ १४८ ॥ पझे द्विरेफवसक्तः कामतद्गतमानसः । साहसं कुरुते किं न मानवो योषितां कृते ॥ १४९ ॥ अन्यदा सा पुरः सख्या निदंती कुंडलं निजं । श्रुता मयेति भारेण किं कर्णस्यामुना मम १५. धन्या सा श्रीधरा देवी महासौभाग्यभागिनी । यस्यास्तद्राजते कर्णे मनोज्ञं रत्नकुंडलं ॥१५१॥ चिंतितं च मया तच्चेदपहृत्य सुकुंडलं । आशां न पूरयाम्यस्य तदा किं जीवितेन मे ॥१५२॥ ततो जिहीर्षया तस्य दयितं प्रोह्य जीवितं । गतोहं भवनं राज्ञो रजन्यां तमसावृतः ॥१५३ ।। पृच्छंती श्रीधरा तस्य मया सिंहोदरं श्रुता । निद्रां न लभसे कस्मानाथोद्विग्न इवाधुना १५४
Page #124
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
११५
त्रयस्त्रिंशत्तमं पर्व ।
सोवोचद्देवि निद्रा मे तो व्याकुलचेतसः। न मारितो रिपुर्यावन्नमस्कारपरांमुखः ॥ १५५ ॥ अपयानेन दग्धस्य व्याकुलस्याणचिंतया । अजितप्रत्यनीकस्य विटाक्रांताबलस्य च ॥ १५६ ॥ सशल्यस्य दरिद्रस्य भीरोश्च भवदुःखिनः । निद्रा कृपापरीतेव सुदूरेण पलायते ॥ १५७ ॥ निहंतास्मि न चेदेनं नमस्कारपरांमुखं । वज्रकर्ण ततः किं मे जीवितेन हतौजसः ॥१५८ ॥ ततोहं कुलिशेनेव हृदये कृतताडनः । रहस्यरत्नमादाय त्यक्त्वा कुंडलशेमुषीं ॥ १५९ ॥ धर्मोद्यतमनस्कस्य सततं साधुसेविनः । भवतोंतिकमायातो ज्ञात्वा कुरु निवर्तनं ॥ १६० ॥ नागैरंजनशैलाभैः प्रक्षरगंडभित्तिभिः । सप्तिभिश्च महावेगैर्भटैश्च कवचावृतः ॥ १६१ ॥ तदाज्ञापनया मार्गो निरुद्धोयं पुरोखिलः । सामंतैः परमं क्रूरैर्भवंतं हंतुमुद्यतैः ॥ १६२ ॥ प्रसादं कुरु गच्छाशु प्रतीपं धर्मवत्सल । पतामि पादयोरेष तव मद्वचनं कुरु ॥ १६३ ॥ अथ प्रत्येषितो राजन् ततः पश्यैतदागतं । धृलीपटलसंच्छन्नं परचक्रं महारवं ॥ १६४ ॥ तावत्परागतं दृष्ट्वा साधनं कुलिशश्रवाः । समेतो विद्युदंगेन निवृत्तो वगिवाहनः ।। १६५ ॥ प्रविश्य च पुरं दुर्ग सुधीरः समवस्थितः । विधाय वंचितारोधं सामंताश्चावतस्थिरे ॥१६६ ॥ प्रविष्टं नगरं श्रुत्वा वज्रकर्ण रुषा ज्वलन् । सिंहोदरः समायातः सर्वसाधनसंयुतः ॥ १६७ ॥
Page #125
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
११६
त्रयस्त्रिंशत्तमं पर्व ।
१६८ ॥
पुरस्यात्यंत दुर्गत्वात्साधनक्षयकातरः । न स तद्ग्रहणे बुद्धिं चकार सहसा नृपः समावस्य समीपे च त्वरितं प्राहिणोन्नरं । वज्रकर्ण स गत्वेति बभ्राणात्यंत निष्ठुरं ॥ १६९ ॥ जिनशासनवर्गेण सदावष्टब्धमानसः । ऐश्वर्यकंटकस्त्वं मे जातः सद्भाववर्जितः ॥ १७० ॥ कुटुंबभेदने दक्षैः श्रमणैर्दुर्विचेष्टितैः । प्रोत्साहितो गतोस्यैतामवस्थां नयवर्जितः || १७१ ।। भुंक्षे देश मया दत्तमर्हतं च नमस्यति । अहो ते परमा माया जातेयं दुष्टचेतसः || १७२ ।। आगच्छाशु ममाभ्यासं प्रणामं कुरु सम्मतिः । अन्यथा पश्य जातोऽसि मृत्युना सह संगतं ॥ १७३ ॥ ततस्तद्वचनाद्गत्वा दूतोऽवददिदं पुनः । एवं वज्रश्रुतिनाथ ब्रवीति कृतनिश्चयः || १७४ ॥ नगरं साधनं कोषं गृहाण विषयं विभो । धर्मद्वारं सभार्यस्य यच्छ मे केवलस्य वा ।। १७५ ।। कृता मया प्रतिज्ञेयं मुंचाम्येनां मृतोऽपि न । द्रविणस्य भवान् स्वामी शरीरस्य तु नो मम ॥ १७६ ॥ इत्युक्तोऽप्यपरित्यक्तक्रोधः सिंहोदरः पुरः । कृत्वा रोधमिमं देशमुद्वासयदुज्ज्वलं ।। १७७ ॥ इदं ते कथितं देव देशोद्वासनकारणं । गच्छामि सांप्रतं शुन्यग्रामधानमितोंतिकं ।। १७८ ।। तस्मिन् विमानतुल्येषु दह्यमानेषु सद्मसु । मदीया दुष्कुटी दग्धा तृणकाष्ठविनिर्मिता ॥ १७९ ॥ तत्र गोपायितं सूर्पं घटं पिठरमेव च । आनयामि कुगेहिन्या प्रेरितः क्रूरवाक्यया ॥ १८० ॥
Page #126
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तमं पर्व | गृहोपकारणं भूरि शून्यग्रामेषु लभ्यते । अनयस्व त्वमेवेति सा तु मां भाषते मुदुः ॥ १८९ ॥ अथवात्यंतमेवेदं तया मे जनितं हितं । देव कोऽपि भवान् दृष्टो मया येन सुकर्मणा ।। १८२ ॥ इत्युक्ते करुणाक्लिष्टः पथिकं वीक्ष्य दुःखितं । पद्मस्मै रत्नसंयुक्तं ददौ कांचनसूत्रकं ।। १८३ ।। प्रतीतः प्रणिपत्यासौ तदादाय त्वरान्वितं । प्रतियातो निजं धाम बभूव च नृपोपमः ॥ १८४ ॥ अथावोचत्ततः पद्मो लक्ष्मणोयं दिवाकरः । नैदाघो यावदत्यंतं दुस्सहत्वं न गच्छति ।। १८५ ।। तावदुत्तिष्ठ गच्छावः पुरस्यास्यांतिकं भुवं । जानकीयं तृषाश्रांता कुर्वाहारविधिं द्रुतं ॥। १८६ ॥ एवमित्युदिते जाता दशांगनगरस्य ते । समीपे चंद्रमासस्य चैत्यालयमनुत्तमं ।। १८७ ॥ तस्मिन् सजानकीरामः प्रणम्यावस्थितः सुखं । तदाहारोपलंभाय लक्ष्मणः सधनुर्गतः || १८८ || विशन सिंहोदरस्यासौ शिविरं रक्ष्यमानसैः । निरुद्ध कृति निस्वानैः समीरण इवाद्रिभिः ॥ १८९ ॥ दुमदुकुलोत्पन्नः किं विरोधेन मे समं । इति संचित्य यातोऽसौ नगरं तेन पंडितः ।। १९० ॥ गोपुरं च समासीददनेकभटरक्षितं । यस्योपरि स्थितः साक्षाद्वज्रकर्णः प्रयत्नवान् ॥ १९१ ॥ ऊचिरे तस्य भृत्यास्तं कस्त्वमेतः कुतोऽपि वा । किमर्थं वेति सोऽवोचद्दूरात्प्राप्तोन्नलिप्सया || ततस्तं बालकं कांतं दृष्ट्वा विस्मय संगतः । आगच्छ प्रविश क्षिप्रमिति वज्रश्रवा जगौ ॥ १९३ ॥
११७
Page #127
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
११८
त्रिंशत्तमं पर्व ।
ततस्तुष्टः प्रयातोसौ समीपं कुलिशश्रुतेः । विनीतवेषसंपन्नो वीक्षितं सादरं नरैः ॥ १९४ ॥ जगाद वज्रकर्णश्च नरमाप्तमयं द्रुतं । अन्नं प्रसाधितं मह्यं भोज्यतां रचितादरः ॥ १९५ ॥ सोवोचन्नात्र मुंजेहमिति मे गुरुरंतिके । तमादौ भोजयाम्यन्नं नयाम्यस्याहमंतिकं ॥ १९६ ॥ एवमस्त्विति संभाष्य नृपोन्नमतिपुष्कलं । अदीदपद्वरं तस्मै चारुव्यंजनपानकं ॥ १९७ ॥ लक्ष्मीधरस्तदादाय गतो द्विगुणरंहसा । शुक्तं च तैः क्रमेणैततृप्तिं च परमां गताः ॥ १९८ ॥ ततस्तुष्टोऽवदत्पद्मः पश्य लक्ष्मण भद्रतां । वज्रकर्णस्य येनेदं कृतं परिचयाद्विना ॥ १९९ ॥ जामात्रेऽपि सुसंपन्नमीदृगन्नं न दीयते । पानकानामहो शैत्यं व्यंजनानां च मृष्टता ॥ २०० ॥ अनेनामृतकल्पेन मुक्तेनान्नेन मार्गजः । नैदाघोऽपहृतः सद्यः श्रमोस्माकं समं ततः ॥ २०१ ॥ चंद्रमिवाचू शायोमी विनिर्मिताः । धवलत्वेन विभ्राणा मार्दवं भिन्नसिच्छकाः ॥ २०२ ॥ दुग्धेवदीधितीरिंदोः कृतमेतच्च पानकं । नितांतमच्छता युक्तं सौरभाकृष्टषट्पदं ॥ २०३ ॥ घृतक्षीरमिदं जातं कल्पधेनुस्तनादिव । रसानामीदृशी व्यक्तिर्व्यजनेषु सुदुस्तरा ॥ २०४ ॥ अणुव्रतधरः साधुर्वर्णितः पथिकेन सः । अतिथीनां करोत्यन्यः सविभागं क ईदृशं ॥ २०५ ।। शुद्धात्मा श्रूयते सोयमनन्यप्रणतिः सुधीः । भवार्तिमथनं नाथं जिनेंद्रं यो नमस्यति ॥ २०६ ॥
Page #128
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तम पर्व । ईदृक् शीलगुणोपेतो यद्येषोस्माकमग्रतः । तिष्ठत्यरातिना रुद्धस्ततो नो जीवितं वृथा ॥२०७॥ अपराधविमुक्तस्य साधुसेवार्पितात्मनः । समस्ताश्चास्य सामंता एकनाथाविरोधिनः ॥ २०८ ॥ तोद्यमानमिमं नूनं सिंहोदरकुभूभृता । भरतोऽपि न शक्रोति रक्षितुं नूतनेशतः ॥२०९॥ तस्मादन्यपरित्राणरहितस्यास्य सन्मतेः । क्षिप्रं कुरु परित्राणं व्रज सिंहोदरं वद ॥ २१० ॥ इदं वाच्यमिदं वाच्यमिति किं शिक्ष्यते भवान् । उत्पन्नः प्रज्ञया साकं प्रभयेव महामणिः२११ गुणोच्चारणसवीडः कृत्वा शिरसि शासनं । यथाज्ञापयसीत्युक्त्वा प्रणम्य प्रमदान्वितः ॥२१२॥ विनीतं धारयन् वेषमनुपादाय कार्मुकं । प्रयातो रयसंपन्नो लक्ष्मणः कंपितक्षितिः ॥ २१३ ॥ दृष्टा संरक्षकैः पृष्टः कतरस्य पुमान् भवान् । सोवोचद्भरतस्याहमेतो दूतस्य कर्मणा ॥ २१४ ॥ क्रमेणातीत्य शिविरं भूरि प्राप्तो नृपास्पदं । अविशद्वेदितो द्वाःस्यैः सदः सिंहोदरस्य सः २१५ प्रस्पष्टमिति चोवाच मन्यमानस्तृणं नृपं । ज्येष्ठभ्रातृवचोवाहं सिंहोदर नृपाधमम् (निबोध मां)॥ आज्ञापयत्यसौ देवो भवंतमिति सद्गुणः । यथा किल किमेतेन विरोधेन विहेतुना ॥ २१७॥ ततः सिंहोदरोऽवादीन्मनः कर्कशमुद्वहन् । दूत ब्रूतां विनीतेशमिति मद्वचनाद्भवान् ॥ २१८ ॥ यथा किलाविनीतानां भृत्यानां विनयाहृतौ । कुर्वति स्वामिनो यत्नं विरोधः कोत्र दृश्यते २१९
Page #129
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१२०
त्रयस्त्रिंशत्तम पर्व वज्रकर्णो दुरात्मायं मानी नैकृतिकः परः । पिशुनः क्रोधनः क्षुद्रः सुहृनिंदापरायणः॥२२० ॥ आलस्योपहतो मूढो वायुग्रहगृहीतधीः । विनयाचारनिर्मुक्तो दुर्विदग्धो दुरीहितः ॥ २२१ ।। एतं मुंचत्वमी दोषा दमेन मरणेन वा । तमुपायं करोम्यस्य स्वैरमत्रास्यतां त्वया ॥ २२२ ॥ ततो लक्ष्मीधरोऽवोचकिमत्र प्रचुरोत्तरैः । कुरुतेयं हितं यस्मात्क्षम्यतां सर्वमस्य तत् ॥२२३ । इत्युक्तः प्रकटक्रोधः संधिदूरपरांमुखः । सिंहोदरोऽवदत्तारं वीक्ष्य सामंतसंहति ॥ २२४ ॥ न केवलमसौ मानी हतात्मा वज्रकर्णकः । तत्कार्यवांछया प्राप्तो भवानपि तथाविधः ॥२२५।। पाषाणेनैव ते गात्रमिदं दूत विनिर्मितं । न नाममीषदप्येति दुर्भत्यः कोशलापतेः ॥ २२६ ॥ तत्र देशे नरा नूनं सर्व एव भवद्विधाः । स्थालीपुलाकधर्मेण परोक्षं ज्ञायते ननु ॥ २२७ ।। इत्युक्ते कोपमायातःकिंचिल्लक्ष्मीधरोऽवदत् । साम्यहेतोरहं प्राप्तो न ते कर्तुं नमस्कृति ॥२२८॥ बहुनात्र किमुक्तेन हरे संक्षेपतः शृणु । प्रतीच्छ संधिमद्यैव मरणं वा समाश्रय ॥ २२९॥ इत्युक्ते परिपत्सर्वा परं क्षोभमुपागता । नानाप्रकारदुर्वाक्या नानाचेष्टाविधायिनी ॥ २३० ।। आकृष्य छुरिका केचिनिस्त्रिंशानपरे भटाः । वधार्थमुद्यतास्तस्य कोपकंपितमूतेयः ॥ २३१ ॥ बेगनिर्मुक्तहुंकाराः परस्परसमाकुलाः । ते तं समंततो बब्रुर्मशका इव पर्वतं ॥ २३२ ॥
Page #130
--------------------------------------------------------------------------
________________
१२१
पद्मपुराणम् ।
अयस्त्रिंशत्तम पर्व । अप्राप्तानेव धीरोऽसौ क्रियालाघवपंडितः । चिक्षेप चरणाघातैरं तान् विहलान्समं ॥ २३३ ॥ जघान जानुना कांश्चित्कूपरेणापरान् भ्रमं । कांश्चिन्मुष्टिप्रहारेण चकार शतशर्करान् ॥ २३४ ॥ कचेषु कांश्चिदाकृष्य निपात्य धरणीतले । पादेनाचूर्णयत्कांश्चिदंसघातैरपानयत् ॥ २३५ ॥ कांश्चिदन्योन्यघातेन परिचूर्णितमस्तकान् । चकार जंघया कांश्चिदरं प्राप्तविमूर्छनान् ॥२३६ ॥ एवमेकाकिना तेन परिषत्सा तथाविधा । महाबलेन विध्वंसं नीता भयसमाकुलाः ।। २३७ ॥ एवं विध्वंसयन् यावनिष्क्रांतो भवनाजिरं । तावद्योधशतैरन्यैः लक्ष्मणः परिवेष्टितः ।। २३८ ॥ सामंतैरथ सनद्धारणैः सप्तिभीरथैः । परस्परविमर्दैन बभूवाकुलता परा ॥ २३९ ॥ नानाशस्त्रकरेवेषु लक्ष्म्यालिंगितविग्रहः । चकार चेष्टितं वीरः श्रृगालेष्विव केसरी ॥ २४० ॥ ततोनेकपमारुह्य प्रावृषेण घनाकृतिं । स्वयं सिंहोदरो रोर्बु लक्ष्मीनिलयमुद्यतः ।। २४१ ॥ तस्मिन् रणशिरोजाते किंचिद्वैर्यमुपागतः । दूरगाः पुनराजग्मुः सामंता लक्ष्मणं प्रति ॥ २४२ ॥ घनानामिव संघास्ते बब्रुस्तं शशिनं यथा । वातूल इव तानेष तूलराशीनिवाकरत् ॥ २४३ ॥ उदारभटकामिन्यो गंडविन्यस्तपाणयः । जगुराकुलताभाजः प्रविरोलविलोचनाः ॥ २४४ ॥ पश्यतैनं महाभीमं सख्यः पुरुषमेककं । वेष्टितं बहुभिः क्रूरैरसांप्रतमिदं परं ॥ २४५॥
Page #131
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
१२२
प्रयास्त्रिंशत्तमं पर्व । अन्यास्तत्रोचुरेकोऽपि केनापि परिभूयते । पश्यतानेन विक्रांता बहवो विहलीकृताः ॥ २४६ ॥ आस्तृणानमथो दृष्ट्वा लक्ष्मणोऽभिमुखं बलं । विहस्य वारणस्तंभ महांतमुदमूलयत् ॥ २४७ ॥ ततः सरमसस्तत्र सांद्रहुंकारभीषणः । जंभे लक्ष्मणः कक्षे यथोचैराशशुक्षणिः ॥ २४८ ॥ विस्मितो गोपुराग्रस्थो दशांगनगराधिपः । पार्श्ववर्तिभिरित्यूचे सामंतैर्विकचेक्षणैः ॥ २४९ ॥ कोप्येष पुरुषो नाथ पश्य सैंहोदरं बलं । भग्नध्वजरथच्छत्रं करोति परमद्युतिः ॥ २५० ॥ एष खड़धनुच्छायमध्यवर्ती सुविह्वलः । आवर्त इव निक्षिप्तो भ्राम्यतीभाहितोदरः ॥ २५१॥ इतश्वेतश्च विस्तीर्णमेतत्सैन्यं पलायते । एतस्मात्त्रासमागत्य सिंहान् मृगकुलं यथा ॥ २५२ ॥ वदंत्यन्योन्यमत्रते सामंता दूरवर्तिनः । अवतारय सन्नाहं मंडलायो विमुच्यतां ॥ २५३ ।। कार्मुकं क्षिप मुंचावं वारणादवीर्यतां । गदां निरस्य गर्तायां माकार्षीरवमुन्नतं ॥ २५४ ॥ आलोक्य शास्त्रसंघातं श्रुत्वा वा रभसान्वितः । कोप्येष पुरुषोस्माकमाप तदतिदारुणः ॥२५५।। अपसामुतो देशादेहि मार्गमहो भट । वारणं सारयैतस्मात्किमत्र स्तंभितोऽसि ते ॥ २५६ ॥ अयं प्राप्तोयमायातो दुःसूत स्पंदनं त्यज । तुरंगाश्वोदय क्षिप्रं घातिता स्मो न संशयं ॥२५७॥ एवमादिकृतालापाः केचित्संकटमागताः । परित्यज्य भटाः कल्पमते पंडूकवस्थिताः(१)॥२५८॥
Page #132
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तमं पर्व
किमेष रमते युद्धे कोsपि त्रिदशसंभवः । विद्याधरो नु वान्यस्य कस्येयं शक्तिरीदृशी ।। २५९ ।। कालो नाम यमो वायुः कोsपि लोके प्रकीर्त्यते । सोयं किमु भवेद्रो विद्युदंडचलाचलः २६० त्वयेदमीदृशं सैन्यं पुनरेष करिष्यति । किमित्येवं मनोस्माकं नाथ शंकामुपागतं ।। २६१ ।। निरीक्ष्य स्वैनमुत्पत्य संग्रामे रोमहर्षणे । सिंहोदरं समाकृष्य विहलं वरवारणात् || २६२ ।। गले तदंशुकेनैव प्राध्वंकृत्य सुविस्मितः । एष याति पुरः कृत्वा बलीवर्द यथा वशं ।। २६३ ।। एवमुक्तः स तैरूचे स्वस्था भवत मानवाः । देवाः शांतिं करिष्यंति किमत्र बहुचिंतया || २६४ || स्थिता मूर्द्धसुहम्र्म्याणां दशांगनगरांगनाः । परं विस्मयमापन्ना जगुरेवं परस्परं ।। २६५ ।। सखि पश्यास्य वीरस्य चेष्टितं परमाद्भुतं । येनैकेन नरेंद्रोयमानीतों शुकबंधनं ॥ २६६ ॥ अहो कांतिर मुख्येयं तवातिशयान्विता । अहो शक्तिरियं कोयं भवेत्पुरुषसत्तमः ॥ २६७ ॥ भूतोयं भविता वापि पुण्यवत्याः सुयोषितः । पतिः कस्याः प्रशस्तायाः समस्ते जगतीश्वरः ॥ सिंहोदरमहिष्योऽथ वृद्धबालसमन्विताः । रुदत्यः पादयोः पेतुर्लक्ष्मणस्यातिविक्लवाः || २६९ ॥ ऊचुश्च देव मुंचैनं भर्तृभिक्षां प्रयच्छ नः । अद्य प्रभृतिभृत्योयं तवाज्ञाकरणोद्यतः ॥ २७० ॥ सोऽवोचत्पश्यतोदारं द्रुमखंडमिमं पुरः । अत्र नीत्वा दुराचारमेतमुलं याम्यहं ।। २७१ ॥
1
१२३
Page #133
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
त्रयस्त्रिंशत्तम पर्व करुणं बहु कुर्वत्यः पुनः सांजलयोऽवदत । रुष्टोसि यदि देवास्मान जहि निर्धार्यतामयं ॥२७२॥ प्रसादं कुरु मा दुःखं दर्शय प्रियसंगमं । ननु योषित्सु कारुण्यं कुर्वति पुरुषोत्तमः ॥ २७३ ॥ पुरो मोक्षामि सेवध्वं स्वस्थतामित्यसौ वदन् । ययौ चैत्यालयं यत्र ससीतो राघवःस्थितः २७४ अवोचल्लक्ष्मणः पद्मं सोयं वज्रश्रुतेररिः । आनीतोऽस्याधुना देव कृत्यं वदतु यन्मया ॥२७५।। ततः सिंहोदरो मूर्ना करकुड्मलयोगिना | पपात वेपमानांगः पद्मस्य क्रमपद्मयोः ॥ २७६ ॥ जगाद च न देव त्वां वेमि कोसीति कांतिमान् । परेण तेजसा युक्तो महीध्रप्रतिसन्निभः।।२७७।। मानवो भव देवो वा गंभीरपुरुषोत्तमः । अत्र किं बहुमिः प्रोक्तैरहमाज्ञाकरस्तव ॥ २७८ ॥ गृह्णातु रुचितस्तुभ्यं राज्यमिंद्रायुधश्रुतिः । अहं तु पादशुश्रूषां करोमि सततं तव ॥ २७९ ॥ धव-मिक्षां प्रयच्छेति योषितोप्यस्य पादयोः । रुदत्यः प्रणिपत्योचुः कुर्वत्यः करुणं बहु २८० देवि स्त्रैणात्त्वमस्माकं कारुण्यं कुरु शोभने । इत्युदित्वा च सीतायाः पतितास्ताः क्रमाजयोः॥ ततः सिंहोदरं पद्मो जगाद विनयाननं । कुर्वन् वापीषु हंसानां मेघनादोद्भवं भयं ॥ २८२ ॥ शक्रायुधश्रुतियत्ते ब्रवीति कुरु तत्सुधीः । एवं ते जीवितं मन्ये प्रकारोन्यो न विद्यते ॥ २८३॥ आहूतोऽथ हितैः पुंभिः कृतदृष्टयाभिवर्धनः । वज्रकर्णः परीवारसहितश्चैत्यमागमत् ॥ २८४ ॥
Page #134
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
प्रयस्त्रिंशत्तम पर्व। स त्रिःप्रदक्षिणीकृत्य मधपाणिर्जिनालयं । स्तुत्वा ननाम चंद्राभं भक्तिहृष्टस्तनूरुहः ॥ २८५ ॥ ततश्च विनयी गत्वा स्तुत्वा तौ भ्रातरौ क्रमात् । अपृच्छद्वपुरारोग्यं सीतां च विधिकोविदः२८६ भद्र ते कुशलेनाद्य कुशलं नः समंततः । इति तं राघवोऽवोचन्नितांतं मधुरध्वनिः ॥ २८७ ॥ संकथेयं तयोयोवद्वतते शुभलीलयोः। चारवेषोथ सैन्येन विद्युदंगः समागतः ॥ २८८ ॥ स तयोः प्रणतिं कृत्वा स्तुत्वा च क्रमपंडितः । समीपे वज्रकर्णस्य सन्निविष्टः प्रतापवान।।२८९॥ विद्युदंगः सुधी सोयं वज्रकणसुहृत्परः । इति शब्दः समुत्तस्थौ तदा सदसि मांसलः ॥२९॥ पुनश्च राघवोऽवोचत्कृत्वा स्मितसितं मुखं । वज्रकर्ण ! समीचीना तव दृष्टिरियं परा ॥ २९१ ॥ कुमतैस्तव धीरेपा मनागपि न कंपिता । उत्पातवातसंघातैः मंदिरेस्येव चूलिका ॥ २९२ ॥ ममापि सहसा दृष्ट्वा न ते मूधोयमानतः । अहो परमिदं चारु तव शांतं विचेष्टितं ॥ ६९३ ॥ अथवा शुद्धतत्त्वस्य किमु पुंसोस्ति दुस्तरं । धर्मानुरागचित्तस्य सम्यग्दृष्टेविशेषतः ॥ २९४ ॥ प्रणम्य त्रिजगद्वंद्यं जिनेंद्रं परमं शिवं । तुगेन शिरसा तेन कथमन्यः प्रणम्यते ॥ २९५ ॥ मकरंदरसास्वादलब्धवर्णो मधुव्रतः । रासभस्य पदं पुच्छे प्रमत्तोऽपि करोति किं ॥ २९६ ॥ बुद्धिमानसि धन्योऽसि दधास्यासन्नभव्यतां । चंद्रादपि सिता कीर्तिस्तव भ्राम्यति विष्टपे २९७
Page #135
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१२६
त्रयस्त्रिंशत्तमं पर्व । विद्युदंगोप्ययं मित्रं परं ते विदितं मया । भव्योयमपि यः सेवां तव कर्तुं समुद्यतः ॥ २९८ ॥ सद्भूत गुणसत्कीर्तेरथ लज्जामुपागतः । किंचिन्नताननोऽवोचच्छुनाशीरायुधश्रवाः ॥ २९९ ॥ अत्रावसीदतो देव प्राप्तस्य व्यसनं महत् । संजातोऽसि महाभाग मे त्वं परमबांधवः ॥ ३०० ॥ नियमस्त्वत्प्रसादेन ममायं जीवितोऽधुना । पालितो मम भागेन त्वमानीतो नरोत्तमः || ३०१ ॥ वदन्नेवमसा ऊचे लक्ष्मणेन विचक्षणः । वदाभिरुचितं यत्ते क्षिप्रं सम्पादयाम्यहम् || ३०२ ॥ सोवोचत्सुहृदं प्राप्य भवंतमतिदुर्लभं । न किंचिदस्ति लोकेऽस्मिन्निदं तु प्रवदाम्यहं ॥ ३०३ ॥ तृणस्यापि न वांछामि पीडां जिनमताश्रितः । अतो विमुच्यतामेष मम सिंहोदरप्रभुः ॥ ३०४ ॥ इत्युक्ते लोकवक्त्रेभ्यः साधुकारः समुद्ययौ । प्राप्तद्वेषेऽपि पश्यायं मतिं धत्ते शुभामिति ॥ ३०५ || अपकारिणि कारुण्यं यः करोति सः सज्जनः । मध्ये कृतोपकारे वा प्रीतिः कस्य न जायते ३०६ एवमस्त्विति भाषित्वा लक्ष्मणेन तयोः कृता । हस्तग्रहणसंपन्ना प्रीतिः समयपूर्विका ॥ ३०७ ॥ उज्जयिन्या ददावधं वज्रकर्णाय शुद्धधीः । सिंहोदरो हृतं पूर्वं विषयोद्वासने च यत् ॥ ३०८ ॥ चतुरंगस्य देशस्य गणिकानां धनस्य च । विभागं समभागेन निजस्याप्यकरोदसौ ॥ ३०९ ॥ बार्हद्गतप्रसादेन तां वेश्यां तच्च कुंडलं । लेभे सेनाधिपत्यं च विद्युदंगः शुचिश्रुतः ॥ ३१० ॥
Page #136
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१२७
त्रयस्त्रिंशत्तमं पर्व । वज्रकर्णस्ततः कृत्वा रामलक्ष्मणयोः परां । पूजामानाय यत्क्षिप्रमष्टौ दुहितरो वराः ॥३११ ॥ सजायो दृश्यते ज्यायानिति तास्तेन ढौकिताः । लक्ष्मीधरं कृतोदारविभूषाविनयान्वितः ॥३१२॥ नृपाः सिंहोदराद्याश्च ददुः परमकन्यकाः । एवं सन्निहितं तस्य कुमारीणां शतत्रयं ॥ ३१३ ॥ ढोकित्वा वज्रकर्णस्ताः समं सिंहोदरादिभिः । जगाद लक्ष्मणं देव तवता वनिता इति ॥३१॥ लक्ष्मीधरस्ततोऽवोचद्दारसंगं करोम्यहं । न तावन्न कृतं यावत्पदं भुजबलार्जितं ॥ ३१५ ॥ पद्मश्च तानुवाचैवं नास्माकं वसतिः कचित् । भरतस्याधिराज्यस्मिन् देशे स्वर्गतलोपमे ॥३१६॥ देशान् सर्वान् समुलंध्य करिष्याम्यालयं ततः । आश्रित्य चंदनगिरि दक्षिणार्णवमेव वा ॥३१७॥ एका वेलामिह ततो जनन्यो नेतुमुत्सुके । आगंतव्यं मयावश्यं द्रागयोध्यामनेन वा ॥ ३१८ ॥ काले तत्रैव नेष्यंते कन्यका अपि भो नृपाः । अज्ञातनिलयस्यास्य कीदृशो दारसंग्रहः ॥३१९॥ एवमुक्ते कुमारीणां तवृदं शुशुभे न च । आकुलं पंकजवनं हिमवाताहतं यथा ॥ ३२० ॥ प्रियस्य विरहे प्राणान् त्यक्ष्यामो यदि तत्पुनः । अवस्यामः कुतोनेन समागमरसायनं ॥३२१॥ प्राणांश्च धारयंतीनां कैतवं मन्यते जनः । दह्यते च समिद्धेन मनो विरहवाहिना ॥ ३२२ ॥ सुमहान् भृगुरेकत्र व्याघ्रोऽन्यत्रातिदारुणः । अहो कष्टं कमाधारं व्रजामोत्यंतदुस्सहाः ॥३२३॥
Page #137
--------------------------------------------------------------------------
________________
१२८
पद्मपुराणम् ।
यत्रिंशत्तम पर्व |
अथवा विरहव्याघ्रे संगमाशयविद्यया । संस्तंभ्य धारयिष्यामः शरीरमिति सांप्रतं ।। ३२४ ।। एवं विंचितयंतीभिः सार्धं ताभिर्महीभृतः । गता यथागतं कृत्वा रामादीनां यथोचितं ॥ ३२५॥ सच्चेष्टाः पूज्यमानास्ताः पितृवर्गेण कन्यकाः । नानाविनोदनासक्तास्तस्थुस्तद्गतमानसा || ३२६ ॥ आनायितः पिता भूत्या स वंधुर्देशमात्मनः । विद्युदंगेन चक्रे च परमः संगमोत्सवः ॥ ३२७॥ परमेऽथ निशीथे ते नत्वा चैत्यालयात्ततः । शनैर्निर्गत्य पादाभ्यां स्वेच्छया सुधियो ययुः ३२८ चैत्यालयं प्रभाते तं दृष्ट्वा शून्यं जनोऽखिलः | रहिताशेषकर्तव्यो वितानहृदयस्थितः ॥ ३२९ ॥ समं कुलिशकर्णेन जाता प्रीतिरनुत्तरा । सिंहोदरस्य सम्मानगत्या गमनवर्धिता ॥ ३३० ॥ स्वैरं स्वैरं जनकतनयां तौ च संचारयंतौ । स्थायं स्थायं विकटसरसां काननानां तलेषु ॥ पायं पायं रसमभिमतं स्वादुभाजां फलानां । क्रीडं क्रीडं सुरसवचनं चारुचेष्टा समेतं || २३१ ॥ प्राप्तौ नाना रचनभवनोत्तुंग श्रृंगाभिरामं । रम्योद्यानावततवसुधं चैत्यसंघातपूतं ।। नाकच्छायं सततजनितात्युत्सवोदारपौरं । श्रीमत्स्वानं रविसमसविख्यातिमत्तूवराख्यं ॥ ३३२ ॥ इत्यार्षे रविषेणाचार्य प्रोक्त पद्मचरिते वज्रकर्णोपाख्यानं नाम त्रयस्त्रिंशत्तमं पर्व |
Page #138
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
चतुस्त्रिंशत्तम पर्व। अथ चतुस्त्रिंशत्तमं पर्व परमं सुंदरे तत्र फलपुष्पभरानते । गुंजद्धमरसंघाते मत्तकोकिलनादिते ॥१॥ कानने सीतया साकमग्रजन्मा स्थितः सुखं । अंतिका सलिलार्थी तु लक्ष्मणः सरसीं गतः॥२॥ अत्रांतरे सुरूपाढ्यो नेत्रतस्करविभ्रमः । एकोऽपि सर्वलोकस्य हृदयेषु समं वसन् ॥ ३ ॥ महाविनयसंपन्नः कांतिनिर्झरपर्वतः । वरवारणमारूढ़श्वारुपादातमध्यगः ॥ ४ ॥ तामेव सरसी रम्या क्रीडनाहितमानसः । प्राप्तः कल्याणमालाख्यो जनस्तन्न गराधिपः ॥५॥ महतः सरसस्तस्य हृष्टा तं तीरवर्तिनं । नीलोत्पलचयश्याम लक्ष्मणं चारुलक्षणं ॥६॥ ताडितः कामबाणेन स जनोत्यंतमाकुलः । मनुष्यमब्रवीदकमयमानीयतामिति ॥ ७॥ गत्वा कृत्वांजलिर्दक्षः स तमेवमभाषत । एह्ययं राजपुत्रस्ते प्रसादात्संगमिच्छति ॥ ८॥ को दोष इति संचित्य दधानः कौतुकं परं । जगाम लीलया चाा समीपं तस्य लक्ष्मणः॥९॥ उत्तीर्य स जनो नागात्पद्मतुल्येन पाणिना । कर लक्ष्मणमालंब्य प्राविशद् गृहमांबरं ॥१०॥ एकासने च तेनातिप्रतीतः सहितः स्थितः । अपृच्छच्च सखे कस्त्वं कुतो वा समुपागतः॥११॥
Page #139
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुस्त्रिंशसमं पर्व । सोऽवोचद्विप्रयोगान्मे ज्येष्ठो दुःखेन तिष्ठति । तावन्नयामि तस्यानं कथयिष्यामि ते ततः॥१२॥ ततः शाल्योदनः सूप उपदेशनवं घृतं । अपूपा घनबंधानि व्यंजनानि पयो दधि ॥ १३ ॥ पानकानि विचित्राणि शर्कराखंडमोदकान् । शंष्कुल्यो घृतपूर्णानि पूरिका गुडपूर्णिका ॥ १४ ॥ वस्त्रालंकारमाल्यानि लेपनप्रभृतीनि च । अमत्राणि च चित्राणि हस्तमार्जनकानि च ॥ १५॥ सर्वमेतत्समासन्नपुरुषैः स महाजवैः । भाविनानायितं तेन जनेनांतिकमात्मनः ॥ १६ ॥ अंतरंगः प्रतीहारा जनस्य वचनात्ततः । गत्वा सीतान्वितं पद्मं प्रणम्यैवमभाषत ॥ १७ ॥ अमुष्मिन् वस्त्रभवने भ्राता ते देव तिष्ठति । एतन्नगरनाथश्च विज्ञापयति सादरः ॥ १८ ॥ प्रसादं कुरु तच्छाया शीतलयं मनोहरा । तस्मादियंतमध्वानं स्वेच्छया गंतुमहेथ ॥ १९ ॥ इत्युक्ते सीतया साधं ज्योत्स्नयेव निशाकरः । पद्मासमाययौ विभ्रन्मत्तद्विरदविभ्रमः ॥ २० ॥ दूरादेव समालोक्य लक्ष्मणेन समं ततः । अभ्युत्थानं चकारास्य जनः प्रत्युद्गति तथा ॥२१॥ सीतया सहितस्तस्थौ पोत्यंतवरासने । अर्घदानादिसन्मानं प्राप्तश्च जनकल्पितं ॥ २२ ॥ ततः कर्मणि निवृत्ते स्वैरं स्नानाशनादिके । समुत्सायोखिलं लोकमात्मा नीतस्तुरीयतां ।।२३॥ दूतः पितुः सकाशान्मे प्राप्त इत्युपदेशनः । प्रपन्नः परमं कक्ष्यं प्रविश्यानन्यगोचरं ॥२४॥
Page #140
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१३१
चतुस्त्रिंशत्तम पर्व। नानाप्रहरणान्वीरान् नियुज्य द्वारि भूयसः । प्रविष्टो योत्र वध्योसौ समेति कृतभाषणः ॥२५॥ सद्भावज्ञापने लज्जां दूरीकृत्य सुमानसः । व्यपाटयदसौ तेषां समक्षं कंचुकं जनः ॥ २६ ॥ स्वर्गादिव तनोपप्तत् काप्यसौ वरकन्यका । उपयातेव पातालाकिंचिल्लज्जानतानना ॥ २७ ॥ तत्कांत्या भवनं लिप्तं लगानिलमिवाभवत् । उद्योतमिव चंद्रेण लज्जास्थितसितांशुभिः ॥२८॥ छेकहंसाश्चिरं त्रस्ताश्चक्षुषी समबूब्रुवन् । लक्ष्मीरिव स्थिता साक्षात् श्रीरिवोज्झितपंकजा ।। २९ ।। गृहं प्लावितुमारब्धामिव लावण्यवारिघौ । उत्कीर्णामिव रत्नानां रजसा कांचनस्य वा ॥३०॥ कल्लोला इव निर्जग्मुः स्तनाभ्यां कांतिवारिणः । तरंगा इव संजाता मध्ये त्रिवलिराजिते ॥३१॥ दंडातकं समुद्भिद्य जवनस्य धनं महः । निजेगामापरं छातं जीमूतं शशिनो यथा ।। ३२ ॥ सुचिरं प्रथितं लोके चंचलं वायसोमलं । गृहजीमूतवर्तिन्या निधौतमिव विद्युता ॥ ३३ ॥ अत्यंतस्निग्धया रुच्या रोमराज्या विराजितां । नितंबाज्जातया हैमान्महानीलत्विषा यथा ॥३४॥ ततोसो सहसामुक्तनररूपा सुलोचना । ढाकिता जानकी तेन रतिं श्रीरिव लज्जया ॥ ३५ ॥ अंते लक्ष्मणस्तन परिश्वतो मनोभुवा । अवस्था कामपि प्रापच्चलमंथरलोचनः ॥ ३६ ।। ततो विशुद्धया बुद्धया पद्रस्तामित्यभाषत । दधाना विविधं वेषं का त्वं क्रीडसि कन्यके ॥३७॥
Page #141
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१३२
चतुस्त्रिंशत्तम पर्व । ततोशुकेन संवीय गात्रं प्रवरभाषिणी । जगाद देव ! वृत्तांतं श्रृणु सद्भाववैदिनं ॥ ३८ ॥ वालिखिल्य इति ख्यातः पुरस्यास्य पतिः सुधीः। सदाचारपरो नित्यं मुनिवल्लोकवत्सलः ३९ पृथिवीति प्रिया तस्य गर्भाधानमुपागता । म्लेच्छाधिपतिना चासौ गृहीतः संयुगे नृपः ॥४०॥ उक्तं च स्वामिना तस्य सिंहोदरमहीभृता । पुत्रश्चद्भविता गर्ने कर्ता राज्यमसाविति ॥ ४१ ।। ततोहं पापिनी जाता मंत्रिणा च सुबुद्धिना | सिंहोदराय पौंस्नेन कथिता राज्यकाक्षया ॥४२॥ नीता कल्याणमालाख्यं जनन्या रहितार्थिका । प्राप्तो मांगलिके लोको व्यवहारे प्रवर्तते ॥४३॥ मंत्री माता च मे वेत्ति कन्येयमिति नापरः । इयंत कालमधुना भवंतः पुण्यवीक्षिताः॥४४॥ दुःखं तिष्ठति मे तातः प्राप्तश्चारकवासितां । सिंहोदरोपि नो सक्तस्तस्य कर्तुं विमोचनं ॥४५॥ यदत्र द्रविणं किंचिद्देशे समुपजायते । तन्म्लेच्छस्वामिने सर्व प्रेक्ष्यते दुर्गमीयुषे ॥ ४६ ॥ वियोगवह्निनात्यंतं तप्यमाना ममाविका । जाता कलावशेषेव चंद्रमतिर्गतप्रभा ॥४७॥ इत्युक्ता दुःखभारेण पीडिता शेषगात्रिका । सद्यो विच्छायतां प्राप्ता मुक्तकंठं रुरोद सा ॥४८॥ अत्यंतमधुरैर्वाक्यैः पञनाश्वासिता ततः । सीतया च निधायांके कुर्वत्या मुखधावनं ॥ ४९॥ सुमित्रासूनुना चोक्ता शुचं विसृज सुंदरि । कुरु राज्यमनेनैव वेषणोचितकारिणी ॥ ५० ॥
Page #142
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१३३
चतुस्त्रिंशत्तमं पर्व ।
शुभे कांश्चित्प्रतीक्षस्व दिवसान् धैर्यसंगतान् । म्लेच्छेन ग्रहणं किं मे पितरं पश्य मोचितं ॥ ५१ ॥ इत्युक्ते परमं तोषं ताते मुक्त इवागता । समुच्चसित सर्वांगा कन्यका छुतिपूरिता ॥ ५२ ॥ तत्र ते कानने रम्ये विचित्रालापविभ्रमाः । देवा इव सुखं तस्थुः स्वच्छंदा दिवसत्रयं ॥ ५३ ॥ ततः सुपूजने काले रजन्यां रामलक्ष्मणौ । ससीतौ रंभ्रमाश्रित्य निष्क्रांती काननालयात् ॥ ५४ ॥ विबुद्धा तानपश्यंती कन्या व्याकुलमानसा । हाकारमुखरा शोकं परमं समुपागता ॥ ५५ ॥ महापुरुष युक्तं ते स्तेनायित्वा मनो मम । गंतुं निद्रां समेताया निर्घृणति मनस्विनी ॥ ५६ ॥ कृच्छ्रन्नियम्य शोकं च वरवारणवर्तिनी । प्रविश्य कूवरं तस्थौ पूर्ववद्दीनमानसा ॥ ५७ ॥ ततः कल्याणमालाया रूपेण विनयेन च । हृतचित्ताः क्रमेणैते प्रापुर्वेकल निम्नगां ॥ ५८ ॥ उत्तीर्य विहितक्रीडास्तां सुखेन मनोहरा । बहून्देशानतिक्रम्य प्राप्ता विंध्यमहाटवीं ।। ५९ ।। स्कंधावारमहासार्थ परिक्षणेन वर्त्मना । प्रयातः पथिकैर्गोपैः कीनाशैश्च निवारिताः ॥ ६० ॥ क्वचित्सालादिभिर्वृक्षैर्लतालिंगितमूर्तिभिः । तद्वनं शोभतेत्यंतं स्वामोदं नंदनं यथा ॥ ६१ ॥ कचिदावेन निर्दग्धं प्रांतस्थितमहीरुहं । न शोभते यथा गोत्रं दुष्पुत्रेण कलंकितं ॥ ६२ ॥ अथावोचत्ततः सीता कार्णिकारवनांतरे । वामतोयं स्थितो ध्वांक्षो मूर्ध्नि कंटकितस्तरोः ॥ ६३ ॥
Page #143
--------------------------------------------------------------------------
________________
५
.
पद्मपुराणम् ।
चतुर्विशत्तम पर्व। वासमानो मुहुः क्रूरं कलहं कथयत्यरं । अन्योऽपि क्षीरवृक्षस्थो जयं शंसति वायसः॥ ६४ ॥ तस्मात्तावत्प्रतीक्षेत मुहूर्त कलहात्परः । जयोपि नैव मे चित्ते प्रतिभात्यतिसुंदरः ॥६५॥ ततःक्षणं विलंव्यैतौ प्रयातौ पुनरुद्यतौ । तदेव च पुनर्जातं निमित्तं निकटेंऽतरे ॥ ६६ ॥ ब्रुवत्या अपि सीताया अवकण्ये वचस्ततः । प्रवृत्तौ गंतुमने च म्लेच्छानां सैन्यमुद्त ॥६७ ॥ तौ निरीक्ष्यैव निर्भीतावायांतौ वरकामुको । क्षण केन तत्सैन्यं कांदिशीकं पलायितं ॥ ६८ ॥ अवगत्य ततस्तस्मात्सन्नह्यान्ये समागताः । प्रावृमेघसमानेन तेऽपि हासेन निर्जिताः ॥६९॥ ततस्ते त्यंतवित्रस्ता म्लेच्छा:पतितकार्मुकाः । कुर्वतः परमं रावं गत्वा पत्ये न्यवेदयन् ॥७॥ ततोसौ परमं क्रोधं वहंश्चापं च दारुणं । निर्जगाम महासैन्यः शस्त्रसंतमसावृतः ॥ ७१ ॥ काकोनदा इति ख्याता म्लेच्छास्ते धरणीतले । दारुणाः सर्वमांसादो दुर्जयाः पार्थिवैरपि ॥७२॥ तैरावृतां दिशं प्रेक्ष्य पुरो धनकुलाशितैः । धनुरारोपयत्कोपं किंचिल्लक्ष्मीधरो भजन ॥ ७३ ॥ तथा चास्फालितं सर्ववनमाकंपितं यथा । ज्वरश्च वनसत्वानां जज्ञे प्रकटवेपथुः ॥ ७४॥ संदधानं शरं वीक्ष्य लक्ष्मणं त्रस्तचेतसः । बभ्रमुश्चक्रतां प्राप्ता म्लेच्छा निश्चक्षुषो यथा ॥७५॥ ततःसाध्वससंपूर्णो म्लेच्छानामधिपो भृशं । अवतीर्य रथादेतौ प्रणम्य रचितांजलिः॥७६ ॥
Page #144
--------------------------------------------------------------------------
________________
१३५
चतुस्त्रिंशत्तम पर्व। अब्रवीदस्ति कौशांबी नगरी प्रथिता प्रभुः । आहिताग्निर्द्विजस्तत्र नाम्ना विश्वानलः शुचिः ॥७॥ प्रतिसंध्येति यज्जाया जातोहं तनयस्तयोः । रौद्रभूतिरिति ख्यातः शस्त्रद्यूतकलान्वितः ॥ ७८॥ बाल्यात्प्रभृति दुष्कर्म नित्यानुष्ठानकोविदः । प्राप्तश्चोर्ये कदाचिच्च शूले भेत्तुमभीप्सितः॥७९॥ ध्वनिनैकेन तत्राहं श्रद्दधानेन साधुना । मोचितो वेपमानांगः त्यक्त्वा देशमिहागतः ॥ ८॥ प्राप्तःकर्मानुभावेन काकोनदजनेशतां । भ्रष्टस्तिष्ठामि सद्वृत्तात्पशुभिः समतां गतः ॥ ८१ ।। इयंतं यस्य मे कालं सैन्याढथा अपि पार्थिवाः । चक्षुषो गोचरीभावमासन् शक्ता न सेवितुं८२ सोहं दर्शनमात्रेण कृतो देवेन विक्लवः । धन्योस्मि वीक्षितौ येन भवंतौ पुरुषोत्तमौ ॥ ८३ ॥ शासनं यच्छतां नाथौ किं करोमि यथोचितं । शिरसा पादुके किं वा वहे पावनपंडिते ॥ ८४ ॥ विंध्योयं निधिभिः पूर्णो वरयोषिच्छतैस्तथा । भुजिष्यमिच्छतां देवी मामतो निभृतं परं ॥८५॥ इत्युक्त्वा प्रणतिं कुर्वन् पुनरर्ति परां गतः । पपात विहलो भूमौ छिन्नमूलस्तरुर्यथा ॥ ८६ ।। कष्टावस्थां ततःप्राप्तं तमेवं राघवोऽवदत् । कृपालतापरिष्वक्तवीरकल्पमहातरुः ॥ ८७ ॥ उत्तिष्ठोत्तिष्ठ माभैषीर्वालिखिल्यं विबंधनं । कृत्वाऽऽनय द्रुतं प्राप्य सन्मानं परमं सुधीः ॥८८॥ तस्यैवाभिमतो भूत्वा सचिवः सज्जनान्वितः । विहाय संगतिं म्लेच्छैर्विषयस्य हितोऽभवत् ८९
Page #145
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१३६
चतुस्त्रिंशत्तम पर्व |
एतच्चेत्कुरुषे सर्वमन्यथात्वविवर्जितं । ततस्ते विद्यते शांतिरद्यैत्र म्रियसेऽन्यथा ॥ ९० ॥ एवं प्रभो करोमीति कृत्वा प्रणतिमादृतः । महारथसुतं गत्वा मुमोच विनयान्वितः ॥ ९१ ॥ अभ्यंगोद्वर्त्य सुस्नानं भोजयित्वाश्वलंकृतं । आरोप्य स्यंदने नेतुमारेभे तं तदंतिकं ॥ ९२ ॥ स दध्यौ नीयमानः सन् विस्मयं परमं गतः । इतोऽपि गहनावस्था प्रायो मे भविष्यति ॥ ९३ ॥ कार्य म्लेच्छो महाशत्रुः कुकर्मात्यिंत निर्दयः । कचायमतिसन्मानो न मन्येद्यासुधारणं ॥ ९४ ॥ इति दीनमना गच्छन् सहसा पद्मलक्ष्मणौ । दृष्ट्वा परां धृतिं प्राप्तोवतीर्य सनमस्कृतिः ।। ९५ ।। अब्रवीत्तौ युवां नाथावागतावतिसुंदरौ । मम पुण्यानुभावेन मुक्तो येनास्मि बंधनात् ॥ ९६ ॥ गच्छ क्षिप्रं निजं धाम लभस्वाभीष्टसंगमं । तत्र नौ ज्ञास्यसीत्युक्ते वालिखिल्य सुधीर्गतः ॥९७॥ कृत्वा सुनिभृतं भृत्यं तस्य विश्वानलांगजं । यातौ सीतान्वितौ स्वेष्टं कृतिनौ रामलक्ष्मणौ ॥ ९८ ॥ वालिखिल्यस्तु सप्राप्तः समं रौद्रविभूतिना । स्वपुरस्यांतिकां क्षोणीं स्मरन् बांधवचेष्टितं ॥ ९९ ॥ प्रत्यासन्नं ततः कृत्वा विभूत्या परयान्वितं । पितरं निरगात्तुष्टा पुरात्कल्याणमालिनी ॥ १०० ॥ प्रतीतां सनमस्कारां तां समाधाय मस्तके | निजयाने पुनः कृत्वा प्रविष्टः कूवरं नृपः ॥ १०१ ॥ पृथिवी महिषी तोषसंजातपुलका क्षणात् । पुरातनी तनुं भेजे कांतिसागरवर्तिनीं ॥ १०२ ॥
A
Page #146
--------------------------------------------------------------------------
________________
१३७
पद्मपुराणम् ।
पंचस्त्रिंशत्तम पर्व। सिंहोदरप्रभृतयो नृपा प्रभृतयोखिलाः । गुणैः कल्याणमालायाः परमं विस्मयं गताः ॥१०॥
यद्रौद्रभूतिः सुचिरं विचित्रं । समार्जयचौर्यपरायणः स्वं ।
___ अनेकदेशप्रभवं विशालं । तद्वालिखिल्यस्य गृहं विवेश ॥ १०४ ।। जातेऽस्य वाग्वर्तिनि रौद्रभूतौ । वशीकृते म्लेच्छसुदुर्गभूमौ॥
सिंहोदरोऽपि प्रतिपन्नशंकः । स्नेहं ससन्मानमलंचकार ॥ १०५ ॥ सोयं समासाद्य परां विभूति । प्रसादतो राघवसत्तमस्य ॥
महारथी प्राणसमासमेतो । रविर्यथैवं शरदा रराज ॥ १०६ ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते वालिखिल्योपाख्यानं नाम चतुस्त्रिंशत्तम पर्व ।
अथ पंचत्रिंशत्तमं पर्व। अथ ते त्रिदशाभिख्याः काननं नंदनोपमं । विहरंतः सुखं प्राप्ता देशमत्यंतमुज्वलं ॥१॥ मध्ये यस्य नदी भाति प्रसिद्धजलवाहिनी । तापीति विश्रुता नाना पक्षिवर्गानुनादिवा ॥२॥
Page #147
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१३८
पंचत्रित्तमं पर्व ।
अरण्ये तत्र निस्तोये सीतात्यंतश्रमान्विता । जगाद राघवं नाथ कंठशोषो ममोत्तमः ॥ ३ ॥ यथा भवशतैः खिन्नो भव्यो दर्शनमर्हतः । वांछत्येवमहं तीव्रतृष्णयाकुलिता जलं ॥ ४ ॥ इत्युक्ता वार्यमाणापि निषण्णा सुतरोरधः । रामेण जगदे देवि विषादं मागमः शुभे ॥ ५ ॥ आसन्नोयं महाग्रामो दृश्यते विकटालयः । उत्तिष्ठाशु प्रयामोऽत्र शिशिरं वारि पश्यति ॥ ६ ॥ एवमुक्त तथा स्वैरं स्वैरं प्रास्थितया समं । प्राप्तौ तावरुणग्रामं महाधनकुटुंबिकं ॥ ७ ॥ आहिताग्निर्द्विजस्तत्र कपिलो नाम विश्रुतः । गेहे तस्यावतीर्णौ तौ यथाक्रममुपागते ॥ ८ ॥ अत्राग्निहोत्रशालायामपनीय श्रमं क्षणं । तद्ब्राह्मण्या जलं दत्तं पपौ सीता सुशीतलं ॥ ९ ॥ यावत्तिष्ठति ते तत्र द्विजस्तावदरण्यतः । विल्वाश्वत्थपलाशैघोभारवाही समागतः ॥ १० ॥ दावानलसमं यस्य मानसं नित्यकोपिनः । कालकूटविषं वाक्यमुलुकसदृशं मुखं ॥ ११ ॥ कमंडलुशिखाकूर्चवालसूत्रादिभिः परं । विभ्राणः कुटिलं वेषमुंछवृत्ति भजन् किल ॥ दृष्ट्वा तान्कुपितोऽत्यंतभ्रुकुटीकुटिलाननः । उवाच ब्राह्मणी वाचा तक्षन्निव सुतीक्ष्णया ।। १३ ।। अयि पापे किमित्येषामिह दत्तं प्रवेशनं । प्रयच्छाम्यद्य ते दुष्टे बंधं गोरपि दुस्सहं ॥ पश्येमे निपा धृष्टाः केपि पांशु पांडुका | अग्निहोत्रकुटीं पापा कुर्वेत्युपहतां मम ॥
१२ ॥
१४ ॥
१५ ॥
Page #148
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचस्त्रिंशत्तम पर्व । ततः सीताऽब्रवीत्पनमार्यपुत्र कुकर्मणः । अस्य दमास्पदं दग्धं परमाक्रोशकारिणः ॥ १६ ॥ वरं पुष्पफलच्छन्नैः पादपरुपशोभिते । सरोभिश्वातिविमलैः पद्मादिपिहितैर्वने ॥ १७ ॥ सारंगैरुषितं साध क्रीडद्भिर्निजयेच्छया । श्रूयते नेदृशं यत्र नितांतं परुषं वचः ॥१८॥ अस्मिन् राघव नाकाभे देशे धनसमुज्वले । समस्तो निष्ठुरो लोको ग्रामवासी विशेषतः ॥१९॥ विप्रस्य रूक्षया वाचा क्षोभितोऽसौ ततोऽखिलः । ग्रामः समागतो दृष्ट्वा तेषां रूपं सुरोपमं २० अब्रवीद्राह्मणकांतां पथिकाः क्षणमेककं । तिष्ठंतु किमिमे दोपं कुर्वति विनयान्विताः ॥२१॥ ततो निर्भत्स्य सकलं तं लोकं लोललोहितः । बभाषेतौ द्विजः प्राप सारमेयो गजाविव ॥२२॥ निष्कामतः परं गेहान्मदीयादपवित्रको । एवमादिवचोघातैर्लक्ष्मीवान् कुपितस्ततः ॥ २३ ॥ ऊर्ध्व पादमधोग्रीवं कृत्वा तं ब्राह्मणाधमं । अब्रह्मण्यं प्रकूजतं शोणितारुणलोचनं ॥ २४ ॥ भ्रमयित्वा क्षिनौ यावदास्फालयितुमुद्यतः । रामेण वारितस्तावदिति कारुण्यधारिणा ॥ २५ ॥ सौमित्रे किमिदं क्लीवे प्रारब्धं भवतेदृशं । मारितेन किमेतेन जीवत्प्रेतेन ते ननु ॥ २६ ॥ मुंचैनं त्वरितं क्षुद्रं यावत्प्राणैर्न मुच्यते । अयशः परमेतस्मिल्लभ्यते केवलं मृते ॥ २७॥ श्रमणा ब्राह्मणा गावः पशुस्त्रीबालवृद्धकाः । सदोषा अपि शराणां नैते वध्याः किलोदिताः २८
Page #149
--------------------------------------------------------------------------
________________
१४०
पद्मपुराणम् ।
पंचत्रिंशत्तमं पर्व |
इत्युक्त्वा मोचयित्वा तं कृत्वा लक्ष्मणमग्रतः । सीतयानुगतो रामः कुटीरान्निरगात्ततः ॥ २९ ॥ धि धि नीचसमासंग दुर्वचः श्रुतिकारणं । मनोविकारकरणं महापुरुषवर्जितं ॥ ३० ॥ वरं तरुतले शीते दुर्गमे विपिने स्थितं । परित्यज्याखिलं ग्रंथं विहृतं भुवने वरं ॥ ३१ ॥ वरमाहारमुत्सृज्य मरणं सेविते सुखं । अवज्ञातेन नान्यस्य गृहे क्षणमपि स्थितं ॥ ३२ ॥ कुलेषु सरितामद्रेः कुक्षिष्वत्यंतहारिषु । स्थास्यामो न पुनर्भूयः प्रवेक्ष्यामः खलालयं ॥ ३३ ॥ निंदन्नेव खलासंगमभिमानं परं वहन् । निर्गत्य ग्रामतः पद्मो वनस्य पदवीं श्रितः ॥ ३४ ॥ घनकालस्ततः प्राप्तो नीलयन्नखिलं नभः । पटुगर्जितसंतानप्रतिनादितगरः || ३५ ॥ गृहनक्षत्रपटलमुपगुह्य समंततः । सरावविद्युदुद्योतं जहासेव नभःस्फुटं ॥ ३६ ॥ ग्रीष्मडामरकं घोरं समुत्सार्य घनाघनः । जगर्ज विद्युदंगुल्या प्रेषितामित्र तर्जयन् ॥ ३७ ॥ नभधकारितं कुर्वन् धाराभिर्नीलतोयदः । अभिषेक्तुं समारेभे सीतां गज इव श्रियं ॥ ३८ ॥ तिम्यंतस्ते ततोभ्वर्ण पृथुन्यग्रोधपादपं । उपसखुः पुरो गेहसमान स्कंधमुन्नतं ॥ ३९ ॥ इभकर्णोगणस्तेषामभिभूतोपि तेजसा । गत्वा स्वामिनमित्यूचे नत्वा विध्यमुपाश्रितं ॥ ४० ॥ आगत्य नाकतः केऽपि मदीये नाथ सद्मनि । स्थिता यैस्तेजसैवाहं तस्माद्वासितो द्रुतं ॥ ४१ ॥
1
Page #150
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचस्त्रिंशत्तम पर्व। श्रुत्वा तद्वचनं स्मित्वा विनायकपतिःसमं । वधुभिः प्रस्थितो गंतुं निग्रोधं वरलीलया ॥४२॥ अधीश्वरः स यक्षाणां महाविभवसंगतः । रम्यकाननसंसक्तः क्रीडन्पूतनसंज्ञकः ॥ ४३॥ दूरादेव च तौ दृष्ट्वा महारूपौ गणाधिपः । प्रयुज्यावधिमज्ञासीद्वलनाराणाविति ॥४४॥ ततस्तदनुभावेन वात्सल्येन च भूयसा । क्षणेन नगरी तेषां तेन रम्या विनिर्मिता ॥ ४५ ॥ ततस्ते सुखसंपन्नं सुप्ताः किल सुचारुणा । प्रभाते गीतशब्देन प्रबोधं समुपागताः ॥ ४६ ॥ तल्पेऽवस्थितमात्मानमपश्यन् रत्नराजिते । प्रासादं च महारम्यं बहुभृमिकमुज्वलं ॥ ४७ ॥ देहोपकारणव्यग्रं परिवर्ग च सादरं । नगरं च महाशब्दशालगोपुरशोभितं ॥ ४८ ॥ तेषां महानुभावानां दृष्टेऽस्मिन् सहसा पुरे । न मनो विस्मयं प्राप तद्धि क्षुद्रविचेष्टितं ॥ ४९ ॥ अशेषवस्तुसंपन्नास्तव ते चारुचेष्टिताः । अवस्थानं सुखं चक्रुरमरा इव भोगिनः ॥ ५० ॥ यक्षाधिपेन रामस्य पुरी यस्मात्प्रकल्पिता । ततो महीतले ख्यातिं गता रामपुरीति सा ॥५१॥ प्रतीहारा भटा शूरा अमात्याः सप्तयो गजाः । पौराश्च विविधास्तस्यामयोध्यायामिवाभवन् ५२ कुशाग्रनगरेशोऽयं गणिनं पृष्टवानिति । तयोर्नाथ तथाभूतो स द्विजः किमुचेष्टितः ॥ ५३॥ उवाच च गणस्वामी शृणु श्रेणिक स द्विजः। प्रयातः प्रातरुत्थाय दात्रहस्तो वनस्थलीं ॥५४॥
Page #151
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंशस्त्रिंशत्तम पर्व। भ्रमंश्च समिदाभ्यर्णमकस्माद्मलोचनः । नातिदूरे पुरी पृथ्वीमपश्यद्विस्मिताननः ॥ ५५ ॥ असिताभिः सिताभिच्च पताकाभिर्विराजितां। शरन्मेघसमानश्च भवनैरतिभासुरैः ॥ ५६ ॥ पुंडरीकातपत्रेण मध्ये समुपलक्षितं । महाप्रासादमेकं च कैलासस्येव शावकं ॥ ५७ ॥ अचिंतयच्च द्यौरेषा, अटव्यासीन्मृगाश्रिता । यस्यां समित्कुशाद्यर्थ दुःखं पर्याटिषं सदा ॥५८॥ अस्मात्सेयमुत्तुंगश्रृंगमालोपशोभितैः । रत्नपर्वतसंकाशविराजति पुरी गृहैः ॥ ५९॥ सरांस्यमुनि रम्याणि पद्मादिविहितानि च । दृश्यंते यानि नो पूर्व मया दृष्टानि जातुचित् ६० उद्यानानि सुरम्याणि सेवितानि जनै भृशं । दृश्यंते देव धामानि लक्षितानि महाध्वजैः॥६१॥ वारणैः सप्तिभिर्गोभिर्महिषीभिच्च संकटा । अस्योपकंठधरणी घंटादिस्वनपूरिता ॥ ६२ ॥ किमेषा नगरी नाकादवतीर्णा भवेदिह । पातालादुद्गताहोश्वित्कस्यापि शुभकर्मणः ॥ ६३ ॥ स्वप्नमेवं नु पश्यामि मायेयं वत कस्यचित् । किंम गंधर्वनगरं पित्तव्याकुलितोस्मि किं ॥६४॥ उपालिंगमिदं किं स्यात्प्रायेणास्यांतिकस्य मे । इति संचिंतयन् प्राप्तो विवादं परमं द्विजः॥६५॥ दृष्ट्वा च प्रमदामेकां नानालंकारधारिणीं । अपृच्छदुपसृत्येयं भद्रे कस्य पुरीत्यसौ ॥ ६६ ॥ सा जगौ जातु पद्मस्य पुरीयं किं न ते श्रुता । यस्य लक्ष्मीधरो भ्राता सीता च प्राणवल्लभा ६५
Page #152
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१४३
पंचस्त्रिंशत्तम पर्व। एतत्पश्यसि यद्विप्र पुर्या मध्ये महागृहं । शरदभ्रसमच्छायमत्रासौ पुरुषोत्तमः ॥ ६८॥ लोको दुर्लभदर्शन सर्वोननातिदुर्विधः । यच्छता वांछितं द्रव्यं जनितः पार्थिवोपमः ॥ ६९॥ विप्रोऽवोचदुपायेन केन पश्यामि सुंदरि । पद्म सद्भावतः पृष्टा निवेदयितुमर्हसि ॥ ७० ॥ इत्युक्त्वा समिधाभारं निक्षिप्य भुवि सांजलिः । पपात पादयोस्तस्याः सा कस्य न मनोहरा ७१ ततोसौ कृपयाकृष्टा सुमाया नाम यक्षिणी । जगाद विप्रं परमं त्वयेदं साहसं कृतं ॥ ७२ ॥ अस्याः पुरः समासन्नां कथं त्वं भुवमागतः । आरक्षकैरलं घोरेनूनं नश्यति वीक्षितः ॥ ७३ ।। अस्या द्वारत्रयं पुर्याः दुष्प्रवेशं सुरैरपि । अशून्यं सर्वदा वीरैः रक्षकैः सुनियामकैः ॥ ७४ ॥ सिंहवारणशार्दूलतुल्यवक्त्रैर्महोज्वलैः । एभिर्विभीषिता मृत्युं मानुषा यांत्यसंशयं ॥ ७५ ॥ पूर्वद्वारमदो यत्तु तस्य पश्यसि यान्वहिः । प्रासादानंतिकानेतान् वलाकाच्छादनच्छवीन् ।।७६।। मणितोरणरम्यषु विविधध्वजराजिषु । अर्हताभिंद्रवंद्यानाममीषु प्रतियातनाः ।। ७७॥ सामायिकं पुरस्कृत्य तासां यस्तवनं नरः । नमोहत्सिद्धनिस्वानपूर्व पठति भावतः ।। ७८ ।। गुरूपदेशयुक्तोऽसौ सम्यग्दर्शनराक्षितः । विशतींद्रककुप् द्वार हन्यतेत्व नमस्कृतिः ॥ ७९ ॥ अणुव्रतधरो यो ना गुणशीलविभूषितः । तं रामः परया प्रीत्या वांछितेन समर्चति ॥ ८० ॥
Page #153
--------------------------------------------------------------------------
________________
१४४
पद्मपुराणम् ।
पंचस्त्रिंशसमं पर्व । ततस्तस्या वचःश्रुत्वा द्विजोसावमृतोपमं । जगाम परमं हर्ष लब्धोपायं धनागमे ॥ ८१ ॥ नमस्कारं च कृत्वास्या भूयोभूयस्तुति तथा । रोमांचार्चितसागः परमाद्भुतभावितः ।। ८२ ॥ मुनेश्चारित्रसूरस्य गत्वासनं कृतांजलिः। प्रणम्य शिरसा पृच्छदणुव्रतधरक्रियां ।। ८३॥ ततस्तेन समुद्दिष्टं धर्म समनिवासिनां । स जग्राहानुयोगांश्च शुश्राव चतुरःसुधीः ॥ ८४ ॥ धनलोभाभिभूतस्य धर्म शुश्रूषतोस्य सः । ग्रहणे परमार्थस्य परिणाममुपागतः ॥ ८५॥ अवगम्य ततो धर्म द्विजोवोचत्सुमानसः । नाथ तेद्योपदंशेन चक्षुरुन्मीलितं मम ॥ ८६ ॥ तृषार्तेनेव सत्तोयं छायेवाश्रयकांक्षिणा । क्षुधातेनेव मिष्टानं रोगिणेव सुभेषजं ॥ ८७॥ दुष्पथप्रतिपन्नेन वर्मेवेप्सितदेशगं । यानपात्रमिवांभोधौ व्याकुलेन निमज्जतां ।। ८८ ॥ मयेदं शासनं जैनं सर्वदुःखविनाशनं । लब्धं भवत्प्रसादेन दुर्लभं पुरुषाधमैः ॥ ८९ ॥ त्रैलोक्यऽपि न मे कश्चिद्भवता विद्यते समः । येनायमीदृशो मार्गो तोपितो जिनदेशनः ॥९॥ इत्युक्त्वा शिरसा पादौ वंदित्वांजलियोगिनः । गुरुं प्रदक्षिणीकृत्य द्विजःस भवनं गतः ॥९१॥ जगाद वातिहृष्टस्तां प्रसन्नविकचक्षणः । दयिते परमाश्चर्य गुरोरद्य मया श्रुतं ॥ ९२ ॥ श्रुतं तव न तत्पित्रा जनकनाथ वा पितुः । किं वात्र बहुभिः प्रोक्तैत्रिणापि न ते श्रुतं ॥१३॥
Page #154
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१४५
पंचत्रिंशत्तमं पर्व ।
दृष्टं ब्राह्मणि यातेन यदरण्यं मयाद्भुतं । तद्गुरोरुपदेशेन नेदानीं विस्मयाय मे ।। ९४ ।। किं किं भो ब्राह्मण ब्रूहि दृष्टं किंवा त्वया श्रुतं । उक्तोऽवोचन्न शक्नोमि हर्षात्कथयितुं प्रिये ९५ आदरेणानुयुक्तश्च कौतिकिन्या पुनः पुनः । विप्रोऽवोचत शृण्वार्ये यन्मया श्रुतमद्भुतं ।। ९६ ।। समिदर्थं प्रयातेन वनं तस्य समीपतः । दृष्टा पुरी मया रम्या यत्रासीद्गहनं वनं ॥ ९७ ॥ तदासन्ने मया चैका दृष्टा नारी विभूषिता । नूनं सा देवता कापि मनोहरणभाषिता ॥ ९८ ॥ पृष्टा च सा मयाख्यातं तया रामपुरीति च । ददाति श्रावकेभ्योऽत्र किल रामो महद्धनं ॥ ९९ ॥ ततो गत्वा मया साधोजिनेंद्रवचनं श्रुतं । आत्मा मे तर्पितस्तेन कुदृष्टिपरितापितः ॥ १०० ॥ मुनयो यत्समाश्रित्य तप्यंते सुधियस्तपः । त्यक्त्वा परिग्रहं सर्वं मुक्त्या लिंगनलालसाः ॥ १०१ ॥ सोर्हद्धर्मो मया लब्धत्रैलोक्यैकमहानिधिः । अमी यतो बहिर्भूताः क्लिश्यंते न्यवादिनः ।। १०२ ।। यथाभूतो मुनेर्धर्मः श्रुतो धर्मेण तादृशः । ब्राह्मण्यै कथितः सर्वो मलवर्जितचेतसा ।। १०३ ॥ ब्राह्मणी विनिशम्यैतं सुशर्मा वाक्यमब्रवीत् । मयापि त्वत्प्रसादेन लब्धो धर्मो जिनोदितः १०४ विधेः पश्य मया योगं मोहाद्विषफलार्थिना । वांछेनापि त्वया लब्धमर्हन्नामरसायनं ॥ १०५ ॥ मयासीन्मं दधीभाजा मणिर्हस्तगतो यथा । निजांगणगतः साधुरपमानमुपाहृतः ॥ १०६ ॥
२ – १०
Page #155
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
१४६
पंचत्रिंशत्तम पर्व।
उपवासपरिश्रांतश्रमणं तं निरंबरं । निराकृत्यानवेलायां मार्गोन्यस्यैव वीक्षितः ॥ १०७ ॥ अहंत समतिक्रम्य पाकशासनवंदितं । ज्योतिष्कव्यंतरादीनां शिरसा प्रणतिः कृता ॥ १०८॥ अहिंसानिर्मलं सारमहद्धर्मरसायनं । अज्ञानात्समतिक्रम्य विषमं भक्षितं विषं ॥ १०९॥ मानुषद्वीपमासाद्य त्यक्त्वा साधुपरीक्षितं । धर्मरत्नं कृतः कष्टं विभीतकपरिग्रहः ॥ ११ ॥ सर्वमक्षप्रवर्तेषु दिवारात्रौ च भोजिषु । अव्रतेषु विशीलेषु दत्तं फलविवर्जितं ॥ १११ ॥ यं किलातिथिवेलायामागतं विभवोचितं । यो नार्चयति दुर्बुद्धिस्तस्य धर्मो न विद्यते ।।११२॥ परित्यक्तोत्सवतिथिः सर्वस्वैकांतनिस्पृहः। निकेतरहितः सोयमतिथिः श्रमणः स्मृतः ॥११३॥ येषां न भोजनं हस्ते नाप्यासन्नपरिग्रहः । ते तारयंति निग्रंथाः पाणिपात्रपुटासिनः ॥ ११४ ॥ स्वशरीरेऽपि निस्संगा ये लुभ्यंति न जातुचित् । ते निष्परिग्रहा ज्ञेया मुक्तिलक्षणभूषिताः ११५ एवमुद्गतसदृष्टिः कुदृष्टिमलवर्जिता । सुशर्मा शुशुभे पत्यौ भरणीव बुधे परं ॥११६ ॥ पादमूले ततो नीत्वा गुरोस्तस्यैव सादरं । अणुव्रतानि सामोदा ब्राह्मणी तेन लंभिता ॥११७॥ विज्ञाय कपिलं रक्तं परमं जिनशासने । कुलान्याशीविषोग्राणि विप्राणां भेजिरे समं ॥ ११८ ॥ मुनिसुव्रतनाथस्य संप्राप्य सुदृढं मतं । बभूवुः श्रावकास्तीवा ऊचुश्चैव सुबुद्धयः ॥ ११९ ॥
Page #156
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
१४७
पंचत्रिंशत्तमं पर्व।
कर्मभारगुरुभूता मानोत्तानितमस्तकाः । स्तोकेन नरकं घोरं न याताः स्म प्रमादिनः ॥१२०॥ अज्ञातमिदमप्राप्तं जन्मांतरशतेष्वपि । जिनेंद्रशासनं ब्रह्म कृच्छ्रात्प्राप्तं सुनिर्मलं ॥ १२१ ॥ ध्यानाशशुक्षिणीविद्धे मनऋत्विक्समाहिताः । स्वकर्मसमिधोभावसर्पिषा जुहुमोधुना ॥ १२२ ॥ इति केचित्समाधाय मनःसंवेगनिर्भराः । विरक्ताः सर्वसंगेभ्यो बभूवुः श्रमणोत्तमाः ।। १२३ ॥ सागारधर्मरक्तस्तु कपिलः परमक्रियः। कदाचिद्राह्मणीमूचे सदाभिप्रायवर्तिनीं ॥ १२४ ॥ कांते रामपुरी किं नो व्रजामोद्य तमूर्जितं । विशुद्धचेष्टितं द्रष्टुं रामं राजीवलोचनं ॥ १२५ ॥ आशापरायणं नित्यमुपायगतमानसं । दारिद्यवारिधी मनमानं कुक्षिपूरणे ॥ १२६ ॥ जनमुत्तारयत्येष किल भव्यानुकंपकः । इति कीर्तिर्धमत्यस्य निर्मलाल्हादकारिणी ॥ १२७ ॥ उत्तिष्ठेवं गृहाणैवं प्रिये पुष्पकरंडकं । करोम्यहममपि स्कंधे सुकुमारमिमं शिशुं ॥ १२८ ॥ एवमुक्त्वा तथा कृत्वा दंपती संमदान्वितौ । स्वशक्या गंतुमुद्युक्तौ शुद्धवेषविभूषितौ ॥१२९॥ बजतोश्च तयोरुया उत्तस्थुः पनगाः पथि । दंष्ट्राकरालवक्त्राश्च वेतालास्तारहासिनः ॥ १३०॥ एवमादीनि वस्तूनि भीषणान्यवलोक्य तौ । निष्कंपहृदयौ भूत्वा स्तुतिमेतामुपागतौ ॥ १३१ ॥ नमस्त्रिलोकवंद्येभ्यो जिनेभ्यः सततं त्रिधा । उत्तीर्णभवपंकेभ्यो दातृभ्यः परमं शिवं ॥ १३२ ॥
Page #157
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३४८
पंचत्रिंशत्तम पर्व। एतयोः स्तुवतोरेवं विदित्वा जिनभक्तितां । भेजिरे प्रशमं यक्षास्तौ च प्राप्तौ जिनालयं ॥१३३॥ ततो नमो निषिध्याया इत्युक्त्वा रचितांजली । कृत्वा प्रदक्षिणं स्तोत्रमुदचीचरतमिदं ॥१३४॥ विहाय लौकिक मार्ग महादुर्गतिदुःखदं । भवंतं शरणं नाथ चिरेण समुपागतः ॥ १३५ ॥ चतुर्भिविंशतिं युक्तामक्षराणां महात्मनां । उत्सर्पिण्यवसर्पिण्योवंदे भूतभविष्यतां ॥ १३६ ॥ पंचस्वैरावताख्येषु भरताख्येषु पंचसु । जिनान्नमामि वास्येषु तान्नमामि जिनांस्त्रिधा ॥१३७।। यैः संसारसमुद्रस्य कृते तरणतारणे । त्रिकालं सर्ववास्येषु तान्नमामि जिनान् त्रिधा ॥ १३८ ॥ मुनिसुव्रतनाथाय तस्मै भगवते नमः । त्रैलोक्ये शासनं यस्य सुविशुद्धं प्रकाशते ॥ १३९ ॥ इति कृत्वा स्तुतिं जानु मस्तकस्पृष्टभूतलौ । नेमतुस्तौ जिनं भक्त्या परिहृष्टतनूरुहो ॥ १४०॥ ततोसौ कृतकर्तव्यो रक्षैः सौम्यैः प्रियंवदैः । अनुज्ञातः समं पत्न्या द्रष्टुं हलिनमुद्ययौ ॥१४१॥ राजमार्गे द्विसंकाशान् प्रासादान् विमलत्विषः । ब्राह्मण्यै दर्शयन् याति दिव्यनारीसमाकुलान् ॥ ऊचे च कुंदसंकाशैः सर्वकामगुणान्वितैः । राजते भवनर्यस्य पुरीयं स्वर्गसनिभा ॥१४३ ॥ तस्यैतद्भवनं भद्रे प्रांतप्रासादवेष्टितं । अभिरामस्य रामस्य पुर्या मध्ये विराजते ॥ १४४ ॥ ब्रुवन्निति महाहृष्टः स विवेश च तद्गृहं । दृष्ट्वा च लक्ष्मणं दूराभृशमाकुलतां गतः ॥ १४५ ॥
Page #158
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१४९
पंचत्रिंशत्तम पर्व । दध्यौ संजातकंपश्च सोयमिंदीवरप्रभः । व्यथितो दुर्विदग्धोहं चित्रैन तदावधेः ॥ १४६ ॥ कर्णयोरतिदुःखानि भाषितानि महाखले । तानि कृत्वा तदा पापे जिह्वे निस्सर सांप्रतं ॥१४७॥ किं करोमि क गच्छामि विवरं प्रविशामि किं । अस्मिन् शरणहीनस्य भवेच्छरणमद्य कः १४८ अवस्थितोयमत्रेति यदि मे विदितो भवेत् । समुल्लंघ्योत्तरामाशां देशत्यागः कुतो भवेत् १४९ एवमुद्वेगमापनो विहाय ब्राह्मणी द्विजः । प्रपलायितुमुद्युक्तो लक्ष्मणेन विलोकितः ॥ १५० ॥ स्मित्वा च स जगादायं कुतो विप्रः समागतः । वनसंवर्धितात्मेव किमित्याकुलतामितः १५१ समाश्वासमिम नीत्वा द्रुतमानय तं द्विजं । पश्यामस्तावदेतस्य चेष्टितं किमयं वदेत् ॥ १५२ ॥ न भेत्तव्यं न भेत्तव्यं निवर्तस्वेति चोदितः । अधिगम्य समाश्वास निवृत्तस्खलितक्रमः॥१५३॥ उपमृत्य भयं त्यक्त्वा प्रसृतो धवलांबरः । पुष्पांजलिस्तयोरग्रे स्थित्वा स्वस्तीत्यशब्दयत् १५४ ततो लब्धासनासीनो निकटस्थांगनो द्विजः । ऋग्भिः स्तवनदक्षाभिरस्तोषीद्रामलक्ष्मणौ १५५ ततः पद्मो जगादैव तां नः कृत्वा विमानतां । वद सांप्रतमागत्य कस्मात्पूजयसि द्विजः १५६ सोऽब्रवीन्न मया ज्ञातं त्वं प्रच्छन्नमहेश्वरः । मोहाद्विमानितस्तेन भस्मच्छन्न इवानिलः॥१५७॥ स्थितिरेषा जगन्नाथ लोके स्थावरजंगमे । धनवान् पूज्यते नित्यं यथादित्यो हिमामम॥१५८॥
Page #159
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचत्रिंशत्तम पर्व।
अधुना त्वं मया ज्ञातः सोसि नान्यः कदाचन । द्रविणानीह पूज्यते न भवान् पद्म पूज्यते ॥ नित्यमर्थयुतं देव मानयंति जना जनं । त्यजेत्यर्थपरित्यक्तं निष्प्रयोजनसौहृदं ॥ १६० ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः। यस्यार्थाः स पुमाल्लोके यस्यार्थाः स च पंडितः॥ अर्थेन विप्रहीनस्य न मित्रं न सहोदरः । तस्यैवार्थसमेतस्य परोपि स्वजनायते ॥ १६२ ॥ सार्थो धर्मेण यो युक्तो सो धर्मो यो दयान्वितः । सा दया निर्मला ज्ञेया मांसं यस्यां न भुज्यते ॥ मांसाशनानिवृत्तानां सर्वेषां प्राणधारिणां । अन्या मूलेन संपन्ना प्रशस्यंते निवृत्तयः ।। १६४ ॥ राजन् विचित्ररूपोयं लोको मानुषलक्षितः । मादृशो ज्ञायते नैव यथाभूतोऽत्र यो जनः ॥१६५॥ आस्तां तावद्भवानत्र वंद्यते ये भवद्विधैः । पराभवं विमूढेभ्यो लभंते तेऽपि साधवः ॥१६६ ॥ पूर्व सनत्कुमाराख्यः किं ते ज्ञातो न चक्रभृत् । महद्धयः सुरा यस्य रूपं द्रष्टुमिहागताः॥१६७॥ सोऽपि श्रामण्यमासाद्य संप्राप्तः परिभूततां । पर्यटन कचिल्लेभे भिक्षामाचारकोविदः ॥ १६८ ॥ वनस्पत्युपजीविन्या तर्पितः सोन्यदा मुनिः। पंचाश्चर्य जगुश्चर्यमाददे विजये पुरे ॥ १६९ ॥ सुभूमश्चक्रभृद्भूत्वा कर कटकभास्वरं । केयूरभूषितभुजो वदरार्थमढौकयत् ॥ १७ ॥ वदरं नैकमप्यस्मै निःस्वोसावददत्ततः । अनभिज्ञो विशेषस्य विशेष कमवाप्तवान् ॥ १७१ ।।
Page #160
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१५१
पंचत्रिंशत्तम पर्व । अयमन्यश्च विवशो जनैः स्वकृतभोगिभिः । न योवगम्यते यत्र न स तत्र जनोर्च्यते ॥१७२॥ न कृता मंदभागेन कस्मादभ्यागतक्रिया । तदा मयेति मेद्यापि तप्यते मानसं भृशं ॥१७३ ॥ रूपमेवमलं कांतं युष्माकमवलोकयन् । भ्रशं क्रुद्धोऽपि को नाम न ययावतिविस्मयं ॥ १७४ ॥ एवमुक्त्वा शुचा ग्रस्तं रुदंतं कपिलं गिरा । शुभयासांत्वयद्रामः सुशर्माणं च जानकी ॥१७५॥ ततो हेमघटांभोधिः किंकरै राघवाज्ञया । कपिलः श्रावकः प्रीत्या स्नापितः सह भार्यया १७६ परमं भोजितश्चान्नं वस्त्रै रत्नश्च भूषितः । सुभूरिधनमादाय जगाम निजमालयं ॥ १७७ ॥ जनानां विस्मयकरं सर्वोपकरणान्वितं । भोगं यद्यपि जातोयं तथापि सुविचक्षणः ॥ १७८ ॥ सन्मानविशिखैर्विद्धो दृष्टो गुणमहोरगैः । उपचारहतात्मासौ धृतिं न लभते द्विजः ॥ १७९ ॥ दध्यौ चाहं पुरा यत्र स्कंधन्यस्तैधभारकः । यथा शोषितदेहस्स तुषितोऽत्यंतदुर्विधः ॥१८॥ ग्रामे तत्रैव जातोऽस्मि पश्य यक्षाधिपोपमः । रामदेवप्रसादेन चिंतादुःखविवर्जितः ॥ १८१॥ आसीन्मे शीर्णपतितमनेकच्छिद्रजर्जरं । काकाद्यशुचिसंलिप्तं गृहं गोमयवर्जितं ॥ १८२ ॥ अधुना धेनुभियाप्तं बहुप्रासादसंकुलं । रामदेवप्रसादेन प्राकारपरिमंडलं ॥ १८३ ॥ हा मया पुंडरीकाक्षौ भ्रातरौ गृहमागतौ । निर्मसितौ विना दोषं तौ मृगांकनिभाननौ॥१८॥
Page #161
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचशित्तम पर्व। यद्ग्रीष्मातपतप्तांगौ समं देव्या विनिर्गतौ । सन्मे प्रतिष्ठितं शल्यं हृदये प्रचलत्सदा ॥ १८५ ॥ तावन्मे नास्ति दुःखस्य छेदो यावदिदं गृहं । परित्यज्य निरारंभः प्रव्रजिष्याम्यसंशयं ॥१८६॥ उपलभ्यास्य वैराग्यं बंधुवर्गः ससंभ्रमः । धाराभिरुत्सर्जात्रं दीनः साकं सुशर्मणा ॥ १८७ ॥ निरीक्ष्य स्वजनं विप्रो निर्मग्नं शोकसागरे । अपेक्षापेतया बुद्धया निर्जगाद शिवोत्सुकः॥१८८॥ विचित्रस्वजनस्नेहैरत्युत्तुंगमनोरथैः । मूढोयं दह्यते लोकः किं न जानाति भो जनः ॥ १८९ ।। इति संवेगमापनः प्रियां दुःखेन मूर्छिता । विहाय बंधुलोकं च बहुविक्लवकारिणं ॥ १९० ॥ अष्टादश सहस्राणि धेनूनां सिततेजसा । रत्नपूर्ण च भवनं दासीयोषित्समाकुलं ॥ १९१ ॥ सुशर्मायां समारोप्य तनयं द्रविणं तथा । बभूव कपिलः साधुर्निरारंभो निरंबरः ॥ १९२ ॥ सह्यानंदमतेः शिष्यः सुप्रतीतस्तपोधनः । चकार गुरुतां तस्य गुणशीलमहार्णवः ॥ १९३ ।।
विजहार महापतस्ततः । कपिलश्चारुचरित्रधीरधीः॥
परमार्थनिविष्टमानसः । श्रमणश्रीपरिवीतविग्रहः ॥ १९४ ।। य इदं कपिलानुकीर्तनं । पठति प्रहमतिः शृणोति वा ॥
उपवाससहस्रसंभवं । लभतेऽसौ रविभासुरः फलं ॥ १९५ ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते कपिलोपाख्यानं नाम पंचत्रिशत्तमं पर्व |
Page #162
--------------------------------------------------------------------------
________________
१५३
अथ षत्रिंशत्तमं पर्व |
ततोनुक्रमतः काले विकालप्रतिमे गते । घोरांधकारसंरुद्धे विद्युच्चकितभीषणे ॥ १ ॥ जातायां सुप्रसन्नायां शरदि प्रीतिनिर्भरः । ऊचे यक्षाधिपः पद्मं प्रस्थातुं कृतमानसं ॥ २ ॥ क्षेतव्यं देव यत्किचिदस्माकमिति दुष्कृतं । विधातुं शक्यते केन योग्यं सर्व भवादृशां ॥ ३ ॥ इत्युक्ते रामदेवोऽपि तमूचे गुह्यकाधिपं । त्वयापि निखिला स्वस्य क्षेतव्या परतंत्रता ॥ ४ ॥ सुतरां तेन वाक्येन जातः सत्तमभावनः । यक्षाणामधिपो नत्वा संभाष्य विपुलक्रियं ॥ ५ ॥ हारं स्वयंप्रभाभिख्यं ददौ पद्माय सोद्भुतं । उद्यद्दिनकराकारे हरये मणिकुंडले || ६॥ चूडामणि सुकल्याणं सीतायै विलसत्प्रभं । महाविनोददक्षां च वीणामीप्सितनादिनीं ॥ ७ ॥ स्वेच्छया तेषु यातेषु यक्षराजः पुरीकृतां । मायां समहरत्किचिद्दधानः शोकितामिव ॥ ८ ॥ चलदेवोपि कर्तव्यकरणाच्च ससम्मदः । अमन्यत परिप्राप्तमुदारं शिवमात्मनः ॥ ९ ॥ पर्यटंतो महीं स्वैरं नानारसफलाशिनः । विचित्र संकथासक्ताः रममाणाः सुरा इव ॥ १० ॥ उल्लंघ्य सुमहारण्यं द्विपसिंहसमाकुलं । जनोपभुक्तमुद्देशं वैजयंतपुरं गताः ।। ११ ।।
पद्मपुराणम् ।
त्रिंशत्तमं पर्व |
Page #163
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१५४
त्रिंशत्तमं पर्व ।
ततोऽस्तमागते सूर्ये दिक्चक्रे तमसावृते । नक्षत्रमंडलाकीर्णे संजाते गगनांगणे ॥ १२ ॥ अपरोत्तरदिग्भागे क्षुद्रलोकभयावहे । यथाभिरुचिते देशे ते पुरो निकटे स्थिताः ॥ १३ ॥ अथात्र नगरे राजा प्रसिद्धः पृथिवीधरः । इंद्राणी महिषी तस्य योषिद्गुणसमन्विता ॥ १४ ॥ तनया वनमालेति तयोरत्यंतसुदरी । बाल्यात्प्रभृति सा रक्ता लक्ष्मणस्य गुणश्रुते ॥ १५ ॥ श्रुत्वानरण्यपुत्रस्य प्रव्रज्यासमय वचः । रक्षितुं कापि निर्यातं रामं लक्ष्मणसंयुतं ॥ १६ ॥ ध्यात्वेंद्रनगरेशस्य बालमित्राय सूनवे । सुंदरायातियोग्याय पितृभ्यां सा निरूपिता ॥ १७ ॥ तं च विज्ञाय वृत्तांतं हृदयस्थितलक्ष्मणा । विरहाद्भयमापन्ना चिंतामेवमुपागता ।। १८ ॥ अंशुकेन वरं कंठं विवेष्टयासज्ज्य पादपे । मृत्युं प्राप्तास्मि नान्येन पुरुषेण समागमं ॥ १९ ॥ विधिच्छलेन केनापि गत्वारण्यं दिनक्षये । ध्रुवमद्यैव यास्यामि मृत्युं विघ्नविवर्जितं ॥ २० ॥ प्रयाहि भगवन् भानो संप्रेषय निशां दुतं । कृतांजलिरिमं दीना पादयोः प्रपतामि ते ॥ २१ ॥ शर्वरी भण्यतां यात्वाकांक्षंती दुःखभागिनी । संवत्सरसमं वेत्ति दिनं द्राग्गम्यतामिति ॥ २२ ॥ इति संचित्य सा बाला गतेऽस्तं तिग्मतेजसि । सोपवासा समासाद्य पितृभ्यामनुमोदनं ॥ २३ ॥ प्रवरं रथमारुह्य सखीजनसमावृता । जगाम परया लक्ष्म्या वनदेवीं किलाचितुं ॥ २४ ॥
Page #164
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व
यस्यां रात्रौ वनोद्देशे यत्र ते प्रथमं स्थिता । तस्यामेव तमेवैषा गता दैवनियोगतः ॥ २५ ॥ अरण्यदेवतापूजा तस्मिन् किल विनिर्मिता । सुप्तश्च सकलो लोको निराशंकः कृतक्रियः ||२६|| निश्शब्दवन निक्षेपामतो वनमृगीव सा । निष्क्रम्य शिविरात्तस्मात्प्रतस्थे भयवर्जिता ॥ २७ ॥ ततस्तस्या समाघ्राय गंधं परमसौरभं । एवं सुनुः सुमित्राया दध्यौ सम्मदमुद्वहन् || २८ ॥ ज्योतिरेखेव काप्येषा मूर्तिरत्रोपलक्ष्यते । कुमार्या श्रेष्ठया भाव्यमनया कुलजातया ॥ २९ ॥ महता शोकभारेण परिपीडितमानसा । अपश्यंती परं दुःखवारणोपायमुन्मनाः ॥ ३० ॥ अजात चिंतिता नूनमेषात्मानं जिघांसति । पश्यामि तावदेतस्याश्रेष्टामंतर्हितो भवन् ॥ ३१ ॥ इति संचित्य निश्शब्दो भूत्वा वटतरोरधः । तस्थौ कल्पद्रुमस्येव त्रिदशः कौतुकान्वितः ॥३२॥ तमेव पादपं सापि प्राप्ता हंसवधूगतिः । नतेव स्तनभारेण चंद्रवक्त्रा तनूदरी ॥ ३३ ॥ लक्ष्मणस्तां तथाभूतां दृष्ट्वा चिंतयदुक्तिभिः । वेद्मि तात्रदिमां सम्यक् कुतः कृत्यं भविष्यति ३४ अंशुकेनांबुवर्णेन कृत्वा पाशं तु कन्यका । जगादैवं गिरा योगिमनोहरणयोग्यया ।। ३५ ।। एतत्तरुनिवासिन्यः शृणुताहो सुदेवताः । भवतीभ्यो नमाम्येषा प्रसादं क्रियातां मयि ॥ ३६ ॥ वाच्यो मद्वचनादेवं भवतीभिः प्रयत्नतः । कुमारो लक्ष्मणो दृष्ट्वा वनेस्मिन् विचरन् ध्रुवं ॥३७॥
Page #165
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१५६
त्रिंशत्तमं पर्व ।
यथा त्वद्विरहे बाला वनमाला सुदुःखिता । त्वयि मानसमारोप्य प्रेत लोकमुपागता ॥ ३८ ॥ अंशुकेन समालंव्य स्वं सा न्यग्रोधपादपे । त्वन्निमित्तमसून्तन्वी त्यज॑त्यस्माभिरीक्षिता ||३९|| एवमुक्तं त्वया नाथ यदि मे नात्र जन्मनि । समागमकृतोन्यत्र प्रसादं कर्तुमर्हसि ॥ ४० ॥ एवं निगद्य शाखायां समर्पयति पाशकं । संभ्रांतच समालिंग्य सौमित्रिरिदमब्रवीत् ॥ ४१ ॥ अयि मुग्धे सुकंठेऽस्मिन्मद्भुजालिंगनोचिते । कस्मादंशुकपाशोयं त्वया सुमुखि सज्ज्यते ॥ ४२ ॥ अहं स लक्ष्मणो मुंच पाशं परमसुंदरि । यथाश्रुतं निरीक्षस्त्र न चेत्प्रत्येषि बालिके ॥ ४३ ॥ इत्युक्त्वा पाशमेतस्याः करात्सांत्वनकोविदः । जहार लक्ष्मणः फेनपुंजं तामरसादिव ॥ ४४ ॥ ततोऽसौ त्रपया युक्ता दृष्ट्वा मंथरचक्षुषा । लक्ष्मणं नेत्रचौरेण रूपेण परिलक्षितं ।। ४५ ।। परं विस्मयमापन्ना चिंतामेवमुपागता । ईषद्वेपथुना युक्ता नवसंगमजन्मना ॥ ४६ ॥ किमयं वनदेवीभिः प्रसादो जनितो मम । कारुण्यमुपयाताभिः संदेशवचनैः परं ॥ ४७ ॥ सोयं यथाश्रुतो नाथः संप्राप्तो दैवयोगतः । भवेद्येन मम प्राणाः प्रयांतो विनिवारिताः ॥ ४८ ॥ इति संचितयंती सा किंचित्प्रस्वेदधारिणी । लक्ष्मीधरसमाश्लेषं लब्ध्वात्यंतमराजत ॥ ४९ ॥ ततो मृदुमहामोदकुसुमोदार संस्तरे । प्रबुद्धो राघवश्चक्षुर्लक्ष्मणार्थमुदीरयन् ॥ ५० ॥
Page #166
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१५७
पत्रिंशत्तम पर्व ।
अपश्यंश्च समुत्थाय पप्रच्छ जनकात्मजां । प्रदेशे लक्ष्मणो देोवे नैतस्मिन् दृश्यते कुतः ॥५१॥ प्रदोषे संस्तरं कृत्वा सोस्माकं पुष्पपल्लवैः । आसीदनतिदूरस्थः कुमारो ह्यत्र नेक्ष्यते ॥ ५२ ॥ नाथ वाहयतां तावदिति तस्यां कृतध्वनौ । क्रमादत्युञ्चया वाचा वचो व्याहृतवानिति ॥५३॥ एह्यागच्छ क यातोऽसि भद्र लक्ष्मण लक्ष्मण । प्रयच्छ वचनं तात चरितं बालकानुज ॥ ५४॥ अयमायामि देवेति दत्वास्मै संभ्रमी वचः । वनमालासमेतोसौ ज्येष्ठस्यांतिकमागतः ॥ ५५ ॥ अर्धरात्रे तदा स्पष्टे निशानाथः समुद्ययौ । ववौ कुमुदगर्भात्पेर्वायुः सामोदशीतलः ॥ ५६ ॥ ततः पल्लवकांताभ्यां हस्ताभ्यां रचितांजलिः । अंशुकावृतसागा पाविनमितानना ॥५७ ॥ ज्ञातनिश्शेषकर्तव्या विभ्राणा विनयं परं । बालावंदत रामस्य सीतायाश्च क्रमद्वयं ॥ ५८ ॥ सद्वितीयं ततो दृष्ट्वा सीता लक्ष्मणमब्रवीत् । कुमार सह चंद्रेण समवायस्त्वया कृतः ॥ ५९ ॥ कथं जानासि देवीति पझेनोक्ता जगाद सा । चेष्टया देव जानामि श्रृणु तुल्यप्रवृत्तया ॥६० ॥ ज्योत्स्नया सहितश्चंद्रो यस्मिन् काले समागतः । लक्ष्मीधरोऽपि तत्रैव सहितो बालयानया ६१ यथा ज्ञापयसि स्पष्टमेवमेतदिति ब्रुवन् । लक्ष्मीधरोंऽतिके तस्थौ हिया किंचिन्नताननः ॥६२॥ उत्फुल्लनेत्रराजीवाः प्रमोदार्पितचेतसः । प्रसन्नवक्त्रतारेशाः सुशीला विस्मयान्विताः ॥ ६३॥
Page #167
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
प
षत्रिंशत्तम पर्व ।
कथाभिः स्मितयुक्ताभिः याताभिः स्थानयुक्ततां । ते तत्र त्रिदशच्छाया नष्टनिद्राः सुखं स्थिताः॥ सख्योत्र वनमालायाः समये बोधमागताः । शयनीयं तथा शून्यं ददृशुस्त्रस्तमानसाः॥६५॥ ततोऽश्रुपूर्णनेत्राणां गवेषव्याकुलात्मनां । तासां हाकारशब्देन प्रबोधं भेजिरे भटाः ॥६६॥ उपलभ्य च वृत्तातं सन्नह्यारूढसप्तयः । शूराः पदातयश्चान्ये कुंतकार्मुकपाणयः ॥ ६७ ॥ दिशः सर्वा समास्तीर्य दधावुद्धांतमानसाः । भीतिप्रीतिसमायुक्ताः समीरस्येव शावकाः॥६८॥ ततः कैरपि ते दृष्टाः समेता वनमालया । निवेदिताश्च शेषस्य जनस्य जववाहनैः ॥ ६९॥ ज्ञातनिश्शेषवृत्तांतस्तैरलं सम्मदान्वितैः । पृथिवीधरराजस्य कृतं दिष्टयाभिवर्धनं ॥ ७० ॥ उपायारंभमुक्तस्य तवाद्य नगरे प्रभो । जगाम प्रकटीभावं महारत्ननिधिः स्वयं ॥ ७१ ॥ पपात नभसो वृष्टिविना मेघसमुद्भवात् । परिकर्मविनिर्मुक्तं सस्यं क्षेत्रात्समुद्गतं ॥ ७२ ॥ जामाता लक्ष्मणोयं ते वर्तते निकटे पुरः । जीवितं हातुमिच्छंत्या संगतो वनमालया ॥ ७३ ॥ पद्मश्च सीतया साकं परमो भवतः प्रियः । शच्येव सहितो देवें-द्रोयमत्र विराजते ॥ ७४ ॥ वदतामिति भृत्यानां वचनैः प्रियसंशिभिः । सुखनिर्झरचेतस्को मुमूर्छ नृपतिः क्षणं ॥ ७५ ॥ ततः प्रबुद्धचित्तेन परं प्रमदमीयुषा । दत्तं बहुधनं तेभ्यः स्मितशुक्लमुखेंदुना ॥ ७६ ॥
Page #168
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१५९
त्रिंशत्तमं पर्व |
I
अर्चितयच्च ही साधु संजातं दुहितुर्मम । अनिश्चितगतिः प्राप्तो यदयं सुमनोरथः ॥ ७७ ॥ सर्वेषामेव जीवानां धनमिष्टसमागमः । जायते पुण्ययोगेन यच्चात्मसुखकारणं ॥ ७८ ॥ योजनानां शतेनापि परिच्छिन्ने श्रुतांतरे । इष्टो मुहूर्तमात्रेण लभ्यते पुण्यभागिभिः ॥ ७९ ॥ ये पुण्येन विनिर्मुक्ताः प्राणिनो दुःखभागिनः । तेषां हस्तमपि प्राप्तमिष्टवस्तु पलायते ॥ ८० अरण्यानां गिरेर्मूर्ध्नि विषमे पथि सागरे । जायंते पुण्ययुक्तानां प्राणिनामिष्टसंगमाः ॥ ८१ ॥ इति संचित्य जायायै तं वृत्तांतमशेषतः । उत्थाप्याकथयत्तोषादक्षरैः कृच्छ्रनिर्गतैः ॥ ८२ ॥ पुनः पुनरपृच्छत्सा सुमुखी स्वप्नशंकया। संजातनिश्वयादाप स्वसंवेद्यां सुखासिकां ॥ ८३ ॥ ततो रामाधरच्छाये समुद्यति दिवाकरे । प्रेमसंपूरितो राजा सर्वत्रांधवसंगतः ॥ ८४ ॥ वरवारणमारुह्य त्या परमया युतः । प्रतस्थे परमं द्रष्टुमुत्सुकः प्रियसंगमं ॥ ८५ ॥ माता च वनमालायाः पुत्रैरष्टाभिरन्विता । आरुह्य शिविकां रम्यां प्रियस्य पदवीं श्रिता ॥८६॥ अनंतरं नृपादेशात्कशिपुः प्रचुरं हितं । गंधमाल्या इवाशेषमनीयत मनोहरं ॥ ८७ ॥ ततो दूरात्समालोक्य संफुल्लेक्षणपंजकं । अवतीर्य गजाद्राजा डुढाँके राममादरी ॥ ८८ ॥ परिष्वज्य महाप्रीत्या सहितं लक्ष्मणेन तं । अपृच्छत्कुशलं कृष्टि जानकीं च सुमानसः ।। ८९ ।।
Page #169
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६०
षत्रिंशत्तम पर्व।
तद्देव्यापि तयोः पृष्ट्वा क्षेमं सुस्निग्धलोचना । निखिलाचारनिष्णाता जानकी परिषस्वजे ॥१०॥ उपचारो यथायोग्यं तयोस्तैरपि निर्मितः । आचार्यकं हिते याता वस्तुन्यत्र प्रतिष्ठितं ॥ ९१ ॥ वीणावेणुमृदंगादिसहितो गीतनिःस्वनः । क्षुब्धावसमो जज्ञे वंदिवृंदानुनादितः॥ ९२ ॥ उत्सवः स महाजातः पूजिताखिलसंगतः । नृत्यलोकक्रमन्यासादतिकंपितभूतलः ॥ ९३ ॥ दिशस्तूर्यनिनादेन प्रतिशब्दसमन्विताः । चक्रुः परस्परालापमित्र सम्मदनिर्झराः ॥ ९४ ॥ . शनैःप्रसन्नतां याते तस्मिन्नथ महोत्सवे । शरीरकर्म तैः सर्व कृतं स्नानाशनादिकं ॥ ९५ ॥ ततः सप्तिद्विपारूढसामंतशतवेष्टितौ । सारंगोपमपादातमहाचक्रपरिच्छदौ ॥ ९६ ॥ पुरः प्रवृत्तसोत्साहराजस्थपृथिवीधरौ । विदग्धसूतलोकेन कृतमंगलनिस्वनौ ॥ ९७ ॥ हारराजितवक्षस्कावन|शुकधारिणी । हरिचंदनदिग्धांगावारूढौ रथमुत्तमं ।। ९८ ॥ मानारत्नांशुसंपर्कसमुद्भूतेंद्रकासुको । शशांकभास्कराकारावशक्यगुणवर्णनौ ॥ ९९ ॥ सौधर्मेशानदेवाभौ जानकीसहितौ पुरं । कुर्वाणौ विस्मयं तुंगं प्रविष्टौ रामलक्ष्मणौ ॥ १० ॥ वरमालाधरौ गंधवद्धषट्पदमंडलौ । संपूर्णचंद्रवदनौ विनीताकारधारिणौ ॥ १०१ ॥ यक्षेणेव कृते तस्मिल्ललामे पुटभेदने । रेमाते परमं भोगं मुंजानौ निजयेच्छया ॥ १०२ ॥
Page #170
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तत्रिंशत्तम पर्व । इति वनगहनान्यपि प्रयाताः । सुकृतसुसंस्कृतचेतसो मनुष्याः॥ १०३ ॥ अतिपरमगुणानुपाश्रयंते । रविरुचयः सहसा पदार्थलाभान् ॥ १०४ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्म-पुराणे पद्मायने वनमालाभिधानं नाम षट्त्रिंशत्तम पर्व ।
अथ सप्तत्रिंशत्तमं पर्व। अन्यदाथ सुखासीनं समुदीरिततत्कथं । राघवालंकृतास्थानं राजानं पृथिवीधरं ॥१॥ दुराध्वपरिखिन्नांगो लेखवाहः समाययौ । प्रणम्य च समासीनो द्रुतं लेखं समर्पयत् ॥२॥ गृहीत्वासौ ततो राज्ञा वाह्यनामांकलक्षितः । लेखकायार्पितः साधुः संधिविग्रहवेदिने ॥३॥ स विमुच्यानुवाच्यैनं वायितो राजचक्षुषा । लिपिचंचुर्विधौ चारुरित्यवाचयदुच्चगीः॥४॥ स्वस्तिस्वस्तिलकोदारप्रभावमतिकमणे । श्रीमते नतराजानमतिवीयर्याय शमेणे ॥५॥ श्रीनंद्यावर्तनगरानगराज इवोत्थितः । ख्यातः पंचमहाशब्दः शस्त्रशास्त्रविशारदः ॥६॥ राजाधिराजताश्लिष्टः प्रतापवशिताहितः । अनुरंजितसर्वक्ष्मः समुद्यद्भास्करद्युतिः ॥७॥
Page #171
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६२
सप्तत्रिंशत्तम पर्व।
अतिवीर्यः समस्तेषु कर्तव्येषु महानयः । राजमानगुणः श्रीमानतिवीर्यः क्षितीश्वरः ॥८॥ आज्ञापयति नगरे विजये पृथिवीधरं । अक्षरैर्लेखसंक्रांतैः कुशलप्रश्नपूर्वकं ॥९॥ यथा मे केचिदेतस्मिन्सामंता धरणीतले । सकोषवाहनास्ते मे वर्तते पार्श्ववर्तिनः ॥१०॥ आयाद्बहुविधा म्लेच्छाश्चतुरंगसमन्विताः । नानाशस्त्रकरा वाक्यमर्चति समभूरयः ॥११॥ वरांजननगाभानां करिणामष्टभिः शतैः । समीरशावतुल्यानां सहस्राजिनां त्रिभिः ॥ १२ ॥ महाभोगो महातेजा मद्गुणाकृष्टमानसः । राजा विजयशार्दूलः सोद्य प्राप्तो ममांतिकं ॥ १३ ॥ मृगध्वजो रणोर्मिश्च कलभः केसरी तथा । अंगा महीभृतः षड्भिरमी करटिनां शनैः ॥ १४ ॥ प्रत्येकं पंचभिः सप्तिसहस्रैश्च समावृताः । प्राप्ताः कृतमहोत्साहा नयपंडितबुद्धयः ॥ १५ ॥ उत्साहयन् छलोवृत्तं नयशास्त्रविशारदं । पंचालाधिपमात्मार्थकारिणं ज्ञातकारणं ॥ १६ ॥ द्विरदानां सहस्रेण तैर्ययूनां च सप्तभिः । पौंड्रक्ष्मापतिगलीनः प्रतापं परमं वहन् ॥ १७ ॥ साधनेन तदग्रेण संप्राप्तो मगधाधिपः । पूर्यमाणो नृपैहो रैवो नदशतैरिव ॥ १८ ॥ सहस्रैरागतोऽष्टाभिर्दतिनां जलदत्विषां । अश्वीयेन सुकेशश्च दुर्लभांतेन वज्रधृक् ॥ १९ ॥ सुभद्रो मुनिभद्रश्च साधुभद्रश्च नंदनः । तुल्या वज्रधरस्यैते संप्राप्ता यवनाधिपाः ॥२०॥
Page #172
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६३
सप्तत्रिंशत्तमं पर्व। अवार्यवीर्यसंप्राप्तः सिंहवीर्यो महीपतिः । वांगः सिंहरथश्चेतौ मातुलौ बलशालिनौ ॥ २१ ॥ पदातिभीरथै गैः स्थीप्रष्ठैः प्रतिष्ठितैः । वत्सस्वामी समायातो मारिदत्तोतिभूरिभिः ॥२२॥ आंवष्ठः प्रोष्ठिलो राजा सौकीरो धीरमंदिरः । प्राप्तौ दुर्वेदसंख्येन साधनेनान्विताविमौ ॥ २३ ॥ एतेऽन्ये च महासत्वा राजानः श्रुतशासनाः । अक्षोहिणीभिरायाता दशभिस्त्रिदशोपमाः॥२४॥ अमीभिरनुयातोहं प्रस्थितो भरतं प्रति । त्वामुदीक्षे यतो लेखदर्शनानंतरं ततः ॥ २५ ॥ आगंतव्यं त्वया प्रीत्या कार्याप्रेक्षितया तथा । पश्यामोत्यादरेण त्वां यथा वर्ष कृषीवलाः॥२६॥ एवं च वाचिते लेखे न यावत्पृथिवीधरः । किंचिदूचे सुमित्रायाः सूनुस्तावदभाषत ॥ २७ ॥ अतिवीर्य तथा बुद्धौ भरतस्य विचेष्टितं । तव कीदृगिति ज्ञातं भद्रस्य दूतस्य ते ॥ २८ ॥ एवं वायुगतिः पृष्टो जगाद निखिलं मम । विदितं राजचरितमंतरंगो ह्ययं परः ॥ २९ ॥ इच्छामि विशदं श्रोतुमित्युक्ते पुनरब्रवीत् । श्रृणु चित्तं समाधाय भवतश्चेत्कुतूहलं ॥३०॥ श्रुतबुद्धिरिति ख्यातो दूतः श्रुतविशारदः । प्रहितः स्वामिनास्माकं गत्वा भरतमब्रवीत् ॥३१॥ दूतोऽस्मि शक्रतुल्यस्य प्रणताखिलभूभृतः । अतिवीर्यनरेंद्रस्य नयन्यासमनीषिणः ॥ ३२॥ संप्राप्य साध्वसं यस्मान्नरकेसरिणः परं । भजते रिपुसारंगा न निद्रा वसतिष्वपि ॥ ३३ ॥
Page #173
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६४
सप्तत्रिंशत्तमं पर्व ।
विनीता पृथिवी यस्य चतुरंभोधिमेखला । आज्ञां पाणिगृहीतेव कुरुते परिपालिता ॥ ३४ ॥ आज्ञापयत्यसौ देवो भवंतमिति सत्क्रियः । वर्णैर्मदास्यविन्यस्तै रूर्जितात्मा समंततः ॥ ३५ ॥ यथा भज समागत्य भृत्यतां भरत द्रुतं । अयोध्यां वा परित्यज्य भज पारमुदन्वतः ॥ ३६ ॥ ततः क्रोधपरीतांगः शत्रुघ्नखंडया गिरा । जगाद निष्प्रतीकारो दावानल इवोत्थितः ॥ ३७ ॥ भजत्येव तथा देवो भरतस्तस्य भृत्यतां । यथा संजायते युक्तमिदं तावत्प्रभाषितं ॥ ३८ ॥ विनीतां च परित्यज्य सचिवेषु प्रभुर्भुवं । यात्येवोन्नतः पारं वशीकुर्वन् कुमानवान् ॥ ३९ ॥ वस्त्वां ज्ञापयामीति नितरां तस्य नोचितं । रासभस्य यथा मत्तवारणाधिपगर्जितं ॥ ४० ॥ सूचयत्यथवा तस्य मृत्युमेतद्वचः स्फुटं । उत्पातभूतमेतो वा स नूनं वायुवश्यतां ॥ ४१ ॥ वैराग्यादथवा ताते तपोवनमुपागते । नरेंद्रेशा समाविष्टो ग्रहेण खलवेष्टितः ॥ ४२ ॥ यद्यप्युपशमं यातस्ताताग्निर्मुक्तिकाम्यया । तथापि निर्गतस्तस्मात्फुलिंगस्तं दहाम्यहं ॥ ४३ ॥ सिंहे करींद्रकीलालपंकलोहितकेसरे । शांतेऽपि शावकस्तस्य कुरुते करिपातनं ॥ ४४ ॥ इत्युक्त्वा दह्यमानोरुवेणुकांतारभीषणं । जहास तेजसा स्थानं ग्रसमानः इवाखिलं ॥ ४५ ॥ जगाद च कुदूतस्य तावदस्य विधीयतां । खलीकारोल्पवीर्यस्य सत्यंकार इव द्रुतं ॥ ४६ ॥
Page #174
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
१६५
सप्तत्रिंशत्तमं पर्व
इत्युक्ते पादयो तो गृहीत्वा कुपितैर्भटैः । सारमेय इवागस्वी हन्यमानः कृतध्वनिः ॥ ४७ ।। आकृष्टो नगरीमध्यं यावन्मुक्तश्च दुःखितः । दग्धो दुर्वचनै लीधूसरो निरगात्ततः ॥ ४८ ॥ ततः सागरगंभीरः परमार्थविशारदः । अपूर्व दुर्वचः श्रुत्वा किंचित्कोपमुपागतः ॥ ४९ ।। केकयानंदनः श्रीमान्सुप्रभानंदनान्वितः । विननीपुररिं पुर्या निर्यातः सचिवान्वितः ॥ ५० ॥ श्रुत्वा तं मिथिलाधीशः कनकः पुरुसाधनः । प्राप सिंहोदराद्याश्च राजानो भक्तितत्पराः॥५१॥ चक्रेण महता युक्तो भरतः प्रस्थितस्ततः । नंद्यावर्त प्रजा रक्षन् पितेव न्यायकोविदः ॥ ५२ ॥ अतिवीर्योऽपि दूतेन खलीकारप्रदर्शिना । परमं क्रोधमानीतः क्षुब्धाकूपारभीषणः ॥ ५३ ।। भरतायाग्निरोचिष्णुर्गतुं संविदधे मतिं । सामंतैर्वेष्टितः सर्वैः कृतानेकमहाद्भुतैः ॥ ५४॥ ततो ललाटभागेन युवचंद्राकृतिः श्रितः । वनमालापितुः संज्ञां कृत्वा स्वैरं बलोवदत् ॥५५|| युक्तमेवातिवीर्यस्य भरते कर्तुमीदृशं । पितुर्येन समो भ्राता ज्येष्ठोसावपमानितः ॥ ५६ ॥ आगच्छाम्यहमित्युक्त्वा लेखवाई. महीधरः । प्रतिपेष्याकरोन्मंत्रं रामेण पृथिवीधरः ॥ ५७ ॥ अतिवीर्योऽतिदुर्वारश्छद्मना तं व्रजाम्यहं । एवं महीधरेणोक्त पद्मो विश्रब्धमब्रवीत् ॥ ५८ ॥ अज्ञातैरिदमस्माभिः साधनीयं प्रयोजनं । अतो न महता कृत्यं संरंभेण तु पार्थिव ॥ ५९ ॥
Page #175
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६६
सप्तत्रिंशत्तमं पर्व ।
तिष्ठ त्वमिह कुर्वाणः सुप्रयुक्तमहं तव । पुत्रजामातृभिः सार्धमंतं तस्य व्रजाम्यरेः ॥ ६० ॥ इत्युक्त्वा रथमासा परं सारबलान्वितैः । महीधरसुतैः साकं ससीतो लक्ष्मणान्वितः ॥ ६१ ॥ नंद्यावर्तरी रामो गंतुं प्रववृते जवी । प्राप्तश्वावस्थितस्तस्य पुरस्य निकटेंतरे ।। ६२ ॥ तनुकृत्ये कृते तत्र संबंधितनयैः सह । रामलक्ष्मणयोमंत्रः सीतायाश्वेत्यवर्तत ॥ ६३ ॥ जगाद जानकी नाथ भवतः सन्निधौ मम । वक्तुं नैवाधिकारोऽस्ति किं तारा भांति भास्करे । तथापि देव भाषेहं प्रेरिता हितकाम्यया । जातो वंशलतातोऽपि मणिः संगृह्यते ननु ॥ ६५ ॥ अतिवीर्योऽतिवीर्योयं महासाधनसंगतः । क्रूरकर्मा कथं शक्यो जेतुं भरतभूभृता ।। ६६ । अतस्तं निर्जये तावदुपायाचित्यतां द्रुतं । सहसारभ्यमाणं हि कार्य व्रजति संशयं ॥ ६७ ॥ त्रिलोकेप्यस्ति नासाध्यं भवतो लक्ष्मणस्य वा । किंतु प्रस्तुतमत्यक्त्वा समारब्धं प्रशस्यते ॥ ६८ ॥ ततो लक्ष्मीधरोऽवोचत्किमेवं देवि भाषसे । पश्य स्वो निहितं पापमणुवीर्ये मया रणे ॥ ६९ ॥ रामपादरजः पूतशिरसो मे सुरैरपि । न शक्यते पुरः स्थातुं क्षुद्रवीर्ये तु का कथा ॥ ७० ॥ न यावदथवा याति भानुरस्तं कुतूहली । वीक्ष्यतां तावदद्यैव क्षुद्रवीर्यस्य पंचतां ॥ ७१ ॥ युवगर्व समाध्माता संबंधितनया अपि । एतदेव वचोचत्प्रतिशब्दमिवोन्नतं ।। ७२ ।।
Page #176
--------------------------------------------------------------------------
________________
१६७
पापुराणम् ।
सप्तत्रिंशत्तम पर्व। ततः पद्मो निवार्यैतान् भ्रूभंगेन महामनाः । अब्रवील्लक्ष्मणं धैर्यादब्धि गंडूषयन्निव ॥ ७३ ॥ युक्तमुक्तमलं तात जानक्या वस्तु पुष्कलं । स्फुटीकृतं तु नात्यंतमत्यासादनभीतया ।। ७४ ॥ अस्या शृणु यदाकूतमतिवीर्यो बलोद्धतः । भरतेन स नो शक्यो वशीकर्तुं रणाजिरे ॥ ७५ ॥ भागो न भरतस्तस्य दशमोऽपि भवत्यतः । तस्य दावानलस्यायं किं करोति महागजः ॥७६॥ दंतिभिश्च समृद्धस्य समृद्धोऽपि तुरंगमैः । भरतो नैव शक्योऽस्य यथा विध्यस्य केसरी ॥७७॥ भरतस्य जये नात्र संशयोऽपि समीक्ष्यते । एकांतस्तु कुतो वापि स्याज्जंतुप्रलयस्तथा ॥ ७८ ॥ कष्टमेककयोर्जाते विरोधे कारणं विना । पक्षद्वयं मनुष्याणां जायते विवशः क्षयं ॥ ७९ ॥ दुरात्मनातिवीर्येण भरते च वशीकृते । जायते रघुगोत्रस्य कलंकः पश्य कीदृशः ॥ ८०॥ नेक्ष्यते संधिरप्यत्र शत्रुघ्नेन च मानिना । शैशवेन कृतं दोषं शत्रावत्युद्धते शृणु ॥ ८१ ॥ विभावयां तमिस्रायां किलावस्कंददायिना । रौद्रभूतिसमेतेन शत्रुघ्नेन चरिष्णुना ॥८२ ॥ निद्रावशीकृतान् वीरान् बहून् कृत्वा मृतक्षतान् । हस्तिनश्च दुरारोहान् प्रगलद्दाननिर्झरान् ८३ चतुःषष्ठिसहस्राणि वाजिनां वातरंहसां । शतानि सप्त चेभानामंजनाद्रिसमत्विषां ॥ ८४ ॥ वाह्यस्थानि पुरस्यास्य नीतानि दिवसैनिभिः । भरतस्यांतिकं किं ते न श्रुतानि जनास्यतः ८५
Page #177
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१६८
सप्तत्रिंशत्तमं पर्व।
दृष्ट्वा कलिंगराजस्तान् गाढशल्यान्बहून्नृपान् । जीवेन च विनिर्मुक्तान् हृतं ज्ञात्वा च साधनं८६ संप्राप्तः परमं क्रोधमप्रमत्तः समंततः । वैरिनियोतनं कृत्वा बुद्धौ रणमुदीक्ष्यते ॥ ८७॥ दंडोपायं परित्यज्य भरतो मानिनां वरः । हेतुं तनिर्जये नान्यं प्रयुक्त बुद्धिमानपि ।। ८८॥ अथ त्वं साधयस्येनं केनैतन्त्र प्रतीयते । शक्तिस्ते प्रभवेत्तात तीब्रांशोरपि यातने ॥ ८९ ॥ किंत्वयं वर्ततेऽत्रैव प्रदेशे भरतोऽधुना । निर्गत्य च तथायुक्तं प्रकटीकरणं ननु ।। ९० ॥ अज्ञाता एव ये कार्य कुर्वति पुरुषाद्भुतं । तेतिश्लाघ्या यथात्यंत निवृष्टय जलदा गताः ॥९१॥ इति मंत्रयमाणस्य रामस्य मतिरुद्गता । अतिवीर्यग्रहोपाये ततो मंत्रः समापितः ॥ ९२ ॥ प्रमादरहितस्तत्र कृतप्रवरसंकथः । सुखेन शर्वरी नीत्वा रामः स्वजनसंगतः ॥ ९३॥ आवासानिर्गतोऽपश्यदार्यिकाजनलक्षितं । जिनेंद्रभवनं भक्त्या प्रविवेश च सांजलिः ॥ ९४ ॥ नमस्कारं जिनेंद्राणां विधायार्याजनस्य च । सकाशे वरधर्माया गणपाल्याः सशास्त्रिकां ॥१५॥ स्थापयित्वा कृती सीतां कृत्वात्मानं च वर्णिनीं । स्त्रीवेषधारिभिः साधं सुरूपैर्लक्ष्मणादिभिः९६ कृत्वा पूजां जिनेंद्राणां बहुमंगलभूषितां । नरेंद्रभवनं द्वारं प्रतस्थे लीलयान्वितः ॥ ९७ ।। सुरेंद्रगणिकातुल्यं वीक्षितुं वर्णिनीं जनः । सर्वः पौरजनो लमः पश्चाद्तुं सविस्मयः ।। ९८ ॥
Page #178
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तत्रिंशत्तम पर्व । सर्वलोकस्य नेत्राणि मनांसि च सुचेष्टिताः । हरंत्यस्ता नृपागारं प्राप्ता द्वारि सुमंडनाः ॥ ९९ ॥ ते चतुर्विंशतिर्भक्त्या जिनेंद्रा भक्तितत्परैः। वंद्यतेऽस्माभिरित्येवं तेवातेव (ब्रुवन्तेस्म) ध्वनि पुरः॥ कृत्वा पुराणवस्तूनि गातुमुत्फुल्ललोचनाः । गंभीरभारतीनानासक्त्याश्चारणयोषितः ॥ १०१॥ ध्वनिमश्रुतपूर्व तं श्रुत्वा तासां नराधिपः । आजगाम गुणाकृष्टः काष्ठभार इवोदके ॥ १०२॥ ततो रेचकमादाय ललितांगविवर्तनं । नृपस्याभिमुखीभावं जगाम वरवर्तिनी ॥१८३ ॥ सस्मितालोकितैस्तस्या विगलभ्रूसमुद्गमैः । गमकानुगतैः कंपैस्तनभारस्य हारिणः ॥ १०४ ॥ मंथरैश्चारुसंचारैर्जघनस्य धनस्य च । तथा बाहुलताहारैः सुलीलकरपल्लवैः ॥ १०५॥ पादन्यासैर्लघुस्पष्टविमुक्तधरिणीतलैः । आशु संपादितः स्थानैः केशपाशविवर्तने ॥ १०६ ॥ त्रिकस्य बलन ग गात्रसंदर्शितात्मभिः । कामवाणैरिमैर्लोकः सकलः समताड्यत ॥ १०७ ।। मर्छनाभिः सुरैमर्यथास्थानं नियोजितैः । नर्तकी सा जगौ वल्गु परिलीनसखीस्वरं ॥१०८॥ यत्र यत्र च सद्देशे नर्तकी कुरुते स्थिति । तत्र तत्र सभा सर्वा नयनानि प्रयच्छति ॥ १०९ ॥ तस्या रूपेण चढूंषि स्वरेण श्रवणेंद्रियं । मनांसि तवयेनापि वद्धानि सदसो दृढ़ ॥ ११०॥ उत्फुल्लमुखराजीवा सामंता दानतत्परा । बभूवुर्निरलंकारा संख्यानां वरधारिणी ॥ १११ ॥
Page #179
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तत्रिंशत्तमं पर्व । आताय्यानुगतं नृत्यं तत्तस्यास्त्रिदशानपि । वशीकुर्वीत कैवास्था सुहरेष्वन्यजंतुषु ॥ ११२ ॥ विधाय वृषभादीनां चरितस्य प्रकीर्तनं । संक्षेपेण वशीकृत्य संमतिं सकलां भृशं ।। ११३ ॥ संगीतेन समुद्युक्ता राजानमिति नर्तकी । दधाना परमां दीप्तिमुपलब्धं सुदुस्सहं ॥ ११४ ॥ अतिवीर्य किमेत्तत्ते दुष्टं व्यवसितं महत् । नयहीनमिदं वस्तु केनात्र त्वं नियोजितः ।। ११५ ॥ किमिति स्वविनाशाय केकयानंदनस्त्वया । शांतचेताः शृगालेन केसरीव प्रकोपितः ॥११६॥ एवं गतेऽपि विभ्राणः परमं विनयं द्रुतं । संप्रसादय तं गत्वा यदि ते जीवितं प्रियं ॥११७॥ जाता विशुद्धवंशेषु वरक्रीड़नभूमयः । माभूवन् विधवा भद्र तवैता वरयोषितः ।। ११८ ॥ एता त्वया परित्यक्ता विमुक्ताशेषभूषणः । ध्रुवं पुरा न शोभंते ताराचंद्रमसा यथा ॥११९॥ विवृत्तय द्रुतं चित्तमशुभध्यानतत्परं । उत्तिष्ठ व्रज निर्माणो नमस्य भरतं सुधीः ॥ १२० ॥ एवं कुरु न चेदेवं कुरुषे पुरुषाधम । ततोद्यैव विनष्टोसि संशयोऽत्र न विद्यते ॥ १२१ ।। जीवत्येवानरण्यस्य पौत्रे राज्यं समीहसे । चकासति रवौ पापलक्ष्मीर्दोषाकरस्य का ॥१२२॥ पतितस्याद्य नो रूपे मरणं ते समुद्गतं । शलभस्येव मूढस्य दुष्पक्षस्य प्रियधुते ॥ १२३ ।। देवेन भरतेनामा गरुडेन महात्मना । अलग धमो भूत्वा प्रतिस्पर्धनमिच्छति ॥ १२४ ॥
Page #180
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तत्रिंशत्तमं पर्व । ततो निर्भर्त्सनं स्वस्य भरतस्य चे संशनं । निशम्य संसदा साकमभूत्तानेक्षणो नृपः ॥ १२५ ॥ विरक्ता च सभात्यंतपरुषक्षतमानसा । जुघूर्णार्णववेलेव भ्रूतरंगसमाकुला ॥ १२६ ॥ अतिवीर्यो रुषा कंपो यावज्जग्राह सायकं । तावदुत्पत्य नर्तक्या सविलासकृतभ्रमं ॥ १२७ ॥ मंडलाग्रं समाक्षिप्य वीक्ष्यमाणेषु राजसु । जीवग्राहं विषण्णात्मा केशेषु जगृहे दृढं ॥ १२८ ॥ उद्यम्य नर्तकी खड़े पश्यंती नृपसंहति । जगादाविनयी योत्र समे वध्ये विसंशयं ॥ १२९ ॥ परित्यज्यातिवीर्यस्य पक्षं विनयमंडनाः । भरतस्य द्रुतं पादौ नमत प्रियजीविताः ॥ १३० ॥ भरतो जयति श्रीमान् गुणस्फीतांशुमंडलः । दशस्यंदनवंशेंदुर्लोकानंदकरः परः ॥ १३१ ॥ लक्ष्मी कुमुद्वती यस्य विकासं भजते तरां । द्विषत्तपननिर्मुक्ता कुर्वतः परमाद्भुतं ॥ १३२ ॥ उज्जगाम ततो लोकवक्त्रेभ्य इति निस्वरः । अहो वृत्तमिदं चित्रमिंद्रजालोपमं महत् ॥१३३॥ यस्य चारणकन्यानामिदमीडग्विचेष्टितं । भरतस्य स्वयं तस्य शक्तिः शक्रं जयेदपि ॥ १३४ ॥ न विद्यः स किमस्माकं क्रुद्धो नाथः करिष्यति । अथवा सप्रणामेषु देवो यास्यति मार्दवं १३५ ततः करिणमारुह्य राघवः सातिवीर्यकः । सहितः परिवर्गेण ययौ जिनवरालयं ॥ १३६ ॥ अवतीर्य गजात्तत्र प्रविश्य प्रमदान्वितः । चक्रे सुमहती पूजां कृतमंगलनिस्वनः ॥ १३७ ॥
Page #181
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१७२
सप्तत्रिंशत्तमं पर्व ।
वरधर्मापि सर्वेण संघेन सहितः परं । राघवेण ससीतेन नीता तुष्टेन पूजनं ॥ १३८ ॥ अतिवीर्योत्र पद्मेन लक्ष्मणाय समर्पितः । तस्यासौ वधमुद्युक्तः कर्तुर्मुच्यत सीतया ॥ १३९ ॥ माववधोऽस्य लक्ष्मीवान् कंधरं निष्ठुराशया । केशेषु मागृहीर्गाढं कुमार भज सौम्यतां ॥ १४० ॥ को दोषः कर्मसामर्थ्याद्यदायात्यापदं नराः । रक्ष्या एव तथाप्येते दधतामतिसाधुना ॥ १४१ ॥ इतरो ये खलीकर्तुं साधूनां नोचिते जनः । किमुतायं नरेशानां सहस्राणां प्रपूजितः || १४२ || कुर्वेनं मुक्तकं भद्र भवतायं वशीकृतः । जानानः स्वस्य सामर्थ्य कानुगच्छति सांप्रतं ॥ १४३ ॥ गृहीत्वा समयेन्यस्य सन्मानमुपलंभिताः । विमुच्यंति पुनर्भूयो मर्यादेयं चिरंतनी ॥ १४४ ॥ इत्युक्तो मस्तके कृत्वा करराजीव कुझलं । जगाद लक्ष्मणो देवि यद्रवीषि तथैव तत् ॥ १४५ ॥ आस्तां स्वामिनि ते वाक्यात्तावदस्य विमोचनं । सुराणामप्यमुं पूज्यं कुर्वीयं त्वत्प्रसादतः १४६ एवं प्रशांतसंरंभे सद्यो लक्ष्मीधरे स्थिते । अतिवीर्यो विबुद्धात्मा स्तुत्वा पद्ममभाषत ॥ १४७ ॥ साधु साधु त्वया चित्रं कृतमीदृग्विचेष्टितं । कदाचिदप्यनुत्पन्ना ममाद्य मतिरुद्वता ॥ १४८ ॥ विमुक्तहारमुकुटं दृष्ट्रा तं करुणान्वितः । विश्रब्धं राघवोऽवोचत्सौम्याकारपरिग्रहः ॥ १४९ ॥ मात्रजरिंग दैन्यत्वं धत्स्व धैर्यं पुरातनं । महतामेव जायंते संपदो विपदन्विताः ।। १५० ॥
Page #182
--------------------------------------------------------------------------
________________
१७३
पद्मपुराणम् ।
सप्तत्रिंशत्तम पर्व ।
न चात्र काचिदापत्ते नंद्यावर्ते क्रमागते । भरतस्य वशो भूत्वा कुरु राज्यं यथेप्सितं ॥ १५१ ॥ अतिवीर्यस्ततोवोचन्न मे राज्येऽधुना स्पृहा । राज्येन मे फलं दत्तमधुनान्यत्र सज्ज्यते ॥१५२॥ आसीन्मया कृता वांछा हिमवत्सागरावधि । जेतुं वसुंधरा येन विभ्रता मानमुत्तमं ।। १५३ ॥ सोहं स्वमानमुन्मूल्य भूत्वा सारविवर्जितः । कुर्यं प्रणतिमन्यस्य कथं पुरुषतां दधत् ॥ १५४ ॥ षट् खंडा यैरपि क्षोणी पालितेयं महानरैः । न तृप्तास्तेप्यहं ग्रामैः पंचभिस्तु किमेत कैः ।। १५५ ।। जन्मांतरकृतस्यास्य चलितां पश्य कर्मणः । छायाहानिमहं येन राहुर्णेदुरिवाहृतः ।। १५६ ।। मानुष्यकमिदं जातं सारमुक्तं मयाधुना । सुराणामपि वार्तेषा किमन्यत्राभिधीयतां ॥ १५७ ॥ सोहं पुनर्भवाद्भीरुस्त्वया संप्रति बोधितः । तथाविधां भजे चेष्टां यया मुक्तिरवाप्यते || १५८ ।। इत्युक्त्वा क्षमयित्वा तं परिवर्गसमन्वितं । गत्वा केसरिविक्रांतो मुनिं श्रुतिधरश्रुतिं ॥ १५९ ॥ कराब्जकुड्मलांकेन विधाय शिरसा नति । जगाद नाथ वांछामि दीक्षां दैगंबरीमिति ॥ १६० ॥ आचार्येणैवमित्युक्ते परित्यज्यांशुकादिकं । केशलुंचं विधायासौ महाव्रतधरोऽभवत् ।। १६१ ॥ आत्मार्थनिरतस्त्यक्तरागद्वेषपरिग्रहः । विजहार क्षितिं धीरो यत्रास्तमितवानसौ ।। १६२ ॥ क्रूरश्वापदयुक्तेषु गहनेषु वनेषु सः । चकार वसतिं निर्भीर्गह्वरेषु च भूभृतां ।। १६३ ।।
Page #183
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१७४
विमुक्तनिश्शेषपरिग्रहाशं । गृहीतचारित्रभरं सुशीलं ॥
नानतपः शोषितदेहमुद्यं । महामुनिं तं नमतातिवीर्य ॥ १६४ ॥ रत्नत्रयापादितचारुभूषं । दिगंबरं साधुगुणावतंसं ॥
संप्रस्थितं योग्यवरं विमुक्ते - महामुनिं तं नमतातिवीर्यं ।। १६५ ।। इदं परं चेष्टितमातिवीर्यं । श्रृणोति यो यश्व सुधीरधीते ॥
प्राप्नोति वृद्धिं सदसोऽपि मध्ये । रविप्रभोसौ व्यसनं न लोकः ।। १६६ ।। इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते (पद्मपुराणे ) तिवीर्यनिष्क्रमणाभिधानं नाम सप्तत्रिंशत्तमं पर्व ।
अष्टत्रिंशत्तमं पर्व |
अथाष्टत्रिंशत्तमं पर्व |
अथ पद्मोतिवीर्यस्य तनयं नयकोविदः । विजयस्यंदनाभिख्यमभ्यसिंचत्पितुः पदे ॥ १ ॥ दर्शिताशेषवित्तोसावर विंदातनूभुवं । स्वसारं रतिमालाख्यां लक्ष्मणाय न्यवेदयत् ॥ २ ॥ एवमस्त्वित्यभीष्टायां तस्यां पद्मेन लक्ष्मणः । लक्ष्मीमिवांकमायातां ज्ञात्वा सप्रमदोऽभवत् ॥३॥
Page #184
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१७५
अष्टमं पर्व
ततः कृत्वा जिनेद्राणां पूजां विस्मयदायिनीं । इयाय विजयस्थानं लक्ष्मणाद्यन्वितो बलः ||४|| दीक्षां त्वातिवीर्यस्य नर्तकीग्रहहेतुकां । शत्रुघ्नं हाससध्वानं निषिध्य भरतोऽवदत् ॥ ५ ॥ अतिवीर्यो महाधन्यस्तस्य किं भद्र हास्यते | त्यक्त्वा यो विषयात्कष्टान् परां शांतिमुपाश्रितः । प्रभावं तपसः पश्य त्रिदशेष्वपि दुर्लभं । मुनिर्यो रिपुरासीन्नः संप्राप्तोऽसौ प्रणम्यतां ॥ ७ ॥ श्लाघामित्यतिवीर्यस्य यावत्कुर्वन् स तिष्ठति । विजयस्यंदनस्तावत्प्राप्तः सामंतमध्यगः ॥ ८ ॥ प्रणम्य भरतायासौ स्थितः संकथया क्षणं । ज्यायसीं रतिमालाया नाम्ना विजयसुंदरीं ॥ ९ ॥ उपनिन्ये शुभां कन्यां नानालंकारधारिणीं । कोशं च विपुलं सारं साधनं च प्रसन्नदृक् ॥ १० ॥ कन्यामेकामुपादाय केकयानंदनस्ततः । तस्यैवानुमतं सर्वं स्थितिरेषा महात्मनां ॥ ११ ॥ कौतुकोत्कलिकाकीर्णमानसोऽथ महाजवैः । अश्वैः प्रववृते दृष्टुमतिवीर्यदिगंबरं ॥ १२ ॥ क्वासौ महामुनिः कासाविति पृच्छन्सुभावनः । एषोयमित्यनुं भृत्यैः कथ्यमानमियाय सः ॥ १३॥ ततो विषमपाषाणनिवहात्यंत दुर्गमं । नानाद्रुमसमाकीर्ण कुसुमामोदवस्थितं ।। १४ ।। तज्ज्ञेन कथितं रम्यं पर्वतं श्वापदाकुलं । आरुरोहावतीर्याश्वाद्विनीताकारमंडितः ॥ १५ ॥ रोषतोषविनिर्मुक्तं प्रशांतकरणं विभुं । शिलातलनिषण्णं तमेकसिंहमिवाभयं ॥ १६ ॥
Page #185
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१७६
अष्टत्रिंशत्तम पर्व। अतिवीर्यमुनि दृष्टा सुघोरतपसि स्थितं । शुभध्यानगतात्मानं ज्वलंतं श्रमणश्रिया ॥ १७ ॥ उत्फुल्लनयनो लोकः सर्वो हृष्टतनूरुहः । विस्मयं परमं प्राप्तो ननाम रचितांजलिः ॥१८॥ कृत्वास्य महतीं पूजां भरतः श्रमणप्रियः । प्रणम्य पादयोरुचे भक्त्या विनतविग्रहः ॥ १९ ॥ नाथ शूरस्त्वमेवैकः परमार्थविशारदः । येनेयं दुर्धरा दीक्षा धृता जिनवरोदिता ॥ २० ॥ विशुद्धकुलजातानां पुरुषाणां महात्मनां । ज्ञातसंसारसाराणामीडगेव विचेष्टितं ॥ २१ ॥ मनुष्यलोकमासाद्य फलं यदभिवांछयते । तदुपात्तं त्वया साधो वयमत्यतदुःखिताः ॥ २२ ॥ क्षंतव्यं दुरितं किचिद्यदस्माभिस्त्वयीहितं । कृतार्थोसि नमस्तुभ्यं प्राप्तायातिप्रतीक्ष्यतां ॥२३॥ इत्युक्त्वा सांजलिं कृत्वा महासाधोः प्रदक्षिणां । अवतीर्णः कथां मौनी कुर्वाणो धरणीधरात् ॥ स्थूरीपृष्ठं समारुह्य पूर्यमाणः सहस्रशः । सामंत प्रस्थितोऽयोध्यां विभवाम्भोधिमध्यगः ॥२५॥ महासाधनसामंतमंडलस्यांतरे स्थितः । शुशुभेसौ यथा जंबुद्वीपोऽन्यद्वीपमध्यगः ॥२६॥ क्व गतास्ता नु नर्तक्यः कृतलोकानुरंजनाः। स्वजीवितेऽपि निर्लोभा विदधुर्या मयि प्रियं ॥२७॥ पुरः कृत्वातिवीर्यस्य मदीयां परमां स्तुति । नर्तकीभिः कृतं कर्म चित्रमेतदहो परं ॥२८॥ स्त्रीणां कुतोथवा शक्तिरीदृशी विष्टपेऽखिले । जिनशासनदेवीभिर्नूनमेतदनुष्ठितं ॥ २९ ॥
Page #186
--------------------------------------------------------------------------
________________
पद्मपुराणम् |
وقا؟
अष्टत्रिंशत्तम पर्व।
चिंतयन्नयमित्यादि सुप्रसन्नेन चेतसा । जगाम धरणीं पश्यन्नानासस्यसमाकुलां ॥ ३० ॥ व्याप्ताशेषजगत्कीर्तिः प्रभावं परमं दधत् । सशत्रुघ्नो विवेशासौ विनीतां परमोदयः ॥ ३१ ॥ साकं विजयसुंदर्या तस्थौ तत्र रतिं भजन् । सुलोचनापरिष्क्तो यथा जलदनिस्वनः ॥ ३२ ॥ आनंदं सर्वलोकस्य कुर्वाणौ रामलक्ष्मणौ । कंचित्कालं पुरे स्थित्वा पृथिवीधरभृभूतः ॥ ३३ ॥ जानक्या सह सन्मंत्र्य कर्तव्याहितमानसौ । भूयः प्रस्थातुमुद्युक्तौ समुद्देशमभीप्सितं ॥ ३४ ॥ वनमाला ततोवोचल्लक्ष्मणं चारुलक्षणा | सवाधे वित्रती नेत्रे तरत्तरलतारके ॥ ३५ ॥ अवश्यं यदि मोक्तव्या मंदभाग्याहकं त्वया । पुरैव रक्षिता कस्मान्मुमूर्षती वद प्रिय ॥ ३६ ॥ सौमित्रिरगदद्भद्रे विपादं मागमः प्रिये । अत्यल्पेनैव कालेन पुनरेमि वरानने ॥ ३७॥ सम्यग्दर्शनहीना यां गतिं यांति सुविभ्रमे । बजेयं तां पुनः क्षिप्रं नचदेमि तवांतिकं ॥ ३८ ॥ नराणां मानदग्धानां साधुनिंदनकारिणां । प्रिये पापेन लिप्येहं यदि नायामि तेतिकं ॥ ३९ ।। रक्षितव्यं पितुर्वाक्यमस्माभिः प्राणवल्लभे । दक्षिगोदन्यतः कूलं गंतव्यं निर्विचारणं ॥ ४० ॥ मलयापत्यकां प्राप्य कृत्वा परममालयं । नेष्यामि भवतीमत्य वरोरु धृतिमात्रा ॥ ४१ ॥ समग्रैः सांत्वयित्वेति वनमालां सुभाषितैः । भेजे लांगलिनः पार्श्व सुमित्राकुक्षिसंभवः ॥ ४२ ॥
Page #187
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टत्रिंशत्तमं पर्व। ततः सुप्तजने काले विदितौ तौ न केनचित् । निर्गत्य नगराद्तुं प्रवृत्तौ सह सीतया ॥ ४३ ॥ प्रभाते तद्विनिर्मुक्तं पुरं दृष्ट्वा खिलोजनः । परमं शोकमापनः कृच्छ्रेणाधारयत्तनुं ॥ ४४ ॥ वनमाला गृहं दृष्ट्वा लक्ष्मणेन विवर्जितं । समयेषु समालंव्य जीवितं शोकिनी स्थिता ॥ ४५ ॥ विहरंतो ततः क्षोणी लोकविस्मयकारिणौ । मुमुदाते महासत्वौ ससीतौ रामलक्ष्मणौ ॥ ४६॥ युवत्युदल्लवल्लीनां मनोनयनपल्लवां । तावनंगतुषारेण दहेतावटतुः शनैः ॥ ४७ ॥ कस्य पुण्यवतो गोत्रमेताभ्यां समलंकृतं । सुजाता जननी सैका लोके यैतावजीजनत् ॥ ४८ ॥ धन्येयं वनितैताभ्यां समं या चरति क्षितिं । ईदृशं यदि देवानां रूपं देवास्ततः स्फुटं ॥४९॥ कुतः समागतावेतौ व्रजतो वा क्व सुंदरौ । वांछतः किमिमौ कर्तुं सृष्टिरीदगियं कथं ॥५०॥ सख्योनेन यथा दृष्टौ पुंडरीकनिरीक्षणौ । व्रजंतौ सहितौ नार्या क्वचिच्चंद्रनिभाननौ ॥ ५१ ॥ यदिमौ शोभिनौ मुग्धे मनुष्यावथवा सुरौ । तत्किमर्थं त्वया शोको धायेते गतलज्जया ॥५२॥ अयि मूढे न पुण्येन नितांतं भूरिणा विना । लभ्यते सुचिरं दृष्टुमेवंविधनराकृतिः ॥५३॥ निवर्तस्व भज स्वास्थ्यं सस्तं वसनमुद्धर । मानपीोचने खेदमतिमात्रप्रसारिते ॥ ५४॥ नेत्रमानसचौराभ्यां दृष्टाभ्यामपि बालिके । निष्ठुराभ्यां किमताभ्यां काभ्यामपि धृति भज ५५
Page #188
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१७९
अष्टत्रिंशत्तमं पर्व। इत्याद्यालापसंसक्तं कुर्वाणावबलाजनं । रेमाते शुद्धचित्तौ तौ स्वेच्छाविहृतिकारिणौ ॥ ५६ ॥ नानाजनपदाकीणां पर्यट्य धरिणीमिमौ । क्षेमांजलिसमाख्यानं संप्राप्तौ परमं पुरं ॥ ५७॥ उद्याने निकटे तस्य जलदोत्करसन्निभे । अवस्थिताः सुखेनैते यथा सौमनसे सुराः ॥ ५८ ॥ अन्नं वरगुणं भुक्त्वा लक्ष्मणेनोपसाधितं । माध्वीकं सीतया सार्धमसेवत हलायुधः ॥ ५९ ॥ प्रासादगिरिमालाभिस्ततो हृतनिरीक्षणः । लक्ष्मणः पद्मतोऽनुज्ञां प्राप्य प्रश्रययाचितां ॥ ६ ॥ दधानः प्रवरं माल्यं पीतांबरधरः शुभः । स्वैरं क्षेमांजलिं दृष्टुं प्रतस्थे चारुविभ्रमः ॥६१॥ नानालतोपगूढानि काननानि वराण्यसो । सरितः स्वच्छतोयाश्च शुभ्राभ्रसमसैकताः ॥ ६२॥ विचित्रधातुरंगांश्च परिक्रीडनपर्वतान् । देवधामानि तुंगानि कूपान्वापी सभाः प्रपाः ॥ ६३ ॥ लोकं च विविधं पश्यन् दृश्यमानः सविस्मयं । विवेश नगरं धीरो नानाव्यापारसंकुलं ॥६४॥ शृणु श्रुण्विति तत्रायं प्रधानविशिखागतं । अश्रृणोत्पौरतः शब्दामिति विश्रब्धभाषितं ॥६५॥ पुरुषः कोन्वसौ लोके यो मुक्तां राजपाणिना । शक्तिं प्रसह्य शूरेंद्रो जितपद्मां गृहीष्यति ॥६६॥ स्वर्गे राज्यं ददामीति राजा चेत्पतिपद्यते । तथापि नानया कृत्यं कथया शक्तियातया ॥६७॥ जातश्चाभिमुखः शक्तेः प्राणेश्च परिवर्जितः । किं करिष्यति कन्यास्य राज्यं वा त्रिदशालये ६८
Page #189
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टत्रिंशत्तम पर्व । समस्तेभ्यो हि वस्तुभ्यः प्रियं जगति जीवितं । तदर्थमितरत्सर्वमिति को नावगच्छति ॥६९॥ श्रुत्वैवं कौतुकी कंचिदथ पप्रच्छ मानवं । भद्र ! का जितपमेयं यदर्थ भाषते जनः ॥ ७० ॥ सोवोचन्मृत्युकन्यासावतिपंडितमानिनी । किन ते विदिता सर्वलोकविख्यातकीर्तिका ॥ ७१॥ एतन्नगरनाथस्य राज्ञः शत्रुदमश्रुतेः । कनकाभासमुत्पन्ना दुहिता गुणशालिनी ॥ ७२ ॥ यतोऽनया जितं पद्मं कांत्या वदनजातया । पमा च सर्वगात्रेण जितपादिता ततः ॥ ७३ ।। नवयौवनसंपन्ना कलालंकारधारिणी । पुंसोऽपि त्रिदशान् द्वेष्टि मनुष्येषु कथात्र का ॥ ७४ ॥ उच्चारयति नो शब्दमपि पुल्लिंगवर्तिनं । व्यवहारः समस्तोस्याः पुरुषार्थविवर्जितः ॥ ७५ ॥ अदः पश्यसि कैलाससदृशं भवनं वरं । अत्र तिष्ठत्यसौ कन्या शतसेवनलालिता ॥७६ ॥ शक्तिं यः पाणिना मुक्ता पित्रास्याः सहते नरः । तृणुते तमियं दग्ध-समीहा कृच्छ्र शालिनी॥७७॥ लक्ष्मीधरः समाकर्ण्य सकोपस्मयविस्मयः । दध्यो सा कीदृशी नाम कन्या यैवं समीहते ॥७८॥ दुष्टचेष्टामिमां तावत्कन्यां पश्यामि गर्वितां । अहो पुनरभिप्रायः प्रौढोयमनया कृतः॥ ७९ ॥ ध्यायन्निति महोक्षेति राजमार्गेण चारुणा । विमानाभान्महाशब्दान् प्रासादान्विधुपांडुरान् ८० दंतिनो जलदाकारांस्तुरंगांश्चलचामरान् । बलभीनृत्यशालांश्च पश्यन्मंथरचक्षुषा ॥ ८१ ॥
Page #190
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१८१
अष्टत्रिंशत्तमं पर्व ।
नानानिर्यूह संपन्नं विचित्रध्वजशोभितं । शुभ्राभ्रराशिसंकाशं प्राप शत्रुदमालयं ।। ८२ ॥ भास्वद्भक्तिशताकीर्णं तुंगप्राकारयोजितं । द्वारं तस्य डुढौकेसौ शक्रचापाभतोरणं ।। ८३ ।। शस्त्रिवृंदावृते तस्मिन्नानोपायनसंकुले । निर्गच्छद्भिर्विशद्भिश्व सामंतैरविसंकटे ॥ ८४ ॥ द्वाःस्थेन प्रविशनेष भाषे सौम्यया गिरा । कस्त्वमज्ञापितो भद्र विशसि क्षितिपालयं ।। ८५ ।। सोवोचद्रष्टुमिच्छामि राजानं गच्छ वेदय । स्वपदेऽन्यमसौ कृत्वा गत्वा राज्ञे न्यवेदयत् ॥ ८६ ॥ दिक्षुस्त्वां महाराज पुमानिंदीवरप्रभः । राजीवलोचनो श्रीमान् सौम्यो द्वारेऽवतिष्ठते ॥ ८७ ॥ अमात्यवदनं वीक्ष्य राजावोचद्विशत्विति । ततः सुतः सुमित्रायाः प्रतीहारोदितो ऽविशत् ॥८८॥ तं दृष्ट्वा सुंदराकारं सुगंभीरापि सा सभा । समुद्रमूर्तिवत्क्षोभं गता शीतांशुदर्शने ॥ ८९ ॥ प्रणामरहितं दृष्ट्वा विकटांसं सुभासुरं । किंचिद्विकृतचेतस् कस्तमपृच्छदरि॑िद॒मः ।। ९० ।। कुतः समागतः कस्त्वं किमर्थं क कृतश्रमः । ततो लक्ष्मीधरोऽवोचत्प्रावृषेण्यघनध्वनिः ॥ ९१ ॥ वाह्योहं भरतस्यापि महीहिंडनपंडितः । विद्वान् सर्वत्र ते भक्तुं दुहितुर्मानमागतः ॥ ९२ ॥ अभग्नमानश्रृगेयं दुष्टकन्यागवी त्वया । पोषिता सर्वलोकस्य वर्तते दुःखदायिनी ॥ ९३ ॥ सोवोचद्य मया मुक्तां शक्तः शक्ति प्रतीक्षितं । कोसौ न जितपद्माया मानस्य ध्वंसको भवेत् ॥ ९४ ॥
Page #191
--------------------------------------------------------------------------
________________
१८२
पद्मपुराणम् ।
अष्टत्रिंशत्तम पर्व। उवाच लक्ष्मणः शक्त्या ग्रंहणं मे किमेकया । शक्तीः पंच विमुंच त्वं मयि शक्त्या समस्तया ॥९५।। विवादो गर्विणोरेवं प्रवृत्तो यावदेतयोः । गवाक्षा निविडा तावपिहिता वनिताननैः ॥ ९६ ॥ परित्यक्तनरद्वेषा दृष्ट्वा लक्ष्मणपुंगवं । निर्गृहस्था जितांभोजा संज्ञादानादवारयत् ॥ ९७ ।। दक्षवद्धांजलिं भीरुं सौमित्रिरिति संज्ञया । चकार जातबोधां तां माभैषारिति सम्मदी ॥९८ ॥ जगाद च किमद्यापि कातर त्वं प्रतीक्षसे । विमुंचारिंदमाभिख्य शक्तिं शक्ति निवेदय ॥ ९९ ।। इत्युक्तः कुपितो राजा बद्धा परिकरं दृढ़ । ज्वलत्पावकसंकाशां शक्तिमेकामुपाददौ ॥१०॥ प्रतीक्षेच्छसि मर्तु चेदित्युक्त्वा भृकुटीं दधत् । वैशाखं स्थानकं कृत्वा तां मुमोच विधानवित् १०१ अयनेनेव सा तेन धृता दक्षिणपाणिना । वर्तिकाग्रहणे को वा बहमानो गरुत्मतः॥ १०२॥ द्वितीयेतरहस्तेन कक्षाभ्यां द्वे सुविभ्रमः । शुशुभे सुभृशं ताभिश्चतुर्दत इव द्विपः ॥ १०३ ॥ संक्रुद्धभोगिभोगानां संप्राप्तामथ पंचमी । दंताग्राभ्यां दधौ शक्तिं पेशीमिव मृगाधिपः ॥१०४॥ ततो देवगणाः खस्था वषुः पुष्पसंहतिं । ननृतुस्ताडयांश्चक्रुदुंदुभीश्च कृतस्वनाः ।। १०५ ।। प्रतीक्षारिंदमेदानीं शक्ति त्वमिति लक्ष्मणे । कृतशब्दे परां प्राप साध्वसं सकलो जनः ॥१०६॥ तमक्षततनुं दृष्ट्वा लक्ष्मीनिलयवक्षसं । विस्मितोरिंदमो जातस्त्रपावनमिताननः ॥१०७॥
Page #192
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टत्रिंशत्तम पर्व । जितपद्मा ततः प्राप स्मितच्छाया नतानना । लक्ष्मीधरं समाकृष्टा रूपेणाचरितेन च ॥१०८ ॥ धृतशक्तेः समीपेस्य सा तन्वी शुशुभेतरां । कुलिशायुधपार्श्वस्था शची विनमितानना ॥१०९॥ नवेन संगमेनास्या हृदयं तस्य कंपितं । यन्नासीत्कंपितं जातु संग्रामेषु महत्स्वपि ॥ ११० ॥ पुरस्तातनरेशानां कन्यया लक्ष्मणो वृतः । विभिद्यापत्रपापाली तद्भरन्यस्तनेत्रया ॥ १११ ।। सद्यो विनयनम्रांगो राजानं लक्ष्मणोऽब्रवीत् । मामकाहसि मे क्षेतुं शैशवादुर्विचेष्टितं ॥११२॥ बालानां प्रतिकूलेन कर्मणा वचसापि वा । भवद्विधा सुगंभीरा नैव यांति विकारितां ॥११३॥ ततः शत्रुदमोप्येनं सप्रमोदः ससंभ्रमः । स्तंवेरमकराभाभ्यां कराभ्यां परिषष्वजे ॥ ११४ ॥ उवाच च परिक्लिन्नगंडांश्चंडन् गजान् क्षणात् । यो जैवं भीमयुद्धेषु भद्र सोहं त्वया जितः ११५ वन्यानपि महानागान् गंडशैलसमत्विषः । विमदीकृतवानस्मि सोयमन्य इवाभवं ॥११६ ॥ अहोवीर्यमहो रूपं सदृशाः शुभ ते गुणाः । अहोनुद्धततात्यंत प्रश्रयश्च तवाद्भुतः ॥ ११७॥ भाषमाणे गुणानेवं राज्ञि संसद्यवस्थिते । लक्ष्मीधरस्त्रपातोऽभूत्क्वापि यात इव क्षणं ॥ ११८ ॥ अथ लब्धांबुदवातघोषभेर्यः समाहताः । राजादेशात् समाध्माताः शंखा शंसितवारणाः ॥११९॥ यथेष्टं दीयमानेषु धनेषु परमस्ततः । आनंदोऽवतताशेषनगरक्षाभदक्षिणः ॥ १२०॥
Page #193
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टत्रिंशत्तमं पर्व।
ततो लक्ष्मीधरोवाचि राज्ञा पुरुषपुंगव । त्वया दुहितुरिच्छामि पाणिग्रहणमीक्षितुं ।। १२१ ।। सोऽयोचन्न गरस्यास्य प्रदेशे निकट मम | ज्येष्ठस्तिष्ठति तं पृच्छ स जानाति यथोचितं ।१२२॥ ततः स्यंदनमारोप जितपद्मां सलक्ष्मणां । संदारवंधुरभ्यासं प्रतस्थे तस्य सादरः ।। १२३ ॥ ततः क्षुब्धापगानाथनिर्घोषप्रतिमध्वनि । श्रुत्वा वीक्ष्य विशालं च धूलीपटलमुद्गतं ॥ १२४ ॥ जानुन्यस्तमुहुःस्रस्त करा कृच्छात्समुत्थिता । सीता जगाद संत्रांता गिरा प्रस्खलिता मुहुः १२५ कृतं सौमित्रिणा नूनं राघवोद्धतचेष्टितं । आशेयमाकुलात्यन्तं दृश्यते कृत्यमाश्रय ॥ १२६ ॥ आश्लिष्य जानकी देवि माभैषीरिति शब्दयन् । उत्तस्थौ राघवः क्षिप्रं दृष्टिं धनुषि पातयन् १२७ तावच नरवृंदस्य महतः स्थितमग्रतः । सुतारगीतनिस्तानमीक्षांचकेंगनाजनं ॥ १२८॥ क्रमेण गच्छतश्चास्य प्रत्यासत्तिं मनोहराः । विभ्रमाः समदृश्यंत सुदारावयवोत्थिताः ॥ १२९ ।। नृत्यंतं च समालोक्य तारनूपुरसिंजितं । विश्रब्धः सीतया साकं पमः पुनरूपाविशत् ॥ १३० ॥ स्त्रियो मंगलहस्तास्तं सर्वालंकारभूषिताः । डुढौकिरेऽतिहारिण्यः समदस्फीतलोचनाः ।।१३१॥ रथादुत्तीय पद्मास्यः सहितो जितपद्मया। पतिः पपात पनायाः पयस्य चरणौ दुतं ॥ १३२ ॥ पद्मस्य प्रणतिं कृत्वा सीताया अपि सत्रपः । निविश्य नातिनिकटे पद्मस्य विनयी स्थितः१३३
Page #194
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१८५
अष्टत्रिंशत्तम पर्व। नृपा शव॒दमाद्याश्च क्रमात्कृत्वा नमस्कृति । पद्मस्य सहसीतस्य यथास्थानमवस्थिताः ॥१४॥ तत्र संकथया छित्वा कुशलप्रश्नपूर्वया । कृते च पुनरानंदनर्तने पार्थिवैरपि ॥ १३५ ॥ ऋद्धया परमया युक्तः ससीतो लक्ष्मणो बलः । प्रविष्टः स्यदनारूढो नगरं प्रमदान्वितः॥१३६॥ तत्र लावण्यकिंजल्कयोपित्कुवलयाकुले । महाप्रासादसरसि स्वनद्भूषणपक्षिणि ॥ १३७ ॥ नरेभकलभौ सत्यव्रतसिंहध्वनेरलं । त्रासात्संकुचितस्त्रांतो कुमारश्रीसमन्वितौ ॥ १३८ । शबुंदमकृतच्छंदौ किंचित्कालं महामुखौ । उषितौ सर्वलोकस्य चित्ताहादनदायिनी ॥ १३९ ॥ नितपनां ततो भीतां विरहादतिदुःखितां । परिसान्त्व्य प्रियवाक्यैवेनमालामिवादरात् ॥१४०॥ पद्मः सीतानुगो भूत्वा निशीथे स्वैरनिर्गतः । यातो लक्ष्मीधरो दत्वा पौराणामधृतिं परां १४१
ये जन्मांतरसंचितातिसुकृताः सवोसुभाजां प्रियाः।
यं यं देशमुपवति विविधं कृत्यं भजंतः परं ॥ तस्मिन्सर्वहृषीकसौख्यचतुरस्तेषां विना चिंतया ।
____ मृष्टान्नादिविधिर्भवत्यनुपमो यो विष्टपे दुर्लभः ॥ १४२ ॥ भोगैर्नास्ति मम प्रयोजनमिमे गच्छंतु नाशं खलाः।
Page #195
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व । इत्येषां यदि सर्वदापि कुरुते निंदामलं द्वेषकाः ॥ एतैः सर्वगुणोपपत्तिपटुभिर्यातोऽपि शृंगं गिरेः ।
नित्यं यांति तथापि निर्जितरविर्दीप्त्या जनः संगमं ॥ १४३ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते जितपद्मोपाख्यानं नामाष्टत्रिंशत्तमं पर्व ।
अथैकोनचत्वारिंशत्तमं पर्व । अथ नानाद्रुमक्ष्मासु बहुपुष्पसुगंधिषु । लतामंडपयुक्तासु सेवितासु सुखं मृगैः ॥ १॥ देवोपनीतनिश्शेषशरीरस्थितिसाधनौ । आयातां रममाणौ तौ ससीतौ रामलक्ष्मणौ ॥ २ ॥ कचिद्विद्रुमसंकाशं रामः किशलयं लघु । गृहीत्वा कुरुते कर्ण जानक्याः साध्विति ब्रुवत् ।।३॥ सुतारौ संगतां वल्लीं कचिदारोप्य जानकीं । स्वैरं दोलयतः पार्श्ववर्तिनौ रामलक्ष्मणौ ॥ ४ ॥ द्रुमखंडे क्वचित्स्थित्वा नितांतघनपल्लवे । कथाभिः सुविदग्धाभिः कुरुतस्तद्विनोदनं ॥५॥ इयमेतदयं वल्लीपलाशं तरुरीक्ष्यतां । हारिणी हरिहारीति सीतोचे राघवं कचित् ॥ ६॥
Page #196
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१८७ - एकोनचत्वारिंशत्तमं पर्व । क्वचिद्धमरसंघातैर्मुखसौरभलोलुपैः । कृच्छ्रादरक्षतामेतौ राजपुत्री कदर्थितां ॥७॥ शनैर्विहरमाणौ तौ ससीतौ शुभविभ्रमौ । काननेषु विचित्रेषु स्ववनेषु सुराविव ॥ ८ ॥ नानाजनोपभोग्येषु देशेषु निहितेक्षणौ । धारौ क्रमेण संप्राप्तौ पुरं वंशस्थलद्युति ॥ ९ ॥ सुदीर्घोऽपि तयोः कालो गच्छतोः सहसीतयोः । पुण्यानुगतयो सीदपि दुःखलवप्रदः ॥१०॥ अपश्यतां च तस्यांते वंशजालातिसंकटं । नगं वंशधराभिख्य भित्वेव भुवमुद्गतं ॥ ११ ॥ छायया तुंगशृंगाणां यः संध्यामिव संततं । दधाति निर्झराणां च हसतीव च शीकरैः ।। १२ ॥ निर्गच्छंती प्रजां दृष्ट्वा पुरादथ स एककां । रामः पप्रच्छ भोः कस्मात्त्रासोयं सुमहानिति १३ सोवोचदद्य दिवसस्तृतीयो वतेते नरः । नक्तमुत्तिष्ठतोऽमुष्मिन्नगे नादोस्य मस्तके ॥ १४ ॥ ध्वनिरश्रुतपूर्वोयं प्रतिनादी भयावहः । कस्येति बहुविज्ञानने वृद्धैरपि वेद्यते ॥१५॥ संक्षुभ्यतीव भूः सर्वा नदंतीव दिशो दश । सरांसि संचरंतीव निर्मूल्यंत इवांघ्रिपाः ॥ १६ ॥ रौरवारावरौद्रेण घनेन ध्वनिनामुना । श्रवणौ सर्वलोकस्य ताड्येतेऽयोघनैरिव ॥ १७ ॥ निशागमे किमस्माकं वधार्थमयमुद्यतः । करोति क्रीड़नं तावत्कोऽपि विष्टपकंटकः ॥ १८ ॥ भयेन स्वनतस्तस्मादयं लोको निशागमे । पलायते प्रभाते तु पुनरेति यथायथं ॥ १९ ॥
Page #197
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१८८
एकोनचत्वारिंशत्तम पर्व । साग्रं योजनमेतस्मादतीत्यान्योन्यभाषितं । शृणोत्ययं जनः किंचित्प्राप्नोति च सुखासिको २० निशम्योक्तमिदं सीता बभाषे रामलक्ष्मणौ । वयमप्यत्र गच्छामो यत्र याति महाजनः ॥२१॥ कालं देशं च विज्ञाय नीतिशास्त्रविशारदैः । क्रियते पौरुषं तेन न जातु विपदाप्यते ॥ २२ ॥ प्रहस्यावाचतामेतामुद्विग्नां जनकात्मजां । गच्छ त्वं यत्र लोकोयं व्रजत्यलघुसाध्वसे ।। २३ ॥ अन्विष्यंती प्रभाते नौ लोकेन सहितामुना । अमुष्मिन् गंडशैलांते गतभीरागमिष्यति ॥ २४ ॥ अस्मिन्महीधरे रम्ये ध्वनिरत्यतभीषणः । कस्यायमिति पश्यामो वयमद्यति निश्चयः ॥ २५ ॥ प्रभीष्यते वराकोयं लोकः शिशुसमाकुलः । पशुभिः सहितः स्वंतमस्य को नु करिष्यति ॥२६॥ वैदेही सहरेवाचे सततं भवतोरिमं । हतुमेकं ग्रहं शक्तः कः कलीरग्रहोपमं ॥ २७ ॥ वदती पुनरेवं सा पद्मनाभस्य पृष्ठतः । लक्ष्मीधरकुमारस्य जगामावस्थिता पुरः ॥ २८ ॥ आरोहंती गिरि देवी प्रखिन्नक्रमपंकजा । रराज अंगमब्दस्य चंद्ररेखेव निर्मला ॥ २९ ॥ चंद्रकातेंद्रनीलांतः स्थितः पुष्पमणेरसौ । शलाकेवाभवत्तस्य पर्वतस्य विभूषणं ॥ ३० ॥ भृगुपातपरित्रस्तां क्वचिदुत्क्षिप्य तामिमौ । नयतोन्यत्र विश्रृब्धहस्तालंबनकोविदौ ॥ ३१॥ विषमग्रावसंघातं विस्तीर्य त्रासवर्जितौ । विस्तीर्णनगमूर्धानं सतीतौ तावपापतुः ॥ ३२ ॥
Page #198
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
एकोनचत्वारिंशत्तम पर्व । अथ सद्ध्यानमारूढौ प्रलंबितमहाभुजौ । साधयंतौ सुदुस्साध्या प्रतिमां चतुराननां ॥ ३३ ॥ परेण तेजसा युक्तावब्धिधीरौ नगस्थिरौ । शरीरचेतनान्यत्ववेदिनौ मोहवर्जितौ ॥ ३४ ॥ जातरूपधरौ कांतिसागरौ नवयौवनौ । संयती प्रवराकारौ ददृशुस्ते यथादितौ ॥ ३५ ॥ दध्युश्च विस्मयं प्राप्ता यथा मुक्ताशुभाजनं । निस्सारमीहितं सर्व संसारे दुःखकारणं ॥ ३६ ॥ मित्राणि द्रविणं दाराः पुत्राः सर्वे च बाधवाः । सुखदुःखमिदं सर्व धर्म एकः सुखावहः ॥३७॥ डुढौकिरे च भक्त्याढ्या मूर्धविन्यस्तपाणयः । दधानाः परमं तोषं विनयानतविग्रहाः ॥ ३८ ॥ यावद्ददृशुरत्युग्रैर्विस्फुरद्भिमहास्वनैः । भिन्नांजनसमच्छायैश्चलजि हैः पृदाकुभिः ॥ ३९॥ समुद्यनालकै मैश्चलद्भिरनिशं धनैः । नानावणैरतिस्थूलैवेष्टितैर्वृश्चिकैच तौ ॥ ४०॥ तथाविधौ च तौ दृष्ट्वा रामोऽपि सहलक्ष्मणः । सहसा त्रासमायातो भेजे स्तंभमिव क्षगं ॥४१।। वैदेही भयसंपन्ना भर्तारं परिसबजे । माभैषीरिति तामूचे भयं त्यक्त्वा क्षगेन सः ॥ ४२ ॥ उपमृत्य ततः स्वरं ताभ्यां पन्नगवृश्चिकाः । अत्यस्ता कार्मुकाग्रेण मुहुः कृतविवर्तनाः ॥ ४३ ॥ अथोद्वर्त्य चिरं पादा तयोर्निर्झरवारिणा | गंधेन सीतया लिप्ती चारुणा पुरुभावया ॥ ४४ ॥ आसन्नानां च वल्लीनां कुसुमैवनसौरभैः । लक्ष्मीधरार्पितैः शुक्ल पूरितांतरमर्चितौ ॥ ४५ ॥
Page #199
--------------------------------------------------------------------------
________________
१९०
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व। ततस्ते करयुग्माब्जमुकुलभाजितालकाः। चक्रुर्योगीश्वरी भक्त्या वंदनां विधिकोविदाः ॥ ४६॥ वीणां च सन्निधायांके वधूमिव मनोहरां । पद्मोऽवादयदत्यध्वं गायत्सु मधुराक्षरं ॥ ४७ ॥ अन्वगायदिमं लक्ष्मीलतालिंगितपादपः । वाकोकिलरवः पुत्रः कैकया (य्या) स्तत्त्वमाचरन् ४८ महायोगेश्वरा धीरा मनसा शिरसा गिरा । वंद्यास्ते साधवो नित्यं सुरैरपि सुचेष्टिताः ॥ ४९ ॥ उपमानविनिर्मुक्तं यैरव्याहतमुत्तमं । प्राप्तं त्रिभुवनख्यातं सुभाग्यैर्दहदक्षरं ॥ ५० ॥ भिन्नं यैानदंडेन महामोहाशिलातलं । दीनं विदंति ये विश्वं धर्मानुष्ठानवर्जितं ॥ ५१ ।। गायतोरक्षराण्येवं तयोगानविधिज्ञयोः । तिरश्चामपि चेतांसि परिप्राप्तानि मार्दवं ॥ ५२ ॥ ततो विदितनिश्शेषचारुनर्तनलक्षणा । मनोज्ञा कल्पसंपन्ना हारमाल्यादिभूषिता ॥ ५३ ॥ लीलया परया युक्ता दर्शिताभिनया स्फुटं । चारुबाहुलताभारा हावभावादिकोविदा ॥५४॥ लयांतरवशोत्कंपिमनोज्ञस्तनमंडला । निश्शब्दचरणांभोजविन्यासा चलितोरुका ॥ ५५ ॥ गीतानुगमसंपनसमस्तांगविचेष्टिता । मंदिरे श्रीरिवानृत्यज्जानकी भक्तिचोदिता ॥ ५६ ॥ उपसर्गादिव त्रस्ते यातेऽस्तं भास्करे ततः । संध्यायां चानुमार्गेण यातायां चलतेजसि ॥५७॥ नक्षत्रमंडलालोकं निघ्नलालाभ्रसंभ्रमं । व्याप्नुवानं दिशः सर्वा गहनं ध्वांतमुद्गतं ॥ ५८ ॥
Page #200
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१९१
एकोनचत्वारिंशत्तम पर्व।
जनस्याश्रावि कस्यापि दिक्षु संक्षोभनं परं । सांराविणं तथा चित्रं भिदंतमिव पुष्करं ॥ ५९॥ विद्युज्ज्वालामुखैलंबेरंबुदैाप्तमंबरं । कापि यात इवाशेष आलोकस्वासमाकुलः ॥ ६० ॥ अलं प्रतिभयाकारा दंष्ट्रालीकुटिलाननाः । अट्टहासान् महारौद्रान् भूतानां ससृजुगेणाः ॥ ६१॥ ऋव्यादा विरसं रेमुः सानलं चाशिवाः शिवाः । संस्वनु नृतुर्भीमं कलेवरशतानि च ॥ ६२ ॥ मूर्धारोभुजजंघादीन्यंगानि ववृषुर्घनाः । दुर्गधिभिः समेतानि स्थूलशोणितबिंदुभिः ॥ ६३ ॥ करवालीकरा क्रूरविग्रहा दोलितस्तनी । लंबोष्ठी डाकिनी नग्ना दृश्यमानास्थिसंचया ॥ ६४ ॥ मांसखंडाभमनाही शिरोघटितशेखरा । ललाटप्रसरोज्जिह्वा पेशी गोणितवार्षिणी ।। ६५ ॥ सिंहव्याघ्रमुखैस्तप्तलोहचक्राभलोचनैः । शुलहस्तैर्विदष्टोष्टै कुटीकुटिलालकैः ॥ ६६ ॥ राक्षसैः परुषारावैर्नृत्यद्भिरतिसंकुलं । कंपिताद्रिशिलाजालं चुक्षोभ वसुधातलं ॥ ६७ ।। विचेष्टितमिदं व्यर्थ नाज्ञासिष्टां महामुनी । तयोहि ज्ञानकर्मातशुलध्यानमयं तदा ॥ ६८ ॥ तथाविधं तमालोक्य वृत्तांत वरभीतिदं । संहृत्य जानकी नृत्यमाश्लिष्यत्कंपिनी पतिं ॥ ६९ ।। पनो जगाद तां देवि मा भैषीः शुभमानसे । उपगुह्य मुनेः पादौ तिष्ठ सर्वभयच्छिदौ ॥ ७० ॥ इत्युक्ता पादयोः कांतां मुनेरासाद्य लांगली । लक्ष्मीधरकुमारेण साकं सन्नाहमाश्रितः ॥ ७१ ॥
Page #201
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१९२
एकोनचत्वारिंशत्तमं पर्व ।
सजलाविव जीमूतौ गर्जितौ तौ महाप्रभौ । निर्घातमिव चंतौ समास्फालयतां धनुः ॥ ७२ ॥ ततस्तौ संभ्रमी ज्ञात्वा रामनारायणाविति । सुरो वह्निप्रभाभिख्यस्तिरोधानमुपेयिवान् ॥ ७३ ॥ ज्योतिर्वासं गते तस्मिन् समस्तं तद्विचेष्टितं । सपदि प्रलयं जातं जातं च विमलं नभः ॥ ७४ ॥ प्रातिहार्ये कृते ताभ्यामिच्छद्भया परमं हितं । उत्पन्नं केवलज्ञानं मुनिपुंगवयोः क्षणात् ।। ७५ ।। चतुर्विधास्ततो देवा नानायानसमाश्रिताः । समाजग्मुः प्रशंसंतो मुदितास्तपसः फलं ॥ ७६ ॥ प्रणम्य विधिना तत्र कृत्वा केवल पूजनं । रचितांजलयो देवा यथास्थानमुपाविशन् ॥ ७७ ॥ केवलज्ञानसंभूतिसमाकृष्टसुरागमात् । दोषादिनात्मकौ कालावभूतां भेदवर्जितौ ॥ ७८ ॥ भूमिरिण मर्त्यास्तथा विद्यामहाबलाः । उपविष्टा यथायोग्यं कृत्वा केवलिनो महं ॥ ७९ ॥ प्रसन्नमानसौ सद्यः कृत्वा केवलिपूजनं । प्रणम्य सीतया साकं निविष्टौ रामलक्ष्मणौ ॥ ८० ॥ अथ तत्क्षणसंभूतपरमाहसनस्थितौ । प्रणम्य सांजलिः पद्मः पप्रच्छैवं महामुनी ॥ ८१ ॥ भगवंतौ कृतो नक्तं केनायं वामुपद्रवः । अथवा स्वस्य युवयोरिदं जातं हितं परं ॥ ८२ ॥ त्रिकालगोचरं विश्वं विदंतावपि तौ समं । गिरं यामूचतुः साम्यपरिणाममितौ क्रमात् ॥ ८३ ॥ नगर्यां पद्मिनीनानि राजा विजयपर्वतः । गुणसस्योत्तमक्षेत्रं भामिनी यस्य धारिणी ॥ ८४ ॥
Page #202
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१९३
एकोनचत्वारिंशत्तम पर्व ।
अमृतस्वरसंज्ञोस्य दूतः शास्त्रविशारदः । राजकर्तव्यकुशलो लोकविडुणवत्सलः ॥ ८५ ॥ उपयोगेति भार्यास्य द्वौ तस्यां कुक्षिसंभवौ । उदितो मुदिताख्यश्च व्यवहारविशारदौ ॥ ८६ ॥ असौ दूतान्यदा राज्ञा प्रहितो दूतकर्मणा । प्रवासं सेवितुं सक्तः स्वामिरक्तमतिर्भृशं ॥ ८७ ॥ वसुभूतिः समं तेन सखा तद्भक्तजीवितः । निर्गतस्तत्प्रियाशक्तिनिष्ठो दुष्टेन चेतसा ॥ ८८ ॥ सुप्तं तमसिना हत्वा निवृत्तिनगरीं पुनः । जनायावेदयत्तेन किलाहं विनिवर्तितः ॥ ८९ ॥ उपयोगा जगादैवं जहि मे तनयावपि । विश्रब्धं येन तिष्ठाम इति वध्वा निवेदितं ॥ ९० ॥ त्वरितं चोदितायासौ वृत्तांतो विनिवेदितः । सा हि तेन समं वव्या संगं ज्ञातवती पुरा ॥ ९१ ॥ ब्राह्मण्या वसुभूतेश्व रतिकार्या समीर्ष्यया । कथितं तत्तथाभूतं परमाकुलचित्तया ॥ ९२ ॥ बभूव चोदितस्यापि संदिग्धं विदितं पुरा । मुदितस्य च खड्गस्य दर्शनात्स्फुटतां गतं ॥ ९३ ॥ ततो रोषपरीतेन हतः सट्टतेन सः । मृत्वा च म्लेच्छतां प्राप क्रूरकर्मपरायणः ।। ९४ ।। अन्यदा प्रथितः क्षोण्यां गणेशो मतिवर्धनः । विहरन् पद्मिनीं प्राप श्रमणः सुमहातपाः ||१५|| अनुद्धरेति विख्याता धर्म्यध्यानपरायणा । महत्तरा तदा चासीदार्थिका गणपालिनी ॥ ९६ ॥ वसंततिलकाभिख्ये तत्रोद्याने सुसुंदरे । संघेन सहितस्तस्थौ चतुर्भेदेन सद्भुवि ॥ ९७ ॥
5193
Page #203
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१९४
एकोनचत्वारिंशत्तम पर्व ।
अथोद्यानस्य संभ्रांताः पालका किंकरा भृशं । नृपं विज्ञापयन्ने भूमिविन्यस्तपाणयः ॥ ९८ ॥ अग्रतो भृगुरत्युग्रः शार्दूलः पृष्ठतो नृपः । वद कं शरणं यामो नाशो नः सर्वथोदितः ॥ ९९ ।। भद्रा किं किमिति ब्रूतेत्युक्त्वा नृपतिनागदं । नाथोद्यानभुवं प्राप्य श्रमणानां गणः स्थितः १०० यद्येनं वारयामोतः शापं ध्रुवमवाप्नुमः । नचेत्ते जायते कोपः इति नः संकटो महान् ॥१०॥ कल्पोद्यानसमच्छायमुद्यानं ते प्रसादतः । नरेंद्रकृतमस्माभिरप्रवेश्यं पृथुस्तनः ॥ १०२ ॥ नैव वारयितुं शक्या तपस्तेजोतिदुर्गमः । त्रिदशैरपि दिग्वस्त्राः किमुतास्मादृशैर्जनैः ॥१०३ ॥ मा भैष्ट ततो राजा कृत्वा किंकरसांत्वनं । उद्यानं प्रस्थितो युक्तो विस्मयेनातिभूरिणा ॥१०४॥ ऋद्धया च परया युक्तो वंदिमिः कृतनिस्वनः । उद्यानभुवमासीदत् प्रतापप्रकटः क्षितीट्॥१०५॥ ददर्श च महाभागान् वनरेणुसमुक्षितान् । मुक्तियोग्यक्रियायुक्तान् प्रशांतहृदयान्मुनीन् ॥१०६॥ प्रतिमावस्थितान्कांश्चित्प्रलंबितभुजद्वयान् । षष्ठाष्टमादिभिस्तीत्रैरुपवासैविशोषितान् ॥ १०७॥ स्वाध्यायनिरतानन्यान् षडंध्रिमधुरस्वनान् । तनिवेशितचेतस्कान् पाणिपादसमाहितान्॥१०८।। अवलोक्य मुनीनित्थं रुग्लगाकुरोऽभवत् । अवतीर्य गजाद्भावी ननाम जयपर्वतः ॥ १०९॥ क्रमेण प्रणमन् साधूनाचार्यम् समुपागतं । प्रणम्य पादयोरूचे भोगे सद्बुद्धिमुद्वहन् ॥ ११०॥
Page #204
--------------------------------------------------------------------------
________________
.
.
१२५.
पद्मपुराणम्।
एकोनचत्वारिंशसमं पर्व। नरप्रधानदीप्तिस्ते यथेयं शुभलक्षणा । तथा कथं न ते भोगा रताः पादतलस्थिताः ॥ १११ ॥ जगाद मुनिमुख्यस्तं का ते मतिरियं तनौ । स्थास्नुतासंगतालीका संसारपरिवर्धिनी ॥ ११२ ॥ करिवालककर्णांतचपलं ननु जीवितं । मानुष्य च कदली सारसाम्यं विभहँदः ॥ ११३ ॥ स्वमप्रतिममैश्वर्ये सक्तं च सह वांधवैः । इति ज्ञात्वा रतिः कात्र चित्यमानातिदुःखदे ॥११४॥ नरकप्रतिमे घोरे दुर्गधे ऋमिसंकुले । रक्तश्लेष्मादिसरसि प्रभूताशुचिकर्दमे ॥ ११५ ॥ उषितोनेकशो जीवो गर्भवासेऽतिसंकटे । तथा न शंकते मोहमहाध्वांतसमावृतः ॥ ११६ ॥ धिगंत्यताशुचिं देहं सतां शुभनिधानकं । क्षणनश्वरमत्राणं कृतमं मोहपूरितं ।। ११७ ॥ स्नसाजालकसंश्लिष्टमतिच्छातत्वगावृतं । अनेकरोगविहितं जरागमजुगुप्सितं ॥ ११८ ॥ एवंधर्मिणि देहेऽस्मिन् ये कुर्वति जना धृतिं । तेभ्यश्चैतन्यमुक्तेभ्यः स्वस्तिः संजायते कथं।।११९॥ शरीरसार्थता तस्मिन् परलोकप्रवासिनि । मुतः प्रसभं लोकं तिष्ठतीद्रियदस्यवः ॥ १२० ।। रमते जीवनृपतिः कुमतिप्रमदावृतः । अवस्कंधेन मृत्युस्तं कदर्थयितुमिच्छति ।। १२१ ॥ मनो विषयमार्गेषु मत्तद्विरदविभ्रमं । वैराग्यबलिना शक्यं रोर्बु ज्ञानांकुशश्रिता ॥ १२२ ॥ परस्त्रीरूपसस्येषु विभ्राणा लोभमुत्तमं । अमी हृषीकतुरगा धृतमोहमहाजवाः ॥ १२३ ॥
Page #205
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व । शरीररथमुन्मुक्ताः पातयंति कुवमसु । चित्तप्रग्रहमत्यंत योग्यं कुरुत ततदृढं ॥ १२४ ॥ नमस्यत जिनं भक्त्या स्मरतानारतं तथा । संसारसागरं येन समुत्तरत निश्चितं ॥ १२५ ॥ मोहारिकंटकं हित्वा तपःसंयमहेतुभिः । लोकाग्रनगरं प्राप्य राज्यं कुरुत निर्भयाः ॥ १२६ ॥ जैनं व्याकरणं श्रुत्वा सुधीविजयपर्वतः । त्यक्त्वा विपुलमैश्वर्यं बभूव मुनिपुंगवः ॥ १२७॥ तावपि भ्रातरौ तस्मिन् श्रुत्वा भक्त्या जिनश्रुतिं । प्रवज्य सुतपोभारौ संगतावाटतुर्मही १२८ सम्मेदं च बजतौ ताविष्टनिर्वाणवंदनौ । कथंचिन्मार्गतो भ्रष्टावरण्यानीं समाश्रितौ ॥ १२९ ।। वसुभूतिचरेणाथ रौद्रम्लेच्छेन वीक्षितौ । अतिकुद्धेन चाहूतौ गिरा क्रोशकुठारया ॥ १३० ॥ जिघांसंतं तमालोक्य ज्यायान्मुदितमब्रवीत् । माभैषीभ्रोतरद्य त्वं समाधानं समाश्रय ॥ १३१॥ म्लेच्छोयं हंतुमुद्युक्तो दृश्यते नौ दुराकृतिः । चिराभ्याससमृद्धाया क्षांतरद्य विनिश्चयः ॥१३२॥ प्रत्युवाच स तं भीतिः का नौ जिनवचस्थयोः । नूनं मूढतयास्माभिरप्ययं प्रापितो वधं ॥१३३॥ एवं तौ विहितालापौ सविचारं समाश्रितौ । प्रत्याख्यानं शरीरादेः प्रतिमायोगमागतौ ॥१३४॥ समीपतां च संप्राप्तो म्लेच्छो हेतुं समुद्यतः । आलोक्य दैवयोगेन सैनेशेन निवारितः ॥१३५।। रामः पप्रच्छ तेनैतौ व्यापादयितुमीप्सितौ । सेनाधिपेन निर्मुक्तौ रक्षितौ केन हेतुना ॥ १३६॥
Page #206
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
१९७
एकोनचत्वारिंशत्तमं पर्व । केवल्यास्यात्समुद्भता भारतीति भवांतरे । सुरपः कार्षकश्चास्तां यक्षस्थाने सहोदरौ ॥१३७॥ लुब्धकेनाहृतो जीवः शकुंतिग्राममन्यदा । ताभ्यां कारुण्ययुक्त्याभ्यां दत्वा मूल्यं विमोचितः ॥ ततोसौ शकुनो मृत्वा बभूव म्लेच्छभूपतिः । सुरपः कर्षकश्चैतावुदितो मुदितस्तथा ॥ १३९ ॥ पक्षीभवन्नसौ यस्मादेताभ्यां रक्षितं पुरा । तस्मात्सेनापतिर्भूयो ररक्षासाविमौ मुनी ॥ १४० ॥ लुब्धको जीवमोक्षेण वसुभूतिद्विजोत्तमः । संजातो कर्मयोगेन मनुष्यभवमुत्तमं ॥ १४१ ॥ यद्यथो निर्मितं पूर्व तद्योग्यं जायतेऽधुना । संसारवाससक्तानां जीवानां गतिरीदृशी ॥ १४२ ।। किमर्धातैरिहानर्थग्रंथैरौशनसादिभिः । एकमेव हि कर्तव्यं सुकृतं सुखकारणं ॥ १४३ ॥ निःसृतावुपसर्गात्ती मुनी कर्मानुभावतः । निर्वाणसदनं प्राप्तावका जिनवंदनां ॥ १४४ ॥ एवं तौ चारुधामानि पर्यटथ समयं चिरं । रत्नत्रयं समाराध्य मृत्वा स्वर्गमुपागतौ ॥ १४५ ॥ निंद्ययोनिषु पयेटय वसुभूतिः सुकृच्छ्रतः । मनुष्यत्वं समासाद्य तापसव्रतमाश्रितः ॥ १४६ ॥ कृत्वा बालतपः कष्टं कालधर्मेण संगतः । अग्निकेतुरिति ख्यातः क्रूरो ज्योतिःसुरोऽभवत् १४७ तथास्ति भरतक्षेत्रे नाम्नारिष्टमहापुरं । प्रियव्रत इति ख्यातः पुरुभोगोत्र पार्थिवः ॥ १४८ ॥ महादेव्यावुभे तस्य योषिद्गुणसमन्विते । कांचनामा प्रसिद्धैका पद्मावत्यपरोदिता ॥ १४९ ॥
Page #207
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१९८
एकोनचत्वारिंशत्तमं पर्व ।
च्युतौ तौ सुंदरौ नाकाज्जातौ पद्मवतीसुतौ । नाम्ना रत्नरथोऽन्यश्च विचित्ररथसंज्ञकः || १५०|| उत्पन्नः कनकाभायां ज्योतिर्देवः परिच्युतः । अनुंधर इति ख्यातिं गुणैस्ते चावनिं गताः १५१ राज्यं पुत्रेषु निक्षिप्य षदिनानि जिनालये । कृतसंलेखनः सम्यक् स्वर्गं यातः प्रियवतः १५२ राज्ञान्यस्य सुता नाम्ना श्रीप्रभा श्रीप्रभेव सा । लब्धा रत्नरथेनेष्टा कनकाभांगजेन च ॥ १५३ ॥ लब्धा रत्नरथेनैषा ततो द्वेषमुपागतः । अनुंधरो महीं तस्य विनाशयितुमुद्यतः ॥ १५४ ॥ ततो रत्नरथेनासौ विचित्रस्यंदनेन च । निर्जित्य समरे पंच दंडान्प्राप्य निराकृतः ।। १५५ ।। खलीकारात्ततः पूर्वजन्मवैराच्च कोपतः । जटावल्कलधारी स तापसोऽभूद्विषवित् ॥ १५६ ॥ भुक्त्वा राज्यं चिरं कालं सोदरौ नु प्रबोधिनौ । प्रवृज्य सुतपः कृत्वा स्वर्गलोकमुपागतौ १५७ तौ महातेजस तत्र सुखं प्राप्य सुरोचितं । च्युतौ सिद्धार्थनगरे क्षेमंकरमहीभृतः ।। १५८ ।। उत्पन्नौ विमलाख्यायां महादेव्यां सुसुंदरौ । देशभूषण इत्याद्यो द्वितीयः कुलभूषणः ।। १५९ ।। विद्यार्जनोचितौ तौ च क्रीडतौ तिष्ठतो गृहे । नाना सागरघोषश्च विद्वान् भ्राम्यन्नुपागतः १६० राज्ञा च संगृहीतस्य तस्य पार्श्वेऽखिलाः कलाः । शिक्षितौ तावुदारेण विनयेन समन्वितौ १६१ स्वजनेनैव तौ कंचिज्जानीतस्तद्गतात्मकौ । कर्तव्यं हि तयोः सर्व विद्याशालगतं तदा ||१६२ ||
Page #208
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
१९९
एकोनचत्वारिंशत्तमं पर्व ।
उपाध्यायेन चानीतौ सुचिरात्पितुरंतिकं । दृष्टा योग्य नरेंद्रेण यथाकामं स पूजितः ॥ १६३ ॥ आवयोः किल दारार्थं पित्रा सामंतकन्यकाः । आनायिता इति श्रोत्र-पथं वार्ता तयोगता १६४ ततस्तां परया त्या वाह्यालीं गंतुमुद्यतौ । वातायनस्थितां कन्यां पुरशोभामपश्यतां ।। १६५ ।। तत्संगमार्थमन्योन्यं मानसे कुरुतां वधं । ततश्च वंदिनो वक्त्रादिति शब्दः समुत्थितः ॥ १६६ ॥ साकं विमलया देव्या श्रीमान् क्षेमंकरो नृपः । चिरं जयति यस्यैतौ तनयौ त्रिदशोपमौ ॥ १६७॥ वातायनस्थितैषापि कन्यका कमलोत्सवा | जयति भ्रातरावेतौ यस्याश्चारुगुणोत्कटौ ॥ १६८ ॥ ततस्तौ तद्विरो ज्ञात्वा सोदरैषावयोरिति । वैराग्यं परमं प्राप्ताविति चिंतामुपागतौ ॥ १६९ ॥ धिग्धिग्धिगित्यंतं पापमस्माभिरीहितं । अहो मोहस्य दारुण्यं सोदरा येनकांक्षिता ।। १७० ।। चितयित्वा प्रमादेन दुःखमस्माकमीदृशं । कुर्वेति ये सदा कार्य तेषान्त्वत्यन्त साहसम् ॥ १७१ ॥ असारोयमहोत्यन्तं संसारो दुःखपूरितः । यत्र नामेदृशा भावाः जायंते पापकर्मणाम् ॥ १७२ ॥ कुतोयपुण्यतः क्षिप्रं चेतनो नरकं व्रजेत् । सम्प्राप्य बोधमस्माभिः सद्वृत्तश्चित्तमुत्तमं ॥ १७३॥ इति संचित्य संत्वष्व मातरं दुःखमूच्छितां । स्नेहाकुलं च पितरं दीक्षां दैवाससीं श्रितौ ॥ १७४॥ नभोविहरणीं लब्धि प्राप्य तौ सुतपोधनौ । आहिषांतां जगन्मान्यां जिनतीर्थाभिपूजितां १७५
Page #209
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
क्षेमंकरनरेशस्तु तच्छोकानलदीपितः । युगपत्सकलं त्यक्त्वाऽऽहारे पंचत्वमागतः ।। १७६ ।। सर्वदारभ्य पूर्वोक्तात्स एव हि पितावयोः । तेन नौ प्रति वात्सल्यं तस्य नित्यमनुत्तमं ॥ १७७॥ गरुडाधिपतिश्चासौ जातः ख्यातो मरुन्वतः । सुंदरोद्भुतविक्रांतो महालोचनसंज्ञकः ।। १७८ ॥ क्षुब्धः स्वासनकंपेन प्रयुज्यावधिमूर्जितः । आगतोऽयं स्थितो भाति व्यंतरामरसंसदि ।। १७९ ।। अनुंधरस्तु विहरंस्तापसाचारतत्परः । कौमुदी नगरीं यातः शिष्यसंवेन वेष्टितः ॥ १८० ॥ नरेशः सुमुखस्तत्र रतवत्यस्य भामिनी । कांता शतप्रधानत्वं प्राप्ता परमसुंदरी ॥ १८९ ॥ अवरुद्धा च सचेष्टा मदनेति विलासिनी । पताका मदनेनेव जित्वा लोकमुपार्जिता ॥ १८२ ॥ साधुदत्तमुनेः पार्श्वे सम्यग्दर्शनमेदसौ । तत्प्राप्येतरतीर्थानि तृणतुल्यान्यमन्यत || १८३ ॥ तस्याः पुरोऽथ रहसि कदाचिदवदन्नृपः । अहोऽसौ तापसः स्थानं महतां तपसामिति ॥ १८४ ॥ ततो मदनयावाचि की दशाथेशां तपः । मिथ्यादृशामविज्ञानलोकदंभनकारिणां ।। १८५ ।। तच्छ्रुत्वा भूपतिस्तस्यै क्रुद्धः साचागदत्पुनः । मारुषः पश्यनाथेमं मेऽचिरुत्पादवर्तिनं ।। १८६ ॥ इत्युक्त्वा स्वगृहं गत्वा शिक्षियित्वा मनोहरां । आत्मजां नागदत्ताख्यां प्रेषयत्तापसाश्रमं १८७ तस्मै सैकान्तयाताय योगस्थाय सुविभ्रमा । आस्थितामरकन्येव परमाकल्पधारिणी ।। १८८ ।।
२००
एकोनचत्वारिंशत्तमं पर्व
1
Page #210
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२०१
एकोनचत्वारिंशत्तम पर्व ।
वातेहितांवरव्याजादरकांडमदर्शयत् । मारस्यांतः पुरस्थानं लावण्यरसंनिर्भरं ॥ १८९ ॥ समाधानोपदेशेन कुंकुमद्रवपिंजरं । मारवारणकुंभामं तथा वक्षसिजद्वयं ॥ १९० ॥ कुसुमग्रहणव्याजासस्तनीविरतगृहं । नाभिमण्डलमुत्तेजः कक्षोद्देशं च सुन्दरी ॥ १९१ ॥ अज्ञानयोगमेतस्य भित्त्या लोचनमानसे | अपप्ततां प्रदेशेषु तेषु तस्याः सुबन्धने ।। १९२ ॥ ताडितः स्मरवाणैश्च समुच्छायसमाकुलः । गत्वा शनैरपृच्छत्तां त्वं बाले कात्र वर्तसे ॥ १९३ ॥ संध्याकालेऽत्र ये केचित्प्राणिनः क्षुद्रका अपि । आलयं स्वं निषेवन्ते ननु त्वं सुकुमारिका १९४ सावोचन्मधुरैवर्णैः भिदंती हृदयस्थली । लीलया बाहुलतिकामुन्नयंती मुखं प्रति ।। १९५ ।। चलनीलोत्पलच्छाये धारयंती विलोचने । किंचिदैन्यमिव प्राप्ता बहुावस्फुताधरा ॥ १९६॥ श्रृणु ! नाथ ! दयाधार ! शरणागतवत्सल ! अंबयाऽहं विना दोषादद्य निर्वासिता गृहात् १९७ कषायप्रावृता चाहं भवदीयामिमां स्थितिं । आचरामि प्रसादं मे कुरुनाथानुमोदनात् ॥१९८॥ शुश्रूषां भवतः कृत्वा दिवा नक्तं च सक्तया । इह लोको मया लब्धः परलोकश्च जायते॥१९९।। किं तद्धर्मार्थकामेषु न यद्भवति लभ्यते । निधानमसि काम्यानां मया पुण्येन वीक्षितः॥२०॥ इति संभाषिते तस्याः विज्ञाय प्रगुणं मनः । स्मरेण दह्यमानोऽसावब्रवीदिति वित्तु वः ॥२०१॥
Page #211
--------------------------------------------------------------------------
________________
૨૦૨
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व । भद्रे कोहं प्रसादस्य प्रसीद त्वं ममोत्तमे । भजस्व भक्तिमेषोहं यावज्जीवं करोमि ते ॥२०२॥ इत्युक्त्वालिंगितुं क्षिप्रं तं प्रसारितबादुकं । अगदीत्पाणिना कन्या वारयंती विशारदा ॥२०३॥ न वर्तते इदं कर्तुं कन्याहं विधिवर्जिता । पृच्छाव मातरं गत्वा गृहेऽस्मिन् दृश्यतोरणे ॥२०४॥ परा कारुण्ययुक्तेयं भवतः सेमुषी यथा । एतां प्रसादयावश्यं तुभ्यमेषा ददामि मां ॥ २०५ ॥ एवमुक्तस्तया साकं त्वरया व्याकुलक्रमः । वेश्माविशद्विलासिन्याः सवितर्यस्तमागते ।। २०६ ॥ तत्कथाकृष्टनिःशेषहषीकविषयो ह्यसौ । किञ्चिद्वेत्तिस्म नोपायं विशत्वारीमिव द्विपः ॥ २०७ ॥ न श्रृणोति स्मरग्रस्तो न जिघ्रति न पश्यति । न जानात्यपरस्पर्श न विभेति न लज्जते ॥२०८।। आचार्य मोहतः कष्टमनुतापं प्रपद्यते । अंधो निपतितः कूपे यथा पन्नगसेविते ॥ २०९ ॥ वेश्याचरणयोश्चासौ कृत्वा विलुठितं शिरः। याचते कन्यका पूर्वसंज्ञितश्चाविशन्नृपः ॥ २१० ॥ स्थापितो बंधयित्वाऽसौ राज्ञा नक्तं समीक्षितः । खलीकारं प्रभाते च प्रकटं प्रापितः परं २११ ततोऽपमाननिर्दग्धः परं दुःखं समुद्वहन् । भ्राम्यन्महीं मृतः क्लेशयोनिषु भ्रमणं स्थितः २१२ ततःकर्मानुभावेन मनुष्यभवमागतः । दारिद्रयपंकनिमग्नं जनादरविवर्जितं ॥२१३ ॥ गर्भस्थ एव चैतस्मिन् विदेश जनको गतः । उद्वेजितः कुटुंबिन्या कलहऋरवाक्यया ॥२१४ ॥
Page #212
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
एकोनचत्वारिंशत्तमं पर्व कुमारे च हृता माता म्लेच्छेन विषयाहतौ । दुःखं च परमं प्राप्तः सर्वबंधुविवर्जितः ॥ २१५ ॥ ततस्तापसतां प्राप्य कृत्वा बालतपः परं । ज्योतिर्लोकं समारुह्य नाना वह्निप्रभोऽभवत् ॥२१६।। अनंतवीर्यनामाथ केवली सेवितः सुरैः । इत्यंतेवासिना पृष्टो धर्मचिंतागतात्मना ।। २१७ ।। मुनिसुव्रतनाथस्य तीर्थेऽस्मिन् भवता समः । कोन्योनुभविता भव्यो लोकस्योत्तरकारणं २१८ सोवोचन्मयि निर्वाणं गतेऽत्र श्रमणक्षितौ । देशभूषण इत्येको द्वितीयः कुलभूषणः ॥ २१९ ॥ भवितारौ जगत्सारौ केवलज्ञानदर्शिनौ । यो समाश्रित्य लोकोयं तरिष्यति भवार्णवं ॥ २२० ॥ सोऽपि वह्निप्रभस्तस्माच्छ्रुत्वा केवलिनो मुखात् । अवस्थानं निजं यातो दध्यो केवलिभाषितं । अन्यदावधिना ज्ञात्वा योगिनाविह नौ गिरौ । अनंतवीर्यसर्वज्ञमिथ्यावाक्यं करोम्यहं ॥२२२।। एवमुक्त्वाभिमानेन परमेणातिमोहितः । आगनः पूर्ववैरेण कर्तु परमुपद्रवं ।। २२३ ।। चरमांगधरं दृष्ट्वा स भवंतमतिद्रुतं । सुरेंद्रकोपभीत्या च तिरोधानमुपागतः ॥ २२४ ॥ नारायणसमेतेन प्रातिहार्ये त्वया कृते । केवलज्ञानमस्माकं जातं घातिपरिक्षये ॥ २२५ ॥ इति गत्यागतीः श्रुत्वा प्राणिनां वैरकारिणां । वैरानुबंधमुत्सृज्य स्वस्था भवत जंतवः ॥२२६॥ महापूतमिति श्रुत्वा वचनं केवलीरितं । मुहुः सुरासुरा नेमुस्तं भीता भवदुःखतः ॥ २२७ ॥
Page #213
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२०४
एकोनचत्वारिंशत्तम पर्व । तावञ्च गरुडाधीशः परमं संपदं श्रितः । नत्वा केवलिनः पादौ शयकंजापितालिकः ॥२२८ ॥ ऊचे रघुकुलोद्योतं विलसन्मणिकुंडलं । स्निग्धां प्रसारयन् दृष्टिं प्रेमतर्पितमानसः ॥ २२९ ॥ प्रातिहार्य कृतं येन त्वया मत्सुतयोः परं । ततस्तुष्टोऽस्मि याचस्व वस्तु यत्तेऽभिरोचते ॥२३०॥ क्षणं चिंतागतः स्थित्वा जगाद रघुनंदनः । त्वया सुरप्रसन्नेन स्मर्तव्या वयमापदि ॥२३१ ॥ साधुसेवाप्रसादेन फलमेतदुपागतं । अंगीकर्तव्यमस्माभिर्भवद्वारविनिर्गतं ।। २३२ ॥ एवमस्त्विति तेनोक्त दध्मुः शंखान् दिवौकसः । भेर्यश्वमेघनिनदाः सानुवाद्यः समाहताः २३३ साधुपूर्वभवं श्रुत्वा संवेगं परमं श्रिताः । प्रावतजुर्जनाः केचिदन्येऽणुव्रतमाश्रिताः ॥२३४ ॥ देशकुलभूषणमुनी नु जगदच्यौँ । सर्वभवदुःखमलसंगमविमुक्तौ ॥
ग्रामपुरपर्वतमटंबपरिरम्यान् । बभ्रमतुरुत्तमगुणैरुपचितांगान् ॥ २३५ ॥ देशकुलभूषणमहामुनिभवं ये । वृत्तमतिपूतमिदमुत्कटसुभावाः ॥
श्रोतवचसोविषयतामुपनयंते । ते रविनिभा दुरितमाशु विसृजंति ॥ २३६ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते देशकुलभूषणोपाख्यानं नामैकोनचत्वारिंशत्तमं पर्व ।
Page #214
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२०५
अथ चत्वारिंशत्तमं पर्व ।
श्रुत्वा केवलिनः पद्मत्यविग्रहधारिणं । स्तुत्वा सजयनिस्वानं प्रणेमुः सर्वपार्थिवाः ॥ १ ॥ वंशस्थलपुरेशश्च महाचित्तः सुरप्रभः । सलक्ष्मणं सपत्नीकं पद्मनाभमपूजयत् ॥ २ ॥ प्रासादशिखरच्छाया धवली कृतपुष्करं । नावृणोन्नगरं गंतुं रामो राज्ञापि याचितः ॥ ३ ॥ वंशादिशिखिरे रम्ये हिमवच्छिशिरोपमे । समविस्तीर्ण सद्वर्णरमणीयशिलातले ॥ ४ ॥ नानावृक्षलताकीर्णे नानाशकुनिनादिते । सुगंधानिलसंपूर्णे नानापुष्पफलाकुले ।। ५ ।। पद्मोत्पलवनाढ्याभिर्वापीभिरतिशोभिते । सर्वर्तुसहितोद्युक्ते वसंतत सेवने ॥ ६ ॥ सर्जिता परमा भूमिः शुद्धादर्शतलोपमा । दशार्धवर्णरजसा कल्पितानेकभक्तिका ॥ ७ ॥ कुंदातिमुक्तिकलता वकुला कमलानि च । यूथिका मल्लिका नागा अशोकाचारुपल्लवाः || ८ || एते चान्ये च भूयांसश्चारुभासः सुगंधयः । भावारम्यविलासाभिः प्रमदाभिः प्रकल्पिता ॥ ९ ॥ ववा परिकरं पुंभिः सुविदग्धैः सुसंभ्रमैः । मंगलालापसंपन्नैः स्वाभिभक्तिपरायणैः ॥ १० ॥ harista त्राणि नानाचित्रधराणि च । प्रसारितानि रुद्राणि वैजयंतीशतानि च ॥ ११ ॥
1
चत्वारिंशत्तम पर्व |
Page #215
--------------------------------------------------------------------------
________________
२०६
पद्मपुराणम् ।
चत्वारिंशत्तम पर्व। किंकणीजालयुक्तानि मुक्तादामशतानि च । चामराणि विचित्राणि लंबूपमणिपट्टिका ॥१२॥ दर्पणा वुवुदावल्यो विस्कुरद्भास्करांशवः । न्यस्तान्येतानि तुंगेषु तोरणेषु ध्वजेषु च ॥ १३ ॥ अवनौ पूर्णकलशाः स्थापिता विधिसंयुताः । हंसा इव निविष्टास्ते विरेजुर्नलिनीवने ॥ १४ ॥ यत्र यत्र पदन्यासं करोति रघुनंदनः । तत्र तत्रोरुपमानि स्थापितानि महीतले ॥ १५ ॥ शयनान्यासनैः साकं रचितानि यतस्ततः । मणिकांचनचित्राणि सुखस्पर्शधराण्यलं ॥ १६ ॥ सलवंगादितांबूलं प्रवराण्यंशुकानि च । महासुंगधयो गंधा भास्वंत्याभरणानि च ॥ १७ ॥ सूदगेहसमेतानि कंदुशालाशतानि च । बहुभेदान्नपूर्णानि कृतयत्नानि सर्वतः ॥ १८ ॥ गुडेन सर्पिषा दना भूः कचिद्भाति पंकिला | इतिकर्तव्यताभाजा जनेनादरिणान्विता ॥ १९ ॥ स्वाहारेण कचित्तृप्ता पथिकाः स्वेच्छया स्थिता । प्रसादयंति विश्रब्धा संकथाबद्धगुल्मकाः २० कचिन्ना शेखरी भाति मदिरामत्तलोचनः । कचित्सीमंतिनी मत्ता वकुलामोदवाहिनी ॥२१॥ कचिन्नाव्यं कचिद्गीतं कचित्सुकृतसंकथा । कचित्कांतैः समं नार्यो रमंते चारुविभ्रमाः ।। २२ ॥ दत्तखा कचित्स्मेरैः सलीलैर्विटपुंगवः । विलासिन्यो विराजते गीर्वाणगणिकोपमाः॥ २३ ॥ रामलक्ष्मणयोर्यानि रचितानि ससीतयोः । क्रीड़ाधामानि कस्तानि नरो वर्णयितुं क्षमः ॥२४॥
Page #216
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२०७
चत्वारिंशत्तम पर्व।
नानाभूषणयुक्तांगौ सुमाल्यांबरधारिणौ । यथेप्सितकृताहारौ श्रिया परमयान्वितौ ॥ २५ ॥ सीता चाक्लिष्टसौभाग्या दुरितासंगवर्जिता । रमते तत्र चेष्टाभिः शास्त्रदृष्टाभिरुज्वलं ॥२६॥ तत्र वंशगिरौ राजं रामेण जगदिंदुना । निमापितानि चैत्यानि जिनेशानां सहस्रशः ॥ २७ ॥ महावष्टंभसुस्तंभा युक्तविस्तारतुंगताः । गवाक्षहम्मेवलभीप्रभृत्याकारशोभिताः ॥ २८ ॥ सतोरणमहाद्वारा सशालाः परिखान्विताः । सितचारुपताकाढ्या वृहद्वंटारवाचिताः ॥ २९ ॥ मृदंगवंशमुरजसंगीतोत्तमनिस्वनाः । झर्झरैरानकैः शंखभेरीभिश्च महारवाः ॥ ३० ॥ सततारध्वनिः शेषरम्यवस्तुमहोत्सवाः । विरेजुस्तत्र रामीया जिनप्रासादपंक्तयः ॥ ३१॥ रजिरे प्रतिमास्तत्र सर्वलोकनमस्कृताः । पंचवर्णा जिनेंद्राणां सर्वलक्षणभूषिताः ॥ ३२ ॥ अन्यदाथ महीपालरामो राजीवलोचनः । लक्ष्मीधरमुवाचेदं क्रियते किमतः परं ॥ ३३ ॥ इह संप्रेरितः कालः सुखेन परमे गिरौ । जिन चैत्यसमुत्थानाः स्थापिता कीर्तिरुज्वला ॥३४॥ अनेन भूभृता श्रेष्ठरुपचारशतैर्हता । अत्रैव हृदि तिष्ठामस्तदा कार्य विनश्यति ॥ ३५ ॥ इह तावदलं भोगौरिति चिंतयतोपि मे । न मुंचति क्षणमपि प्रवरो भोगसंततिः ॥ ३६॥ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । पुराकतानां पुण्यानां इह संपद्यते फलं ॥ ३७॥
Page #217
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૯૮
चत्वारिंशत्तमं पर्व ।
अस्माकमत्र वसतां विभ्रतां सुखसंपदं । अमी ये दिवसा यांति न तेषां पुनरागमः ॥ ३८ ॥ नदीनां चंडवेगानामायुषो दिवसस्य च । यौवनस्य च सौमित्रे यद्गतं गतमेव तत् ॥ ३९ ॥ नद्या कर्णरवायास्तु परतो रोमहर्षणं । श्रूयते दंडकारण्यं दुर्गमं क्षितिचारिभिः ॥ ४० ।। भारती न विशत्याज्ञा तस्मिन् जनपदोज्झिते । तत्रार्णवतटांच्छ्रत्वा विदध्मः कचिदालयं ॥४१॥ यदाज्ञापयसीत्युक्ते कुमारेण ससंभ्रमं । सुरेंद्रसदृशं भोगं भुक्त्वा ते निर्गतात्रयः ॥ ४२ ॥ अनुगत्य सुदूरं तौ बलोपेतः सुरप्रभः । कृच्छानिवर्तितस्ताभ्यां शोकी पुरमुपागतः ॥ ४३ ॥ एषोऽपि तुंगः परमो महीध्रः । श्रीमनितंबो बहुधानुसानुः ॥
विलंपतीभिः ककुभां समूहं । भासा चकाज्जैनगृहावलीभिः ॥४४॥ रामेण यस्मात्परमाणि तस्मिन् । जैनानि वेश्मानि विधापितानि ॥
निनेष्टवंशाद्रिवचाः स तस्मा-द्रविप्रभो रामगिरिः प्रसिद्धः ॥ ४५ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे रामगिर्युपाख्यानं नाम चत्वारिंशत्तमं पर्व ।
Page #218
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। अथैकचत्वारिंशत्तमं पर्व। अथानरण्यनप्तारौ श्रीमंती सीतयान्वितौ । दिदृक्षौ दक्षिणांभोधिमायातां सुखभोगिनौ ॥ १ ॥ पुरग्रामसमाकीर्णानतीत्य विषयान् बहून् । प्रविष्टौ तौ महारण्यं नानामृगसमाकुलं ॥ २ ॥ यस्मिन्न विद्यते पंथा स्थानं नार्यनिषेवितं । पुलिंदानामपि प्रायो दुश्चरं यन्नगाकुलं ॥ ३ ॥ नानावृक्षलताकीर्ण महाविषमगहरं । गुहांधकारगंभीरं वहनिर्झरनिम्नगं ॥ ४ ॥ क्रोशं कोशं शनैस्तत्र गच्छंती जानकीवशात् । निर्भयौ क्रीडनोयुक्तो प्राप्तौ कर्णरवां नदीं ॥५॥ यस्यास्तटानि रम्याणि तृणैर्युक्तानि भूरिभिः । सामान्यायतदेशानि स्पर्श विभ्रति सौख्यदं।।६।। अनत्युच्चैर्घनच्छायैः फलपुष्पविभूषितैः । रेजुस्तटद्रुमैस्तस्याः समीपधरणीधराः ॥७॥ वनमेतदलं चारु नदी चैतौ निरूपितौ । रम्ये तत्र तरुच्छायेनस्थितौ सीतयान्वितौ ॥ ८॥ क्षणं स्थित्वातिरम्याणि सैकतान्यवगाह्य च । जलावगाहनं चक्रुस्ते रम्यक्रीडयोचितं ॥९॥ ततो मृष्टानि पक्कानि फलानि कुसुमानि च । यथेच्छमुपभुक्तानि तैः सुखं कृतसंकथैः ॥ १० ॥ तत्र भांडोपकरणं सकलं केकयीसुतः । मृदावसैः पलाशैश्च विविधैराशु निर्ममे ॥ ११ ॥
Page #219
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२१०
एकचत्वारिंशत्तमं पर्व |
अमीषु स्वादचारूणि फलानि सुरभीनि च । वनजानि च सस्यानि राजपुत्री समस्करोत् ॥ १२ ॥ अन्यदा तिथिवेलायां गगनांगणचारिणौ । प्रभापटलसंवीतविग्रहौ चारुदर्शनौ ॥ १३ ॥ ज्ञानत्रितयसंपन्नौ महाव्रतपरिग्रहौ । परेण तपसा युक्तौ दुस्पृहामुक्तमनसौ ॥ १४ ॥ मासोपवासिनौ वीरौ गुण्यौ शुभसमीहितौ । यच्छंतौ नयनानंदौ बुधचंद्रमसाविव ॥ १५ ॥ मुनी सुगुप्तगुप्ताख्यवायांतौ सम्मुखं भुवा । यथोक्ताचारसंपन्नौ सहसा सीतयेक्षितौ ॥ १६ ॥ ततः प्रमदसंभारविकसन्नेव शोभया । दयिताय तया ख्यातमिति रोमांचितांगया ।। १७ ।। पश्य पश्य नरश्रेष्ठ तपसा कृशविग्रहं । दैगंबरं परिश्रांतं भदंतयुगलं शुभं ॥ १८ ॥ क तक्क तत्प्रिये साध्वि पंडिते चारुदर्शने । निर्ग्रथयुगलं दृष्टं भवत्या गुणमंडने ॥ १९ ॥ निरीक्ष्य वरारोहे सुचिरं पापमर्जितं । क्षणात्प्रणाशमायाति जनानां भक्तचेतसां ॥ २० ॥ इत्युक्ते रघुचंद्रेण सीतोवाच ससंभ्रमा । इमाविमाविति प्रीत्या स तदाभूत्समाकुलः ॥ २१ ॥ ततो युगमितक्षोणीदेश विन्यस्तलोचनौ । मुनी प्रशांतगमनौ सुसमाहितविग्रहौ ।। २२ ।। अभ्युत्थानाभियानाभिस्तुष्टः प्रणमनादिभिः । दंपतीभ्यां कृतावेतौ पुण्यनिर्झरपर्वतौ ॥ २३ ॥ शुच्यंगया च वैदेह्या महाश्रद्धापरीतया । परिविष्टं तयोः श्राद्धं रमणेन समेतया ॥ २४ ॥
Page #220
--------------------------------------------------------------------------
________________
२११
एकचत्वारिंशत्तमं पर्व ।
गवामरण्यजातानां महिषीणां च चारुणा । हैयंगवीन मिश्रेण पयसा तत्समुद्भवैः ॥ २५ ॥ खर्जूरैरिंगदैराम्रैर्नालिकेरै रसान्वितैः । वदराम्लातकाद्यैश्च वैदेह्या मुप्रसाधितैः ।। २६ ।। आहार्यैर्विविधैः शास्त्रदृष्टिशुद्धिसमन्वितैः । पारणां चक्रतुर्गृद्धासंबंधोज्झितचेतसौ ॥ २७ ॥ एवं च पर्युपास्यैतौ मुनी रामः प्रियान्वितः । समस्तभाव संभारकृतनिर्ग्रथमाननः ॥ २८ ॥ तावदुंदुभयो नेदुर्गगने दृष्टिताडिताः । ववौ समीरणः स्वैरं घ्राणरंजनकारणं ॥ २९ ॥ साधुसाध्विति देवानां मधुरो निस्वनोऽभवत् । ववर्ष पंचवर्णानि कुसुमानि नभस्तले || ३० ॥ पात्रदानानुभावेन दिव्या सकलवर्णिका । पूरयंती नभोऽपतद्वसुधारा महाद्युतिः ॥ ३१ ॥ अथात्रैव वनोद्देशे गहनस्य महातरोः । निषण्णोग्रे महागृध्रः स्वेच्छयावस्थितोभवत् ॥ ३२ ॥ स दृष्ट्रातिशयोपेत मुनी कर्मानुभावतः । बहूनात्मभवान् स्मृत्वा तत्तदैवमचिंतयत् ॥ ३३ ॥ मनुष्यभावसुकरं प्रमत्तेन मया पुरा । विवेकिनापि न कृतं तपो धिग्मामचेतनं ॥ ३४ ॥ भाव प्रतप्यसे किं त्वमधुना पापचेष्टितः । कमुपायं करोम्येतां कुत्सितां योनिमागतः ॥ ३५ ॥ अनुकूलारिभिः पापैर्मित्रशब्देन धारिभिः । प्रेरितेन सता त्यक्तं धर्मरत्नं सदा मया ॥ ३६ ॥ सुभूरिचरितं पापमपकर्ण्य गुरूदितं । मोहध्वांतपररीतेन दो यदधुना स्मरन् ॥ ३७ ॥
पद्मपुराणम् ।
Page #221
--------------------------------------------------------------------------
________________
२१२
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व । न किंचिदत्र बहुना चिंतितेन प्रयोजनं । गतिरन्या न मे लोके विद्यते दुःखसंक्षये ॥ ३८ ॥ एतौ प्रयामि शरणं साधू सर्वसुखावहौ । इतो मे परमार्थस्य प्राप्तिः संजायते ध्रुवं ॥ ३९ ॥ इति पूर्वमेव ध्यानात्परमं शोकमागतः । दर्शनाच्च महासाधोः प्रमोदं त्वरयान्वितः॥४०॥ विधूय पक्षयुगलमश्रुसंपूर्णलोचनः । पपात शाखिनो मूर्ध्नः प्रश्रयान्वितविभ्रमः ॥ ४१॥ नागा सिंहादयोऽप्यत्र नादेन महतामुना | विदुद्रपुरयं दुष्टः कथं तु न खगाधमः ॥ ४२ ॥ हा मातः पश्यतामुष्य धाष्टयं गृध्रस्य पापिनः । चिंतयित्वेति वैदेह्या कोपाकुलितचित्तया ४३ वार्यमाणोऽपि यत्नेन कृतनिष्ठुरशब्दया । मुनिपादोदकं पक्षी सोत्साहः पातुमुद्यतः ॥४४॥ पादोदकप्रभावेण शरीरं तस्य तत्क्षणं । रत्नराशिसमं जातं परीतं चित्रतेजसा ॥ ४५ ॥ जातौ हेमप्रभौ पक्षी पादौ वैडूर्यसनिभौ । नानारत्नच्छविदेहश्चंचुर्विद्रुमविभ्रमा ॥ ४६ ॥ ततः स्वमन्यथा भूतमवलोक्य सुसंमदः । विमुचन्मधुरं नादं नर्तितुं स समुद्यतः॥४७॥ देवदुंदुभिनादोसावेव तस्यातिसुंदरीं । आतोद्यत्वं परिप्राप्तं त्वां च वाणी सुतेजसः॥४८॥ मुंचनानंदनेत्रांमश्चक्रीकृत्य गुरुद्वयं । शुशुभे कृतनृत्योसौ शिखी मेघागमे यथा ॥४९॥ विधिना पारणं कृत्वा मुनी कृतयथोचितौ । वैडूर्यसदृशे राजन्नुपविष्टौ शिलातले ॥५०॥
Page #222
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२१३
एकचत्वारिंशत्तमं पर्व। पद्मरागाभनेत्रश्च पक्षी संकुचितच्छदः । प्रणम्य पादयोः साधोः सुखं तस्थौ कृतांजलिः॥५१॥ क्षणादग्निमिवालोक्य ज्वलंतं तेजसा खगं । पद्मो विकचपद्माक्षो विस्मयं परमं गतः ।। ५२ ॥ प्रणम्य पादयोः साधु गुणशीलविभूषणं । अपृच्छदिति विन्यस्य मुहुनें। पतत्रिणि ॥ ५३ ।। भगवन्नयमत्यंतं विरूपावयवः पुरा । कथं क्षणेन संजातो हेमरत्नचयच्छविः ॥५४॥ अशुचिः सर्वमांसादो गृद्धोयं दुष्टमानसः । निषध पादयोः शांतस्तव कस्मादवस्थितः ॥ ५५ ॥ सुगुप्तिश्रमणोऽवोचद्राजन् पूर्वमिहाभवत् । देशो जनपदाकी विषयो सुंदरो महान् ॥ ५६ ॥ पत्तनग्रामसंवाहमटंबपुटभेदनैः । घोषद्रोणमुखाद्यैश्च सन्निवेशेर्विराजितः ।। ५७ ॥ कर्णकुंडलनामात्र पुरमासीन्मनोहरं । तस्मिन्नयमभूद्राजा प्रतापपरमोदयः ।। ५८ ॥ चंडविक्रमसंपन्नो भग्नशात्रवकंटकः । दंडो मानमयः ख्यातो दंडको नाम साधनी ॥ ५९ ।। घृतार्थिना जलं तेन मथितं रघुनंदन । धर्मश्रद्धापरीतेन घृतः पापागमो धिया ॥६० ॥ देवी मस्करिणां तस्य वरिवस्या पराभवत् । तेषामसावधीशेन संभोग समुपागतः ॥ ६१॥ सोऽपि तस्याः परं वश्यस्तामेव दिशमाश्रयत् । स्त्रीचित्तहरणोयुक्ताः किं न कुर्वति मानवाः ६२ निष्क्रांतेनान्यदा तेन नगरात्साधुरीक्षितः । प्रलंबितभुजा श्रीमान् ध्यानसंरुद्धमानसः॥ ६३ ॥
Page #223
--------------------------------------------------------------------------
________________
ર
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। कृष्णसर्पो मृतस्तस्य दिग्धांगो विषलालया। कंठे निधापितस्तेन ग्रावदारुणचेतसा ॥ ६४॥ यावदेषोऽपनीतो न प्रदातुर्मम केनचित् । तावन्न संहरेद्योगमिति ध्यात्वा मुनिः स्थितः ॥६५॥ अतीते गणरात्रे च पुनस्तेनैव वर्त्मना । निष्कामन्पार्थिवोऽपश्यत्तदवस्थं महामुनि ॥ ६६ ॥ ऋजुनैव च रूपेण गत्वा निकटतां भृशं । अपच्छदपनेतारं किमेतदिति सोवदत् ॥ ६७ ॥ नरेंद्र पश्य केनापि नगरावासमार्गिणा | योगस्थस्य मुनेरस्य कंठे सपः समर्पितः ॥ ६८॥ यस्य सर्पस्य संपर्कोद्विग्रहस्य समुद्गतं । प्रतिक्विं शितिक्लिन्नं दुर्दर्शमतिभीषणं ॥ ६९ ॥ मुनि निःप्रतिकर्माणं दृष्ट्वा राजा तथाविधं । प्रणम्याक्षमयद्यातास्ते च स्थानं यथोचितं ॥७॥ ततः प्रभृति शक्तोसौ कर्तुं भक्तिमनुत्तमां । निरंबरमुनींद्राणां वारितोपद्रवक्रियः ॥ ७१ ॥ देवी विटपरिव्राजी ज्ञात्वान्यविषयं नृपं । इदं क्रोधपरीतेन विधातुमभिवांछितं ॥ ७२ ॥ जीवितस्नेहमुत्सृज्य परदुःखहितात्मकः । निग्रंथरूपभृद्देव्या संपर्कमभजत्पुनः ॥ ७३ ॥ ज्ञात्वा तदीदृशं कर्म राज्ञातिक्रोधमीयुषा । अमात्याधुपदेशं च स्मृत्वा निग्रंथनिंदनं ॥ ७४ ॥ क्रूरकर्मभिरन्यैश्च प्रेरितः श्रमणाहितैः । आज्ञापयन्महर्षीणां यंत्रनिष्पीडने नरान् ।। ७५ ॥ गणाधिपसमेतोसौ समूहो वरवाससां । यंत्रनिष्पीडनैर्नीतः पंचतां पापकर्मणां ।। ७६ ॥
Page #224
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
एकचत्वारिंशत्तमं पर्व । वाह्यभूमिगतस्तत्र मुनिरेकः समावजन् । इत्यवार्यत लोकेन केनचित्करुणावता ॥ ७७ ॥ भो भो निग्रंथ मागास्त्वं पूर्व ग्रंथ्यमाश्रय । यंत्रणापीड्यसे तत्र द्रुतं कुरु पलायनं ॥ ७८ ॥ यंत्रेषु श्रमणाः सर्वे राज्ञा कुद्धेन पीडिताः । मागास्त्वमप्यवस्थां तां रक्ष धर्माश्रयं वपुः ॥७९॥ ततः क्षणमसौ संघमृत्युदुःखेन शल्यितः । वज्रस्तंभ इवाकंपस्तस्थावव्यक्तचेतनः ॥ ८॥ अथास्य शतदुःखेन प्रेरितः शमगव्हरात् । निरंबरमहीध्रस्य निरगात्कोधकेसरी ॥ ८१ ॥ रक्ताशोकप्रकाशेन निखिलं तस्य चक्षुषः । तेजसा विहितं व्योम संध्यामयमिवाभवत् ॥८२॥ कोपेन तप्यमानस्य मुनः सर्वत्र विग्रहे । प्रस्वेदविंदवो जाताः प्रतिबिंबितविष्टपाः ॥ ८३।। ततः कालानलाकारो बहुलः कुटिलः पृथुः । हाकारेण मुखात्तस्य निरगात्पावकध्वजः ॥ ८४॥ अनुलग्नश्च तस्याग्निरुज्जगान निरंतरं । कृतं नभस्तलं येन निरिंधनविदीपितं ॥ ८५ ॥ उल्काभिर्नु जगद्व्याप्तं ज्योतिर्देवाः पतंति नु । महाप्रलयकालो नु वह्निदेवा नु रोषिताः॥८६॥ हा हा मातः किमतेन्न तापोयमतिदुस्सहः । चक्षुरुत्पाद्यते दीर्घसंदंशैरिव वेगिभिः ॥ ८७ ॥ मूर्तिनिर्मुक्तमेवैतद्गगनं कुरुते ध्वनि । वंशारण्यमिवोद्दीप्तं जीविताकर्षणोचितं ।। ८८ ॥ यावदेव ध्वनिलोके वर्ततेत्यंतमाकुलः । वह्रिस्तावदयं देशमनयद्भस्मशेषतां ॥ ८९ ॥
Page #225
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२१६
एकचत्वारिंशत्तम पर्व।
नांतःपुरं न देशो न पुराणि न च पर्वताः। न नद्यो नाप्यरण्यानि तदा न प्राणधारिणः ॥९॥ महासंवेगयुक्तेन मुनिना चिरमर्जितं । क्रोधाग्निनाखिलं दग्धं तपोन्यत्किमु शिष्यतां ॥ ९१ ।। यतोयं दंडको देशः आसीइंडकपार्थिवः । तेनैव ध्वनिनाद्यापि दंडकः परिकीयते ॥ ९२ ॥ काले महत्यतिक्रांत प्राप्तायां चारुतां भुवि । एतेन्त्र पादपा जाताः पवेताश्च सनिम्नगाः ॥९३।। मुनेस्तस्य प्रभावेण सुराणामपि भीतिदं । वनमेतदभूत्कैव वार्ता विद्याबलाश्रिता ॥ ९४ ॥ पश्चादिदं समाकीर्ण सिंहेन शरभादिभिः । नाना शकुनिदैश्च सस्यभेदैश्च भूरिभिः ॥ ९५ ॥ अद्याप्यस्योरुदावस्य श्रुत्वा शब्दं परं भयं । व्रजति मानवाः कंपं वृत्तांते नु निवोधिनः ॥१६॥ संसारेऽतिचिरं भ्रांत्वा दंडको दुःखपूरितः । अयं गृध्रत्वमायातो वनेत्र रतिमागतः ॥ ९७ ॥ दृष्ट्वा सातिशयावेष नौ वनेत्र समागतौ । पापस्य कर्मणो हान्या प्राप्तः पूर्वभवस्मृति ॥ ९८ ॥ योसौ परमया शक्त्या युक्तोभूदंडको नृपः ! सोयं पश्यत संजातः कीदृशः पापकर्मभिः ॥९९ ॥ इंति विज्ञाय विरसं फलं कटुककर्मणः । कथं न सृज्यते धर्मे दुरिताच विरज्यते ॥ १०॥ दृष्टांतः परकीयोऽपि शांभवति कारणं । असमंजसमात्मीयं किं पुनः स्मृतिमागतं ॥ १०१ ॥ पक्षिणं संयतोऽगादीन्माभैषीरधुना द्विजः। मारोदीयद्यथा भाव्यं कः करोति तदन्यथा ॥१०२॥
Page #226
--------------------------------------------------------------------------
________________
२१७
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। आश्वास गच्छ विश्रब्धः कंपं मुंच सुखी भव । पश्य केयमरण्यानी क रामः सीतयान्वितः १०३ अवग्रहोस्मदीयः क क त्वमात्मार्थसंगतः। प्रबुद्धो दुःखसंबोधः कर्मणामिदमीहितं ॥ १०४ ॥ इदं कर्म विचित्रत्वाद्विचित्रं परमं जगत् । अनुभूतं श्रुतं दृष्टं यथैव प्रवदाम्यहं ॥ १०५॥ पक्षिणः प्रतिवोधार्थ ज्ञात्वाकूतं च सीरिणः । सुगुप्तिरवदत्स्वस्य सुगुप्तेः शमकारणं ॥ १०६ ॥ अचलो नाम विख्यातो वाणारस्यां महीपतिः। गिरिदेवीति जायास्य गुणरत्नविभूषिता १०७ त्रिगुप्त इति विख्यातो गुणनाम्नान्यदा मुनिः। पारणार्थ गृहं तस्याः प्रविष्टः शुद्धचेष्टितः १०८ स तया परमां श्रद्धां दधत्या विधिपूर्विकां । तर्पितः परमान्नेन स्वयं व्यापारमुक्तया ॥१०९॥ समाप्ताशनकृत्यश्च पादन्यस्तोत्तमांगया। पप्रच्छान्यापदेशेन स्वस्य पुत्रसमुद्भवं ॥ ११ ॥ नाथ सातिशयोयं मे गृहवासो भविष्यति । किं वा नेति प्रसादोयं क्रियतां निश्चयार्पणो॥१११।। वचोगुप्तिं ततो भित्वा राज्ञीभक्तानुरोधतः । तस्याश्चारुसमादिष्टं मुनिना तनयद्वयं ॥ ११२ ॥ त्रिगुप्तस्य मुनस्तस्य समादेशे नयत्स तौ । जातौ सुगुप्तिगुप्ताख्यौ पितृभ्यां तौ ततः कृतौ ११३ तौ च सर्वकलाभिज्ञौ कुमारश्रीसमन्वितौ । तिष्ठतौ विविधैर्भावै रममाणौ जनप्रियौ ॥ ११४ ॥ वृत्तांतोऽयं च संजातो गंधावत्यां महीपतेः । पुरोहितस्य सोमस्य प्रियायास्तनयद्वयं ॥ ११५ ॥
Page #227
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकचत्वारिंशत्तमं पर्व |
सुकेतुरत्रिकेतुश्च तयोः प्रीतिरनुत्तमा । सुकेतुरन्यदा चाभूत्कृतदारपरिग्रहः ।। ११६ ।। आवयोरधुना भ्रात्रोः पृथक्शयनमेतया । क्रियते जायया वश्यमिति दुःखमुपागतः ॥ ११७ ॥ सुकेतुः प्रतिबुद्धः सन् शुभकर्मानुभावतः । अनंतवीर्यपादांते श्रमणत्वं समाश्रितं ।। ११८ ॥ अग्निकेतुर्वियोगेन भ्रातुरत्यंतदुःखितः । वाराणस्यामभूदुग्रस्तापसो धर्मचिंतया ।। ११९ ।। श्रुत्वा चैवंविधं तं च भ्रातरं स्नेहबंधनः । प्रतिबोधयितुं वांछन सुकेतुर्गंतुमुद्यतः ।। १२० ।। स व्रजन् गुरुणावाचि सुकेतो कथयिष्यसि । वृत्तांतं सोदरायेमं येनासावुपशाम्यति ।। १२१ ।। htar नाथेति तेन गुरुरेवमुदाहरत् । करिष्यति त्वया साकं स जल्पं दुष्टभावनः ॥ १२२ ॥ युवयोः कुर्वतोर्जल्पं जाह्रवीमागमिष्यति । चारुकन्या समं स्त्रीभिस्तिसृभिगौरविग्रहा ।। १२३ ॥ दिवसस्य गते यामे विचित्रांशुकधारिणी । एमिचि हैर्विदित्वा तां भाषितव्यमिदं त्वया ॥ १२४॥ दृष्ट्वा तां वक्ष्यसीदं त्वं ज्ञानं चेदस्ति ते मते । वदैतस्याः कुमार्याः किं भवितेति शुभाशुभं १२५ अज्ञानासौ विलक्षः संस्तापसस्त्वां भणिश्यति । भवान् जानात्विति त्वं च वक्ष्यस्येवं सुनिश्चितः ॥ अस्त्यत्र प्रवरो नाम वणिजः संपदान्वितः । तस्येयं दुहिता नाम्ना रुचिरेति प्रकीर्तिता ।। १२७ ।। raser पंचत्वं वराकीयं प्रपत्स्यते । ततो जाकंवरग्रामे विलासस्य भविष्यति ॥ १२८ ॥
I
२१८
Page #228
--------------------------------------------------------------------------
________________
२१९
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व । वृकेण मारिता मेषी महिषी च ततः पितुः । मातुलस्य विलासस्य भविष्यति शरीरजा ॥१२९॥ एवमस्त्विति संभाष्य प्रणम्य प्रमादी गुरुं । सुकेतुः क्रमतः प्राप्तस्तापसानां निकेतनं ॥ १३० ।। गुरुणा च यथादिष्टं तां दृष्ट्वा तमुदाहरत् । तथा वृत्तं च तत्सर्व यातमनेः समक्षतां ॥ १३ ॥ ततोऽसौ विधुरा नाम्ना विलासस्य शरीरजा । याचिता श्रेष्ठिना लब्धा प्रवरेण मनोहरा ॥१३२॥ विवाहसमये प्राप्ते प्रवराय न्यवेदयत । अग्निकेतुर्यथेयं तं दुहितासीद्भवांतरे ॥ १३३ ॥ विलासायापि ते सर्वे भवास्तेन निवेदिताः । श्रुत्वा तत्कन्यका जाता जातिस्मरणकोविदा १३४ ततः प्रत्रजितुं वांछां सा संवेगपराकरोत् । प्रवरश्च विलासेन व्यवहारं दुराशयः ॥ १३५ ॥ सभायां पितुरस्माकं प्रवरे भंगतां गते । आर्यिकात्वमिता कन्या श्रमणत्वं च तापसः ॥१३६।। वृत्तांतमीदृशं श्रुत्वा वयं वैराग्यपूरिताः । सकाशेऽनंतवीर्यस्य जैनेंद्रव्रतमाश्रिताः ॥ १३७ ॥ एवं मोहपरीतानां प्राणिनामतिभूरिशः । जायंते कुत्सिताचारा भवसंततिदायिनः ॥ १३८ ॥ मातापितृसुहृन्मित्रभार्यापत्यादिकं जनः । सुखदुःखादिकं चायं विवर्त लभते भवे ॥ १३९ ॥ तच्छ्रुत्वा सुतरां पक्षी भीतोऽभूद्भवदुःखतः । चकार च मुहुःशब्दं धर्मग्रहणवांछया ॥ १४० ।। उक्तं च गुरुणा भद्र माभैषीरधुना व्रतं । गृहाण येन नो भूयः प्राप्यते दुःखसंततिः ॥ १४१ ।।
Page #229
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२२०
एकचत्वारिंशत्तम पर्व। प्रशांतो भव मा पीड़ा कार्षीः सर्वासुधारिणां । अनृतं स्तेयतां भार्या परकीयां विवर्जय ॥१४२।। एकांतब्रह्मचर्य वा गृहीत्वा सत्क्षमान्वितः । रात्रिभुक्ति परित्यज्य भव शोभनचेष्टितः ॥१४३॥ प्रयतोऽघिक्षिपायां च जिनेंद्रान्बहुचेतसा । उपवासादिकं शक्त्या सुधीनियममाचर ॥ १४४ ।। इंद्रियाण्यप्रमत्तः सन्नुत्सुकान्यात्मगोचरे । कुरु युक्तव्यवस्थानि साधूनां भक्तितत्परः ॥ १४५ ॥ इत्युक्त्वा सांजलिः पक्षी शिरो विनमयन्मुहुः । कुर्वाणो मधुरं शब्दं जग्राह मुनिभाषितं ॥१४६॥ श्रावकोयं विनीतात्मा जातोस्माकं विनोदकृत् । इत्युक्ता सस्मिता सीतातं कराभ्यां समस्पृशत् ।। साधुभ्यामुक्तमित्येतं रक्षितुं वाधुनोचितं । तपस्वी शांतचित्तोयं क वा गच्छतु पक्षभृत् ॥१४८॥ अस्मिन्सुगहनेऽरण्ये क्रूरपाणिनिषेविते । सम्यग्दृष्टेः खगस्यास्य रक्षा कार्या त्वया सदा ॥१४९।। ततो गुरुवचः प्राप्य सुतरां स्नेहपूर्णया । सीतयानुगृहीतोऽसौ परिपालनचिंतया ॥ १५० ॥ पल्लवस्पर्शहस्ताभ्यां तं परामृशती सती । जनकस्यांगजा रेजे विनीता गरुडं यथा ॥ १५१ ।। निग्रंथपुंगवावेभिः स्तुतिपूर्व नमस्कृतौ । बहूपकारिसंचारौ यातावात्मोचितं पदं ॥ १५२ ॥ नभः समुत्पतंतौ तौ शुशुभाते महामुनी । दानधर्मसमुद्रस्य कल्लोलाविव पुष्कलौ ।। १५३ ॥ प्रभिन्नं वारुणं तावद्वशीकृत्य वनोत्थितं । आरुह्य लक्ष्मणः श्रुत्वा ध्वनिमागात्समाकुलः ॥१५४॥
Page #230
--------------------------------------------------------------------------
________________
२२
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। रत्नकांचनराशि च दृष्ट्वा पर्वतसन्निधिं । नानावर्णप्रभाजालसमुद्गतसुरायुधं ॥ १५५ ॥ विकसन्नयनांभोजमहाकौतुकपूरिताः । कृतो विदितवृत्तांतः पोन मुदितात्मना ॥ १५६ ॥ प्राप्तबोधिरसौ पक्षी नायासीत्तौ विना कचित् । निग्रंथवचनं सर्व कुर्वन्नुद्यतमानसः ॥ १५७ ॥ स्मर्यमाणोपदेशोसौ सीतयाणुव्रताश्रमे । पद्मलक्ष्मणमार्गेण रममाणो भ्रमन्महीं ॥ १५८ ॥ धर्मस्य पश्यतौदार्य यदस्मिन्नेव जन्मनि । शाकपत्रोपमो गृध्रो जातस्तामरसोपमः ॥ १५९ ॥ पुरा योनेकमांसादो दुर्गधोभूज्जुगुप्सितः । सोयं कांचनकुंभाभः सुरभिः सुंदरोभवत् ॥१६० ।। क्वचिद्वह्निशिखाकारः क्वचिद्वैडूर्यसन्निभः । क्वचिच्चामीकरच्छायो हरिन्मणिरुचिः क्वचित् १६१ रामलक्ष्मणयोरग्रे स्थितोसौ बहुचाटकः । बुभुजे साधु संपन्नमन्नं सीतोपसाधितं ॥ १६२ ॥ चंदनेन स दिग्धांगो हेमकिंकिण्यलंकृतः । विभ्राणः शकुनो रेजे रत्नांशुजटिलं शिरः ॥१६३॥ यस्मादंशुजटास्तस्य विरेजू रत्नहेमजाः । जटायुरिति तेनासावाहृतस्तैरतिप्रियः ॥ १६४ ॥ जितहंसगतिं कांतं चारुविभ्रमभूषितं । तमन्यपक्षिणो दृष्ट्वा भयवंतो विसिस्मियुः ॥ १६५ ॥ त्रिसंध्यं सीतया साकं वंदनामकरोदसौ। भक्तिप्रहो जिनेंद्राणां सिद्धानां योगिनां तथा ॥१६६॥ तत्र प्रीतिं महाप्राप्ता जानकी करुणा परा । अप्रमत्ता सदा रक्षां कुर्वती धर्मवत्सला ॥ १६७ ॥
Page #231
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૨૨
द्विचत्वारिंशत्तम पर्व । आस्वादमानो निजयेच्छयासौ । फलानि शुद्धान्यमृतोपमानि ॥
जलं प्रशस्तं च पिबनरण्ये । बभूव नित्यं सुविधिः पतत्री ॥ १६८ ॥ सतालशब्दं जनकात्मजायां । धर्माश्रयोच्चारितगीतिकायां ॥
कृतानुगीत्यां पतिदेवराभ्यां । ननत हृष्टो रविरुग्जटायुः ॥ १६९ ॥ इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते जटायुरुपाख्यानं नामैकचत्वारिंशत्तमं पर्व ।
अथ द्विचत्वारिंशत्तमं पर्व । पात्रदानप्रभावेण ससीतौ रामलक्ष्मणौ । इहैव रत्नहेमानि संपद्युक्तौ बभूवतुः ॥ १ ॥ ततश्चामीकरानेकभक्तिविन्यासमुंदरं । सुस्तंभवेदिकागर्भगृहसंगतमुन्नतं ॥२॥ स्थूलमुक्ताफलस्रग्भिर्विराजत्पवनायनं । बुद्बुदादर्शलंबूषखंडचंद्रादिमंडितं ॥३॥ शयनासनवादित्रवस्त्रगंधादिपूरितं । चतुर्भिारणैर्युक्तं विमानप्रति रथं ॥४॥ आरूढ़ी विचरंत्येते प्रतिघातविवर्जिताः । जटायुसहिता रम्ये वने सत्ववतां नृणां ॥५॥
Page #232
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्विचत्वारिंशत्तमं पर्व |
क्वचिद्दिनं क्वचित्पक्षं क्वचिन्मासं मनोहरे । यथेप्सितकृतक्रीडाः प्रदेशे तेऽवतस्थिरे ॥ ६ ॥ निवासमत्र कुर्मोत्र कुर्म इत्यभिलाषिणः । महोक्षनवशष्येच्छा विचेरुस्ते वनं सुखं ॥ ७ ॥ महानिर्झरगंभीरां कांश्चिदुच्चावचान्बहून् । उत्तुंगपादपान्देशान् जग्मुरुध्य ते शनैः ॥ ८ ॥ स्वेच्छया पर्यटतस्ते सिंहा इव भयोज्झितां । मध्यं दंडक कक्षस्य प्रविष्टा भीरुदुःखदं ॥ ९ ॥ विचित्रशिखरा यत्र हिमाद्रिगिरिसन्निभाः । रम्या निर्झरनद्यश्च मुक्ताहारोपमाः स्थिताः ||१०|| अश्वत्थैस्तितिड़ीकाभिर्वदरीभिर्विभीतकैः । शिरीषैः कदलैर्लक्षैर कोठैः सरलैर्धनैः ॥ ११ ॥ कदंबैस्तिलकैर्लोभ्रैरशोकैर्नीललोहितैः । जंबूभिः पाटलाभिश्च चूतैरामृतकैः शुभैः ॥ १२ ॥ चंपकैः कर्णिकारैश्च सालैस्तालैः प्रियंगुभिः । सप्तपर्णैस्तमालैश्च नागैर्नदिभिरर्जुनैः ॥ १३ ॥ केसरैश्चंदनैनापैर्भूनहिं गुलकैर्वटैः । सितासितैरगुरुभिः कुंदै रंमाभिरिंदुगैः ॥ १४ ॥ पद्मकैर्मुचिलिंदैश्च कुटिलैः पारिजातिकैः । बंधुकः केतकीभिश्च मधुकैः खदिरैस्तथा ।। १५ ।। मदनैखदिरैर्निवैः खजूरै छत्र कैस्तथा । नारिंगैर्मातुलिंगीभिर्ब्राडिमी भिस्तथासनैः ॥ १६ ॥ नालिकेरैः कपित्थैश्व रसैरामलकैर्वनैः । समीहरीतकीभिश्व कोविदारैरगस्तिभिः ॥ १७ ॥ करंज कुष्ट कालीयैरुत्कचैरजमोदकैः । कंकोलत्वग्लवंगीभिर्मरिचाजातिभिस्तथा ॥ १८ ॥
२२३
Page #233
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२२४
द्विचत्वारिंशत्तम पर्व। चविभिर्धातकीभिश्च कुषकैरतिमुक्तकैः । पूगैस्तांबूलवल्लीभिरेलाभी रक्तचंदनैः ॥ १९ ॥ वेत्रैः श्यामलताभिश्च मेष,गैर्हरिद्रुभिः । पलाशैः स्पंदनैर्बिल्वैश्विरबिल्वैः समेथिकैः ॥ २० ॥ चंदनैररकैश्च शाल्मलीवीजकैस्तथा । एभिरन्यैश्व भूरुद्भिस्तदरण्यं विराजितं ॥ २१ ॥ सत्यैबहुप्रकारैश्च स्वयंभूतै रसोत्तमैः । पुंड्रेक्षुभिश्च विस्तीर्णाः प्रदेशास्तस्य संकुलाः ॥ २२ ॥ चित्रपादपसंघात नावल्लीसमाकुलैः । अशोभत वनं वाढं द्वितीयमिव नंदनं ॥ २३ ॥ मंदमारुतनिक्षिप्तः पल्लवैरतिकोमलैः । ननर्ते वाड़वी तोषा पद्माद्यागमजन्मनः ॥ २४ ॥ वायुतो हीयमाणेन रजसाभ्युत्थितेव च । आलिलिंगे च सद्गंधवाहिना नित्ययायिना ॥ २५ ॥ अगायदिव भंगाणां झंकारेण मनोहरं । जहासेव सितं रम्यं शैलनिसरशीकरैः ॥ २६ ॥ जीवं जीवकभेरुंडहंससारसकोकिलाः । मयूरश्येनकुरराः शुककौशिकशारिकाः ॥ २७ ॥ कपोतभृगराजश्च भारद्वाजादयस्तथा । अरमंत द्विजास्तस्मिन् प्रयुक्तकलनिस्वनाः ॥ २८ ॥ कोलाहलेन रम्येण तद्वनं तेन संभ्रमि । जगाद स्वागतमिव प्राप्तकर्तव्यदक्षिणं ॥ २९ ॥ कुतः किं राजपुत्रीति कस्मिन्नागच्छ साध्विति । इति कोमलभारत्या संजजल्पुरिव द्विजाः॥३०॥ सितासितरुणांभोजसंछत्रैरतिनिर्मलैः । सरोभिर्वीक्षितुमिव प्रवुतं सुकुतूहलात् ॥ ३१ ॥
Page #234
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२२५
द्विचत्वारिंशत्तम पर्व।
फलभारनतैरग्रैननामेव महीधरं । मुमोचानंदनिश्वासमिव सद्धवायुना ॥ ३२ ॥ ततः सौमनसाकारं वनं तद्वीक्ष्य राघवः । जगाद विकचांभोजलोचनां जनकात्मजां ॥ ३३ ॥ वल्लीभिर्गुल्मकैः स्तंबैः समासन्नरमी नगाः । सकुटुंबा इवाभांति प्रिये यच्छात्र लोचने ॥३४॥ प्रियंगुलतिकां पश्य संगतां वकुलोरसि । कांतस्येव वरारोहा शंके निर्भरसौहृदं ॥ ३५ ॥ चलता पल्लवेनेयं संप्रत्यग्रेण माधवी । परामृशति सौहार्दादिव चूतमनुत्तरात् ।। ३६ ।। अयं मदालसे क्षीणः करी करेणुचोदितः । मधुकरविघटितदलनिचयः प्रविशति सीते कमलवनं ।।
वहन्नसौ दर्पमुदारमुच्चैवल्मीकशृंगं गवलीसुनीलः ॥
लीलान्वितो वज्रसमेन धीरं । भिन्ने विषाणे न लसत्खुराग्रः ॥ ३८ ॥ अमुमिंद्रनीलवर्ण । विवरान्निर्यातदूरतनुभागं ।।
पश्य मयूरं दृष्ट्वा । प्रविशंतमहिं भयाकुलितं ॥ ३९ ॥ पश्यामुष्यमहानुभावचरितं सिंहस्य सिंहेक्षणे ।
रम्येऽस्मिन्नचले गुहामुखगतस्याराद्विकाशिद्युते ॥ यच्छ्रुत्वा रथनादमुन्नतमना निद्रां विहायक्षणं । २-१५
Page #235
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२२६
द्विचत्वारिंशत्तमं पर्व |
वीक्ष्यापांगदृशा विजृंभ्यशनकैर्भूयस्तथैव स्थितः ॥ ४० ॥ नानामृगक्षतजपानसुरक्तवक्त्रो । दर्पोद्धुरः कपिलनेत्रमरीचिदक्षः ॥ मूर्धोपनीतलसदुज्ज्वलवालपुच्छो । व्याघ्रो नखैः खनति पादपमेष मूले ४१
अंतः कृत्वा शिशुगणमिमे कामिनीभिः समेतं ।
दुरन्यस्तप्रचलनयना भूरिशः सावधानाः || किंचिद्दूर्वाग्रहणचतुराः प्रांतयाताः कुरंगाः ।
पश्यंति त्वां विपुलनयनालंबिनः कौतुकेन ॥ ४२ ॥ सुंदरि पश्य वराहं दंष्ट्रान्तरलग्नमुस्तमुन्नतसत्वं ।
अभिनव गृहीतकं गच्छतं मंथरं सघोणं ॥ ४३ ॥ अयं प्रयत्नादिव चित्रगांगको । विनातिवर्णैर्बहुभिः सुलोचने ॥ भजत्यरिक्रीडनमर्भकैः समं । वनैकदेशे तृणभाजि चित्रकः ॥ ४४ ॥ श्येनयुवैष लघुभ्रमपक्षो । दूरत एव निरूप्य समंतात् || स्वापमितस्य परं शरभस्य । ते नयति द्रुतमामिषमत्स्यात् ॥ ४५ ॥
Page #236
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२२७
द्विचत्वारिंशत्तमं पर्व ।
कमलजालकराजितमस्तकः । ककुदमुन्नतमाचलितं वहन् ॥
अयमुदानरवोत्र विराजते । सुरभिपुत्रपतिर्वरविभ्रमः ॥ ४६ ॥ कचिदिदमतिघनवरनगकलितं । कचिदणुबहुविधतृणपरिनिचितं ॥
कचिदपगतभयमृगपुरुपटलं । कचिदतिभययुतरुरुहितगहनं ॥ ४७ ॥ कचिदुरुमदगजपातितवृक्षं । कचिदभिनवतरुजालकयुक्तं ॥
कचिदलिकुलकलझंकृतरम्यं । कचिदतिखररवसंभृतकक्षं ॥ ४८॥ कचिद्विभ्रांतसत्वकं कचिद्विश्रब्धसत्वकं । क्वचिनिरबुगहरं क्वचिद्विस्रस्तगहरं ॥ ४९ ।।
अरुणं धवलं कपिलं । हरितं बलितं निभृतं सरवं विरवं ॥
विरलं गहनं मुभगं । विरसं तरुणं पृथुकं विषमं सुसमं ॥ ५० ॥ इदं तदंडकारण्यं प्रसिद्धं दयिते वनं । पश्यानेकविधं कर्म प्रपंचमिव जानकि ॥ ५१ ॥ नगोयं दंडको नाम शृंगालीढांबरांगणः । सुवक्त्रे यस्य नाम्नेदं दंडकारण्यमुच्यते ।। ५२ ।। तुंगया शिखिरेध्वस्य प्रभया धातुजन्मना । रक्तया पुष्यपद्येव प्रावृतं भाति पुष्करं ॥ ५३॥ अस्य गहरदेशेषु पश्यौषधिमहाशिखाः । निवातस्थप्रदीपाभा दूरंध्वस्ततमश्चयाः ॥ ५४॥
Page #237
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२२८
द्विचत्वारिंशत्तम पर्व।
अस्मिन्नुच्चैर्निझराः संपतंत-स्तारारावा ग्रावसंघातसक्ताः ॥
मुक्ताकारान्सीकरानुत्सृजंतो-राजंत्येते स्पष्टभासानुकाराः ॥ ५५ ॥ अस्योद्देशाः शुभ्रा केचि-केचिन्नीला रक्ताः केचित् ॥
___ दृश्यतेऽमी वृक्षाप्ता । प्रांते कांतेऽत्यंतं कांताः ॥ ५६ ॥ अमी समीरणेरिते वरोष्ठि वृक्षमस्तके । विभांति गहरे लवा रवेः कराः कचित्कचित् ॥ ५७ ॥
अयं कचित्फलभरनम्रपादपः । कचित्स्थितैः कुसुमपटैरलंकृतः ॥
कचित्खगैः कलरवकारिभिश्चितो । विभात्यलं वरमुखि दंडको गिरिः।।५८॥ इह चमरीगणोयमतिदुष्टमृगोपगतः । प्रियतरवालिधिः प्रियतमैरनुयातपथः॥ अनतिविसृष्टमंदगतिरिंदुरुचिः । पुरुषं प्राविशति गह्वरं न पृथुकाहितचंचलदृक् ॥५९॥ एषा नीला शिला स्यात्तिमिरमुपचितं कंदराणां मुखेषु ।
__ स्यादेतत्कि विहायः स्फटिकमणिशिला किंनु वृक्षांतरस्था । एष स्याद्डशैलः किमुत गजपतिः सेवते गाढ़निद्रां । __ कांते क्षोणीधरेऽस्मिन्नतिसदृशतया दुर्गमा भूविभागाः ॥ ६०॥
Page #238
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्विचत्वारिंशत्तमं पर्व |
एषा क्रौंचरवा नाम नदी जगति विश्रुता । जलं यस्याः प्रिये वीडं त्वदीयमिव चेष्टितं ॥ ६१ ॥ मृदुमरुदीरभंगुरमलं तटस्थतरुपुष्पसहितधरं । भवशयनीयरूपसुभगं सुकेशि जलमत्र राजतितरां ॥ हंसकुलाभ फेनपटलप्रभिन्नं बहुपुष्प पुंजकलितांतरे । निनाद पूरितवना कचिद्विकट संकटोपलचलैः ६३ ग्राहसहस्रचारविषमा कचिच्च पुरुवेग संगतजला |
घोरतपस्विचेष्टितसमा कचिच्च वहति प्रशांगुरियं ॥ ६४ ॥ परमशितिशिलौघरश्मिभिन्नं कचिदनुलग्नसितोपलांशुयुक्तं ।
जल मिह सितदति भाति वाढं हरिहरयोरिव संगतं शरीरं ॥ ६५ ॥ रक्तशिलौघरश्मिनिचिता क्वचिदियममला | भाति समुद्यदर्कसमये दिगिव सुरपतेः || भिन्नजला क्वचित्क हरितैरुपलकरचयैः । शैवलशंकयागमकृतो विरसयति खगान् || ६६॥ कमल निकरेष्वत्र स्वेच्छं कृतातिकलस्वनं । निभृतपवनासंगात्कंपेष्वभीक्ष्णकृतभ्रमं ॥ परमसुरभैर्गंधाद्वक्त्रात्तवेव समुङ्गता - न्मधुकपटलं कांते क्षीवं विभाति रजोरुणं ।। ६७ ॥ विषिक्तं पाताले क्वचिदिह जलं मुक्तवहनं । परं गंभीरत्वं वहति दयिते ते मन इव ॥ क्वचिन्नीलांभोजैरनतिचलितै षट्पदचितै- विभक्षिच्छायां प्रवरवनितालोचनभुवम् ६८
२२९
Page #239
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२३०
द्विचत्वारिंशत्तम पर्व।
अत्र विभाति व्योमगदं, बहुविधजलभववनकृतचरणं ।
प्रेमनिवद्धं तारचिरावं, क्वचिदतिमदवशपरिचितकलहं ॥ ६९ ।। सैकतमस्या राजति चेदं । सवनितखगकुलकृतपदपदवि ॥
त्वज्जघनस्य प्राप्तसुसमत्वं गतधनसुरपथशशधरवदने ॥ ७० ॥ एषा यातानेकविलासाकुलितांबु-स्तोयाधीशं वीचिवरभ्ररतिकांता ॥ __तद्वच्चारुस्फीतगुणौघं शुभचेष्टं । विष्टपसुंदरमुत्तमशीला भरतेशं ॥ ७१॥ इमे प्रिये फलकुसुमैरलंकृता-स्तटीरुहो विविधविहंगसंकुलाः।
निरंतराः सजलघनौघसंनिभाः । इमामिता रतिमिव कर्तुमावयोः ॥ ७२ ॥ इति निगदति राघवोत्तमे । परमविचित्रपदार्थसंगतं ॥ . प्रमदभरवशंगता सती । जनकसुता निजगाद सादरं ॥ ७३ ॥ नयेषा विमलजला तरंगरम्या । हंसायैः खगनिवहैः कृताभिलापाः ॥
एतस्यां प्रियतम ते मनोगतं चे-तोयेऽस्याः किमिति रतिक्षणं न कुर्मः ॥४॥ अथ राजसुतासमीरितं । तद्वाक्यं राघवगोत्रचंद्रमाः ॥
Page #240
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्विचत्वारिंशत्तम पर्व । अनुजानुगतोभिनंदनात् । भेजे रम्यभुवं रथालयात् ॥ ७५ ॥ पूर्व चके लक्ष्मीनाथस्नपनमभिनवधृतं । गजपतिवनपथपरिचितश्रमप्रतिनोदनं ॥
___ तस्मादूचं नानास्वादप्रवरकिसलय-कुसुमसमुच्चयमुचितां च परिक्रियां ॥ ७६ ॥ पश्चात्स्रोतः संसक्ताग्रदुमनिवहपरिचलन-करणवरसहितमतुलं विचेष्टितमीप्सितं ।
रामणामा स्नातुंसक्तो विविधजलविहतिविषय-परमविधि समुपचितं गुणाकरमानसः॥ सफेनवलया लसत्प्रकटवीचिमालाकुला । विमर्दितसितासितारुणपयोजपत्राचिता ॥
समुद्गतकलस्वनातिरहसंगमासेविता । समं रघुकुलेंदुना रतिमिवाकरोदापगा ॥ ७८ ॥ विनिमय्य सूदरयायिना। विशिनीखंडतिरोहितात्मना ।
पुनराशुसमागमाश्रिता । रघुपुत्रेण रता नृपात्मजा ॥ ७९ ॥ मुक्ता नानाकृत्यासंगं । कुसुमवनचरणजरजोविराजिगरुद्भुतं ॥
गत्वा क्षिप्रं तीरोद्देशं । त्वरितकृतविविधरसिताः पुरोगतयोषितः ॥ ८ ॥ तेषां द्रष्टुं शक्ता श्रेष्ठा-मपरविषयगमनरहितं विधाय मनो भृशं ।
तियंचोऽपि ह्येते रम्यं । परुषकृतिरहितमनसां विदंति समीहितं ॥ ८१॥
Page #241
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२३२
द्विचत्वारिंशत्तमं पर्व। अतिमधुररवं कराभिघात-मरुजारवादपि सुंदरं विचित्रं ॥
अनुगतदयितो रघुप्रधानः-सलिलमवादयदन्वितं सुगीत्या ।। ८२ ॥ परितोऽकरोद्धमणमस्य जलरमणसक्तचेतसो
__ दारचतुरकरणेऽनुगतक्रियस्य हलहेतिर्लक्ष्मणः। अतिवेगवान्पुनरपेतजवनिपुणचारतत्परो
भातगुणनिरतधीः परमं समुद्ररवचापलक्षितः॥ ८३ ॥ इति सुविमललीलः स्वेच्छयांभोविहारं । प्रमदमुपनयंतं तीरभाजां मृगाणां ॥
__रघुपतिरनुभूय भ्रातृदारानुयातो । गजपतिरिव तीरं सेवितुं संप्रवृत्तः ॥ ८४ ।। शरीरयातं च विधाय वर्तनं । महाप्रशस्तैर्वनजन्मवस्तुभिः ।।
स्थितालतामंडपरुद्धभास्करे । सुरा इवामी कृतचित्रसंकथाः ॥ ८५॥ सीतापतिस्ततोवोचदिति विश्रब्धमानसः । जटायुमूर्धकरया सीतयालंकृतांतिकः ॥ ८६ ॥ संत्यस्मिन्विविधा भ्रातर्द्धमाः स्वादुफलान्विताः । सरितः स्वच्छतोयाश्च मंडपाच लतात्मकाः।। अनेकरत्नसंपूर्णो दंडकोयं महागिरिः । प्रदेशैर्विविधैर्युक्तः परक्रीड़नकोचितैः ॥ ८८॥
Page #242
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
२३३
द्विचत्वारिंशत्तमं पर्व । उपकंठेस्य नगरं विदध्मः सुमनोहरं । नैजिकी वनसंभूता गृह्णीमो महिषीस्तथा ॥ ८९ ॥ अस्मिन्नगोचरेऽन्येषामरण्येत्यंतसुंदरे । विषयावासनं कुर्मः परमा धृतिरत्र मे ॥ ९०॥ अस्मिन्निहितचेतस्के नूनं शोकवशीकृते । सहितैः स्वजनैः सर्वैः परिवर्गसमन्वितैः ॥ ९१ ॥ बजानय जनन्यौ नौ त्वरितं न न नाथवा । तिष्ठ सुंदर नैवं मे मानसं शुद्धिमश्नुते ॥ ९२ ॥ स्वयमेव गमिष्यामि शरत्समयसंगमे । प्रतिजाअद्भवां सीतामिह स्थास्यति यत्नवान् ॥ ९३ ॥ ततो लक्ष्मीधरे नने प्रस्थितेऽवस्थिते तथा । प्रेमाीकृतचेतस्कः पुनः पद्मो जगाविति ॥ ९४ ।। समयेस्मिन्नतिक्रांते दीप्तभास्करदारुणे । प्राप्तोऽत्यंतमयं भीमः कालः संपति जालदः ॥ ९५ ॥ क्षुब्धाकूपारनिर्घोषाश्चला जननगोपमाः । दिशोऽधकारयंत्येते विद्युद्धंतो वलाहकाः ।। ९६ ।। निरंतरं तिरोधाय गगनं घनविग्रहाः । मुंचंति के यथा देवा रत्नराशिं जिनोद्भवे ॥ ९७ ॥ विधाय तुंगानचलान्महांतो-धाराभिरुच्चैर्ध्वनयः पयोदाः ।
नभोंगणेऽमी निभृतं चरंतः । क्षणप्रभासंगमिनो विभांति ॥ ९८ ॥ पयोमुचः कोचेदमी विपांडुराः । समीरिता वेगवता नभस्वता ।।
भ्रमंति निष्णातमसंयतात्मनां । मनोविशेषा इव यौवनश्रिताः ॥ ९९ ॥
Page #243
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२३४
त्रिचत्वारिंशत्तमं पर्व |
1
अयं सस्यवं मुक्त्वा मेघो भूभृति वर्षति । अनिश्चितविशेषः सन् कुपात्रे द्रविणी यथा ॥ १०० ॥ अतिज हि काले सिंघवः संप्रवृत्ताः । विषमतमविहारोदारपंका धरित्री ॥
जलपरिमलशीतो वाति चंडच वायुः । न तव गमनयुक्तं ते न मन्ये सुभावाः १०१ इति निगदति केकीसूनुरूचे | प्रवदसि यदधीशस्त्वं तथाहं करोमि || विविधरसकथाभिः सुंदरे स्वाश्रये ते । रविपरिचयमुक्तं कालमस्थुः सुखेन ॥ १०२ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे दंडकारण्यनिवासाभिधानं नाम द्विचत्वारिंशत्तमं पर्व |
अथ त्रिचत्वारिंशत्तमं पर्व |
ततः शरदृतुर्जित्वा शशांककर पत्रिभिः । घनौघं विशदं चक्रे राज्यमाक्रांतविष्टपः ॥ १ ॥ विकसत्पुष्प संघातात्पादपान् स्निग्धचेतसः । अलंकारोत्तमांस्तस्य जगृहुः ककुबंगनाः ॥ २ ॥ जीमूतमलनिर्मुक्तं भिन्नांजनसमद्युति । अंबुनेव चिरं धौतं रराज गगनांगणं ॥ ३ ॥ प्रावृट्रकालगजो मेघकलशैर्धरिणीश्रियं । अभिषिच्य गतः क्वापि विद्युत्कक्षाविराजितः ॥ ४ ॥
Page #244
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
२३५
त्रिचत्वारिंशत्तम पर्व। चिरात्कमलिनीगेहं प्राप्य पक्षभृतां गणाः । उद्भूतमधुरालापाः कामप्यापुः सुखासिकां ॥५॥ सिंधवः स्वच्छकीलाला उन्मज्जत्पुलिनाः परां । कांतिमीयुः समासाद्य शरत्समयकामुक ॥६॥ वर्षावातविमुक्तानि चिरात्प्राप्य सुखासिकां । काननानि व्यराजंत संगतानीव निद्रया ॥७॥ सरांसि पंकजाढ्यानि समं रोधसमुत्थितैः । पादपैः पक्षिनादेन समालापमिवाभजन ॥ ८॥ नानापुष्पकृतामोदा रजनीविमलांवरा । मृगांकतिलकं भेजे सुकाले शमिवोषती ॥९॥ केतकीसूतिरजसा पांडुरीकृतविग्रहः । ववौ समीरणो मंदं मदयन्कामिनीजनं ॥ १० ॥ इति प्रसन्नतां प्राप्ते काले सोत्साहविष्टपे । मृगेंद्रगतिराश्लिष्टविक्रमैकमहारसः ॥ ११ ॥ लब्धानुगमनं ज्येष्ठादाशानिहितवीक्षणः । कदाचिल्लक्ष्मणो भ्राम्यन्नेककस्तद्वनांतिकं ॥ १२ ॥ अजिघ्रदामरं गंधं विनीतपवनाहृतं । अचिंतयच्च कस्यैष भवेद्धो मनोहरः ॥ १३ ॥ पादपानां किमतेषां स्फुटकुसुमधारिणां । आहोस्विन्मम देहस्य कुसुमोत्करशायिनः ॥ १४ ॥ वैदेह्या संगतो रामः किमुतोपरि तिष्ठति । किंवा कश्चित्समायातो भवेदत्र त्रिविष्टपी ॥१५॥ ततो मगधराजेंद्रः पप्रच्छ श्रमणोत्तमं । भगवन् कस्य गंधोसौ चके विस्मयनं हरेः ॥ १६ ॥ ततो गणधरोऽवोचज्ज्ञातलोकविचेष्टितः । संदेहतिमिरादित्यः पापधूलीसमीरणः ॥ १७ ॥
Page #245
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२३६
२३६
त्रिचत्वारिंशत्तमं पर्व । द्वितीयस्य जिनेंद्रस्य द्युतिवाससमागमे । विद्याधराय विनाय पाताय शरणं विभुं ॥ १८ ॥ राक्षसानामधीशेन महाभीमेन धीमता । अंभोदवाहनायासीत्कृपयेत्युदितो वरः ॥ १९ ॥ विपुले राक्षसद्वीपे त्रिकूटं नाम पर्वतं । मेघवाहनविश्रब्धो गच्छ दक्षिणसागरे ॥ २० ॥ जंबूद्वीपस्य जगतीमिमामाश्रित्य दक्षिणं । लंकेति नगरी तत्र रक्षोभिर्विनिवेशिता ॥ २१॥ रहस्यमिदमेकं च विद्याधर परं श्रृणु । जंबूभरतवर्षस्य दक्षिणाशां समाश्रयत् ॥ २२ ॥ आश्रयित्वोत्तरं तीरं लवणस्य महोदधेः । वसुंधरोदरस्थानस्वभावार्पितमायतं ॥ २३ ॥ योजनस्याष्टमं भागं दंडकाग्री गुहाश्रयं । अधोगत्वा महाद्वारं प्रविश्य मणितोरणं ॥ २४ ॥ अलंकरोदयं नाम स्थितं पुरमनुत्तमं । स्थानीयशतधर्मस्थं दिव्यदेशं निरीक्ष्यते ॥ २५ ॥ नानाप्रकाररत्नांशुसंतानपरिराजितं । विस्मयोत्पादने शक्तमपि त्रिदिवस मनां ॥ २६ ॥ अप्रतक्यं गगनगैर्दुर्ग विद्याविवर्जितैः । सर्वकामगुणोपेतं विचित्रालयसंकुलं ॥ २७ ॥ परचक्रसमाक्रांतो यद्यापत्सु कदाचन । भवे दुर्ग समासृत्य तिष्ठस्त्वं निर्भयस्ततः ॥ २८ ॥ इत्युक्तस्तेन यातोसौ यो विद्याधरवालकः । लंकापुरीमभूत्तस्मात्संतानोऽनेकपुंगवः ॥ २९ ॥ यथावस्थितभावानां श्रद्धानं परमं सुखं । मिथ्याविकल्पितार्थानां ग्रहणं दुःखमुत्तमं ॥ ३०॥
Page #246
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२३७
त्रिचत्वारिंशत्तम पर्व । विद्याभृतां सुराणां च ज्ञेयो भेदो विचक्षणैः । तिलपर्वतयोस्तुल्यः शक्तिकांत्यादिभिर्गुणैः ॥३१॥ पंकचंदनयोर्यद्वदथवोपलरत्नयोः । तद्वत खेचरलोकस्य देवलोकस्य चांतरं ॥ ३२ ॥ गर्भवासपरिक्लेशमनुभूय विधेर्वशात् । ततः समुपजायते विद्यामात्रोपजीविनः ॥ ३३ ॥ क्षेत्रवंशसमुद्भूताः खे चरंतीति खेचराः । अमराणां स्वभावस्तु मनोज्ञेयं विबुध्यतां ॥ ३४ ॥ सुरूपशुचिसर्वांगा गर्भवासविवर्जिता । मांसास्थिक्लेदरहिता देवा अनिमिषेक्षणाः ॥ ३५ ॥ जरारोगविहीनाश्च सततं यौवनान्विताः । उदारतेजसा युक्ताः सुखसौभाग्यसागराः ॥३६॥ स्वभावविद्यासंपन्ना अवधिज्ञानलोचनाः । कामरूपधरा धीराः स्वछंदगतिधारिणः ॥ ३७॥ अमी लंकाश्रिता राजन् न देवा न च राक्षसाः । रक्षति रक्षसां क्षेत्रमाहूतास्तेन राक्षसाः ॥३८॥ तद्वंशानुक्रमो ज्ञेयो युगानामंतरैः सह । पारंपर्याव्यतिक्रांतः कालो नैकार्णवोपमः ॥ ३९ ॥ रक्षःप्रभृतिषु श्लाघ्येष्वतीतेषु बहुष्वपि । खंडत्रयाधिपस्तस्य रावणोभवदन्वये ॥४०॥ भगिनी दुर्नखा तस्य रूपेण प्रतिमा भुवि । प्राप्तस्तया महावीर्यो रमणः खरदूषणः ॥४१॥ चतुर्दशसहस्राणि नृणां तस्य महात्मनां । प्रतीतो दूषणाख्यश्च सेनाधिपतिरूर्जितः ॥ ४२ ॥ दिक्कुमार इवोदारो धरणीजठरे स्थितं । अलंकारपुरं तस्य स्थानमासीन्महौजसः॥४३॥ .
Page #247
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिचत्वारिंशत्तमं पर्व |
शंबूको नाम सुंदश्व सुतौ तस्य बभूवतुः । बंधुतश्च दशग्रीवाद्भुवि गौरवमाप सः ॥ ४४ ॥ गुरुभिर्वार्यमाणोऽपि मृत्युपाशावलोकितः । शंबूकः सूर्यहासार्थं प्राविशद्भीषणं वनं ॥ ४५ ॥ यथोक्तमाचरन् राजन्नाराधयितुमुद्यतः । एकान्नभुग्विशुद्धात्मा ब्रह्मचारी जितेंद्रियः ॥ ४६ ॥ असमाप्तोपयोगस्य यो मे दृष्टिपथे स्थितः । वध्योऽसाविति भाषित्वा वंशस्थलमुपाविशत् ॥४७॥ दंडकारण्यभागांत तां च क्रौंचरवां नदीं । सागरस्योत्तरं तीरं संसृत्यासाववस्थितः ॥ ४८ ॥ नीत्वा द्वादशवर्षाणि ततोसावसिरुगतः । ग्राह्यः सप्तदिनं स्थित्वा हन्यात्साधकमन्यथा ॥ ४९ ॥ कैकसेयी सुतस्नेहाद्द्द्ष्टुमा गात्क्षणे क्षणे । अपश्यच्चासिमुद्भूतं काले देवैरधिष्ठितं ॥ ५० ॥ प्रसन्नवदना भर्तुर्निजगाद यथाविधि । शंबूकस्य महाराज सिद्धं तद्योगकारणं ॥ ५१ ॥ आगमिष्यति मे पुत्रो मेरुं कृत्वा प्रदक्षिणं । अहोभिस्त्रिभिरद्यापि नियमो न समाप्यते ॥ ५२ ॥ एवं मनोरथं सिद्धं दध्यौ चंद्रनखा सदा । लक्ष्मणश्च तमुद्देशं संप्राप्तः पर्यटन्वने ॥ ५३ ॥ सहस्रामरपूज्यस्य सद्धस्य स्वभावतः । अनंतस्यादिहीनस्य खड़रत्नस्य तस्य सः ॥ ५४ ॥ दिव्यगंधानुलिप्तस्य दिव्यसग्भूषितस्य च । गंधो भास्करहासस्य लक्ष्मीधरमुपेयिवान् ॥ ५५ ॥ लक्ष्मणो विस्मयं प्राप्तः परित्यज्य क्रियांतरं । अयासीगंधमार्गेण केसरीव भयोज्झितः ॥ ५६ ॥
२३८
Page #248
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
२३९
त्रिचत्वारिंशत्तम पर्व । अपश्यच तरुच्छन्नं प्रदेशमतिदुर्गमं । लताजालावलीरुद्धं तुंगपाषाणवेष्टितं ॥ ५७ ॥ मध्ये च गहनस्यास्य सुसमं धरणीतलं । विचित्ररत्ननिर्माणमर्चितं कनकांबुजैः ॥ ५८ ॥ मध्ये तस्यापि विपुलं वंशस्तं वंशमुत्थितं । सौधर्ममिव संद्रष्टुमविज्ञानकुतूहलं ॥ ५९॥ अथांते तस्य निस्त्रंशं विस्फुरत्करमंडलं । सकीचकवनं येन प्रदीप्तमिव लक्ष्यते ॥६॥ नष्टशंकस्तमादाय लक्ष्मीवाञ्जातविस्मयः । जिज्ञासंस्तीक्ष्णतामस्य तं वेणुस्तंबमच्छिनत् ॥६१॥ गृहीतसायकं दृष्टा तं सर्वास्तत्र देवताः । अस्माकं स्वाम्यसीत्युक्ता सनमस्यमपूजयम् ॥ ६२॥ अथावोचत सीतेशः किंचिदस्राकुलेक्षणः । सौमित्रिश्चिरयत्यद्य क्वनु यातो भविष्यति ॥६३॥ भद्रोत्तिष्ठ जटायुः खं दूरमुत्पत्य सद्रुतं । लक्ष्मीधरकुमारस्य निपुणान्वेषणं कुरु ॥ ६४ ॥ इत्युक्तः करणं यावत्करोत्युत्पतितुं खगः । अंगुली तावदायुस्य (१) जनकस्यांगजावदत् ॥६५॥ अयं कुंकुमपंकन लिप्तांगो नाथ लक्ष्मणः । चित्रमाल्यांबरधरः समायाति स्वलं कृतः ॥६६॥ गृहीतश्चायमेतेन मंडलायो महाप्रभः । राजतत्यंतमेतेन शैलः केसरिणा यथा ॥ ६७ ॥ दृष्ट्वा तमीदृशं रामो विस्मयव्याप्तमानसः । असहः प्रमदं रोद्धमुत्थाय परिषस्वजे ॥ ६८ ॥ पृष्टश्च लक्ष्मणः कृत्स्नं स्ववृत्तांतमवेदयत् । स्थिताश्च ते विचित्राभिः संकथाभिर्यथासुखं ॥६९॥
Page #249
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिचत्वारत्तन ।
दृष्टा प्रतिदिनं खड़े सुतं च नियमस्थितं । यायासीत्सा दिने तस्मिन् कैकसेय्यागतकका ॥७॥ अपश्यञ्च विसाराणां वनं कृत्तमशेषतः । अचिंतयच्च यातः क्व पुत्र स्थित्वाटवीमिमां ॥ ७१ ॥ स्थितश्च यत्र संसिद्धमसिरत्नमिदं वनं । छिंदानेन परीक्षार्थ न युक्तं सुनुना कृतं ॥ ७२ ॥ तापच्चास्तस्थितादित्यमंडलप्रतिमं शिरः। सत्कुंडलं च बंधं च ददर्श स्थाणुमध्यगं ॥७३॥ उपकारः कृतस्तस्याः परमो मूर्छया क्षणं । पुत्रमृत्युसमुत्थेन दुःखेन परिपीडिता ।। ७४ ॥ ततः संज्ञां समासाद्य हाकारमुखरं मुखं । उत्क्षिप्य कृच्छ्रतो दृष्टिं तत्र मूर्धन्यपातयत् ॥ ७५ ॥ विललाप च शोकार्ता गलदस्राकुलेक्षणा । कुररीवैकिकारण्ये हृदयाघातिकारिणी ॥ ७६ ॥ स्थितो द्वादशवर्षाणि दिनानां च चतुष्टयं । पुत्रो मे हा परं क्षांतं न विधे दिवसत्रयं ॥ ७७ ॥ कृतांतापकृतं किं ते मया परमनिष्ठुर । येन दृष्टिनिधिः पुत्रः सहसा विनिपातितः ॥ ७८ ॥ अपुण्यया मया नूनमन्यजन्मनि बालकः । कस्या अपहृतो मृत्युं तत्प्रत्यागतमद्य ते ॥ ७९ ॥ मयापि पुत्र जातोऽसि कथमेतांस्थितिं गतः । ईदृशोऽपि प्रयच्छैकां वाचमातिविनाशिनी।।८०॥ एहि वत्स निजं रूपं प्रतिपद्य मनोहरं । अमंगलमिदं मायाक्रीड़नं न विराजते ॥ ८१ ॥ स्फुटं यातोसि हा वत्स परलोकं विधेर्वशात् । अन्यथा चिंतितं कार्यमिदमुद्भूतमन्यथा ॥८२॥
Page #250
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२४१
त्रिचत्वारिंशत्तम पर्व ।
अनुष्ठितं त्वया मातुः प्रतिकूलं न जातुचित् । अधुना कारणोन्मुक्तं किमिदं विनयोज्झितं ॥ ८३ ॥ संसिद्ध सूर्यहासवेदजीविष्यस्त्वमत्र ते । अस्थास्यत्कः पुरो लोके चंद्रहास मृतो यथा ॥ ८४ ॥ भजता चंद्रहासेन पदं मम सहोदरे । सूर्यहासस्य न क्षांतं नूनमात्मविरोधिनः ॥ ८५ ॥ raits निर्दोषं नियमस्थितं । कुशत्रोः कस्त्र हंतुं त्वां मुहस्य प्रसृतः करः ॥ ८६ ॥ अपेक्षिता तेन भवंतं निघ्नतोदिता । क गमिष्यति पापोसौ सांप्रतं हतचेतनः ॥ ८७ ॥ विलापमिति कुर्वाणा कृत्वांके सुतमुत्तमं । चुचुंचे विद्रुमच्छायलोचना करसंगतं ॥ ८८ ॥ ततः क्षणात्परित्यज्य शोकं नष्टास्त्रसंततिः । गृहीत्वा परमं क्रोधमच्छायस्फुरितानना ॥ ८९ ॥ संचरंगी तमुद्देशं स्वैरं मार्गानुलाक्षितं । निरैक्षत युवानौ तौ चित्तबंधकारिणौ ।। ९० ।। विनाशमगमत्तस्याः क्रोधोसौ तादृशोऽपि सन् । आदेश इव तस्याभूत्स्थाने रागरसः परः ९१ ततोऽचितयदेताभ्यां नराभ्यामभिलाषिणं । वृणोमि नरमित्युच्चैरूर्मिकं दधती मनः ।। ९२ ।। इति संचित्य संसाधुकन्याकल्पं समाश्रिता । हृदयेनातुरात्यंतं भावगद्दरवर्तिना ॥ ९३ ॥ हंसी पद्मिनीखंडे महिषीव महाद्रहे । सस्ये सारंगबालेव तत्राभूत्साभिलाषिणी ॥ ९४ ॥ भजनं करशाखानां कुर्वती स्फुटनिस्वनं । उपविश्य किलोद्विग्ना पुन्नागस्य तलेऽरुदत् ॥ ९५ ॥ २–१६
Page #251
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२४२
त्रिचत्वारिंशत्तम पर्व। अतिदीनकृतारावा धूसरी वनरेणुना । दृष्ट्वा तां रामरमणी कृपावष्टन्धमानसा ॥ ९६ ॥ उत्थायांतिकमागत्य करामशेनतत्परा । माभैषीरिति भाषित्वा गृहीत्वा पाणिपल्लवे ॥ ९७॥ किंचित्किल त्रपामाज मलिनांशुकधारिणीं । सांत्वयंती शुभैाक्य रमणांतिकमानयत् ॥ ९८॥ ततः पद्यो जगादैतां का त्वं श्वापदसेविते । एकाकिनी वने कन्ये चरसीहातिदुःखिता ॥ ९९ ॥ ततः संभाषणं प्राप्य स्फुटं तामरसेक्षणा । जगाद म्रमरौघस्य वाचानुकृतिमेतया ॥१०॥ पुरुषोत्तम मे माता निःसंज्ञायां मृतिं गता । तद्भवेन च शोकेन तातोऽपि विनिपातितः ॥१०॥ साहं पूर्वकृतात्पापाद्वंधुभिः परिवर्जिता । प्रविष्टा दंडकारण्यं वैराग्यं दधती परं ॥ १०२॥ पश्य पापस्य माहात्म्यं यद्वांछंत्यपि पंचतां । अरण्येऽस्मिन् महाभीमे व्यालैरपि विवर्जिता १०३ चिरान्मानुषनिर्मुक्ते भ्रमंत्यास्मिन्वने मया । भवंतः साधवो दृष्टाः क्षयात्पापस्य कर्मणः १.४ जनो विदितपूर्वो यो जने बध्नाति सौहृदं । अनाहूतश्च सामीप्यं व्रजति त्रपयोज्झितः ॥१०५॥ अनाहतः प्रभूतं च भाषते शून्यमानसः । उत्पादयति विद्वेषं कस्य नासौ क्रमोज्झितः ॥१०६॥ एवं भूतापितो यावत्प्राणान्मुंचति सुंदर । तावदद्यैव मामिच्छ दुःखितायां दयां कुरु ॥ १०७ ॥ न्यायेन संगतां साध्वी सर्वोपप्लववर्जितां । कोवा नेच्छति लोकेस्मिन् कल्याणप्रकृतिस्थिति१०८
Page #252
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
રકરૂ
त्रिचत्वारिंशत्तम पर्व ।
श्रुत्वा तद्वचनं तस्यास्त्रपया परिवर्जितं । परस्परं समालोक्य स्थितौ तूष्णीं नरोत्तमौ ॥१०९ ।। सर्वशास्त्रार्थबोधांबुक्षालितं हि तयोर्मनः । कृत्याकृत्यविवेकेषु मलमुक्तं प्रकाशते ॥ ११ ॥ निर्मुक्तदुःखनिश्वासं गच्छामीति तयोदिते । पद्मनाभादिभिः सोक्ता यथेष्टं क्रियतामिति १११ तस्यां प्रयातमात्रायां तदाशालीनताहृतौ । ससीती विस्मितौ वीरौ स्मेरवक्त्रौ बभूवतुः ।।११२॥ अंतर्हित्य च संक्रुद्धा समुत्पत्य त्वरावती । याता चंद्रनखा धाम निजं शोकसमाकुला ॥११३॥ शोभयापहृतस्तस्या लक्ष्मणस्तरलेक्षणः । पुनरालोकनाकांक्षो विरहादाकुलोऽभवत् ॥ ११४ ।। उत्थायाज्ञाय देशेन रामदेवसकाशतः । अटवीं पादपद्माभ्यां बभ्रामान्वेषणातुरः ॥ ११५ ॥ अचिंतयच्च खिनात्मा वाष्पव्याकुललोचनः । आत्मन्यनादृतप्रीतिरिति तत्प्रेमनिर्भरः ॥ ११६ ॥ रूपयौवनलावण्यगुणपूर्णा घनस्तनी । मदनाविष्टनागेंद्रवनितासमगामिनी ॥ ११७ ॥ आयांत्येव सती कस्मादृष्टमात्रा न सा मया । स्तनोपपीडनाश्लेषं परिरब्धा हतात्मना ।।११८॥ आयोग मे हुतं चेतश्युतं कर्तव्यवस्तुनः । सांप्रतं शोकशिखिना दह्यते मे निरंकुशं ॥ ११९ ॥ जाता सा विषये कस्मिन् कस्य वा दुहिता भवेत् । यूथभ्रष्टा मृगीवेयं कुतः प्राप्ता सुलोचना ॥ संचित्पति कृतभ्रांतिस्तामपश्यत्समाकुलः । मेने वदनमाकाशपुष्पतुल्यं समंवतः ।। १२१ ॥
Page #253
--------------------------------------------------------------------------
________________
२४४
पद्मपुराणम् ।
चतुश्चत्वारिंशत्तम पर्व। अविदितपरमाथैरेवेमर्थेन हीनं । न खलु विमलचित्तैः कार्यमारंभणीयं ।
अविषयकृतचित्ता सत्समाशक्तिमुक्ता । दधति परमशोकं बालवबुद्धिहीनाः॥१२२॥ किमिदमिह मनो मे किं नियोज्यं तदिष्टं । कथमनुगतकृत्यैः प्राप्यते शं मनुष्यैः ॥
इति कृतमतिरुच्चैर्यो विवेकस्य कर्ता । रविरिव विमलोसौ राजते लोकमार्गे ॥१२३॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते शंबूकवधाख्यानं नाम त्रिचत्वारिंशत्तमं पर्व ।
- अथ चतुश्चत्वारिंशत्तमं पर्व । अनिच्छयाथ विध्वस्ते खरवध्वा मनोभवे । दुःखपूरः पुनः प्राप्तो भग्नरोधो यथा नदः ॥१॥ चकार व्याकुलीभूता विविधं परिदेवनं । शोकपावकतप्तांगा विवत्सा बहुला यथा ॥२॥ वहंती चापमानं तं क्रोधदैन्यस्थमानसा । विगलद्भरिनेत्रांबुषणेन निरैक्षत ॥३॥ तां विनष्टधृतिं दृष्ट्वा धरणीधूलिधूसरां । प्रकीर्णकेशसंभारां शिथिलीभूतमेखलां ॥ ४ ॥ नखविक्षतकक्षोरुकुचक्षोणी सशोणितां । कर्णाभरणनिर्मुक्तां हारलावण्यवर्जितां ॥५॥
Page #254
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।. .
२४५
चतुश्चत्वारिंशत्तमं पर्व। विच्छिन्नकंचुको भ्रष्टस्वभावतनुतेजसां । आलोडितां गजेनेव नलिनी मदवाहिनी ॥ ६॥ पप्रच्छ परिसांत्व्यैष कांते शीघ्रं निवेदय । अवस्थामिकां केन प्रापितासि दुरात्मनः ॥७॥ अबेंदुरष्टमः कस्य मृत्युना कोवलोकितः । गिरेः स्वपिति कः शृंगे मूहः क्रीडति कोहिना ॥८॥ कोंधः कृपं समापन्ना दैवं कस्याशुभावहं । मत्क्रोधानावयं दीप्ते शलभः कः पतिष्यति ॥ ९ ॥ धिक् तं पशुसमं पापं विवेकत्यक्तमानसं । अपवित्रसमाचारं लोकद्वितयदूषितं ॥ १० ॥ अलं रुदित्वा नान्येव काचित्त्वं प्राकृताबला । स्मृष्टा येनासितं संस वाडवाग्निशिखासमा ॥११॥ अद्यैव तं दुराचारं कृत्वा हस्ततलाहतं । नेष्ये प्रेतगति सिंहो यथा नागं निरंकुशं ॥ १२ ॥ एवमुक्ता विसृज्यासौ रुदितं कृच्छ्रतः परात् । अस्रक्लिन्नाल काच्छित्रगंडागादीत्सगद्गदं ॥ १३ ॥ वनांतरस्थितं पुत्रं द्रष्टुं यातास्मि सांप्रतं । अपश्यत्तं च केनापि प्रत्याच्छि नमूर्ध ।। १४ ॥ ततः शोणितधाराभिनिःसृताभिनिरंतरं । प्रदीप्तमिव तन्मूले लक्ष्यते कीचकस्थलं ॥ १५ ॥ प्रशांतोऽवस्थितं हत्वा मे केनापि सुपुत्रकं । खडरत्नं समुत्पनं प्राप्तं पूजासमन्वितं ॥ १६ ॥ साहं दुःखसहस्राणां भाजनं भाग्यवर्जिता । तन्मूर्धानं निधायांके विप्रलापं प्रसेविता ॥ १७ ॥ तावच तेन दुष्टेन शंबूकबधकारिणा । उपगूढास्मि वाहुभ्यां कर्तुं किमपि वांछिता ॥ १८ ॥
Page #255
--------------------------------------------------------------------------
________________
पापुराणम् ।
चमत्वारिंशत्तम पर्व।
उक्तोऽपि मुंच मुंचेति घनं स्पर्शवशं गतः । न मुंचति हतात्मा मां कोपि नीचकुलोद्गतः ॥१९॥ नखैविलुप्य दंतैश्च तेनाहं विजने वने । एतिका प्रापितावस्थां क्वाबला का पुमान् बली ॥२०॥ तथापि पुण्यशेषेण केनापि परिरक्षिता । अविखंडितचारित्रा कृच्छ्राद्य निःसृता ततः ॥२१॥ सर्वविद्याधराधीशस्त्रिलोकः क्षोभकारणः । भ्राता मे रावणः ख्यातः शक्रेणाप्यपराजितः ॥२२॥ खरदूषणनामा त्वं मतो कोपि विवर्यसे । संप्राप्तास्मि तथाप्येतामवस्थां देवयोगतः ॥२३॥ ततस्तद्वचनं श्रुत्वा शोकक्रोधसमाहितः । स्वयं महाजवो गत्वा दृष्ट्वा व्यापादितं सुतं ॥ २४ ॥ संपूर्णदुसमानोऽपि पूर्वसारंगलोचनः । बभूव भीषणाकारो मध्यग्रीष्मासनिमः ॥२५॥ आगतश्च द्रुतं भूपः प्रविश्य भवनं निजं । सुहृद्भिः सहितश्चके स्वल्पकालप्रधारणं ॥ २६ ॥ सत्र केचिद्भुतं प्रोचुः सचिवाः कर्कशाशयाः। राजकीयमभिप्रायं बुद्धा सेवापरायणाः ॥ २७॥ शंकः साधितो येन खड्गरत्नं च हस्तितं । असावुपक्षितो राजन्वद किं न करिष्यति ॥ २८ ॥ छचुरन्ये विवेकस्था नाथ नेदं लघुक्रियः । सामंतान ढौकयाशेषान रावणाय च कथ्यतां ॥२९॥ यस्यासिरत्नमुत्पत्रं सुसाध्यः स कथं भवेत् । तस्मात्संघातकार्येऽस्मिस्त्वया कर्तुं न युज्यते ३० गुरुवाक्यानुरोधेन राक्षसाधिप संविदे । दूतःसंप्रेषितस्तेन युवा लंका महाजवः ॥३१॥
Page #256
--------------------------------------------------------------------------
________________
पद्मपुराणम ।
૨૪૭
चतुश्चत्वारिंशत्तम पर्व । राजधैर्यात्कृतोप्येष चिरं यावदवस्थितः । रावणस्यांतिके दतः कार्यसाधनतत्परः ॥ ३२॥ तीव्रक्रोधपरीतात्मा तावच्च खरदूषणः । अभाषत पुनः पुत्रगुणप्रेषितमानसः ॥ ३३ ॥ मायाविनिहतैः क्षुद्रैजेतुभिभूमिगोचरैः । दिव्यसेनाणेवः क्षुब्धस्तरितुं नैव शक्यते ॥ ३४॥ विगिदं शौर्यमस्माकं सहायान्यदि वांछति । द्वितीयोपि कथं बाहुरिष्यते मम बाहुना ॥३५॥ इत्युक्त्वा परमं विभ्रदभिमानं त्वरान्वितः । उत्पपात सुहन्मध्यादाकाशं स्फुरिताननः ॥ ३६॥ तमेकांतपरं दृष्ट्वा सन्नद्धानि क्षणांतरे । चतुर्दशसहस्राणि सुहृदां निर्ययुः पुरात् ॥ ३७॥ तस्य राक्षससैन्यस्य श्रुत्वा वादिननिस्वनं । क्षुब्धसागरनिर्घोष मैथिली त्रासमागता ॥ ३८ ॥ किं किमेतदहो नाथ प्राप्तमित्युद्गतस्वनः । आलिंगतिस्म जीवेशं वल्ली कल्पतरं यथा ॥ ३९ ॥ न भेत्तव्यं न भेत्तव्यं इति तां परिसांत्व्य सः ! अचिंतयदयं कस्य भवेच्छब्दः सुदुर्द्धरः ॥४०॥ खः किमेष सिंहस्य भवेज्जलधरस्य वा । आहोश्चिदंबुनाथस्य पूरय त्यखिलं नमः ॥४१॥ उवाच च प्रिये नूनममी चतुरगामिनः । नादिनः प्रचलत्पक्षा राजहंसा नभोगणे ॥४२॥ किंवा दुष्टद्विजाः केचिदन्ये त्वद्भयकारिणः । समर्पय प्रिये चापं प्रलयं प्रापयाम्यमन्॥४३॥ अचासत्रत्वमागच्छद्विविधायुधसंकुलं । वातेरिताभ्रछंदामं निरीक्ष्य सुमहद्बलं ॥४४॥
Page #257
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२४८
चतुश्चत्वारिंशत्तम पर्व । जगाद राघवः किंतु नंदीश्वरममी सुराः । जिनेंद्रान्वंदितुं भक्तथा प्रस्थिताः स्युर्महौजसः ४५ आहो वंशस्थलं छित्वा हत्वा कमपि मानवं । असिरत्ने गृहितेऽस्मिन् प्राप्ता मायाविवैरिणः ४६ दुश्शीलया तया नूनं स्त्रिया मायापवाणया । निजाः संक्षोभिता एते स्युरस्मद्दुःख कृति प्रति ४७ नात्र युक्तमवज्ञातुं सैन्यमभ्यर्णतामितं । इत्युक्त्वा कवचे दृष्टिं कार्मुके च न्यपातयत् ॥ ४८॥ ततस्तमंजलिं कृत्वा सुमित्रातनयोऽगदत् । मयि स्थिते न संरंभस्तव देवो विराजते ॥ ४९ ॥ संरक्ष राजपुत्रीं त्वं प्रत्यरातिं व्रजाम्यहं । ज्ञेया च सिंहनादेन मम यद्यापदुद्भवेत् ॥५०॥ इत्युक्त्वा कंकटच्छन्नसमुपात्तमहायुधः । योद्धुमभ्युद्यतः श्रीमल्लिक्ष्मणः प्रत्यरिं स्थितः ॥५१॥ दृष्टा तमुत्तमाकारं वीरं पुरुषपुगवं । पर्यस्तृणन्धिहायस्था जलदा इव पर्वतं ॥ ५२ ।। शक्तिमुद्गरचक्राणि कुन्तवाणांश्च खेचरैः। परिकीर्णान्यसौ सम्यक् शस्त्रैरेव न्यवारयत् ॥ ५३ ।। निरुध्य सर्वशास्राणि खेचरैः प्रहितानि सः । वज्रदण्डान् शरान्मोक्तुं प्रवृत्तो व्योमगाहिनः ५४ एककेनैव सा तेन विद्याधरमहाचमूः । रुद्धा वाणैः कदिच्छेव विज्ञानैः संयतात्मना ॥ ५५ ॥ माणिक्यशकलाकानि राजमानानि कुंडलैः । पेतुः शिरांसि खाद्भुमिः खसरः कमलानि वा ५६ शैलाभा द्विरदाः पेतुरश्वैः सह महाभटाः । कुर्वते निनदं भीमं संदृष्टरववाससः ॥ ५५ ॥
Page #258
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुश्चत्वारिंशत्तम पर्व। अयमस्य महान्लाभो निघ्नतस्तस्य तानभूत् । यदर्धगैः शरैर्योद्धान् विव्याध सह वाहनान् ५८ अत्रांतरे परिप्राप्तः पुष्पकस्थो दशाननः । क्रुद्धः कृताशयो हंतुं शंबूकवधकारिणं ॥ ५९ ।। अपश्यच्च महामोहसंप्रावेशनकारिणीं । रत्यरत्योः समुद्धात्रीं साक्षालक्ष्मीमिव स्थितां ॥ ६० ।। चंद्रमाकांतवदनां बंधूकाभधराधरां । तनूदरी च लक्ष्मी च जलदच्छदलोचनां ॥ ६१ ।। महेमकुंभशिखरः प्रोत्तुंगविपुलस्तनीं। यौवनोदयसंपन्नां सर्वस्वीगुणसद्गतां ॥ ६२ ॥ सहितामिव कामन कांतिज्यां दृष्टिसायकां । निजां चापलतां हंतुं सुखेनैव यथेप्सितं ।। ६३ ।। सर्वस्मृतिमहाचारी रूपातिशयवर्तिनीं । सीता मनोभवोदारज्वरग्रहणकारिणी ॥६४॥ तस्यामीक्षितमात्रायां क्रोधोस्य प्रलयं गतः । अनायतापरो भावश्चित्रा हि मनसो गतिः ॥६५॥ अचिंतयच्च किं नाम जीवितं मेऽनया विना । अयुक्तस्यानया का वा श्रीर्मदीयस्य वेश्मनः ६६ इमामप्रतिमाकारां ललितां नवयौवनां । हराम्यद्यैव यावन्नो कश्चिन्जानात्युपागतं ॥ ६७॥ आरब्धं प्रसभं कार्य न मे शक्तिर्न विद्यते । किंत्विदमीदृशं वस्तु यत्कौपीनत्वमर्हति ॥ ६८ ॥ निवेयन गुणांस्तावल्लोकेऽलं याति लाघवं । ईदृशन् किं पुनर्दोषान् ख्यापयन्ना प्रियो भवेत् ६९ वितत्य सकलं लोकं शशांककरनिर्मला । कीर्तिव्यवस्थिता माभूत्सैवं सति मलीमसा ॥७॥
Page #259
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चचत्वारिंशत्तमं पर्व
तस्मादकीर्तिसंभूतिमकुर्वन् स्वार्थतत्परः । रहः प्रयत्नमारेभे लोको हि परमो गुरुः ॥ ७१ ॥ इति ध्यात्वावलोकन्या विद्ययोपायमंजसा । विवेद हरणे तस्यास्तेषां नामकुलादि यत् ॥ ७२ ॥ अयं स लक्ष्मणः ख्यातो बहुभिः कृतरोधनः । अयं स रामः सीतेयं सा गुणैः परिकीर्तिता ७३ अमुष्य व्यसनं कृत्वा सिंहनादं स धन्विनः । गरुत्मानिव गृधस्य सीतां पेशीमिवाददे ॥ ७४ ॥ जायावैरप्रदीप्तोयमजय्यः खरदूषणः । शक्त्यादिभिः क्षणादेतौ भ्रातरौ मारयिष्यति ॥ ७५ ॥ महाप्रकृष्टपूरस्य नदस्योद्दाररंहसः । तटयोः पातने शक्तिः केन न प्रतिपद्यते ॥ ७६ ॥ इति संचित्य कामार्तः शिशुवत्स्वल्पमानसः । विषवन्मरणोपायं हरणं प्रति निश्चितः ॥ ७७ ॥ शस्त्रांधकारिते जाते तयोरथ महाहवे । कृत्वा सिंहरवं रामरामेति च मुहुर्जगौ ॥ ७८ ॥ तं च सिंहरवं श्रुत्वा स्फुटं लक्ष्मणभाषितं । प्रीत्यारतिमयात्पद्यो व्याकुलीभूतमानसः ॥ ७९ ॥ निर्माल्यैजनकीं सम्यक् प्रच्छाद्यात्यंतभूरिभिः । क्षणमेकं प्रिये तिष्ठ माभैषीरिति संगदन् ॥ ८० ॥ वयस्य वनितां तावज्जटायू रक्ष यत्नतः । किंचिदस्मत्कृतं भद्र स्मरस्युपकृतं यदि ॥ ८१ ॥ इत्युक्तो वार्यमाणोऽपि शकुनैः क्रंदनाकुलैः । सतीं मुक्त्वा जनेऽरण्ये वेगवान् प्राविशद्रणं ॥ ८२ ॥ अत्रांतरे समागत्य विद्यालोकेन कोविदः । सीतामुत्क्षिप्य बाहुभ्यां नलिनीमिव वारणः ॥ ८३ ॥
२५०
Page #260
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुश्चत्वारिंशत्तमै पर्व। कामदाहगृहीतात्मा विस्मृताशेषधर्मधीः । आरोपयितुमारेमे पुष्पकं गगनस्थितं ॥ ८४ ॥ ट्रियमाणामथ प्रेक्ष्य स्वामिनो वनितां प्रियां । संरंभवह्निदीप्तात्मा समुत्पत्य महाजवः ॥ ८५॥ तीक्ष्णकोटिभिरत्यंतं जटायु खलांगुलैः । दशाननपुर क्षेत्रं चकर्षासृक्समाद्रितं ॥८६॥ परुषैश्छदनांतश्च वातसंपाटितांशुकैः । जघान जवनैभूर्यः सर्वकायमलं बलः ॥ ८७॥ इष्टवस्तुविधातेन रावणः कोपवानथ । हत्वा हस्ततलेनैव महीतलमजीगमत् ॥ ८॥ ततोऽसौ परुषाघाताद्विकलीभूतमानसः । कुर्वन् केकायितं दुःखी खगो मूर्छामुपागतः॥ ८९ ॥ ततो निर्विनमारोप्य पुष्पकं जनकात्मजां । जानानः संगतं कामं रावणः स्वेच्छया ययौ ॥१०॥ ज्ञात्वापहृतमात्मानं रामरागातिशायिनात् । सीता शोकवशीभूता विललापातनिस्वनात् ।। ९१॥ ततः स्वपुरुषासक्तहृदयां कृतरोदनां । दृष्ट्वा सीतामभूर्तिकाचंद्विरागीव दशाननः ॥ ९२॥ . अचिंतयच्च मे कास्था कृतेन्यस्यैव कस्यचित् । यदियं रौति सक्तासुः करुणं विरहाकुला ९३ कीर्तयंति गुणान् भूयः साधूनामभिसम्मतां । पुरुषांतरसंबंधानतिशोकपरायणा ॥ ९४ ॥ तत्किमेतेन खड़ेन मृदा व्यादयाम्यमुं । अथवा न स्त्रियं हंतुं मम चेतः प्रवर्तते ॥ ९५॥ न प्रसादयितुं शक्यः क्रुद्धः शीघ्रं नरेश्वरः । अभीष्टाल्लब्धुमथवा द्युतिर्वा कीर्तिरेव वा ॥ ९६ ॥
Page #261
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२५२
चतुश्चत्वारिंशत्तम पर्व । विद्या वाभिमता लब्धं परलोकक्रियापि वा । प्रिया वा मनसो भार्या यद्वा किंचित्समीहितं ९७ साधूनामग्रतः पूर्वे व्रतमेतन्मयार्जितं । अप्रसन्ना न भोक्तव्या परस्य स्त्रीमयेति च ।। ९८ ।। रक्षनिदं व्रतं तस्मात्प्रसादं प्रापयाम्यमुं । भविष्यत्यनुकूलेयं कालेन मम संपदा ॥ ९९ ॥ . इति संचित्य तामंकात्तले स्वस्मिन्नतिष्ठिपत् । प्रतिक्ष्यते हि तत्कालं मृत्युः कर्मप्रचोदितः १०० अथेषुवारिधाराभिराकुलं रणमंडलं । प्रविष्टं राममालोक्य सुमित्रातनयोऽगदत् ।। १०१॥ हा कष्टं देव कस्मात्त्वं भूमिमेतामुपागतः । एकाकी मैथिली मुक्त्वा विपिने विघ्नसंकुले।।१०२॥ तेनोक्तस्त्वद्रवं श्रुत्वा प्राप्तोऽस्मि त्वरयान्वितः। सोऽवोचद्गम्यतां शीघ्रं न साधु भवता कृतं१०३ सर्वथा परमोत्साहो जय त्वं बलिनं रिपुं । इत्युक्त्वा शंकया युक्तो जानकी प्रति चंचलः १०४ क्षणान्निवर्तते यावत्तावत्तत्र न दृश्यते । सीतेति हतवच्चेतो रामच्युतममन्यत ॥ १०५॥ हा सीते इति भाषित्वा मूर्छितो धरणीमगात् । भर्ता तेन परिष्वक्ता सा बभूव विभूषिता १०६ संज्ञां प्राप्य ततो दृष्टिं निक्षिपन् वृक्षसंकुले । इति प्रेम परीतात्मा जगादात्यंतमाकुलः ॥१०७॥ अयि देवि क्व यातासि प्रयच्छ वचनं द्रुतं । चिरं किं प्रतिहासेन दृष्टासि तहमध्यगा ॥१०८॥ पह्यागच्छ (प्र) यातोऽस्मि कार्य कोपेन किं प्रिये । जानास्येव चिरं कोपस्तव देवि न मे सुखं ॥
Page #262
--------------------------------------------------------------------------
________________
२५३
पद्मपुराणम् ।
चतुश्चत्वारिंशत्तमं पर्व |
एवं कृतध्वनिर्भ्राम्यन् प्रदेशं तं सुगहरं । गृधं मुमूर्षुमैक्षिष्ट कृतके कास्वनं शनैः ॥ ११० ॥ ततोत्यंतविषण्णात्मा म्रियमाणस्य पक्षिणः । कर्गजापं ददौ प्राप्तस्स तेनामरकायां ॥ १११ ॥ तस्मिन्काले गते पद्मः शोकार्तः केवले वने । वियोगदहनव्याप्तः पुनर्मूर्छामशिश्रियत् ॥ ११२ ॥ समाश्वास्य च सर्वत्र न्यस्य दृष्टि समाकुलः । दीनं ललाप नैष स्याद्भूतेनैवार्तमानसः ।। ११३ ॥ रं प्राप्य वने भीमे हा केनास्मि दुरात्मना । हरता जानकीं कष्टं हतो दुष्करकारिणा ॥ ११४ ॥ दर्शयंस्तामथोत्सृष्टां हरं शोकमशेषतः । को नाम बांधवत्वं मे वनेस्मिन् परमेष्यति ।। ११५ ॥ भो वृक्षाचंपकच्छाया सरोजदललोचना । सुकुमारांगिकी भीरुस्वभावा वरगामिनी ॥ ११६ ॥ चित्तोत्सवकरी पद्मरजोगंधिमुखानिला । अपूर्वा योषिती सृष्टिर्दृष्टा स्यात्काचि रंगना ॥ कथं निरुत्तरा यूयमित्युक्त्वा तद्गुणैर्हृतः । पुनर्मूर्छापरीतात्मा धरणीतलमागमत् ॥ ११८ ॥ समाश्वास्य च संक्रुद्धो वज्रावर्त महाधनुः । आरोप्यास्फालयन्मुक्तं टंकारपुरुनि स्वनं ।। ११९ ।। सिंहानां भीतिजननं नृसिंहः सिंहनिस्वनं । मुमोच मुहुरत्युग्रमुत्कर्णद्विरदां ॥ १२० ॥ भूयो विषादमागत्य त्यक्तचापोत्तरीयकं । उपविश्य प्रमादं स्वं शुशोच फलितं क्षणात् ॥ १२१ ॥ दु:श्रुत्य दुर्विमर्शेण भजता त्वरितां गतिं । धर्मधीरिव मूढेन हारिता हा नया प्रिया ।। १२२ ।।
११७ ॥
Page #263
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
રપદ
चतुश्चत्वारिंशत्तम पर्व। मानुषत्वं परिभ्रष्टं गहने भवसंकटे । प्राप्तुमत्यद्भुतं भूयः पाणिना शुभकर्मणा ॥ १२३ ।। त्रैलोक्यगुणवद्रत्नं पतितं निम्नगापतौ । लभेत का पुनर्धन्यः कालेन महताप्यलं ॥ १२४ ।। वनितामृतमेतन्मे करांकस्थं महागुणं । प्रनष्टसंगतिं भूयः केनोपायन यास्यति ॥ १२५ ॥ वनेऽस्मिञ्जननिर्मुक्त कस्य दोषः प्रदीयते । नूनं मत्यागकोपेन कापि याता तपस्विनी ॥१२६॥ अरण्य निर्मनुष्येऽस्मिन्कमुपेत्य प्रसाद्य च । पृच्छामि दुष्कृताचारो यो मे वानी निवेदयेत् १२७ इयं ते प्राणितुल्येति चेतःश्रवणयोः परं । कुर्यात्प्रह्लादनं को मे वचसामृतदायिना ।। १२८ ॥ दयावानीदृशः कोऽस्मिन् लोके पुरुषपुंगवः । यो मे स्मिताननः कांतां दर्शयेदघवर्जितां ॥१२९।। हृदयागारमुद्दीप्तं कांताविरहवाहिना । उदंतजलदानेन को मे निर्वापयिष्यति ॥ १३० ॥ इत्युक्त्वा परमोद्विग्नो महीनिहितलोचनः । असकृत्किमपि ध्यायंस्तस्थौ निश्चलविग्रहः ॥१३॥ अथ नात्यंतदूरस्थचक्रवाकी स्वनं कलं । समाकर्ण्य दृशं तस्यां श्रवणं च न्यधापयत् ॥ १३२ ॥ अचिंतयदमुष्याद्रेस्तत्संगे गंधसूचितं । किमिदं पंकजवनं भवेद्याता कुतूहलात् ।। १३३ ।। दृष्टिपूर्व मनोहारि नानाकुसुमसंकुलं । स्थानं हरति चेतोस्याः कदाचित्क्षणमात्रकं ॥ १३४ ॥ जगाम च तमुद्देशं यावच्चक्राहसुंदरी । मया विना क यातीति पुनरुद्वेगमागमत् ॥ १३५ ॥
Page #264
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुश्चत्वारिंशत्तमं पर्व |
भो भो महीधराधीश ! धातुभिर्विविधैश्चित ! सूनुर्दशरथस्य त्वां पद्माख्यः परिपृच्छते ॥१३६॥ विपुलस्तनननांगा बिम्बोष्ठी हंसगामिनी । सन्नितम्बं भवेद्दृष्टा सीता मे मनसः प्रिया ॥ १३७॥ egree किं वक्षि ब्रूहि ब्रूहि क सा क सा । केवलं निमदस्येनं प्रतिशब्दोयमीदृशः ॥ १३८ ॥ इत्युक्त्वा पुनरध्यासीत्किमदृष्टेन चोदिता । कृतांतशत्रुणा बाला समासन्ना सती सती ।। १३९ ॥ चंडोममालयाऽत्यन्तं वेगवत्या विवेकया । कांता हृता भवेन्नद्या विद्येव दुरितेच्छया ॥ १४० ॥ किंवाऽत्यन्त क्षुधार्तेन, नितान्त क्रूर चेतसा । इभारिणा भवेद्भुक्ता साधुवर्गस्य वत्सला ॥ १४१ ॥ पशोमैककार्यस्य सिंहस्योत्केसरस्य सा । म्रियते दृष्टिमानखाहि नाहिता ॥ भ्राता मम मृधे भीमे लक्ष्मणः संशयं श्रितः । सीतया विरहार्य तेन जानाति जीवलोकमिमं वेद्भि सकलं प्राप्तसंशयं । जानामि च पुनः शून्यमहो दुः वस्य चित्रता ॥ १४४ ॥ दुःखस्य यावदेकस्य नावसानं व्रजाम्यहम् । द्वितीयं तावदायातमहो दुःखार्णवो महान्। ॥ १४५ ॥ खंजपादस्य खंडोयं हिमदग्धस्य पावकः । स्खलितस्थावटे पातः प्रायानथी बहुत्वगाः ॥ १४६ ॥ ततः पर्यट्य विपिने पश्यन्मृगगरुत्मतः । विवेश स्वाश्रयं भूयः श्रियाशुन्यमरण्यकं ॥ १४७ ॥ अत्यन्तदीनवदनः कृत्वा निष्वां धनुर्लतां । सितश्लक्ष्णपटच्छिन्नस्तस्थौ पर्यस्य भूतले ॥ १४८ ॥
१४२ ॥
२५५
१४३
Page #265
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
६५६
पंचचत्वारिंशतभ पर्व। भूयो भूयो बहु ध्यायन् क्षणनिश्चलविग्रहः । निराशतां परिप्राप्तः सूत्कारमुखराननः ॥ १४९ ॥
महानरानिति पुरुदुःखलंधितान् । पुरा कृतादसुकृतकमजमगार ॥ ___ अहो जना भृशमवलोक्य दीयतां । मतिः सदा जिनवरधर्मकर्मणि ॥ १५० ॥ नये भवप्रभवविकारसंगतेः । परांमुखा जिनवचनान्युपासते ॥
वशीकृतान् शरणविवर्जितानमू-तपत्यलं स्वकृतरविः सुदुस्सहः ॥ १५१॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते सीताहरणरामविलापाभिधानं नामचतुश्चत्वारिंशत्तमं पर्व ।
अथ पंचचत्वारिंशत्तमं पर्व। एतस्मिन्नगरे प्राप्तः पूर्वशिष्टो विराधितः । समेतः सचिवैश्वरैः सन्नद्धः शस्त्रसंकुलः ॥१॥ एकाकिनमसौ ज्ञात्वा युद्धयमानं महानरं । सार्थसम्पद्विसंभूति दीप्यमानं महौजता ॥ २ ॥ जातुं क्षितितले न्यस्य मूर्द्धन्यस्तकरद्वयः । अब्रवीदिति नम्रांगः परमं विनयं वहन् ॥ ३॥ नाथ ! भक्तास्मि ते किश्चिद्विज्ञाप्यंश्रूयतां मम । त्वद्विधानां हि संसर्गो निकारक्षयकारणं ॥४॥
Page #266
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२५७
पंचचत्वारिंशत्तम पर्व।
कृतार्द्धभीषणस्यास्य करं विन्यस्य मस्तके । पृष्ठतस्तिष्ठ माभैषीरित्यवोचत लक्ष्मणः ॥५॥ ततः प्रणम्य भूयोऽसौ महाविस्मयसंगतः । जगाद क्षणसंजातमहातेजाः प्रियं वचः॥६॥ महाशक्तिमिमं शत्रु त्वमेकं विनवारय । रणाजिरे भटान् शेषान् निधनं प्रापयाम्यहम् ॥७॥ इत्युक्त्वा दोषणं सैन्यं तेन शीघ्रं विराधितम् । अधावद्वतसंपन्नप्रहलद्धेतिसंहतिः ॥ ८॥ उवाच वचः सोत्साहं चन्द्रोदरनृपात्मजः । प्राप्तो विराधितः ख्यातो रणातिथ्यसमुत्सुकः ॥९॥ केदानी गम्यते साधु स्थीयतां युद्धोंडिकैः । अद्य तद्वः प्रदास्यामि यत्कृतान्तोऽतिदारुणः १० इत्युक्ते वैरसंपन्नो भटानामतिसंकुलः । बभूव शस्त्रसंपातः सुमहान् जनसंक्षयः ॥११॥ पत्तयः पत्तिभिर्लग्नाः सादिनः सादिभिः समम् । गजिनो गजिभिः सत्रा रथिनो रथिभिः सह १२ परस्परकृताहानैरितिसंहर्षिभिर्भटैः । संकुलैर्जनिते युद्धे कृतान्योन्यमहायुधैः ॥ १३ ॥ रणाजिरे परं तेजो भजमानो नवं नवं । दिव्यकार्मुकमुद्यम्य शरच्छन्नदिगम्बरः ॥ १४ ॥ खरेण सह संग्राम चक्रे परमभैरवम् । लक्ष्मीधरः शुनासीरः स्वामिनेव सुरद्विषाम् ॥ १५ ॥ ततः क्रोधपरीतेन खरेण खरनिस्वनम् । अवाचि लक्ष्मणः संख्ये स्फुरल्लोहितचक्षुषा ॥ १६ ॥ ममात्मजमुदासीनं हत्वा परमचापल । कांताकुचौ च संमृश्य पापाद्यापि क गम्यते ॥ १७ ॥
Page #267
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचचत्वारिंशत्तमं पर्व ।
अद्य ते निशितैर्वाणैर्जीवितं नाशयाम्यहम् । कृत्वा तथाविधं कर्म्म फलं तस्यानुभूयताम् ॥ १८ ॥ अत्यन्तक्षुद्र निर्लज्ज परस्त्रीसंगलोलुप | ममाभिमुखतां गत्वा परलोकं व्रजाधुना ॥ १९ ॥ ततस्तैः परुषैर्वाक्यैः समुद्दीपितमानसः । उवाच लक्ष्मणो वाचं पूरयन् सकलं नभः ॥ २० ॥ किं वृथा गर्जसि क्षुद्र दुःखे वर शुना समः । अहं नयामि तत्र त्वां यत्र ते तनयो गतः ॥२१॥ इत्युक्त्वावस्थितं व्योम्नि विरथं खरदूषणम् । चकार लक्ष्मणः छिन्नचापकेतुं च निःप्रभम् २२ ततोऽसौ पतितः क्षोण्यां नभस्तः क्रोधलोहितः । प्रक्षीणेष्विव पुण्येषु ग्रहस्तरलविग्रहः ॥ २३ ॥ खड्गांशुलीन देहश्च सौमित्रिं प्रत्यधावत । असिरत्नं समाकृष्य सोप्यस्याभिमुखं ययौ ॥ २४ ॥ इत्यासन्नं तयोरासीच्चित्रयुद्धं भयानकम् । मुमुचुः स्वस्थिता देवाः सपुष्पान् साधुनिश्वनान् ||२५|| तावच्छिसि संक्रुद्धो दूषणस्य न्यपातयत् । सूर्यहासं यथार्थाख्यं लक्ष्मणोऽक्षतविग्रहः ॥ २६ ॥ निर्जीवः पतितः क्षोण्यां बभूव खरदूषणः । आलेख्यरविसंकाशो यद्वत्स्वर्गच्युतो महः ॥ २७ ॥ अथवा दयितो रत्या निश्रेष्टीभूतविग्रहः । रत्नपर्वतखंडो वा दिग्गजेन निपातितः ।। २८ ।। अथ सेनापतिर्नाम्ना दूषणः खरदूषणः । विरथं कर्तुमारेभे चन्द्रोदरनृपात्मजम् ॥ २९ ॥ लक्ष्मणेनेषुणा तावद्गाढं कर्म्मणि ताड़ितः । घूर्णमानो गतो भूमिं समाश्वासनमाध्नुतः ॥ ३० ॥
1
२५८
Page #268
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
२५९
पंचचत्वारिंशत्तम पर्व ।
दत्वा विराधितायाथ तलं खरदूषणम् । प्रययौ लक्ष्मणः प्रीतः प्रदेशं पद्मसंश्रितम् ॥ ३१ ॥ यावत्पश्यति तं सुप्तं भूमौ सीताविवर्जितम् । जगौ चोत्तिष्ठ किं नाथ याता क वद जानकी ३२ उत्थाय सहसा दृष्ट्वा लक्ष्मणं नित्रणांगकम् । किंचित्प्रमोदमायातः परिष्वजनतत्परः ॥ ३३ ॥ जगाद भद्र नो वेद्मि देवी केनापि किं हृता । उत सिंहेन निर्भुक्ता न दृष्टात्र गवेषिता ॥३४॥ पातालं किं भवेनीता नभः शिखरमेव वा । उद्वेगेन विलीना वा सुकुमारशरीरिका ॥ ३५ ॥ ततः क्रोधपरीतांगो विषादी लक्ष्मणोऽगदत् । देवोद्वेगानुवन्धेन न किंचिदपि कारणम् ॥३६ ॥ नूनं दैत्येन केनापि हृता केनापि जानकी । ध्रियमाणामिमां लप्स्ये कर्तव्योऽत्र न संशयः॥३७॥ परिसांत्वोत्तमैर्वाक्यैर्विविधैः श्रुतिपेशलैः । विमलेनांभसा तस्य मुखं प्रक्षालयन् सुधीः ॥ ३८ ॥ श्रुत्वा तावदलं तारं शब्दमुत्तानिताननः । अपृच्छत् श्रीधरं रामः संभ्रमं किंचिदापयन् ॥ ३९ ॥ किमेषा नर्दति क्षोणी गगनाकिमयं ध्वनिः । किं कृतं भवता पूर्व शत्रुशेष मयोज्झितम् ॥४०॥ सुमित्राजस्ततोऽवोचनाथोऽत्र हि महाहवे । उपकारो महान्काले खेचरेण कृतो मम ॥४१॥ चन्द्रोदरसुतः सोऽयं विराधित इति श्रुतः । प्रस्रवे दैवतेनैष हितेन परिढौकितः ॥ ४२ ॥ चतुर्विधेन महता बलेनास्य सुचेतसः । आगच्छतो महानेषः शब्दः श्रुतिमुपागतः॥४३॥
Page #269
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचचत्वारिंशत्तम पर्व । विश्रब्धचेससोर्यावत् कथेयं वर्त्तते तयोः । तावन्महाबलोपेतः परिप्राप्तो विराधितः ॥ ४४ ॥ ततो जयजयस्वानं कृत्वा विरचिताञ्जलिः । जगाद खेचरस्वामी प्रणतः सचिवैः समम् ॥४५॥ स्वामी त्वं परमोऽस्माभिश्चिरात्प्राप्तो नरोत्तमः। अतः प्रदीयतामाज्ञा नाथ कर्तव्यवस्तुनि ॥४६॥ इत्युक्तो लक्ष्मणोऽभाणीत् साधो शृणु सुवर्तनम् । गुरोः केनापि मे पत्नी हृता दुर्नयवर्तिना॥४७॥ तया विरहितः सोऽयं पद्मः शोकवशीकृतः । यदि नाम त्यजेत्प्राणांस्तावद्वहिं विशाम्यहम् ॥४८॥ एतत्प्राणदृढ़ासक्ता भद्र प्राणानवैहि मे । ततोऽत्र प्रकृते किंचित्कर्तव्यं कारणं परम् ॥ ४९ ॥ ततो नताननः किंचित्खगप्रभुरचिंतयत् । कृत्वापि श्रममेतं मे कष्टमाशा न पूरिता ॥ ५० ॥ सुखं संवसता स्वेष्टं नानावनविहारिणा । पश्यात्मा योजितः कष्टे कथं संशयगहरे ॥५१॥ दुःखार्णवतटं प्राप्तो यां यां गृह्णाम्यहं लताम् । देवेनोन्मूल्यते सा सा कृत्स्नं विधिवशं जगत् ५२ तथाप्युत्साहमावृत्य कर्तव्यं समुपागतम् । करोमि कुवेतो भद्रमभद्रं वा स्वकर्मजम् ॥ ५३॥ इति ध्यात्वा वहीरूपं भजमु(न्नु)त्साहसंस्तुतम् । जगाद सविवान् धीरो वचसा स्फुटतेजसा ५४ पत्नी महानरस्यास्य नीता यदि महीतलम् । अथाकाशं गिरि वारि स्थलं वा विपिनं पुरं ॥५५॥ गवेषयतो यत्नेन सर्वाशा सुसमं ततः । यदिच्छितकृतार्थानां तद्दास्यामि महाभटाः ॥ ५६ ॥
Page #270
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२६१
पंचचत्वारिंशत्तम पर्व।
इत्युक्ताः सम्मदोपेताः सन्नद्धाः परमौजसः । नानाकल्पाः खगा जग्मुर्दिशो दश यशोर्थिनः ५७ अथार्कजटिनः सुनुर्नाम्ना रत्नजटी खगः । खड़ी द्रागिति सुश्राव उरतो रुदितध्वनिम् ॥ ५८ ॥ आशां च भजमानस्तामाकर्णयति निस्वनम् । हा राम हा कुमारेति जलधेरूर्ध्वमम्बरे ॥ ५९ ॥ यदि देवेन निस्वानं श्रुत्वा तं सपरिस्फुटम् । समुत्पपात तं देशं विमानं यावदीक्षते ॥ ६० ॥ अस्योपरि परिक्रन्दं कुर्वन्ती मतिविहलाम् । वैदेही स समालोक्य बमाण क्रोधपूरितः ॥६१॥ तिष्ठ तिष्ठ महापाप दुष्ट विद्याधराधम । कृत्वापराधमीदृशं क्व त्वया गम्यतेऽधुना ॥ ६२ ॥ दयितां रामदेवस्य प्रभामण्डलसोदराम् । मुञ्च शीघ्रमभीष्टं ते जीवितं यदि दुर्मते ॥ ६३ ॥ ततो दशाननोऽप्येनमाक्रोश्य परुषस्वनम् । युद्धे समुद्यतः क्रुद्धो विहलीभूतमानसः ॥ ६४ ॥ पुनश्वाचिन्तयाद्धे प्रवते मतिविह्वला । मया निरूपिता सीता कदाचित्पंचतां भजेत् ॥ ६५ ॥ आकुलां रक्षितां चैतां परमव्याकुलात्मनाम् । न व्यापादयितुं शक्यः क्षुद्रोऽप्येष नभश्वरः ॥६६॥ इति सचित्य संभ्रान्तश्लथमौल्युत्तराम्बरः । स्वस्थस्य रत्नजटिनो बली विद्यामपाहरत् ॥६७॥ अथ रत्नजटी त्रस्तः किंचिन्मंत्रप्रभावतः । पपात शनकैरुल्कास्फुलिंग इव मेदनीम् ॥ ६८॥ समुद्रजलमध्यस्थं कंबुद्वीपं समाश्रितः । आयुर्वर्तनसामर्थ्याद्भग्नपोतो यथा वणिक् ।। ६९ ॥
Page #271
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचचत्वारिंशत्तम पर्व। निश्चलश्च क्षणं स्थित्वा समुच्छ्स्यायतं भृशम् । कंबुपर्वतमारुह्य दिशाचक्रं व्यलोकयत् ॥ ७० ॥ ततः समुद्रवातेन शिशिरत्वमुपेयुषा । अपरीतश्रमस्वेदसमासश्वासदुःखितः ॥ ७१॥ यथा स्वन्वेषणं कर्तुं गतास्तेऽन्विष्य शक्तितः । राघवस्यान्तिकं प्राप्ताः प्रणष्टवदनौजसः ॥७२॥ तेषां ज्ञात्वा मनः शून्यं महीविन्यस्तचक्षुषाम् । पद्मो जगाद दीर्घोष्णं निश्वस्य म्लानलोचनः ७३ निजां शक्तिममुंचद्भिर्भवद्भिः साधुखेचराः । अस्मत्कार्ये कृतो यत्नो दैवं तु प्रतिकूलकम् ॥ ७४॥ तिष्ठतः स्वेच्छयेदानी यात वा स्वं समाश्रयम् । वाडवास्यां गतं रत्नं करात्कि पुनरीक्ष्यते ७५ नूनं सर्व कृतं कर्म प्रापणीयं फलं मया । तत्कर्तुमन्यथा शक्यं न भवद्भिर्मयापि वा ॥ ७६ ॥ विमुक्तं बन्धुभिः कष्टं विकष्टं वनमाश्रितम् । अनुकंपा न तनापि जनिता दैवशत्रुणा ॥ ७७ ॥ मन्ये यथानुबन्धेन लग्नोऽयं विधिरुद्धतः । तथैतस्मात्परं दुःखं किं नामान्यत्करिष्यति ।। ७८ ॥ परिदेवनमारब्धे कर्तुमेवं नराधिपे । धीरं विराधितोऽवोचत्परिसान्त्वनपण्डितः ॥ ७९ ॥ विषादमतुलं देव किमेवमनुसेवसे । स्वल्पैरेव दिनैः पश्य प्रियामनघविग्रहाम् ॥ ८ ॥ शोको हि नाम कोऽप्येष विषभेदो महत्तमः । नाशयत्याश्रितं देहं का कथान्येषु वस्तुषु ॥८१॥ तस्मादवलम्ब्यतां धैर्य महापुरुषसेवितम् । भवद्विधा विवेकानां भवनं क्षेत्रमुत्तमम् ॥ ८२॥
Page #272
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२६३
पंचचत्वारिंशत्तमं पर्व |
जीवं पश्यति भद्राणि धीरश्विरतरादपि । ग्रही हस्वमतिर्भद्रं कृच्छ्रादपि न पश्यति ॥ ८३ ॥ कालो नैष विषादस्य दीयतां कारणे मनः । उदासीनमिहानर्थं कुरुते परमं पुरा ॥ ८४ ॥ विद्याधरमहाराजे निहते खरदूषणे । अर्थान्तरमनुप्राप्तं दुरंतमवधार्यताम् ॥ ८५ ॥ किष्किधेन्द्रेन्द्रजिद्वीरौ भानुकर्णस्तथैव च । त्रिशिराः क्षोभणो भीमः क्रूरकर्मा महोदरः ||८६ ॥ एवमाद्या महायोधा नानाविद्यामहौजसः । यास्यन्ति सांप्रतं क्षोभं मित्रस्वजनदुःखतः ।। ८७ ।। नानायुद्धसहस्रेषु सर्वे संप्राप्तकीर्त्तयः । विजयार्धनगावा सखगेन्द्रेणाप्यसाधिताः ॥ ८८ ॥ पवनस्यात्मजः ख्यातो यस्थ वानरलक्षितम् । केतुं दूरात्समालोक्य विद्रवति द्विषां गणः ॥ ८९ ॥ तस्याभिमुखतां प्राप्य दैवयोगात्सुरा अपि । त्यजसि विषये बुद्धिं स हि कोपि महायशः ॥ ९० ॥ तस्मादुत्तिष्ठ तत्स्थानमलंकाराख्यमाश्रिताः । भामंडलस्वसुवार्ता स्वस्थीभूता लभामहे ॥ ९१ ॥ तद्धि नः पुरमायातमन्वयेन रसातले । तत्र दुर्गे स्थिताः कार्य चिन्तयामो यथोचितम् ॥ ९२ ॥ इत्युक्ते चतुरैरश्वैश्वतुर्भिर्युक्तमुत्तमम् । भास्वरं रथमारुह्य प्रथितौ रघुनन्दनौ ॥ ९३ ॥ शुशुभाते तदात्यन्तं न तौ पुरुषसत्तमौ । सीतया रहितौ सम्यग्दृष्टिर्बोधशमाविव ॥ ९४ ॥ चतुर्विधमहासैन्यसागरेण समावृतः । त्वरावानग्रतस्तस्थौ चन्द्रोदरनृपात्मजः ।। ९५ ।।
Page #273
--------------------------------------------------------------------------
________________
पंचचत्वारिंशत्तमं पर्व |
तावच्चन्द्रनखासूनुं नगरद्वारनिःसृतम् । कृतयुद्धं पराजित्य प्रविष्टः परमं पुरम् ।। ९६ ॥ तत्र देवनिवासा पुरे रत्नसमाकुले । यथोचितं स्थितं चक्रुः खरदूषणवेश्मनि ॥ ९७ ॥ तस्मिन्नमरसद्मा भवने रघुनन्दनः । सीतायाः गमनाल्लेभे धृतिं तु न मनागपि ॥ ९८ ॥ अरण्यमपि रम्यत्वं याति कान्तासमागमे । कान्तावियोगदग्धस्य सर्वं विन्ध्यावनायते ॥ ९९ ॥ अथैकान्ते गृहस्यास्य तरुखंडविराजिते । प्रासादमंजुलं वीक्ष्य ससीररघुनन्दनः ॥ १०० ॥ तत्रात्प्रतिमां 'दृष्ट्वा रत्न पुष्पार्चनाम् | क्षणविस्मृतसंतापः पद्मो धृतिमुपागतः ॥ १०१ ॥ इतस्ततश्च तत्रार्चा वीक्ष्यमाणः कृतानतिः । किंचित्प्रशान्तदुःखोर्मिरवतस्थे रघूत्तमः । १०२ ।। आत्मीयत्रलगुप्तश्च सुंडो मात्रा समन्वितः । पितृभ्रातृविनाशेन शोकी लंकामुपाविशत् ।। १०३ ।। एवं संगान् सावसानान्विदित्वा नानादुःखैः प्रापणीयानुपायैः । विभैर्युक्तान्भूरिभिर्दुर्निवारैरिच्छां तेषु प्राणिनो मा कुरुध्वम् ॥ १०४ ॥ यद्यप्याशापूर्वकर्मानुभावात्संगं कर्तुं जायते प्राणभाजाम् ।
प्राप्य ज्ञानं साधुवर्गोपदेशात्री नाशं सा रवेः शर्वरीव ॥ १०५ ॥ इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे सीतावियोगदाहाभिधानं नाम पंचचत्वारिंशत्तमं पर्व |
पद्मपुराणम् ।
२६४
Page #274
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२६५
षट्चत्वारिंशत्तम पर्व । अथ षट्चत्वारिंशत्तमं पर्व। तत्रासावुत्तमे तुंगे विमानशिखरे स्थितः । स्वैरं स्वैरं व्रजन् रेजे रावणादिविभानुवत् ॥ १॥ सीतायाः शोकतप्ताया म्लानं वीक्ष्यास्य पंकजम् । रतिरागविमूढात्मा दध्यौ किमपि रावणः ॥२॥ अस्तु दुर्दिनवक्रायाः सीतायाः कृपणं परम् । नानाप्रियशतान्यूचे पृष्ठतः पार्श्वतोऽग्रतः ॥३॥ मारस्यात्यन्तमृदुभिर्हतोऽहं कुसुमेषुभिः । निये यदि ततः साध्वी नरहत्या भवेत्तव ॥ ४ ॥ वक्त्रारविन्दमेतत्ते सकोपमपि सुन्दरि । राजते चारुभावानां सर्वथैव हि चारुता ॥ ५॥ प्रसीद देवि भृत्यास्ये सकृच्चक्षुर्विधीयताम् । त्वच्चक्षुःकान्तितोयेन स्नातस्यापैतु मे श्रमः ॥६॥ यदि दृष्टिप्रसादं मे न करोषि वरानने । एतेन पादपझेन सकृत्ताडय मस्तके ॥ ७॥ भवत्या रमणोद्याने किं न जातोस्म्यशोककः । सुलभा यस्य ते श्लाघ्या पादपद्मतलाहतिः ॥८॥ कृशोदरि गवाक्षेण विमानशिखरस्थिता । दिशः पश्य प्रयातोऽस्मि वियदुवं रवेरपि ॥ ९ ॥ कुलपर्वतसंयुक्तं समेरुं सह सागरम् । पश्य क्षोणीमिमां देवि शिल्पिनेव विनिर्मितम् ॥ १० ॥ एवमुक्त्वा सती सीता पराचीनव्यवस्थिता । अन्तरे व्रणमाधाय जगादारुचिताक्षरम् ॥ ११ ॥
Page #275
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२६६
चत्वारिंशत्तमं पर्व |
अपसार्य ममांगानि मा स्पृशः पुरुषाधम । निंद्याक्षरामिमां वाणीमीदृशीं भाषसे कथम् ।। १२ ।। पापात्मकमनायुष्यमस्वर्ग्यमयशस्करम् । असदीहितमेतत्ते विरुद्धं भयकारि च ॥ १३ ॥ परदारान् समाकांक्षन् महादुःखमवाप्स्यसि । पश्चात्तापपरीतांगो भस्मच्छन्नानलोपमाम् ॥१४॥ महता मोहपंकेन तवोपचितचेतसः । मुधा धर्मोपदेशोऽयमन्धे नृत्यविलासवत् ॥ १५ ॥ इच्छामात्रादपि क्षुद्र बद्धा पापमनुत्तमम् । नरके वासमासाद्य कष्टं वर्त्तनमाप्स्यसि ॥ १६ ॥ रूक्षाक्षराभिधानीभिः परं वाणीभिरित्यपि । मदनाहतचित्तस्य प्रेमास्य न निवर्त्तते ॥ १७ ॥ तत्र दूषणसंग्रामे निवृत्ते परमप्रियाः । शुकहस्ताद्या सोद्वेगाः बभ्राम स्वाम्यदर्शनात् ॥ १८ ॥ चलत्केतुमहाखंडं कुमारार्कसमप्रभम् । विमानं वीक्ष्य दाशास्यं मुदितास्तं डुढौकिरे ॥ १९ ॥ प्रदानैर्दिव्यवस्तूनां सम्मानैः श्वादुभिः परैः । ताभिश्च भृत्यसंपद्भिरग्राह्या जनकात्मजा ॥ २० ॥ शक्तोतिसुखधीः पातुं कः शिखामाशुशुक्षणेः । को वा नागवधूमूर्ध्नि स्पृशेद्रत्नशला किकम् २१ कृत्वा करपुटं मूर्ध्नि दशांगुलिसमाहितम् । ननाम रावणः सीतां निन्दितो पितृणाग्रवत् ॥ २२ ॥ महेंद्रसदृशैस्तावद्विभवैः सचिवैर्भृशम् । नानादिग्भ्यः समायातैरावृतो रक्षसां पतिः ॥ २३ ॥ जय वर्धस्व नन्देति शब्दैः श्रवणहारिभिः । उपगीतः परिप्राप्तो लंकामाखण्डलोपमः ॥ २४ ॥
Page #276
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तम पर्व। अचिन्तयच्च रामस्त्री सोऽयं विद्याधराधिपः । यत्राचरत्यमर्यादां तत्र किं शरणं भवेत् ॥२५॥ यावत्प्राप्नोमि नो वार्ता भर्तुः कुशलवर्तिनः । तावदाहारकार्यस्य प्रत्याख्यानमिदं मम ॥२६॥ उदीचीनं प्रतीचीनं तत्रास्ति परमोज्ज्वलम् । गीर्वाणरमणं ख्यातमुद्यानं स्वर्गसन्निभम् ॥२७॥ तत्र तरुतलच्छाये महापादपसंकुले । स्थापयित्वा रहः सीतां विवेश स्वनिकेतनम् ॥ २८ ॥ तावद्रूषणपंचत्वादग्रतोऽस्य महाशुचम् । अष्टोदश सहस्राणि विप्रलेपुर्महास्वरम् ॥ २९ ॥ भ्रातुश्चन्द्रनखा पादौ संसृत्योन्मुक्तकंबुकम् । अभाग्या हा हतास्मीति विललापास्तदुर्दिनम् ३० रमणात्मजपंचत्ववह्निनिर्दग्धमानसाम् । विलपंतीमिमां भूरि जगादैवं सहोदरः ॥ ३१ ॥ अलं वत्से रुदित्वा ते प्रसिद्धं किं न विद्यते । जगत्प्राग्विहितं सर्व प्राप्नोत्यत्र न संशयः ॥३२॥ अन्यथा क महीचारा जनाः क्षुद्रकशक्तयः । कायमेवंविधो भतो भवत्याः व्योमगोचरः ॥३३॥ मयेदमर्जितं सर्व व्यक्तं न्यायागतं फलम् । इति ज्ञात्वा शुचं कर्तुं कस्य मयस्य युज्यते ॥३४॥ नाकाले म्रियते कश्चिद्वज्रेणापि समाहतः । मृत्युकालेऽमृतं जन्तोर्विषतां प्रतिपद्यते ॥ ३५ ॥ येन व्यापादितो वत्से समरे खरदूषणः । अन्येषां वाहितेच्छानां मृत्युरेष भवाम्यहम् ॥ ३६॥ स्वसारमेवमाश्वास्य दत्तादेशो जिनार्चने । दह्यमानमना वासभवनं रावणोऽविशत् ॥ ३७॥
Page #277
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तम पर्व । तत्रादरनिराकाक्षं तल्पविक्षिप्तविग्रहम् । सोन्मादकेशरिच्छायं निस्वसंतमिवोरगम् ॥ ३८ ॥ भतारं दुःखयुक्तेव भूषणादरवर्जिता । महादरमुवाचैवमुपसृत्य मयात्मजा ॥ ३९ ॥ किं नाथाकुलतां धत्से खरदूषणमृत्युना । न विषादोऽस्ति शूराणामापत्सु महतीष्वपि ॥४०॥ पुरानेकत्र संग्रामे सुहृदास्ते क्षयं गताः । न च ते शोचिता जातु दूषणं किंतु शोचसि ॥ ४१ ।। आसन्महेन्द्रसंग्रामे श्रीमालिप्रमुखाः नृपाः । बांधवास्ते क्षयं याताः शोचितास्ते न जातुचित् ४२ अभूतसर्वशोकस्त्वमासीदपि महापदि । शोकं किं वहसीदानी जिज्ञासामिति भो वद ॥४३॥ ततः सहोदरः स्वैरं निश्वस्योवाच रावणः । तल्पं किंचित्परित्यज्य धारितो दारितोक्षरम्॥४४॥ श्रृणु सुन्दरि सद्भावमेकं ते कथयाम्यहम् । स्वामिन्यसि ममासूनां सर्वदा कृतवांछिता ॥ ४५ ॥ यदि वांछसि जीवंतं मां ततो देवि नाहसि । कोपं कर्तुं ननु प्राणा मूलं सर्वस्य वस्तुनः ॥४६॥ ततस्तयैवमित्युक्ते शपथैर्विनियम्यताम् । विलक्ष इव किंचित्स रावणः समभाषत ॥४७॥ यदि सा वेधसः सृष्टिरसादुःखवर्णना। सीता पतिं न मां वष्टि ततो मे नास्ति जीवितम् ४८ लावण्यं यौवनं रूपं माधुर्य चारुचेष्टितम् । प्राप्यतां सुन्दरीमेकां कृतार्थत्वमुपागताम् ॥ ४९ ॥ ततो मन्दोदरी कष्टां ज्ञात्वा तस्य दशामिमाम् । विहसन्ती जगादेवं विस्फुरदन्तचन्द्रिका ॥५०॥
Page #278
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तमं पर्व | इदं नाथ महाश्चर्यं वरो यत्कुरुतेऽर्थनम् । अपुण्या सावला नूनं या त्वां नार्थयते स्वयम् ॥ ५१ ॥ अथवा निखिले लोके सैवैका परमोदया । या त्वया मानकूटेन याच्यते परमापदा ॥ ५२ ॥ केयूररत्नजटिलैरिमैः करिकरोपमैः । आलिंग्य बाहुभिः कस्माद्वलात्कामयसे न ताम् ॥ ५३ ॥ सोऽवचद्देवि विज्ञाप्यमस्त्यत्र श्रृणु कारणम् । प्रसभं येन गृह्णामि न तां सर्वांगसुन्दरीम् ॥५४॥ आसीदनन्तवीर्यस्य मूले भगवतो मया । आत्तमेकं व्रतं साक्षाद्देवि निग्रंथसंसदि ।। ५५ ।। तेन देवेन्द्रवंद्येन व्याख्यातमिदमीदृशम् । यथा निवृत्तिरेकापि ददाति परमं फलम् ॥ ५६ ॥ जंतूनां दुःखभूयिष्ठभव संततिसारिणाम् । पायान्निवृत्तिरल्पापि संसारोत्तारकारणम् ॥ ५७ ॥ येषां विरतिरेकापि कुतश्चित्तूपजायते । नरास्ते जर्जरीभूतकलशा इव निर्गुणाः ॥ ५८ ॥ मनुष्याणां पशूनां च तेषां यत्किचिदन्तरम् । येषां न विद्यते कश्चिद्विरामो मोक्षकारणम् ॥५९॥ शक्त्यात पापानि गृहीतं सुकृतं धनम् । जात्यन्धा इव संसारे न भ्राम्यथ यतश्विरम् ||६०|| एवं भगवतो वक्त्रकमलान्निर्गतं वचः । मधु पीत्वा नराः केचिद्गनाम्बरतां गताः ॥ ६१ ॥ सागरधर्मपरे fear विकलशक्तयः । कर्मानुभावतः सर्वे न भवन्ति समक्रियाः ॥ ६२ ॥ एकेन साधुना तत्र प्रोक्तोऽहं सौम्यचेतसा । दशानन गृहाणैकां निवृत्तिमिति शक्तितः ॥ ६३ ॥
1
२६९
Page #279
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तमं पर्व ।
धर्मरत्नोपमं द्वीपं प्राप्तः शून्यमनस्करः । कथं व्रजसि विज्ञानी गुणसंग्रहकोविदः ॥ ६४ ॥ इत्युक्तेन मया देवि प्रणम्य मुनिपुंगवम् । देवासुरमहर्षीणां प्रत्यक्षमिति भाषितम् ॥ ६५ ॥ यावनेच्छति मां नारी परकीया मनस्वनी । प्रसभं सा मया तावन्नाभिगम्यापि दुःखिना ॥ ६६ ॥ एतच्चाप्यभिमानेन गृहीतं दयिते व्रतम् । का मां किल समालोक्य साध्वी मानं करिष्यति ॥ ६७॥ अतो न तां स्वयं देवि गृह्णामि सुमनोहराम् । सकृज्जल्पन्ति राजानः प्रत्यवायोऽन्यथा महान् ६८ यावन्चामि नो प्राणान् तावत्सीता प्रसाद्यताम् । भस्मभावं गते गेहे कूपखानश्रमो वृथा || ६९ || ततस्तं तादृशं ज्ञात्वा संजातकरुणोदया । वभाण रमणी नाथ स्वल्पमेतत्समीहितम् ॥ ७० ॥ ततः किंचिन्मधुस्वादविलासवशवर्तिनी । सा देवरमणोद्यानं जगाम कमलेक्षणा ॥ ७१ ॥ तदाज्ञां प्राप्य संपद्भिरष्टदशमहौजसाम् । दशाननवरस्त्रीणां सहस्राण्यनुवव्रजुः ॥ ७२ ॥ मन्दोदरी क्रमात्प्राप्य सीतामेवमभाषत । समस्तनयविज्ञानकृतमण्डनमानसा ॥ ७३ ॥ अयि सुंदरि हर्षस्य स्थाने कस्माद्विषीदसि । त्रैलोक्येऽपि हि सा धन्या पतिर्यस्या दशाननः ॥ ७४ ॥ सर्वविद्याधराधीशं पराजितसुराधिपम् । त्रैलोक्यसुन्दरं कस्मात्पतिं नेच्छसि रावणम् ॥ ७५ ॥ निःस्वःक्ष्मागोचरः कोऽपि तस्यार्थे दुःखितासि किम् ।
२७०
Page #280
--------------------------------------------------------------------------
________________
२७१
पद्मपुराणम्।
षट्चत्वारिंशत्तम पर्व । सर्वलोकवरिष्ठस्य स्वस्य सौख्यं विधीयताम् ॥ ७६ ॥ आत्मार्थ कुर्वतः कर्म सुमहासुखसाधनम् । दोषो न विद्यते कश्चित्सर्व हि सुखकारणम् ॥ ७७ ॥ मयेति गदितं वाक्यं यदि न प्रतिपद्यते । ततो यद्भविता तत्ते शत्रुभिः प्रतिपद्यताम् ॥ ७८ ॥ बलीयान् रावणः स्वामी प्रतिपक्षविवर्जितः । कामेन पीड़ितः कोऽयं गच्छेत्प्रार्थनभंजनात् ७९ यौ रामलक्ष्मणौ नाम तव कावपि सम्मतौ । तयोरपि हि संदेहः ऋद्धे सति दशानने ॥८॥ प्रतिपद्यस्व तत् क्षिप्रं विद्याधरमहेश्वरम् । ऐश्वर्य परमं प्राप्ता सौरीलीला समाश्रय ॥ ८१॥ इत्युक्ता वाष्पसंभारगद्गदोद्गीर्णवर्णिका । जगाद जानकी जातजललोचनधारिणी ॥ ८२ ।। वनिते सर्वमेतत्ते विरुद्धं वचनं परम् । सती नामीदृशं वक्राकथं निर्गतुमर्हति ॥ ८३ ।। इदमेव शरीरं मे छिन्द भिन्दाथवा हत । भर्तुः पुरुषमन्यं तु न करोमि मनस्यापि ॥ ८॥ सनत्कुमाररूपोऽपि यदि वाखंडलोपमः । नरस्तथापि तं भतुरन्य नच्छामि सर्वयः ॥ ८५ ॥ युष्मान्ब्रवीमि संक्षेपाहारान् सर्वानिहागतान् । यथा ब्रूत तथा नैतत्करोमि कुरुतेप्सितम् ।।८६॥ एतस्मिन्नन्तरे प्राप्तः स्वयमेव दशाननः । सीतां मदनतापा” गंगावेगीमित्र द्विपः ।। ८७ ॥ समीपीभूय चोवाच परं करुणया गिरा । किंचिद्विहसितं कुर्वन्मुखचन्द्रं महादरः ॥८८॥
Page #281
--------------------------------------------------------------------------
________________
२७५
पद्मपुराणम ।
षट्चत्वारिंशत्तम पर्व। मायासीदेवि संत्रासं भक्तोऽहं तव सुन्दरि । श्रृणु विज्ञाप्यमेकं मे प्रसीदावहिता ( भव ) ॥८९॥ वस्तुना केन हीनोऽहं जगत्रितयवर्तिना । न मां वृणोषि यद्योग्यमात्मनः पतिमुत्तमम् ॥ ९ ॥ इत्युक्त्वा प्रष्टुकामं तं सीतावोचत्ससंभ्रमा । अपसार्या ममांगानि मा स्पृशः पापमानसः ॥९१॥ उवाच रावणो देवि त्यज कोपाभिमानताम् । प्रसीद दिव्यभोगानां शचीव स्वामिनी भव ॥१२॥ सीतोवाच कुशीलस्य विभवाः केवलं मलम् । जनस्य साधुशीलस्य दारिद्रयमपि भूषणम् ॥९३॥ चारुवंशप्रसूतानां जनानां शीलहारितः । लोकद्वयविरोधेन शरणं मरणं वरम् ॥ ९४ ॥ परयोषित्कृताशस्य तवेदं जीवितं मुधा । शीलस्य पालनं कुर्वन् यो जीवति स जीवति ॥ ९५ ॥ एवं तिरस्कृतो मायां कर्तुं प्रववृते द्रुतम् । नेश्रुर्देव्यः परित्रस्ताः संजातं सर्वमाकुलम् ॥ ९६ ॥ एतस्मिन्नन्तरे जाते भानुमायाभयादिव । समं किरणचक्रेण प्रविवेशास्तगहरम् ॥ ९७ ॥ प्रचंडै विंगलद्डैः करिभिर्घनवृंहितैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ ९८ ॥ दंष्ट्राकरालदशनाघेर्दुःसहनिःस्वनैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ ९९ ॥ चलत्केसरसंघातैः सिंहैरुपनखांकुशैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ १०० ॥ ज्वलत्स्फुलिंगभीमाक्षैर्लसज्जिद्वैर्महोरगैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ ११ ॥
Page #282
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२७३
षट्चत्वारिंशत्तम पर्व। व्यात्ताननैः कृतोत्पातपतनैः करवानरैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ १०२ ॥ तमःपिंडासितैस्तुंगैर्वेतालैः कृतहुंकृतैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ १०३ ।। एवं नानाविधैरुप्रैरुपसर्गः क्षणोध्रतैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ।। १०४ ॥ तावञ्च समतीतायां विभावयाँ भयादिव । जिनेन्द्रवेश्मसूत्तस्थौ शंखभेर्यादिनिःस्वनः ॥ १०५ ॥ उद्घाटितकपाटानि द्वाराणि वरवेश्मनाम् । प्रभाते गतनिद्राणि लोचनानीव रेजिरे ॥ १०६ ॥ संध्यया रंजिता प्राची दिगत्यन्तमराजत । कुंकुमस्येव पंकेन भानोरागच्छतः कृता ॥ १०७ ।। नैशं ध्वान्तं समुत्सार्य कृत्वेन्दु विगतप्रभम् । उदयाय सहस्रांशुः पंकजानि न्यवोधयत् ॥१०८॥ ततो विमलता प्राप्ते प्रभाते चलपक्षिणि । विभीषणादयः प्रापुर्दशास्यं प्रियबान्धवाः॥ १०९ ॥ खरदूषणशोकेन ते निर्वाक्यनताननाः । सवाष्पलोचना भूमौ समासीना यथोचितम् ॥१०॥ तावत्पटान्तरस्थाया रुदत्याः शोकनिर्भरम् । सुश्राव योषितः शब्दं मनोभेदं विभीषणः॥१११॥ जगाद व्याकुलः किंचिदपूर्वेयमिहांगना । का नाम करुणं रौति स्वामिनेव वियोजिता॥११२॥ शब्दोयं शोकसंभूतमस्याः कंपं समुल्वणम् । निवेदयति देहस्य दुःखसंभारवाहिनः॥ ११३ ॥ एवमुक्तं समाकर्ण्य सीता तारतरस्वनम् । रुरोद सज्जनस्याग्रे नूनं शोकः प्रवर्द्धते ॥ ११४ ॥
२-१८
Page #283
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२७४
षट्चत्वारिंशत्तमं पर्व । जगौ च वाष्पपूर्णास्यात्सबलं निर्गताक्षरम् । इह को देव मे बन्धुस्त्वं यत्पृच्छसि वत्सलः ११५ सुता जनकराजस्य स्वसा भामंडलस्य च । काकुस्थस्याहं पत्नी सीता दशरथस्नुषा ॥११६ ॥ वार्तान्वेषी गतो यावद्भर्ता मे भ्रातुराहवे । रंधेऽहं तावदेतेन हृता कुत्सितचेतसा ॥ ११७॥ यावन्न मुंचति प्राणान् रामो विरहितो मया । भ्रातरस्मै द्रुतं तावन्नीत्वा मामर्पयोदितः ॥११८॥ एवमुक्तं समाकर्ण्य क्रुद्धचेता विभीषणः । जगाद विनयं विभ्रदातरं गुरुवत्सलः ॥ ११९ ॥ आशीविषाग्निभूतेयं मोहाद्भुतः कुतस्त्वया । परनारी समानीता सर्वथाभयदायिनी ॥ १२० ॥ बालबुद्धिरपि स्वामिन् विज्ञाप्यं श्रूयतां मम । दत्तो हि मम देवेन प्रसादो वचनं प्रति ॥१२१॥ भवत्कीर्तिलताजालैर्जटिलं वलयं दिशाम् । मा धाक्षीदयशोदावं प्रसीद स्थितिकोविद ॥१२॥ परदाराभिलाषोऽयमयुक्तोऽतिभयंकरः । लज्जनीयो जुगुप्सश्च लोकद्वयविनाशकः ॥ १२३ ॥ धिक्शब्दाः प्राप्यते योऽयं सज्जनेभ्यः समं ततः । सोयं विदारणे शक्तो हदयस्य सुचेतसाम् ॥ जानन् सकलमर्यादा विद्याधरमहेश्वरः । ज्वलन्तमुल्मुकं कस्मात्करोषि ह्रदये निजम् ॥ १२५ ।। यो ना परकलत्राणि पापबुद्धिनिषेवते । नरकं सविशत्येष लोहपिंडो यथाजलम् ॥ १२६ ॥ तच्छुत्वा रावणोऽवोचत् किं तद्र्व्यं महीतले । भ्रातर्यस्यास्मि न स्वामी परकीयं कुतो मम १२७
Page #284
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२७५
षट्चत्वारिंशत्तमं पर्व। इत्युक्तो विकथाः कर्तुं प्रारेभे भिन्नमानसः । लब्धान्तरश्च मारीचो महानीतिरवोचत ।। १२८ ॥ जानन्नपि कथं सर्व लोकवृत्तं दशानन । अकरोदीदृशं कर्म मोहस्येदं विचेष्टितम् ॥ १२९ ॥ सर्वथा प्रातरुत्थाय पुरुषेण सुचेतसा । कुशलाकुशलं स्वस्य चिंतनीयं विवेकतः ॥ १३० ॥ निरपेक्षं प्रवृत्तेऽस्मिन्वक्तुमेवं महामतौ । सभायाः क्षोभनं कुर्वन्नुत्तस्थौ रक्षसां प्रभुः ॥ १३१ ॥ त्रिजगन्मंडनाभिख्यमारुरोह च रावणः । महर्दिभिश्च सामंतैर्वाहारूद्वैः समावृतः ॥ १३२ ॥ पुष्पकाग्रं समारोप्य सीतां शोकसमाकुलाम् । पुरः कृत्वा महाभूत्या प्रययौ नगरीदिशा ॥१३३॥ कुंतासितोमरच्छत्रध्वजादर्पितपाणयः । अग्रतः पुरुषाः सश्रुः कृतसंभ्रमनिस्वनाः ॥ १३४ ॥ चलिताश्चंचलग्रीवाः स्थूरीपृष्ठाः सहस्रशः । चंचत्खुराननक्षुण्णक्षितयश्चारुसादिनः ॥ १३५ ॥ प्रचंडनिस्वनद्वंटाः कृतजीमूतगर्जिताः । प्रचेलुर्वेनृभिर्नुना गंडशैलसमा गजाः ॥ १३६ ॥ अट्टहासान्विमुंचंतः कृतनानाविचेष्टिताः । स्फोटयंत इवाकाशं प्रजग्मुमानवाः पुरः ॥१३७॥ सहस्रसंख्यतूयोणां ध्वनिना पूरयन दिशः । लंकां दशाननो विक्षन माणिकांचनतोरणाम् ।।१३८॥ संपद्भिरेवमाद्याभिवृतोऽप्यत्यन्तचारुभिः । सीता दशाननं मेने तृणादपि जघन्यकम् ॥ १३९ ।। अकल्मषं स्वभावेन वैदेहीमानसं नृपः । न शक्यं लोभमाने तु लेपमप्सु यथांबुजम् ॥ १४० ॥
Page #285
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२७६
षट्चत्वारिंशत्तम पर्व।
समंतकुसुमं तावन्नानातरुलताकुलम् । प्रमदाख्यं वनं सीता नीता नंदनसुन्दरम् ॥ १४१॥ स्थितं फुल्लनगस्यो दृष्ट्वा यद् दृष्टिवन्धनम् । उन्मादो मनसस्तुंगो देवानामपि जायते १४२ गिरिः सप्तभिरुद्यानैर्वेष्टितः स्वायतैः स च । रराज भद्रशालाद्यैः सूर्यावर्त इवोज्ज्वलः ॥१४३॥ एकदेशानहं तस्य विविधाद्भुतसंकुलान् । नामतः संप्रवक्ष्यामि तव राजन् निवोध्यताम् ॥१४४॥ प्रकीर्णकं जनानन्दं सुखसेव्यं समुच्चयं । चारणप्रियसंज्ञं च निवोध प्रमदं तथा ॥ १४५ ॥ प्रकीर्णकं महीपृष्ठे जनानन्दं ततः परम् । यत्रानिषिद्धसंचारो जनः क्रीडति नागरः॥ १४६ ॥ तृतीयेऽलं वने रम्ये मृदुपादपसंकुले । घनवृन्दप्रतीकाशे सरिद्वापीमनोहरे ॥ १४७॥ दशव्यामायता वृक्षा रविमार्गोपरोधिनः । केतकीयूथिकोपेतास्तांबूलीकृतसंगमाः ॥ १४८ ॥ निरुपद्रवसंचारे तत्रोद्यानसमुच्चये । विलसंति विलासिन्यः कचिद्देशे च सन्नराः ॥१४९ ॥ चारणप्रियमुद्यानं मनोज्ञ पापनाशनम् । स्वाध्यायनिरता यत्र श्रमणा व्योमचारिणः ॥ १५० ॥ तस्योपरि समारुह्य ययुः पृष्ठमनिंदितम् । सुखारोहणसोपानं दृश्यते प्रमदाभिधम् ॥ १५१ ॥ स्नानकोडोचिता रम्या वाप्योऽस्मिन् पद्मशोभिता । प्रपाः सभाश्च विद्यन्ते रचितानेकभूमयः॥ नारंगमातुलिंगायैः फलैर्यत्र निरंतराः । खर्जूरैर्नालिकेरैश्च तालैरन्यैश्च वेष्टिताः ॥ १५३ ॥
Page #286
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२७७
षदचत्वारिंशत्तमं पर्व । तत्र च प्रमदोद्याने सर्वा एवागजातयः । कुसुमस्तवकैश्छन्ना गीयन्ते मत्तषट्पदैः ॥ १५४ ।। कुर्वन्तीव लतालीलां कोमलैः पल्लवैः करैः । घूर्णिता मन्दवातेन फलपुष्पमनोहरा ।। १५५ ॥ सारंगदयिताभिश्च प्रलंबांबुदशोभिनः । समस्ततुकृतच्छायाः सेवन्ते घनपादपाः ॥ १५६ ॥ विभूतिं तस्य तां वाप्यः सहस्रच्छदनाननाः । अलोकन्त इवातृप्ता असितोत्पललोचनैः ॥१५७।। गहनान् कोकिलालापान् नृत्यन्तो मन्दवायुना । दीर्घिका विहसंतीव राजहंसकदम्बकैः ॥१५८॥ प्रमदाभिख्यमुद्यानं सर्वभोगोत्सवावहम् । अत्र किं बहुनोक्तेन स्याद्वरं नन्दनादपि ॥ १५९ ॥ अशोकमालिनी नाम पत्रपद्मविराजिता । वापी कनकसोपाना विचित्राकारगोपुरा ॥ १६० ॥ मनोहरैहै ति गवाक्षायुपशोभितैः । सल्लतालिंगितप्रान्तनिझरैश्च ससीकरैः ॥ १६१ ॥ तत्राशोकतरुच्छन्ने स्थापिता शोकधारिणी । देशे शकालयाद्भ्रष्टा स्वयं श्रीरिव जानकी १६२ तस्मिन् दशाननोक्ताभिः स्त्रीभिरंतरवर्जितम् । सीता प्रसाद्यते वस्त्रगंधालंकारपाणिभिः ॥१६३।। दिव्यैः सननीतैर्वाक्यैश्चामृतहारिभिः । अनुनेतुं न सा शक्या संपदा चासराभया ॥१६४॥ उपर्युपरि संरक्तो दूतीं विद्याधराधिपः । प्राहिणोद्विस्मरादारदावज्वालाकुलीकृतः ॥ १६५ ॥ दूती सीतां व्रज ब्रूहि दशास्यमनुरक्तकम् । न सांप्रतमवज्ञातुं प्रसीदेत्यादिभाषते ।। १६६ ।।
Page #287
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२७८
षट्चत्वारिंशत्तम पर्व।
गताऽऽगता च सा तस्मै वदतीति वितेजसे । देव साहारमुत्सृज्य स्थिता त्वां वृणुते कथम् १६७ न जल्पति निषिण्णांगा नालं कायेन चेष्टते । न ददाति महाशोका दृष्टिमस्मासु जानकी १६८ अमृतादपि सुस्वादैः पयःप्रभृतिभिः श्रितम् । सुगंधि वृणुते नान्नम् विचित्रं बहुवर्णकम् ॥१६९॥ ततो मदनदीप्ताग्निज्वालालीढः समंततः । आतॊ विचिंतयत् भूरि मनोऽसौ व्यसनार्णवे॥१७॥ शोचत्युन्मुक्तदीर्घोष्णनिश्वासानिलसंततिः । शुष्यन्मुखः पुनः किंचिद्गायत्यविदिताक्षरम् ॥१७१॥ स्मरपालेयनिर्दग्धं धुनाति मुखपंकजम् । मुहुः किमपि संचित्य स्मयते क्षणनिश्चलः ॥ १७२ ॥ अनुबंधमहादाहात्स्मरतावयवानलम् । क्षिपत्यविरतं भूमौ कुट्टिमायां विवर्त्तकः ॥ १७३ ॥ उत्तिष्ठति पुनः शून्यः सेवते निजमासनम् । निःकामति पुनदृष्टा जन प्रतिनिवत्तते ।। १७४॥ नागेन्द्र इव हस्तेन सर्वदिङ्मुखगामिना । आस्फालयति निःशंकः कुट्टिमं कंपमानयन् ॥१७५॥ स्मरन् सीता मनोयातामात्मानं पौरुषं विधिम् । निरपेक्षमुपालब्धं सास्रनेत्रः प्रवर्त्तते ॥ १७६ ।। किंचिदाहयते दत्तहुंकारश्चातिकैर्जनैः । तूष्णीमास्ते पुनः किं किमति शून्यं प्रभाषते ॥ १७७ ॥ सीता सीतेति कृत्वास्यमुत्तानं भाषते मुहुः । तिष्ठत्यवाङ्मुखं भूयो नखेन विलिखन्महीम् १७८ करेण हृदयं मार्टि बाहुमूर्धानमीक्ष्यते । पुनर्मुचति हुंकारं तल्पं मुंचति सेवते ॥ १७९ ॥
Page #288
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૭૬
षट्चत्वारिंशत्तमं पर्व। दधाति हृदये पद्म पुनरं निरस्यति । मुहुः यतति शृंगारं गगनांगणमीक्ष्यते ॥ १८० ॥ हस्तं हस्तेन संस्पृश्य हंति पादेन मेदनीम् | निश्वासदहनश्याममाकृष्णाधरमीक्ष्यते ॥ १८१॥ धत्ते कहकहस्वानं केशाद्वर्त्तयति क्षणम् । कोपेन दुस्सहां दृष्टिं क्वचिदेव विमुंचति ॥ १८२ ॥ मुंभोत्तानीकृतोरस्को वाष्पाच्छादितलोचनः । बाहुतोरणमुद्यम्य भिनत्ति स्फुटदंगुलिः ॥१८३॥ अंशकान्तेन हृदयं वीजयत्याहितेक्षणम् । कुसुमैः कुरुते रूपं पुनर्नाशयति द्रुतम् ।। १८४ ॥ चित्रयत्यादरी सीतां द्रवयत्यश्रुभिः पुनः । दीनः क्षिपति हाकारान् न न मामेति जल्पति १८५ एवमाद्याः क्रियाः क्लिष्टा मदनग्रहपीडितः । करोति करुणालापं चित्रं हि स्मरचेष्टितम् ॥१८६॥ तस्य स्मराग्निना दीप्तं हृदयेन समं वपुः । अनुबंधमहाधूमं ज्वलत्याशाकृतेंधनम् ॥ १८७॥ अचिन्तयच्च हा कष्टं कामवस्थामहं गतः । येनेदमपि शक्रोमि न वोढुं स्वशरीरकम् ॥१८८॥ दुर्गसागरमध्यस्था बृहविद्याधरा मया । जिताः सहस्रशो युद्धे किमिदं वर्ततेऽधुना ॥ १८९॥ सर्वत्र जगति ख्यातलोकपालपरिच्छदः । वंदिग्रहमुपानीतो महेन्द्रोऽपि पुरा मया ॥ १९० ॥ अनेकयुद्धनिर्भननराधिपकदम्बकम् । सोऽहं संप्रति मोहेन भस्मीकर्तुं प्रवर्तितः ॥ १९१ ॥ चिंतयनिदमन्यच कामाचार्यवशंगतः । आस्तां तावदसौ राजनिदमन्यद्विवुध्यताम् ॥ १९२ ॥
Page #289
--------------------------------------------------------------------------
________________
पद्मपुराणस ।
षट्चत्वारिंशत्तमं पर्व । आकुलो मंत्रिभिः साकं महामंत्रविशारदः । विभीषणः समारेभे निरूपयितुमीदृशम् ॥ १९३ ।। स हि रावणराष्ट्रस्य धुरं धत्ते गतश्रमः । समस्तशास्त्रबोधां बुधौतनिर्मलमानसः ।। १९४ ॥ रावणस्य हि तत्तुल्यो न हितो विद्यते परः । तस्य सर्वोपयोगेन चिन्तनीये स वर्तते ।। १९५ ।। उवाचासावहो वृद्धा राजनीत्थं व्यस्थिते । उपाक्षपत कर्तव्यमस्माकमधुनोचितम् ॥ १९६ ॥ विभीषणोदितं श्रुत्वा संभिन्नमतिरभ्यधात् । अतः परं वदामः किं गतं कार्यमकार्यताम् ॥ १९७॥ स्वामिनो दशवक्त्रस्य सहसा दैवयोगतः । दक्षिणः पतितो बाहुः खरदूषणसंज्ञकः ।। १९८ ।। विराधितोऽपरः कोऽपि कारणं यो न कस्यचित् । सोऽयं गोमायुतां भुक्त्वा केसरित्वं समाश्रितः ।। भव्यतां पश्यतामुष्य साधुकर्मोदयादिमाम् । लक्ष्मणस्याहवे यातो बन्धुतां यत्सुचेष्टितः || २०० || एतेऽपि बलिनः सर्वे मानिनः कपिकेतवः । भवन्त्याक्रान्तितो वश्या निर्भृत्यास्तु न जातुचित् ॥ अमीषामन्य आकारो मानसं त्वन्यथा स्थितम् । भुजंगानामिवात्यन्तमन्तरे दारुणं विषम् २०२ नेता वानरमौलीनामनंगकुसुमापतिः । न्यक्षेण भजते पक्षं सुग्रीवस्य मरुत्सुतः ॥ २०३ ॥ ततः पंचमुखोऽवोचद्विधायानादरस्मितम् । खरदूषणवृत्तेन गणितेनेह को गुणः ॥ २०४ ॥ वृत्तान्तेनामुना कस्य संत्रासोऽकीर्तिरेव च । भवत्येव हि शूराणामीदृशी समरे गतिः ॥ २०५ ॥
२८०
Page #290
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तमं पर्व | वातेनापह्नुते सिन्धोः कणिकान्यूनता भवेत् । रावणस्य बलं स्फीतं किं दूषणसमीया ॥ २०६ ॥ asi जति मे चेतः कुर्वतः संप्रधारणम् । क्वायं दशाननः स्वामी क्वान्ये केऽपि वनौकसः २०७ सूर्यहासधरेणापि क्रियते लक्ष्मणेन किम् । विराधितः क नामैव यस्येच्छामनुवर्तते ॥ २०८ ॥ मृगेन्द्राधिष्ठितात्मानमपि काननसंगतम् । दंदह्यते न किं दावो गिरिं परमदुःसहम् ॥ २०९ ॥ सहस्रमतिनामाथ सचिवोऽनंतर जगौ । सूचयन् विरसं वाक्यं पूर्वं मस्तककंपनात् ।। २१० ।। मानोद्धतैरिमैर्वाक्यैरर्थहीनैः किमीरतैः । मंत्रणीयं हि संबद्धं स्वामिने हितमिच्छता ।। २११ ॥ स्वल्प इत्यनया बुद्धद्या कार्यावज्ञा न वैरिणि । कालं प्राप्य कणोवह्नेर्दहेत् सकलविष्टपम् || २१२ ॥ अश्वग्रीवो महासैन्यः ख्यातः सर्वत्र विष्टपे । स्वल्पेनापि तृपृष्टेन निहतो रणमूर्धनि ।। २१३ ॥ तस्मात्क्षेपविनिर्मुक्तमियं परमदुर्गमा । नगरी क्रियतां लंका मतिसंदोहशालिभिः || २१४ ॥ सुघोराणि प्रसार्यतां यंत्राण्येतानि सर्वतः । तुंगप्राकारकूटेषु दृश्यतां च कृताकृतम् ।। २१५ ।। सन्मानैर्बहुभिः शश्वत्सेव्यो जनपदोऽखिलः । स्वजनाव्यतिरेकेण दृश्यतां प्रियवादिभिः ॥ २१६ ॥ सर्वोपायविधानेन रक्षतां प्रियकारिभिः । राजा दशाननो येन सुखतां प्रतिपद्यते ।। २१७ ।। प्रसाद्यतां सुविज्ञानैर्मैथिली परमैः प्रियैः । मधुरैर्वचनैर्दानैः क्षारैरहिवधूरिव ॥ २१८ ॥
1
२८९
Page #291
--------------------------------------------------------------------------
________________
२८२
पद्मपुराणम् ।
षट्चत्वारिंशत्तम पर्व। सुग्रीवं कैष्कुनगरमन्यांश्च भटपुंगवान् । वहिस्थापयतोद्युक्तानगर्या रक्षकारिणः ॥ २१९ ॥ एवंकृते न ते भेदं जानन्ति वहिराहिताः । कार्ये नियोगदानाच्च जानन्ति स्वामिनं प्रियम् २२० एवं दुर्गतरे जाते कार्ये सर्वत्र सर्वतः । को जानाति हृतां सीतां स्थितामत्रापरत्र वा ॥ २२१ ॥ रहितश्चानया रामो ध्रुवं प्राणान् विमोक्ष्यति । यस्येयमीदृशी कान्ता वर्तते विरहे प्रिया ॥२२२॥ रामे च पंचतां प्राप्ते शोकविक्लवमानसः । एकाकी क्षुद्रयुक्तो वा सौमित्रिः किं करिष्यति॥२२३॥ अथवा रामशोकेन मरणं तस्य निश्चितम् । दीपप्रकाशयोर्यद्वदनयोः संगतं परम् ।। २२४ ॥ अपराधाब्धिमनः सन् यास्यति क विराधितः । सुग्रीवस्यापि वाश्वंतं श्रयते लोकतः परम् ।।२२५॥ मायां सुग्रीवसंदेहकारिणीं यश्च नाशयेत् । दशवक्रेश्वरादस्य कोसौ लोके भविष्यति ॥ २२६ ।। तस्मात्तद्दुर्गसंसिद्धौ सनाथं भजतेतराम् । योगवायं विभोर्वाद परिणामे शुभावहः ।। २२७ ॥ प्रकारेणामुना शत्रूनेतानन्यांश्च जेष्यति । दशाननस्ततो यत्र क्रियतामत्र वस्तुनि ॥ २२८ ॥ एवं विमृश्य विद्वांसः प्रमोदान्वितमानसाः । यथास्वं निलयं जग्मुः कर्तव्यकृतनिश्चयाः॥२२९॥ विभीषणेन यंत्राद्यैः शालो दुर्गतरीकृतः । विद्याभिश्च विचित्राभिलंका गहरतारका ॥ २३० ॥
कृत्यं किंचिद्विशदमनसामाप्तवाक्यानपेक्षम् । नाप्नैरुक्तं फलति पुरुषस्योषितं पौरुषेण ॥
Page #292
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२८३
सप्तचत्वारिंशत्तमं पर्व। देवोपेतं पुरुषकरणं कारणं नेष्टसंगे । तस्माद्भव्याः कुरुत यत्नं सर्वहेतुप्रसादे ॥२३१॥ । राजन्कर्मण्युदयसमयं सेव्यमाने जनानाम् । नानाकारे कुशलवचनं नो विशत्येव चेतः ॥
युक्तां तस्मात्स्थितिमनुनयन् कर्म कुर्यात्प्रशस्तम् ।
भूयो येन प्रतपति रविः शोकरूपो न कष्टः ॥ २३२ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे मायाप्रकाराभिधानं नाम षट्चत्वारिंशत्तमं पर्व ।
अथ सप्तचत्वारिंशत्तम पर्व। किष्किंधेशस्ततो भ्राम्यन् कान्ताविरहदुःखतः । तं प्रदेशमनुप्राप्तो निवृतं यत्र संयुगम् ॥१॥ तत्राद्राक्षीद्रथान् भग्नान गजांश्च गतजीवितान् । सामंतानश्वसंयुक्तानिर्मिन्नच्छिन्नविग्रहान् ॥२॥ दह्यमानानपान्कांश्चित्कांश्चिविश्वसितांस्तथा । क्रियमाणानुमरणाक्रान्ताभिपरान् भटान् ॥ ३ ॥ विच्छिन्नार्धभुजान्कांश्चित्कांश्चिद?रुवर्जितान् । निसृतांत्रचयान्कांश्चित्कांश्चिदलितमस्तकान् ४ गोमायुमावृतान्कांश्चित् खगैः कांश्चिनिषेवितान् । रुदिता परिवर्गेण कांश्चिच्छादितविग्रहान्॥५॥
Page #293
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तचत्वारिंशत्तमं पर्व ।
किमेतदितिप्रष्टश्च तस्मै कश्चिदवेदयत् । सीताया हरणं ध्वस्तौ जटायुखरदूषणौ ।। ६ ॥ ततोऽभवद्भृशं दुःखी खरदूषणमृत्युतः । किष्किंधाधिपतिश्चितामेतामगमदाकुलः ॥ ७ ॥ कष्टं चितितमेतन्मे किलास्मै बलशालिने । निवेद्य दायिताशोकं मोक्षामीति महाशया ॥ ८ ॥ विधानदंतिना सोऽपि कथमाशामहाद्रुमः । भग्नो मम विपुण्यस्य कथं शान्तिर्भविष्यति ॥ ९ ॥ किमंजनासुतं गत्वा सादरं संश्रयाम्यहम् | मद्रूपधारिणो येन मरणं स करिष्यति ॥ १० ॥ उद्योगेन विमुक्तानां जनानां सुखिता कुतः । तस्मादुःखविनाशय श्रयाम्युद्योगमुत्तमम् ॥ ११॥ अथवानेकशो दृष्टोऽनादरो स करिष्यति । नवोऽनुरागवंद्यो हि चन्द्रो लोकस्य नान्यदा ||१२|| तस्मान्महाबलं दीप्तं महाविद्याविशारदम् । रावणं शरणं यामि स मे शान्ति करिष्यति ॥ १३ ॥ अजानानो विशेषं वा क्रोधवोधितमानसः । दशाननः कदाचिन्नौ हंतुं वांच्छेदुभावपि ॥ १४ ॥ मंत्रदोषसत्कारं दानं पुण्यं स्वशूरताम् । दुःशीलत्वं मनोदाहं दुर्मित्रेभ्यो न वेदयेत् ॥ १५ ॥ तस्माद्येनैव संग्रामे निहितः खरदूषणः । तमेव शरणं यामि स मे शान्ति करिष्यति ॥ १६ ॥ तुल्यव्यसनताहेतोः कालो यमुपसर्पति । सद्भावं हि प्रपद्यन्ते तुल्यावांछा जना भुवि ॥ १७ ॥ एवं विमृश्य संजातचारुबुद्धिः समं ततः । प्रजिघायादराद्भूतं प्रियं कर्तुं विराधितम् ।। १८ ।।
1
२८४
Page #294
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
सप्तचत्वारिंशत्तम पर्व । सुग्रीवागमने तेन ज्ञापितेऽभूद्विराधितः । सविस्मयः सतोषश्च चकार च मनस्यदः ॥ १९ ।। चित्रं सुग्रीवराजो मां संसेव्यः सन्निषेधते । अथवाश्रयसामर्थ्यात्पुंसां किं नोपजायते ॥२०॥ सतो दुंदुभिनिर्घोष समाकर्ण्य धनोपमम् । पातालनगरं जातं भयाकुलमहाजनम् ॥ २१ ॥ ततो लक्ष्मीधरोऽपृच्छदनुराधांगसंभवम् । वद तूयेनिनादोऽयं श्रूयते कस्य संहृतः ।। २२ ॥ सोऽनोचच्छूयतां देव महाबलसमन्वितः । नाथोऽयं कपिकेतूनां प्राप्तस्त्वां प्रेमतत्परः ।। २३ ॥ भ्रातारौ वालिसुग्रीवौ किष्किंधानगराधिपौ । तिग्मांशुरजसः पुत्रौ प्रख्याताववनाविमौ ॥२४॥ वालीति योऽत्र विख्यातः शीलशौर्यादिभिर्गुणैः । अभिमानमहाशैलो नानंसीद्दशवक्रकम् ॥१५॥ परं प्राप्य प्रबोधं स कृत्वा सुग्रीवसाच्छ्रियम् । तपोवनमुपाविक्षत्सर्वग्रन्थविवर्जितम् ॥२६॥ सुग्रीवोऽप्यभिसक्तात्मा सुतारायां श्रियान्वितः । राज्ये निःकंटके रेमे शचीयुक्तो यथा हरिः ॥२७॥ सुतो यस्यांगदाभिख्यः गुणरत्नविभूषितः । किष्किंधाविषये यस्य संकथान्यविवर्जिता ॥ २८॥ तयोरियं कथा यावद्वर्त्ततेऽनन्यचेतसोः । तावत्संप्राप्तः सुग्रीवः श्रीमत्पार्थिवकेतनम् ॥ २९ ॥ ज्ञातवानुमतिं प्राप्य विवेशे कृतमंगलः । राजाधिकृतलोकेन परमं दर्शितादरः ॥ ३० ॥ लक्ष्मीधरकुमाराद्यास्तं राजन् प्राप्तविस्मयाः । परिषस्वजिरे कान्त्या विकसद्वदनाम्बुजाः॥३१॥
Page #295
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२८६
सप्तचत्वारिंशत्तमं पर्व ।
उपविष्टाश्च विधिना जांबूनद महीतले । योग्यं संभाषणं चक्रुर मृतोपमया गिरा ।। ३२ ॥ निवेदितं ततो वृद्धैरिति पद्ममहीक्षिते । देव किष्किधन गरे सुग्रीवाख्योऽयमीश्वरः ॥ ३३ ॥ प्रभुर्महाबलो भोगी गुणवानतिसत्प्रियः । केनापि दुष्टमायेन खगेनानर्थमाहतः || ३४ ॥ एतस्याकृतिमाश्रित्य राज्यभोगं पुरं बलम् । सुतारां च गृहीतुं तां कोऽपि वांछति दुर्मतिः ॥ ३५ ॥ एतस्य वचनस्यान्ते रामस्तत्संमुखोऽभवत् । अचितयच्च मत्तोऽपि दुःखितो नाम विद्यते || ३६ || मायं सदृशो मन्ये यदि वाधरतां भजेत् । येनास्य दृश्यमानैकप्रतिपक्षेण बांधवम् ॥ ३७ ॥ rasi दुस्तरोऽत्यन्तं कथमेतद्भविष्यति । हानिरेवंविधस्यैषा मद्विधः किं करिष्यति ॥ ३८ ॥ सुमित्रातनयोऽपृच्छत्कृत्स्नं दुःखस्य कारणम् । सुग्रीवस्य मनस्तुल्यं धीरं जांबूनदश्रुतिम् ||३९|| aarsat मंत्रिणां मुख्यो जगाद विनयान्वितः । असत्सुग्रीवरूपस्य सत्सुग्रीवस्य चांतरम् ||४०|| राजन् सुदारुणानंगलता पाशवशीकृतः । रूपं रूपवशः कोऽपि समं कृत्वास्य मायया ॥ ४१ ॥ अज्ञातो मंत्रिवर्गस्य सर्वस्यात्मजनस्य च । सुग्रीवान्तः पुरं तुष्टः प्राविशत्पापचेतनः ॥ ४२ ॥ प्रविशतं च तं दृष्ट्वा सुताराहा परा सती । महादेवी जगादास्यसमुद्विग्ना निजं जनम् ॥ ४३ ॥ दुष्टविद्याधरः कोऽपि सुग्रीवाकृतिरेषकः । आयाति पापापूर्णात्मा चारुलक्ष्मणवर्जितः ॥ ४४ ॥
Page #296
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
सप्तचत्वारिंशत्तमं पर्व | अभ्युत्थानादिकामस्य क्रियां माकार्ष्ट पूर्ववत् । केनापि वरणीयोऽयमभ्युपायेन दुर्णयः ॥ ४५ ॥ अथांशंकविमुक्तात्मा गंभीरो लीलायान्वितः । गत्वा सुग्रीववद्भेजे सौग्रीवं स वरासनम् ||४६ ॥ एतस्मिन्नन्तरे प्राप बालिराजानुजः क्रमात् । अद्राक्षीच जनं दीनमप्राक्षीच्च समाकुलः ||४७|| कस्मादयं जनोऽस्माकं म्लानवक्त्रेक्षणो भृशम् । विषादं वहते स्थाने स्थाने कृतसमागमः || ४८ || किमंगदो गतो मेरुं वन्दनार्थी चिरायति । किं वा प्रमादते देवी कस्याप्युपगता रुषम् ॥ ४९ ॥ जन्ममृत्युजरात्युग्रनानासंसारदुःखतः । विभ्यद्विषण्णः किं स्यात्तपोवनमुपागतः ।। ५० ।। चिंतयन्नित्यतिक्रम्य द्वाराणि मणितेजसा । भासमानानि सर्वाणि संयुक्तानि सुतोरणैः ॥ ५१ ॥ गीत जल्पितमुक्तानि सुप्तानीव समं ततः । शंकितद्वारपालानि प्रयातानन्यतामिव ।। ५२ ।। प्रासादप्रवरोत्संगे विक्षिपन् दृष्टिमायताम् । अपश्यत्स्त्रीजनांतस्थमात्माभं दुष्टखेचरम् ॥ ५३ ॥ दिव्यहारांबरं दृष्ट्रा तं शोभां दधतं पुरः । चित्रावतंसकं कान्त्या विकसद्वदनाम्बुजम् ॥ ५४ ॥ क्रुद्धोजगर्जत्सुग्रीवः प्रावृषेण्यघनोपमम् | दिङ्मुखेषु क्षिपन् भासमक्ष्णोः संध्याघनारुणम् ||५५ || ततः सुग्रीवतुल्योऽपि कुर्वन् परुषगर्जितम् । उत्तस्थौ कोपरक्तास्यः करीव मदविह्वलः ॥ ५६ ॥ संदष्टौ महासत्वौ दृष्ट्वा तौ योद्धुमुद्यतौ । सास्ना निरुरुधुः क्षिप्रं श्रीचंद्रायाः सुमंत्रिणः ॥५७॥
1
२८७
Page #297
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૮૮
सप्तचत्वारिंशत्तमं पर्व। सुतारेति ततोऽवोचत् दुष्टोऽयं कोऽपि खेचरः । तुल्यः सर्वेण देहेन बलेन वचसा रुचा ॥५८ ॥ पत्युमम न तुल्यस्तु लक्षणेमेनकादपि । प्रासादशंखकुंभायश्चिरसंस्थितलक्षितैः ॥ ५९॥ भर्तुर्मे भूषितांगस्य महापुरुषलक्षणैः । कस्यापि चाद्यमस्यास्य वाजिवालेयतुल्यता ॥ ६० ॥ श्रुत्वापीदं सुतारोक्तं सादृश्यहृतवित्तकैः । मंत्रिभिस्तदवज्ञातं निस्वोक्तं धनिभिर्यथा ॥६१ ॥ एकीभूय च तैः सर्वैर्मतिभिर्मतिशालिभिः । गदितं संप्रधाउँदं संदेहहतमानसः ॥ ६२॥ मद्यपस्यातिवृद्धस्य वेश्याव्यसनस्य शिशोः । प्रमदानां च वाक्यानि जातु कार्याणि नो बुधैः ६३ अत्यन्तदुलेभा लोके गोत्रशुद्धिस्तया विना । निन्तातपरमेणापि न राज्येन प्रयोजनम् ॥ ६४ ॥ संप्राप्य निर्मलं गोत्रं भव्यं शीलादिभूषितः । तस्मादन्तःपुरं यत्नादिदं रक्ष्यं सुनिर्मलम् ॥६५॥ अकीर्तिरिति निंद्येयमस्य नोत्पद्यने यथा । कुरुध्वमतियत्नेन विभिद्याखिलमेतयोः ॥६६॥ अंगः कृत्रिमसुग्रीवं पितृभ्रान्त्या समाश्रितः । अंगदः सत्यसुग्रीवं मातृवाक्यानुरोधतः ॥ ६७॥ संदिहाना निजे नाथे वयमप्यतिसाम्यतः । सुतारावचनादेनं पुरस्कृत्य व्यवस्थिताः ॥ ६८॥ अक्षोहिण्यस्ततः सप्त प्रभुमेकमुपाश्रिताः । इतरं चापि तावत्यः संशयस्य वशंगताः ॥ ६९ ॥ पुरस्य दक्षिणे भागे सुग्रीवः कृत्रिमः कृतः। उत्तरे तस्य सुग्रीवः स्थापितश्च यथाविधि ॥७०॥
Page #298
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૮૨
सप्तचत्वारिंशत्तम पर्व |
अकरोच्चन्द्ररश्मिश्च प्रतिज्ञामिति संशये । बालिपुत्रो यतः कुर्वन् सर्वतः प्रतिपालनम् ॥ ७१ ॥ सुताराभवनद्वारं यो व्रजेत्कश्चिदस्य सः । प्रौढेन्दीवरशोभस्य वध्यः खड्गस्य मे ध्रुवम् ॥ ७२ ॥ ततः कपिध्वजावेवं स्थापितौ तावुभावपि । अपश्यंतौ सुतारास्यं निमग्नौ व्यसनार्णवे ॥ ७३ ॥ ततोऽयं सत्यसुग्रीवो दयिताविरहाकुलः । बहुशः शोकहानार्थमगच्छत् खरदूषणम् ७४ ॥ पुनश्च मारुतेः पार्श्वमब्रवीच्च पुनः पुनः । परित्रायस्व दुःखार्त प्रसादं कुरु बांधव ॥ ७५ ॥ मदीयं रूपमासाद्य मायया कोऽपि पापधीः । कुरुते मे परां बाधां स गत्वा मार्यतां द्रुतं ॥ ७६ ॥ सुग्रीवस्य वचः श्रुत्वा तदवस्थस्य शोकिनः । अंजनातनयः क्रोधाद्वाडवाग्निसमोऽभवत् ॥ ७७ ॥ विमानं परमच्छायमप्रतीघातसंज्ञितम् । नानालंकारभूयिष्ठं त्रिदशावाससंन्निभम् ॥ ७८ ॥ उत्साहं परमं विभ्रदारुह्य सचिवैर्वृतः । किष्किधनगरं प्राप स्वर्ग सुकृतभागिव ॥ ७९ ॥ श्रुत्वा प्राप्तं हनुमंतमसको विगतज्वरः । आरुह्य द्विरदं प्रीतः सुग्रीव इव निर्ययौ ॥ ८० ॥ तं कपिध्वजमालोक्य परं सादृश्यमागतम् । विस्मितो वायुपुत्रोऽपि पतितः संशयार्णवे ॥ ८१ ॥ अचिन्तयच्च सुव्यक्तं सुग्रीवौ द्वाविमौ कथम् । एतयोः कतरं हन्मि यद्विशेषो न लभ्यते ॥ ८२ ॥ अविदित्वानयोर्भेदमुभयोर्वानरेन्द्रयोः कदाचिद्विद्विषमहं सुग्रीवं सुहृदांचरम् ।। ८३ ।।
२-१९
Page #299
--------------------------------------------------------------------------
________________
२९०
पद्मपुराणम्।
. सप्तचत्वारिंशत्तम पर्व। मुहूर्त मंत्रिभिः साधं विमृश्य च यथाविधि । उदासीनतया देव मारुतिः स्वपुरं गतः ॥ ८४ ॥ निवृत्ते मरुतः पुत्रे सुग्रीवोऽभवदाकुलः । असौ च सदृशोऽमुष्य तथैवातिष्ठदाशया ॥ ८५ ॥ मायासहस्रसंपनो महावीर्यो महोदयः । उल्कायुधोऽपि संदेहं प्राप कष्टमिदं परम् ॥ ८६ ॥ निमनं संशयांभोधौ व्यसनग्राहसंकटे । न जानाम्यधुना देव क इमं तारयिष्यति ॥ ८७ ॥ कान्तावियोगदानेन प्रदीप्तं कपिकेतनम् । कृतज्ञ भज सुग्रीवं प्रसीद रघुनन्दन ॥ ८८॥ अयं शरणमायातो भवन्तं शृणु वत्सलम् । भवद्विधशरीरं हि परदुःखस्य नाशनम् ॥ ८९ ॥ ततस्तद्वचनं श्रुत्वा विस्मयव्याप्तमानसाः । जाताः पादयः सर्वे धिगहोहीतिभाषिणः ॥९॥ अचिन्तयच्च पनोतः सखायं मम दुःखतः । जातोऽपरः समानेषु प्रायः प्रेमोपजायते ॥ ९१ ॥ एष प्रत्युपकारं मे यदि कतुं न शक्ष्यति । निग्रंथश्रमणो भूत्वा साधयिष्यामि निर्वृतिम् ॥९२ ॥ एवं ध्यात्वानुरोधाद्यैः समं नारीविलक्षकम् । कपिमौलींद्रमाहूय पद्मनाभोऽभ्यभाषत ॥ ९३ ॥ 'सत्सुग्रीवो भवान्यो वा सर्वथा त्वं मयेप्सितः । विजित्य भवतस्तुल्यं पदं यच्छामि ते निजम् ।। तथाविधं पुरा राज्यं प्राप्य योगं सुतारया । सेवस्व मुदितोऽत्यन्तभननिःशेषकंटकम् ॥९५ ॥ यदि मे निश्चयोपेतः प्राणेभ्योऽपि गरीयसीम् । सीतां तां गुणसंपूर्णा भद्रोपलभसे प्रियाम् . ९६
Page #300
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२९१
सप्तचत्वारिंशत्तम पर्व । कपिकेतुरुवाचेदं यदि तां तव न प्रियाम् । सप्ताहोऽभ्यन्तरे वेनि विशामि ज्वलनं तदा ॥ ९७ ॥ अमीभिरक्षरैः पद्मः परं प्रह्लादमाश्रितः । शशांकरश्मिसदृशैर्दधानः कुमुदोपमम् ॥ ९ ॥ प्रवाहेणामृतस्येव प्लावितो विकचाननः । रोमांचनिर्भरं देहं बभार च समंततः ।। ९९ ॥ अन्योन्यस्य वयं द्रोहरहिताविति चादरात् । समयं चक्रतुजैन तस्मिन्नेव जिनालये ॥ १० ॥ ततो रथवरारूदी महासामन्तसेवितौ । किष्किंधनगरं तेन प्रयातौ रामलक्ष्मणौ ॥ १०१॥ समीपीभूय दूतश्च प्रहितः कपिमौलिना । निर्भत्सितश्च कूटेन सुग्रीवेणागतः पुनः ॥ १०२॥ ततश्चालीकसुग्रीवः संना स्यन्दनस्थितः । युद्धाय निर्ययौ क्रुद्धः पृथुसैन्यसमावृतः ।। १०३ ॥ अथ कूटभटाटोपः संकटचंडनिश्वनः । संप्रहारो महानासीदग्रसंलग्रसेनयोः ॥ १०४ ॥. सुग्रीवमेव सुग्रीवो जगामोद्ग्रीवमुग्ररुट् । विद्यायाः करणासक्तो दृदं योद्धं समुद्यतः ॥ १०५ ॥ संप्रहारो महान् जातस्तयोश्चकेषुसायकैः। अंधकारीकृताकाशश्चिरमप्राप्तयोः श्रमम् ॥ १०६ ॥ अथ सुग्रीवमाहत्य गदयालीकवानरी । विज्ञाय मृत इत्येवं तुष्टः पुरसुपाविशत् ।। १०७ ।। निश्चेष्टविग्रहश्चायं सत्यशाखामृगध्वजः । निजं शिविरमानीतः परिवार्य सुन्हज्जनः ॥ १०८॥ अब्रवील्लब्धसंज्ञश्च नाथ हस्तमुपागतः । जीवन्नेव कथं चौरः पुरं मम पुनर्गतः ॥ १०९ ॥
Page #301
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२९२
सप्तचत्वारिंशत्तम पर्व। नूनं न भवितव्यं मे दुःखस्यान्ते न राघव । भवन्तमपि संप्राप्य किंतु कष्टमतः परम् ॥११॥ ततः पद्मप्रभोवोचद्भवतोयुध्यमानयोः । विशेषो न मया ज्ञातो न हतस्तेन ते समः ॥ १११॥ अज्ञानदोषतो नाशं मानैषीत्वैव जातुचित् । सुहृदं जैनवाक्येन जनितं प्रियसंगमम् ॥ ११२ ।। अथाहूतः पुनः प्राप्तः सुग्रीवप्रतिमो बली । संरंभवह्निना दीप्तः पोनाभिमुखीकृतः ॥११३ ॥ अद्रिणेव स रामेण क्षोभितः सागरोपमः । निस्त्रंशग्राहसंघातसंचारात्यन्तसंकुलः ॥ ११४ ॥ लक्ष्मणेनैव सुग्रीवः परिष्वज्य दृढं धृतः । स्त्रीवैरतः समीपं मा शत्रोः कोपेनागादिति ॥१५॥ ततः ससारपद्माभः सुग्रीवाभं समाहयन् । ज्वलत्संग्रामसंप्राप्तिजनितेनोरुतेजसः ॥ ११६ ॥ अथ पद्म समालोक्य समापृछ्य च साधकम् । वैताली निःसृता विद्या नारीवोद्धतचेष्टिता ११७ सुग्रीवाकृतिनिर्मुक्तं वानरांकविवर्जितम् । सहसा साहसगतिमिन्द्रनीलनगोपमम् ॥ ११८ ।। स्वभावमागतं दृष्ट्वा निःक्रान्तमिव कंचुकान् । शाखामृगध्वजाः सर्वे संक्षुभ्यैकत्वमाश्रिताः ११९ नानायुधाश्च संक्रुद्धा बलिनस्तमयूयुधन् । सोयं सोयमतिस्वानं कुर्वाणा पश्यतेति च ॥ १२० ॥ तेन तेजस्विना सैन्यं तद्विषामुरुशक्तिना । पुरस्कृतं दिशो भेजे यथा नूनं नमस्वता ॥१२१॥ तावत्ससायकं कृत्वा धनुरुद्धतविक्रमः । अधावत्पद्ममुद्दिश्य घनाघनचयोपमः ॥ १२२ ॥
Page #302
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२९३
सप्तचत्वारिंशत्तम पर्व । शरधारां क्षिपत्यस्मिन् भृशत्वाद्रहितांतरम् । विधाय मंडपं वाणैरस्थात् काकुस्थनन्दनः ॥१२३।। सम साहसयानेन पद्मस्याभूत्परं मृधम् । आनन्दो हि स पद्मस्य चिरं यः कुरुते रणम् ।।१२४॥ ततः कृत्वा रणक्रीडां चिरमूर्जितविक्रमः । क्षुरप्रैरस्य कवचं चिच्छेद रघुनन्दनः ॥ १२५ ॥ तितवाकारदेहोऽथ कृतस्तीक्ष्णैः शिलीमुखैः । गतः सुसाहसो भूमिमालिलिंग गतप्रभः ॥१२६॥ समासाद्य च तैः सर्वैः कुतूहलिभिरीक्षितः । दुष्टः साहसयानोऽसाविति ज्ञातश्च निश्चितम् १२७ ततः सभ्रातृ पमं सुग्रीवः पर्यपूजयत् । स्तुतिभिश्चाभिरम्याभिस्तुष्टावोदात्तसंमदः ॥ १२८ ॥ पुरे कारयितुं शोभा परमां हतकण्टके । यातः कान्तासमायोगं समुत्कंठां वहत्पराम् ॥ १२९ ॥ भोगसागरमग्नोऽसौ नैवाज्ञासीदहर्निशम् । चिरं दृष्टः सुतारायां न्यस्तनिःशेषचेतनः ॥ १३०॥ रात्रिमेकां बहिर्नीत्वा पद्माभप्रमुखा नृपाः । ऋद्धथा प्रविश्य किष्किधं महाबलसमन्विताः १३१ आनन्दोघानमाश्रित्य नन्दनश्रीविडम्बकम् । स्वेच्छयावस्थितिं चक्रुर्लोकपालसुरश्रियः ॥१३२॥ तस्य वणेनमेवातिवर्णनरम्यतापितुः । उद्यानस्यान्यथा कोसौ शक्तस्तद्गुणवणेने ॥ १३३ ॥ रम्य चैत्यगृहं तत्र न्यस्तचन्द्रप्रभार्चनम् । तद्विननं प्रणम्यैतावासीनौ रामलक्ष्मणौ ॥ १३४ ।। बहिश्चैत्यालयस्यास्य चन्द्रोदरसुतादयः । स्वसैन्यावसानं कृत्वा बभूवुर्विगतश्रमाः ॥ १३५ ॥
Page #303
--------------------------------------------------------------------------
________________
पमपुराणम् ।
२९४
सप्तचत्वारिंशसमं पर्व । गुणश्रुत्यनुरागेण स्वयंवरणबुद्धयः । त्रयोदश सुताः पद्मं सुग्रीवस्य ययुर्मुदा ॥ १३६ ॥ चन्द्राभा नाम चन्द्रास्या द्वितीया हृदयावली । अन्या हृदयधर्मेति चेतसः कंकटोपमा ॥१३७।। तुरीयानुंधरी नाम्ना श्रीकान्ता श्रीरिवापरा । सुन्दरी सर्वतश्चित्तमुन्दरीत्यपरोदिता ॥ १३८ ॥ अन्या सुरवती नाम सुरस्त्रीसमविभ्रमा । मनोवाहिन्यमिख्याता मनोवाहनकोविदा ॥ १३९ ॥ चारुश्रीरिति विख्याता चारुश्रीः परमार्थतः । मदनोत्सवभूतान्या प्रसिद्धा मदनोत्सवा॥१४०॥ अन्या गुणवती नाम गुणमालाविभूषिता । एका पद्मावती ख्याता बुद्धपद्मा समानसा ॥१४१॥ तथा जिनमतिर्नित्यं जिनपूजनतत्परा । एताः कन्याः समादाय ययौ तासां परिच्छदः॥१४२॥ प्रणम्य च जगौ राम नाथैतासां स्वयवृतं । शरणं भव लोकेश कन्यानां बन्धुरुत्तमः ॥ १४३ ॥ दुर्विदग्धैः खगैर्माभूत् विवाहोऽस्माकमित्यलम् । जातमासां मनः श्रुत्वा गोत्रस्यत्वानुपालकम् ॥ ततो हीमारनम्रास्या वशिताः शोभया विभुम् । पद्माभमुपसंप्राप्ताः पद्माभा नवयौवनाः १४५ विद्युद्वह्निसुवर्णाब्जगर्भभासां महीयसाम् । देहभासां विकाशेन तासां रेजे नभस्तलम् ॥ १४६ ॥ उपविश्य विनीतास्ता लावण्यान्वितविग्रहाः । समीपे पद्मनाभस्य तस्थुः पूजितचेष्टिताः १४७ रमते कचिदपि चित्तं पुरुषरवेः पूर्वजन्मसंबन्धात् । एषा भवपरिवर्ते सर्वेषां श्रेणिकावस्था १४८
इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे विटसुग्रीववधाख्यानं नाम सप्तचत्वारिंशत्तम पर्व ।
Page #304
--------------------------------------------------------------------------
________________
पायूमुराणम् ।
अष्टचत्वारिंशत्तम पर्व। अथाष्टचत्वारिंशत्तम पर्व। अथोपलालनं तस्य वाछंत्यो वरकन्यकाः । बहुभेदाः क्रियाश्चक्रुर्देवलोकादिवागताः ॥१॥ वीणादिवादनैस्तासां गीतैश्वातिमनोहरैः । ललिताभिश्च लीलाभिहृतं तस्य न मानसम् ॥ २॥ सर्वाकारसमानीतो विभवस्तस्य पुष्कलः । न भोगेषु मनश्चक्रे वैदेही प्रति संहृतम् ॥३॥ अनन्यमानसोऽसौ हि मुक्तनिःशेषचेष्टितः । सीतां मुनिरिव ध्यायन् सिद्धिं मास्थान्महादरः ४ न शृणोति ध्वनि किंचिद्रूपं पश्यति नापरम् । जानकीमयमेवास्य सर्व प्रत्यवभासते ॥ ५ ॥ न करोति कथामन्यां कुरुते जानकीकथाम् । अन्यामपि च पार्श्वस्थां जानकीत्यभिभाषते ॥६॥ वायसं पृच्छति प्रीत्या गिरेव कलनादया । भ्राम्यता विपुलं देशं दृष्टा स्यान्मैथिली कचित् ॥७॥ सरस्युन्निद्रपद्मादिकिंजल्कालंकृतांभसि | चक्राहमिथुनं दृष्ट्वा किंचित्संचिन्त्य कुप्यति ॥ ८॥ सीताशरीरसंपर्कशंकया बहुमानवत् । निमील्यलोचने किंचित्समालिंगत मारुतम् ॥९॥ एतस्यां सा निषण्णेति वसुधां बहु मन्यते । जुगुप्सितस्तथा नूनमिति चन्द्रमुदीक्ष्यते ॥ १० ॥ अचिन्तयञ्च किं सीता मद्वियोगाग्निदीपिता । तामवस्थां भवेत्प्राप्ता स्यादस्या यापदैषिणाम् ॥
Page #305
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२९६
अष्टचत्वारिंशत्तमं पर्व ।
किमियं जानकी नैषा लता मंदानिलेरिता । किमंशुकमिदं नैतच्चलत्पत्रकदम्बकम् ॥ १२ ॥ एते किं लोचने तस्या नैते पुष्पेषु षट्पदाः । करोऽयं किं चलस्तस्या नाद्यं प्रत्यग्रपल्लवः ॥ १३॥ केशभारं मयूरीषु तस्याः पश्यामि सुन्दरम् | अपर्याप्तशशांकेव लक्ष्मीमलिकसंभवाम् ॥ १४ ॥ त्रिवर्णाभोजखण्डेषु श्रियं लोचनगोचराम् । शोणपल्लवमध्यस्थसितपुष्पेस्मितत्विषाम् ॥ १५ ॥ स्तबकेषु सुजातेषु कान्तिमत्सु नतश्रियम् । जिनस्नपनवेदीनां शोभां मध्येषु मध्यमाम् ।। १६ ।। तासामेवोर्द्धभागेषु नितंबभरताकृतिम् । उरुशोभांशुजातासु कदलीस्तंभिका सुताम् ॥ १७ ॥ पद्मेषु चरणाभिख्यां स्थलसंप्रायनजन्मसु । शोभां तु समुदायस्य तस्याः पश्यामि न कचित् ९८ चिरायति कथं सोऽपि सुग्रीवः कारणं नु किम् । दृष्ट्वा नाम भवेत्सीता किं तेन शुभदर्शिना १९ मद्वियोगेन तप्तां वा विलीनां तां सुशीलकाम् । ज्ञात्वा निवेदने शक्तः किमसौ नैति दर्शनम् २० किं वा कृतार्थतां प्राप्तां प्राप्ये राज्यं पुनर्निजम् । स्वस्थिभूतो भवेदुःखं मम विस्मृत्य खेचरः २१ एवं चिंतयतस्तस्य वाष्प विप्लुतचक्षुषः । स्रस्तालसशरीरस्य विवेदावरजो मनः ॥ २२ ॥ ततः ससंभ्रमः स्वान्तः कोपारुणितलोचनः । ययौ सुग्रीवमुद्दिश्य नमासिविलसत्करः ॥ २३ ॥ गच्छतस्तस्य वातेन जंघास्तंभाप्त जन्मना । दोलायितमभूत् सर्वं महोत्पाताकुलं पुरम् ॥ २४ ॥
।
Page #306
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व। वेगनिक्षिप्तनिःशेषराजाधिकृतमाननः । प्रविश्य तद्गृहं दृष्ट्वा सुग्रीवमिदमभ्यधात् ॥ २५ ॥ आः पाप दयितादुःखनिमग्ने परमेश्वरे । भार्यया सहितः सौख्यं कथं भजास दुर्मते ॥ २६ ॥ अहं त्वां खेचरध्वांक्ष भोगे दुर्लड़ितं खल । नयामि तत्र नाथेन यत्र नीतस्त्वदाकृतिः ॥ २७ ॥ एवमुग्रान्विमुंचंतं वर्णान् कोपकणानि च । लक्ष्मीधरं प्रणामेन सुग्रीवः शममानयत् ॥ २८ ॥ उवाच चेदमेक मे क्षम्यतां देव विस्मृतम् । क्षुद्राणां हि भवत्येवं मादृशां दुर्विचेष्टितम् ॥ २९ ॥ तस्यार्थपाणयो दाराः संभ्रान्ताः कंपमूर्तयः । संप्रणामेन निःशेषं जहुर्लक्ष्मणसंभ्रमम् ॥ ३०॥ सज्जनांभोदवाक्तोयधारानिकरसंगतः । प्रयाति विलयं कापि जनारणिभवोऽनलः ॥ ३१ ॥ प्रणाममात्रसाध्यो हि महतां चेतसः समः । महद्भिरपि नो दानरुपशम्यन्ति दुर्जनाः ॥ ३२ ।। प्रतिज्ञां स्मारयंस्तस्य चक्रे लक्ष्मीधरः परम् । उपकारं यथा योगी यक्षदत्तस्य मातरम् ॥३३॥ पप्रच्छ मगधाधीशो गणेश्वरमिहान्तरे । यक्षदत्तस्य वृत्तान्तं नाथेच्छामि विवेदितुम् ॥ ३४ ॥ ततो गणधरोऽवोचच्छृणु श्रेणिकभूपते । चकार यक्षदत्तस्य यथा मातुः स्मृतिं मुनिः ॥ ३५ ॥ अस्ति क्रौंचपुरं नाम नगरं तत्र पार्थिवः । यक्षसंज्ञः प्रिया तस्य राजिलेति प्रकीर्तिता ॥ ३६ ।। तत्पुत्रो यक्षदत्ताख्यः स वाह्यां विरहत्सुखम् । अपश्यत्परमां नारी स्थितां दुर्विधपाटके ॥३७॥
Page #307
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
२९८
अष्टश्चत्वारिंशत्तम पर्व । स्मरेषु हतचित्तोऽसौ तामुद्दिश्य व्रजनिशि । मुनिनावधियुक्तेन मैवमित्यभ्यभाषत ॥ ३८ ॥ ततस्तं विद्युदुद्योतयोतितं वृक्षमूलगम् । ऐक्षतायननामानं मुनि सायकपाणिकः ॥ ३९ ॥ तमुपेत्य नतिं कृत्वा पप्रच्छ विनयान्वितः । भगवन् किं त्वया मेति निषिद्ध कौतुकं मम ॥४०॥
सोऽवोचद्यां समुद्दिश्य प्रस्थितः कामुको भवान् ।
सा ते माता ततस्तां यायासीः कामीति वारितः ॥ ४१ ॥ सोऽवोचत्कथमित्याख्यं ततोऽस्मिन् प्रस्तुतं मुनिः ।
मानसानि मुनीनां हि सुदिग्धान्यनुकंपया ।। ४२ ॥ शृण्वस्ति मृत्तिकावत्यां कनको नाम वाणिजः।
धृनोनी तस्य भायों यां बन्धुदत्तः सुतोऽभवत् ॥ ४३ ॥ भार्या मित्रवती तस्य लतादत्तसमुद्भवा । कृत्वास्या गर्भमज्ञातं पोतेन प्रस्थितः पतिः ॥ ४४ ॥ वसुराभ्यां ततो ज्ञात्वा गर्भ दुश्चरितेति सा । निराकृता पुरा क्षिप्रं दास्योत्पलिकया सह ॥४५॥ प्रस्थिता च पितुर्गेहं सार्थेन महता समम् । सर्पणोत्पलिकाद्दष्टा मृता च विपिनान्तरे ।। ४६ ॥ ततः सख्या विमुक्तासौ शीलमात्रसहायिका । इमं क्रौंचपुरं प्राप्ता महाशोकसमाकुला ॥४७॥
Page #308
--------------------------------------------------------------------------
________________
पापुराणम् ।
अष्टचत्वारिंशत्तमं पर्व । स्फीतदेवार्चकारण्ये प्रसूता यावदंवरम् । आराक्षालयितुं याता शिशुस्तावद्धतः शुना ॥ ४८ ॥ सुतं स्वैरं समादाय रत्नकम्बलवेष्टितम् । ददौ यक्षमहीपाय नीत्वा स ह्यस्य वल्लभः ॥ ४९ ।। ततोऽनेन विपुत्राया राजिलायाः समर्पितः । सार्था च यक्षदत्ताख्यां प्रापितस्त्वं स वर्तसे ५० प्रत्यावृत्य च संभ्रान्तमपश्यन्ती प्रसूतकम् । विप्रलापं चिरं चके दुःखान्मित्रवती परम् ॥५१॥ देवाचेकेन सा दृष्टा कृपया कृतसांत्वना । त्वं मे स्वसेति भाषित्वा स्वकेऽवस्थापितोटजे ॥५२॥ सहायरहितत्वेन त्रपया कीर्तिभीतितः । न सा गता पितुर्गेहं तत्रैव निरता ततः ॥ ५३ ॥ सेयमत्यन्तशीलाढया जिनधर्मपरायणा । कुटीरे दुर्विधस्यास्ते भ्रमता या त्वयेक्षिता ॥ ५४ ॥ बजता वन्धुदत्तेन यदत्तं रत्नकम्बलम् । अस्यास्तद्यक्षभवने तिष्ठत्यद्यापि रक्षितम् ॥ ५५ ॥ इत्युक्तेन संयतं नत्वा स्तुत्वा च हितकारिणम् । इयाय खगवानेव संभ्रमी यक्षसनिधिम् ॥५६॥ ऊचे च तेऽसिनानेन छिनधि नियतं शिरः । सत्पयो यदि मे जन्म नास्ति त्वं स्फुटकारुणं ५७ यथावद्वेदितं तेन रत्नकम्बललक्षितम् । अयं जरायुलेपेन तिष्ठत्यद्यापि दिग्धकः ॥५८॥ प्रथमाभ्यां ततस्तस्य पितृभ्यां सह संगमः । जातो महोत्सवोपेतः महाविभवविसितः ॥ ५९॥ कथितं ते महाराज वृत्तांत्तादिदमागतम् । अधुना प्राकृतं वक्ष्ये भवावहितमानसः ॥ ६॥
Page #309
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३००
अष्टचत्वारिंशत्तम पर्व । लक्ष्मीधरं पुरस्कृत्य सुग्रीवस्त्वरितं ययौ । समीपं रामदेवस्य स तस्थौ विहितानतिः ॥ ६१ ॥ ततो विक्रमगर्वेण सदा प्रकटचेष्टितान् । आहूय किंकरान्सर्वान्महाकुलसमुद्भवान् ॥ ६२ ॥ कांश्चिदश्रुतवृत्तांतान्महामोहहतात्मिकान् । वेदयन्विसयप्राप्तानपअनिर्मितमद्भुतम् ॥ ६३ ॥ कांश्चिद्विज्ञातवृत्तांतान प्रभुकार्यपरायणान् । जगौ प्रत्युपकाराय वाचा सन्मानयन्निदम् ॥ ६४ ॥ भो भो सुविभ्रमाः सर्वे श्रृणुत श्रीमन्दुत्सवाः । सीतामुपलभचं द्राक् क वर्तत इति स्फुटम् ६५ महीतले समस्तेऽस्मिन् पाताले खे जले स्थले । जम्बूद्वीपे पयोनाथे द्वीपे वा धातकीमति ॥६६॥ कुलपर्वतकुंजेषु काननान्तेषु मेरुषु । नगरेषु विचित्रेषु रम्येषु व्योमचारिणाम् ॥ ६७ ॥ गहनेषु समस्तेषु नानाविद्यापराक्रमाः । जानीत दिक्षु सर्वासु सती भूविवरेषु च ॥ ६८ ॥ शेषामिव ततो मूनि ते कृत्वाज्ञां प्रमोदिनः । उत्पत्य दिक्षु सासु द्रुतं जग्मुरहंयवः ॥ ६९ ।। युवविद्याभृता लेख नाययित्वा यथाविधि । ज्ञातनिःशेषवृत्तान्तो वैदेहोप्युपपादितः ॥ ७० ॥ ततोऽसौ स्वसृदुःखेन नितान्तोद्विग्नमानसः । सुग्रीव इव रामस्य नितरां निभृतोऽभवत् ॥ ७१॥ स्वयमेव च सुग्रीवः पर्यटन् भानुवर्मना । तारानिकरचक्रेण संप्रवृत्तो गवेषणे ॥ ७२ ।। दुष्टविद्याधरानेकपुरान्वेषणतत्परः । ध्वजं दूरात्समालोक्य समीरणविकंपितम् ॥ ७३ ॥
Page #310
--------------------------------------------------------------------------
________________
पद्मपुराणमे।
. अष्टचत्वारिंशत्तम पर्व। जंबूद्वीपमहीन्द्रस्य शिखरेणोपलक्षितम् । नभस्तलं परं प्राप बलदंशुकपल्लवम् ॥ ७४ ॥ वियतोऽवतरद्वीक्ष्य विमानं भानुभासुरम् । उत्पाताशंकितो जातो रत्नकेशी समाकुलः ॥ ७५ ॥ आसीदनुसमालोक्य तदसावतिविहलः । वैनतेयात्परित्रस्तः संचुकोच यथोरुगः ॥ ७६ ॥ आसन्नं च परिज्ञाय ध्वजेन कपिलक्ष्मणम् । रत्नकेशी गतश्चितामिति मृत्युभयाकुलः ॥ ७७॥ लंकाधिपतिना नूनं क्रुद्धेन जनितागसा । प्रेक्षितो मद्विनाशाय सुग्रीवोऽयमुपागतः ॥ ७८ ॥ किं न प्रतिभये शीघ्र मृतो रत्नाकरांभसि । हा धिगत्रान्तरे द्वीपे मरणं समुपागतः ॥ ७९ ॥ मनोरथं पुरस्कृत्य विद्यावीर्यविवर्जितः । जीवितः स्पृहयाविष्टः प्रापयिष्यामि किंत्वहम् ॥ ८॥ इति चिन्तयतस्तस्य संप्राप्तो वानरध्वजः । द्योतयन् सहसा द्वीपं द्वितीय इव भास्करः॥८१॥ तकं धृसरसर्वांगमालोक्य वनपांशुभिः । वानरांकध्वजोऽपृच्छदनुकंपं समुद्वहन् ।। ८२ ॥ स त्वं रत्नजटी पूर्वमासीद्विद्यासमुन्नतः । अवस्थामीदृशी कस्मादधुना भद्र संगतः ॥ ८३ ॥ इत्युक्तोऽप्यनुकंपेन सुग्रीवेण सुखाकरम् । सर्वांगं कंपयन् भीत्या दीनो रत्नजटी भृशम् ।। ८४ ॥ मा भैषीर्भद्र मा भैषीरित्युक्तश्च पुनः पुनः । जगौ कृतानतिर्षीरमतिः प्रकटिताक्षरम् ॥ ८ ॥ प्रतिपक्षी भवन् साधो रावणेन दुरात्मना । सीताहरणसक्तेन छिन्नविद्योऽहमीदृशः ।। ८६ ॥
Page #311
--------------------------------------------------------------------------
________________
३०२
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व। जीविताशां समालम्ब्य कथंचिदैवयोगतः। धजमेतं समुत्सृत्य स्थितोऽस्मि कपिपुंगव ॥ ८७ ॥ उपलब्धप्रवृत्तिश्च तोषोद्वेगं वहन् द्रुतम् । गृहीत्वा रत्नजटिनं सुग्रीवः स्वपुरं ययौ ॥ ८८ ॥ समक्षं लक्ष्मणस्याथ महतां च खगामिनाम् । जगौ रत्नजटी पद्म विनयी विहितांजलिः ॥८९॥ देव देवी नृशंसेन सती सीता दुरात्मना । हृता लंकापुरीन्द्रेण विद्या च मम कोपिनः ॥९॥ कुर्वन्ती सा महाक्रन्दं ध्वनिना चित्तहारिणा । मृगीव व्याकुलीभूता नीता तेन वलीयसा ॥९१॥ येनासीत्समरे भीमे निर्जित्य सुमहाबलः । इन्द्रो विद्याभृतामीशो वन्दिग्रहमुपाहतः ॥ ९२ ॥ स्वामी भरतखण्डानां यस्त्रयाणां निरंकुशः । कैलाशोद्धरणे येन विशालं संगतं यशः ॥९३ ॥ सागरान्ता मही यस्य दासीवाज्ञां प्रतीच्छति । सुरासुरैर्न यो जेतुं संहतैरपि शक्यते ॥ ९४ ॥ श्रेष्ठेन विदुषां तेन धर्माधर्मविवेकिना । कर्मेदं निर्मितं क्रूरं माहो जयति पापिनाम् ॥ ९५ ॥ तच्छ्रुत्वा विविधं विभ्रद्रसं काकुस्थनन्दनः । अंगस्पृशं ददौ सर्व सादरं रत्नकेशिने ॥९६ ।। देवोपगीतसंज्ञे च पुरे गोत्रक्रमागतम् । अन्वजानादधीशत्वं विच्छिन्नमरिभिश्चिरम् ॥ ९७ ॥ पुनः पुनरपृच्छच्च वार्तामालिंग्य तं नृपः । पुनः पुनर्जगादासौ प्रमोदव्याकुलाक्षरः ॥ ९८ ॥ ततः समुत्सुकः पद्मः पर्यपृच्छदतिद्रुतम् । लंकापुरी कियद्दूरे विवेदयत खेचराः ॥ ९९ ॥
Page #312
--------------------------------------------------------------------------
________________
३०३.
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्वे । इत्युक्तास्ते गता मोहं निश्चलीभूताविग्रहाः । अवाङ्मुखा गतच्छाया बभूवुर्वाग्विवर्जिताः ॥१०॥ अभिप्रायं ततो ज्ञात्वा विशीर्णहृदयास्तके । अवज्ञामंदया दृष्टया राघवेन विलोकिताः ॥१०॥ अथ भीतिपरित्रस्ताः ज्ञाता स्म इति लज्जिताः । ऊचुधीरं मनःकृत्वा करकुड्मलमस्तकाः॥१०२॥ यदीयं देव नामापि कथंचित्समुदीरितम् । ज्वरमानयति त्रासाद्वदामस्त्वत्पुरः कथम् ॥ १.३॥ क वयं क्षुद्रसामर्थ्याः क च लंकामहेश्वरः । त्यजानुबन्धमेतस्मिन् ज्ञाते संप्रति वस्तुनि ॥१०४॥ अथावश्यमिदं वस्तु श्रोतव्यं श्रूयतां प्रभो । कोऽत्र दोषः समर्थ ते किंचिद्वक्तुं हि शक्यते १०५ अस्त्यत्र लवणांभोधौ क्रूरग्राहसमाकुले । प्रख्यातो राक्षसद्वीपः प्रभूताद्भुतसंकुलः ॥ १०६ ॥ शतानि सप्त विस्तीर्णो योजनानां समंततः । परिक्षेपेण तान्येव साधिकान्येकविंशतिः॥१०७॥ मध्ये मन्दरतुल्योऽस्य त्रिकूटो नाम पर्वतः । योजनानि नवोत्तुंगपंचाशद्विपुलत्वतः ॥ १०८ ॥ हेमनानामणिस्फीतः शिलाजालावलीचितः । आसीत्तोयदवाहस्य दत्तो नाथेन रक्षसाम् ॥१०९॥ तस्य कूल्यद्रुमैश्वित्रैः शिखरे कृतभूषणे । लंकेति नगरी भाति मणिरत्नमरीचिभिः ॥ ११ ॥ विमानसदृशैः रम्यैः प्रासादैः स्वर्गसन्निभैः । मनोहरैः प्रदेशैश्च क्रीड़नादिक्रियोचितैः ॥१११॥ त्रिंशयोजनमानेन परिच्छिन्ना समंततः । महाप्राकारपरिखा द्वितीयेन वसुंधरा ॥ ११२ ॥ ।
Page #313
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व | लंकायाः परिपार्श्वेषु संत्यन्येऽपि मनोहराः । स्वभावस्थिता रत्नमणिकांचनमूर्तयः ॥ ११३ ॥ प्रदेशा नगरोपेता रक्षसां क्रीड़भूमयः । अधिष्ठिता महाभोगैस्ते च सर्वे नमश्वरैः ॥ ११४ ॥ संध्याकारः सुवेलच कांचनो ह्लादनस्तथा । योधनो हंसनामा च हरिसागरनिश्वनः ॥ ११५ ॥ अर्द्धस्वर्गोदयश्चान्ये द्वीपाः सर्वर्द्धिभोगदाः । प्रदेशा इव नाकस्य काननादिविभूषिताः ॥ ११६ ॥ सुहृद्भिभ्रातृभिः पुत्रैः कलत्रैर्बान्धवैः सह । रमते येषु लंकेशो भृत्यवर्गसमावृतः ॥ ११७ ॥ तं क्रीडतं जनो दृष्ट्वा महाविद्याधराधिपम् । देवाधिपोऽपि मन्येऽहं समाशंकां प्रपद्यते ॥ ११८ ॥ भ्राता विभीषणो यस्य बली लोकसमुत्कटः । परैरपि परैः राजावजय्यो राजपुंगवः ॥ ११९ ॥ त्रिदशस्तत्समो बुद्धा नास्ति नास्त्येव मानुषः । तेनैकेनैव पर्याप्तं रावणस्य जगत्प्रभोः ॥ १२० ॥ अपरोऽप्यनुजस्तस्य विद्यते गुणभूषणः । भानुकर्ण इति ख्यातस्त्रिशूलपरमायुधः ।। १२१ ॥
कुटिं कुटिलां यस्य भीष्मां कालकुटीमिव । न शक्नुवन्ति संग्रामे सुरा अप्यवलोकितुम् १२२ महेन्द्रजितसंज्ञय क्षितौ ख्यातिमुपागतः । तस्यैव तनयो यस्य जगदाभासते करे ॥ १२३ ॥ एवमाद्याः सुबहवः प्रणतास्तस्य किंकराः । नानाविद्याद्भुतोपेताः प्रतापप्रणतारयः ।। १२४ ।। यस्यातपत्रमालोक्य पूर्णचन्द्रसमप्रभम् । त्यजन्ति रिपवो दर्प समरे चिरपोषितम् ।। १२५ ।।
३०४
Page #314
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३०५
अष्टचत्वारिंशत्तमं पर्व |
अमुष्य पुस्तकर्माणि चित्रं वा सहसेक्षितम् । नाम चोच्चारितं शक्तमरीणां त्रासकर्मणि ॥ १२६ ॥ एवंविधममुं युद्धे कः शक्तो जेतुमुद्धतः । कथा चैषा न कर्तव्या चिन्त्यतामपरा गतिः ॥ १२७ ॥ ततोऽनादरतस्तेषामेकैकं वीक्ष्य लक्ष्मणः । अभाणीदूर्जितं वाक्यं घनाघनघनस्वनः ॥ १२८ ॥ सत्यं यदीदृशः ख्यातः शक्तिमान् दशवक्रकः । तत्किमश्राव्यं नाम स्व-मसौ स्रोतस्करो भवेत् ॥ दांभिकस्यातिभीतस्य मोहिनः पापकर्मणः । रक्षोधमस्य तस्यास्ति कुतः स्वल्पापि १३० शूरता अब्रवीत्पद्मनाभश्च किमुक्तेनेह भूरिणा । वार्तागमोऽपि दुःप्रापो दिष्टया लब्धो मया स च १३१ चिन्त्यमस्त्यपरं नातः क्षोभ्यतां राक्षसाधमः । जायतामुचितं भावि फलं कर्मानिलेोरितम् १३२ अथैनमूचिरे वृद्धाः क्षणं स्थित्वेव सादराः । शोकं जहीहि पद्माभ भवास्माकमधीश्वरः ॥ १३३ ॥ विद्याधरकुमारीणां गुणैरप्सरसामिव । भव भर्ता भ्रमन् - लोके वियुक्ता शेषदुःखधीः ॥ १३४ ॥ पद्मोऽवदन्न मेऽन्याभिः प्रमदाभिः प्रयोजनम् । विजयन्ते महालीलां यदि शच्या अपि स्त्रियः १३५ प्रीतिश्चेन्मयि युष्माकमस्ति कापि नभश्वराः । अनुकंपापि वा सीतां ततो दर्शयत द्रुतम् ॥ १३६ ॥ जाम्बूनदस्ततोऽवोचत्प्रभो मूढ़ग्रहस्त्वया । त्यज्यतां क्षुद्रवन्मा भूर्मयूर इव दुःखितः ॥ १३७ ॥ अस्ति वेणातटे मेही नाम्ना सर्वरुचिः किल । सुतो विनयदत्तोऽस्य गुणपूर्णसमुद्भवः ॥ १३८ ॥
२-२०
Page #315
--------------------------------------------------------------------------
________________
पञ्चपुराणम् ।
आठचत्वारिंशत्तमं पूर्व। विशालभूतिसंज्ञश्च वयस्योऽस्यातिवल्लभः । तद्भार्यायां समासक्तो गृहलक्ष्म्या दुरात्मकः ॥१३९॥ तस्या एव च वाक्येन विट्ठतिच्छद्मना वनम् । नीत्वा विनयदत्तं सः बबन्धोपरि शाखिनः १४० वध्वा च तं ततो गेहं क्रूरकम्मों हताशयः । विधाय चीत्तरं किंचिदवतस्थे कृतार्थेवत् ।। १४१॥ अंत्रान्तरे तमुद्देशं दिग्मूढः प्रच्युतः पथः । आजगाम भ्रमन खिन्नः क्षुद्रोऽपश्यच्च तं तरुम्॥१४२॥ धनच्छायाकृतश्रद्धस्तस्याधश्च जगाम सः । कणितं वाचणोन्मंदमुन्मुखश्च व्यलोकयत् ॥ १४३ ॥ यावत्पश्यति तं बद्धं निविडं दृढरज्जुभिः । अत्यन्ततुंगशाखाग्रे निश्चेष्टीकृतविग्रहम् ॥ १४४॥ आरुह्य तेन मुक्तोऽसौ नुकंपासक्तचेतसा । गतो विनयदत्तस्तु स्वं तेनैव समाश्रयम् ॥ १४५॥ स्वजनस्योत्सवे जातो महानन्दसमुत्कटः । विशालभूतिरालोक्य तं च दुरात्पलायितः ॥१४६॥ क्षुद्रस्याथ शिखी जातु शिखीपत्रमथान्यथा । रमणो वात्यया नीतः संप्राप्तो राजसूनुना ॥१७॥ तन्निमित्तं महाशोकः क्षुद्रो मित्रमभाषत । मां चेदिच्छसि जीवितं यच्छ तन्मे मयूरकम् ॥१४८॥ वद्धस्तथाविंधोवृक्षे मया त्वं परिमोचितः । अस्योपकारमुख्यस्य प्रतिदानं प्रयच्छ मे ॥ १४९ ॥ ततो विनयदत्तस्तमुवाचान्यमयूरकम् । गृहाण मणिरत्नं वा कुतस्तं ते ददाम्यहम् ।। १५० ॥ सोऽवोचद्दीयतां मह्यं स एवेति पुनः पुनः । मूढस्तथाविधो जातो भवानपि मरोत्तमः ॥१५॥
Page #316
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૩૦૭
अष्टचत्वारिंशत्तमे पर्व ।
राजपुत्रकरं प्राप्ता कृत्रिमासौ मयूरिका । कथं लभ्या वधो यस्माल्लभ्यते यत्र तत्परैः ॥ १५२ ॥ त्रिवर्णाभोजनेत्राणां कन्यानां कनकत्विषाम् । पीवरस्तनकुंभानां विशालजघनश्रियाम् ।। १५३ ।। वक्त्र कान्तिजितेन्दूनां पूर्णानां चारुभिर्गुणैः । पतिर्भव महाभोग प्रसीद रघुनन्दन || १५४ ॥ अनुबन्धमिदं हास्यं त्यज दुःखविवर्धनम् । मयूरशष्पशोकार्तो माभूः क्षुद्रकवबुध ॥ १५५ ॥ सर्वदा सुलभाः पुंसः शिखि शिष्योपमाः श्रियः । ब्रवीति राघवं त्वाहं प्राज्ञैः शोको न धार्यते ॥ ततो लक्ष्मीधरोऽवोचत्परमो वाक्यवर्त्मनि । जांबूनदेशं नेदमिदमेतादृशं श्रृणु ॥ १५७ ॥ आसीद्गृहपतिः ख्यातः पुरे कुसुमनामनि । प्रभवाख्या प्रिया तस्य यमुनेति प्रकीर्तिता ॥ १५८ ॥ धनं बन्धु गृहक्षेत्रपशुप्रभृतयः सुताः । पालांतास्तस्य सेवन्ते शब्दानामन्तमागतः ॥ १५९ ॥ अन्वर्थसंज्ञकास्ते च कुटुंबार्थं सदोद्यताः । कुर्वन्ति कर्म विश्रान्ति लक्षमप्यनुपागताः ॥ १६० ॥ आत्मश्रेयोभिधानश्च सुतोऽस्यैवाखिला धरा । पुण्योदयादसौ भोगान् भुंक्ते देवकुमारवत् १६१ मातृभिः स पितृभ्यां च चिरं कटुकैरक्षरैः । निर्भत्सितोऽन्यदा यातो मानी वा परिभ्रमन् १६२ सुकुमारशरीरोऽसौ निर्वेदं परमं गतः । कर्म कर्तुमशक्तात्मा मरणं स्वस्य वांछति ॥ १६३ ॥ पूर्वकर्मानुभावेन प्रेरितः पथिकश्च तम् । समागत्या भणीदेवं श्रूयतामयि मानव ॥ १६४ ॥
Page #317
--------------------------------------------------------------------------
________________
३०
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व। पृथुस्थानाधिपस्याहं सुभानुरिति नन्दनः । गोत्रिकाक्रांतदेशः सन् कुर्वनैमित्तभाषितम् ॥१६५।। पर्यटन वसुधामेतां दैवात् कूर्मपुरं गतः । आचार्येगाभियोग्येन संगं प्राप्तोऽस्मि तत्र च १६६ अयोमयमिदं तेन दत्तं मे वलयं शुभम् । मार्गदुःखाभिभूताय कारुण्याकारचेतसा ॥ १६७ ॥ एतच्च सर्वरोगाणां शमनं बुद्धिवर्धनम् । ग्रहोरगपिशाचादिवशीकरणमुत्तमम् ॥ १६८॥ नैमित्तादिष्टकालस्य संप्राप्तश्च ममावधिः । आत्मीयमधुना राज्यं कर्तुं यामि निजं पुरम् ॥१६९॥ राज्यस्थस्य प्रमादाश्च जायन्ते गणनोज्झिताः । एतच छिद्रमासाद्य नियतं नाशकारणम् ॥१७०॥ गृहाणैतत्ततस्तुभ्यं यच्छामि वलयं पुरम् । उपसर्गविनिर्मुक्तं यदि वांछसि जीवितम् ॥ १७१ ॥ लब्धस्य च पुनर्दानं शंसन्ति सुमहाफलम् । यशश्च प्राप्यते लोके पूजयन्ति च तं जनाः ॥१७२॥ ततस्तमेवीमत्युक्त्वा गृहीतांगदमायसम् । आत्मश्रेयो गतो धाम सुभानुश्च निजं निजम् ॥१७३।। यावत्पत्नी नरेन्द्रस्य दष्टा श्वसनभोगिना । निश्चेष्टा दग्धुमानीता चितोद्देशे स पश्यति ॥१७४॥ कटकस्य प्रसादेन तस्य लोहमयस्य ताम् । जीवयित्वा परं प्रापदसौ पूजां नरेन्द्रतः ॥ १७५ ॥ महान्तस्तस्य संजाता भोगाः परमसौख्यदाः । सर्वबन्धुसमेतस्य पुण्यकर्मानुभावतः ॥ १७६ ॥ उत्तरीयांशुकस्योर्द्ध निधाय वलयं सरः । प्रविष्टो यावदादाय गोधेरो नश्यदूर्द्धतः ॥ १७७॥
Page #318
--------------------------------------------------------------------------
________________
३०९
पद्मपुराणम् ।
अष्टचत्वारिंशत्तमं पर्व। महातरोरधस्तावत् प्रविवेश विलं महत् । शिलानिकरसंछन्नं निर्यारं घोरनिश्वनम् ॥ १७८ ॥ तेन गोधेरशब्देन किल नित्यप्रवृत्तिना । बभूव स्थानमप्येतत्प्रलयाशंकि मानसम् ।। १७९ ॥ आत्मश्रेयस्ततो वृक्षमुन्मूल्य स शिलाघनम् । गोधेरं नाशयित्वा तं निधानं प्राप्य सांगदम् १८० आत्मश्रेयः समः पद्मः सीता वलयमूर्तिवत् । प्रमादवच्च कोसीद्यं शब्दस्तच्छन्दवद्रियोः (१) १८१ महानिधानवल्लंका गोधेरो दशवक्रकः । जनास्त इव निर्मीता यूयं भवत सांप्रतम् ॥ १८२ ॥ तच्छ्रुत्वा समुपाख्यानं जितजाम्बूनदोदितम् । बहवो विस्मयापन्ना बभूवुः स्मितकारिणः॥१८३॥ जाम्बूनदादयः सर्वे ततः कृत्वा प्रधारणम् । इदमूचुः पुनः पद्म श्रृणु राजन् समाहितः ॥१८४॥ अनन्तवीर्ययोगीन्द्रं संप्रणम्य पुरा मुदा । रावणेनात्मनो मृत्यु परिपृष्टः समादिशत् ॥ १८५ ।। यो निर्वाणशिला पुण्यामतुलामर्चितां सुरैः । समुद्यतां स ते मृत्योः कारणत्वं गमिष्यति ॥१८६॥ सर्वज्ञोक्तं निशम्यैतदचिन्तयदसाविदम् । भविता पुरुषः कोसौ तां यश्चालयितुं क्षमः ।। १८७ ।। नास्त्येव मरणे हेतुर्ममेत्युक्तं भवत्यदः । वचोयुक्तिर्विचित्रा हि विदुषामर्थदेशने ॥ १८८॥ ततो लक्ष्मीधरोऽवोचद्गच्छामो न चिरं हितम् । ईक्षामहे शिलां सैद्धी भव्यानां रोमहर्षणीम् १८९ रहस्यमेतत्सन्मंत्र्य सुनिश्चित्य समं ततः। सर्वे ते गन्तुमुद्युक्ताः प्रमादपरिवर्जिताः ॥ १९० ॥
Page #319
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
अष्टचत्वारिंशत्तमं पर्व |
जांबूनदो महाबुद्धिः किष्किन्धाधिपतिस्तथा । विराधितोऽर्क्रमाली च नलनीलौ विचक्षणौ १९१ पुरस्कारमारोप्य विमाने रामलक्ष्मणौ । संप्रयाता दुतं व्यानि रात्रौ तमसि गहरे ॥। १९२ ।। अवतेरुः समीपे च यत्र सा सुमनोहरा । शिला परमगंभीरा सुरासुरनमस्कृता ॥ १९३ ॥ उपसस्तुश्च ते सर्वे मस्तकन्यस्तपाणयः । आशारक्षानवस्थाप्य प्रयातान् सुसमाहितान् ॥ १९४ ॥ सुगंधिभिर्महांभोजैः पूर्णेन्दुपरिमंडलैः ! अन्यैश्च कुसुमैश्वित्रैरचिता तैरसौ शिला ॥ १९५ ॥ सितचन्दनदिग्धांगा कुंकुमांशुकधारिणी । धृतालंकरणा भाति सा शचीव मनोरमा ॥ १९६ ॥ तस्यां सिद्धान्नमस्कृत्य शिरसि करकुद्मलाः । भक्त्या प्रदक्षिणं चक्रुः क्रमेण विधिपण्डिताः १९७ ततः परिकरं बद्धवा सौमित्रिर्विनयं वहन् । नमस्कारपरो भक्तस्तुतिं कर्तुं समुद्यतः ॥ १९८ ॥ जयशब्दं समुद्घोष्य प्रहृष्टा वानरध्वजा । स्तोत्रं परिपठन्तीदमुत्तमं सिद्धमंगलम् ॥ १९९ ।। स्थितास्त्रैलोक्यशिखरे स्वयं परमभास्वरे । स्वरूपभूतया स्थित्या पुनर्जन्मविवर्जितान् ||२०० || भवार्णवसमुत्तीर्णान्निःश्रेयसः समुद्भवान् । आधारान्मुक्तिसौख्यस्य केवलज्ञानदर्शनान् ॥२०१॥ अनन्तवीर्यसंपन्नान् स्वभावसमवस्थितान् । सुसमीचीनतायुक्तान्निःशेषक्षीणकर्मणः ॥ २०२ ॥ अवगाहनधर्मोक्तानमूर्तान् सूक्ष्मतायुजः । गुरुत्वलघुतामुक्तान संख्यातप्रदेशिनः ।। २०३ ॥
Page #320
--------------------------------------------------------------------------
________________
अपचत्वारिंशत्तम पर्व। अप्रमेयगुणाधारान् क्रमादिपरिवर्जितान् । साधारणान् स्वरूपेण स्वार्थकाष्ठामुपागतान् ।।२०४॥ . सर्वथा शुद्धभावांश्च ज्ञातज्ञेयान्निरंजनान् । दग्धकर्ममहाकक्षान् विशुद्धध्यानतेजसा ॥ २०५॥ तेजःपटपरीतेन भक्तितो वज्रपाणिना । संस्तुतान् भवभीतेन चक्रवादिभिस्तथा ॥२०६॥ संसारधर्मनिर्मुक्तान् सिद्धधर्मसमाश्रितान् । सर्वान् वंदामहे सिद्धान् सर्वसिद्धिसमावहान् २०७ अस्यां च ये गताः सिद्धिं शिलायां शीलधारिणः । उपगीताः पुराणेषु सर्वकर्मविवर्जिताः २०८ जिनेन्द्रसमतां याताः कृतकृत्या महौजसः । मंगलस्मरणेनैतान् भक्त्या वंदामहे मुहुः ॥२०९॥ एवं च सुचिरं श्रुत्वा पुनरेवं बाषिरे । लक्ष्मीधरं समुद्दिश्य स्थापितैकाग्रमानसाः ॥ २१ ॥ शिलायामिह ये सिद्धा ये चान्ये हतकिल्विषाः । ते विघ्नशूदनाः सर्वे भवन्तु तव मंगलम् २११ अर्हन्तो मंगलं सन्तु तव सिद्धाश्च मंगलम् । मंगलं साधवः सर्वे मंगलं जिनशासनम् ॥२१२॥ इति मंगलनिस्वानर्विहाय तलचारिणाम् । शिलामचालयत् क्षिप्रं लक्ष्मणो विमलद्युतिः ॥२१३॥ सा लक्ष्मणकुमारेण नानालंकारभूषणा । केयूरकान्तबाहुभ्यां धृता कुलवधूरिव ॥ २१४ ।। अथांतरिक्षे देवानां महाशब्दो महानभूत् । सुग्रीवाद्याश्च राजेन्द्रा विस्मयं परमं ययुः ॥ २१५ ॥ ततः सिद्धान् प्रमोदाढ्याः प्रणम्य भयवर्जितान् । सम्मेदशिखरस्थं च जिनेन्द्रं मुनिसुव्रतम् २१६
.
Page #321
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३१२
अष्टचत्वारिंशत्तम पर्व। निषद्य ऋषभादीनामभ्यय॑ च यथाविधि । सकलं भरतक्षेत्र बभ्रमुस्ते प्रदक्षिणम् ।। २१७ ॥ सायाहे सौम्यवपुषो दिव्यैर्यानैर्मनोजवैः । कृताभिवंदनाशब्दैर्जयनन्दादिभिभृशम् ॥ २१८ ॥ परिवार्य महावीर्य रामं लक्ष्मणसंगतम् । किष्किन्धनगरं प्रापुर्विविश्वश्च महर्द्धयः ॥ २१९ ॥ शयिताश्च यथास्थानं विस्मितेनांतरात्मना । एकीभूय पुनः प्रीता इत्यन्योन्यं बभापिरे ।। २२०॥ वीक्ष्यध्वं वासरैः स्वल्पैः पृथिव्यां राज्यमेतयोः । निःशेषैः कंटकमुक्तं शक्तिं धारयतोः पराम॥ सा निर्वाणशिला येन चालयित्वा समुद्धता । उत्सादयत्ययं क्षिप्रं रावणं नात्र संशयः ॥२२२॥ तथापरे वचः प्राहुः कैलाशो येन भूधरः । तदा समुद्धृतः सोयं शिलोद्धारस्य किं समः।।२२३॥ आहुरन्ये समुद्धारः कैलाशस्य कृतो यदि । विद्याबले यतस्तत्र विस्मयः कस्य जायते ॥२२४॥ एके च वचनं पोचुः किं विवादैरिमर्मुधा । जगद्धिताय संध्यर्थं कि नोपायो निरूप्यते ॥२२५।। तस्मादानीयतां सीतां समभ्यच्ये दशाननम् । राघवायापयिष्यामि विग्रहे किं प्रयोजनम् ॥२२६॥ संग्रामे तारको नष्टो मेरुकश्च महाबलः । कृतवीर्यसुताद्याश्च महासैन्यसमन्विताः ॥ २२७॥ एते खण्डत्रयाधीशा महाभागा महौजसः । अन्येहि बहवो नष्टा रणे सामंततः परम् ।। २२८ ।। अन्योन्यमभिमंत्र्यैवं विद्याविधिविशारदाः । राघवं विनयोपेताः संभूय ययुरादरात् ॥ २२९ ॥
Page #322
--------------------------------------------------------------------------
________________
३१३
पद्मपुराणे ।
अष्टचत्वारिंशत्तमं पर्व । सुग्रीवाद्याः समासीना नयनानन्दकारिणम् । विरेजुः परितो रामममरेन्द्रमिवामराः ॥ २३० ॥ पद्मनाभस्ततोऽवोचकिमद्याप्यवलंव्यते । मया विनान्तरे द्वीपे दुःखं तिष्ठति मैथिली ॥२३१॥ दीर्घस्तत्र त्वमुत्सृज्य क्षिप्रमद्यैव सर्वथा । त्रिकूटगमने सद्भिः क्रियते न किमुद्यमः ।। २३२ ॥ तमूचुमत्रिणो वृद्धा नयविस्तरकोविदाः । संशयेनात्र किं देव कथ्यतामेकनिश्चयः ॥ २३३ ।। किं त्वमिच्छसि वैदेहीं विरोधमथ रक्षसाम् । विजयः प्राप्यते दुःखं नायं सहशविग्रहः ॥२३४॥ भरतस्य त्रिखंडस्य प्रतिपक्षोज्झितप्रभुः । सामरद्वीपविख्यात एक एव दशाननः ॥ २३५ ॥ शंकितो धातकी द्वीपो द्योतिषामपि भीतिदः । जंबूद्वीपे परं प्राप्तो महिमानं खगाधिपः॥२३६ ॥ शिल्पीभूतोऽस्य विश्वस्य कृतानेकाद्धतक्रियः । ईदृशो राक्षसो राम कथं संसाध्यते त्वया २३७ तस्माद्बुद्धिं रणे त्यक्त्वा यद्वयं संवदामहे । प्रसीद क्रियतां देव तदेवोद्यच्छ शान्तये ॥२३८॥ मा भूत्तस्मिन् कृतक्रोधे जगदेतन्महाभयम् । विश्वस्तप्राणिसंघातं नष्टनिःशेषसक्रियम् ॥२३९॥ योऽसौ विभीषणः ख्यातः स्वयं ब्रह्मास कीर्तितः । क्रूरकर्मनिवृत्तात्मा भावितोऽणुव्रतैर्दृढम् २४० अलंध्यवचनं तस्य कुरुते खेचराधिपः । तयोर्हि परमा प्रीविरंतरायविवर्जिता ॥ २४१ ॥ बोधितस्तेन दाक्षिण्याद्यशः पालनतोऽपि वा । लज्जया वा विदेहस्य तनयां प्रेषयिष्यति ॥२४२॥
Page #323
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
अप्रचत्वारिंशत्तम पर्व। विज्ञापनवचोयुक्तिकुशलो नयपेशलः । अन्विष्यतामरं कश्चित्प्रसादी रावणस्य यः ॥ २४३ ॥ ततो महोदधिनाम्ना ख्यातो विद्याधराधिपः । अब्रवीदेष वृत्तान्तो भवतां नागतः श्रुतिम् २४४ यंत्रैबेहुजनक्षोदेलेकाऽगम्या निरंतरम् । कृतातिशयदुःप्रेक्षा सुभीमात्यंतगहरा ॥ २४५ ।।। एषां मध्ये न पश्यामि महाविद्यं नभश्चरम् । लंकां गत्वा द्रुतं भूयो यः समर्थो निवर्तितुम् २४६ पवनंजयराजस्य श्रीशैलः प्रथिनः सुतः । विद्यासत्वप्रतापाढ्यो बालोतुंगः स याच्यताम् ।।२४७॥ समं दशाननेनास्य विद्यते जयमुत्तमम् । युक्तः करोत्यसौ साम्यं निर्विघ्नं पुरुषोत्तमः ॥ २४८ ॥ प्रतिपन्नस्ततः सवैरेवमस्त्विति सादरैः । मारुतेरंतिकं दूतः श्रीभूतिः प्रहितो द्रुतम् ॥ २४९ ॥
शक्तिं दधतापि परां प्राप्यापि परं बोधमारभ्यः ।
भवितव्यं नयरतिना रविवि काले स यात्युदयम् ॥ २५० ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मपुराणे कोटिशिलाक्षेपणाभिधानं नाम अष्टचत्वारिंशत्तमं पर्व |
Page #324
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३१५
अथ एकोनपंचाशत्तमं पर्व ।
ततो नभः समुत्पत्य जगामासौ मरुज्जवः । अत्युत्तुंगैगृहैः पूर्ण श्रीपुरं श्रीनिकेतनम् ॥ १ ॥ तत्र हेमद्रवन्यस्तलेप्यतेजः समुज्वलम् । कुंदाभवलभीशोभि रत्ननिर्मितशेखरम् || २ || मुक्तादामसमाकीर्णं वातायनविराजितम् । उद्यानाकीर्णपर्यन्तं प्राविशन्मारुतेर्गृहम् || ३ | अपूर्वलोकसंघातं पश्यतस्तस्य साद्भुतम् । मनोगतागतं भूयो गतं कृच्छ्रेण धीरताम् ॥ ४ ॥ प्रविष्टे मारुतेर्गेहं तस्मिन् दूते ससंभ्रमे । अनंगकुसुमोत्पातं जगामेन्दुनखात्मजा ॥ ५ ॥ सस्पंदं दलिणं चक्षुरवधार्य व्यचिन्तयत् । प्राप्तव्यं विधियोगेन कर्म कर्तुं न शक्यते ॥ ६ ॥ क्षुद्रशक्तिसमासक्ता मानुषास्तावदासताम् । न सुरैरपि कर्माणि शक्यन्ते कर्तुमन्यथा ॥ ७ ॥ वेदितागमनस्तावद्द्द्तो नर्मदया सभाम् । प्रस्वेदकणसंपूर्णः प्रतीहार्या प्रवेशितः ॥ ८ ॥ जगादाथ यथावृत्तं निःशेषं प्रणताननः । दंडकाद्रिं समायाताः पद्मनाभादयः पुरा ॥ ९॥ शंबूकस्य वधं युद्धं विषमं खरदूषणम् । पंचतागमनं तस्य मानवैरुत्तमैः सह ॥ १० ॥ ततो निशम्य तां वार्ता शोकविहलविग्रहा । अनंगकुसुमा मूर्छामुपेता मुकुलक्षणा ॥ ११ ॥
एकोनपंचाशत्तमं पर्व ।
Page #325
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३१६
एकोनपंचाशत्तमं पर्व । चान्दनेन द्रवेणैतां सिच्यमानां क्रियोज्झिताम् । विलोक्यांतः पुरांभोधिः परमं क्षोभमागतः १२ arrari प्राप्तानां कोणताडनम् । ऋदन्तीनां समं रम्यो ध्वनिः स्त्रीणां समुद्गतः॥ १३ ॥ अनंगकुसुमा कृच्छालंभिता प्राणसंगमम् | अश्रुसिक्तस्तनी तारं विललापातिदुःखिता ॥ १४ ॥ हा तात क्व प्रयातोसि प्रयच्छ वचनं मम । हा भ्रातः किमिदं जातं दीयतां दर्शनं सकृत् ||१५|| वनेऽतिभीषणे कष्टं रणाभिमुखतां गतः । भूगोचरैः कथं तात मरणत्वमुपाहृतः ॥ १६ ॥ शोकाकुलजनाकीर्णे जाते श्रीशैलवेश्मनि । नीतो नर्मदया दूतः प्रदेशं वचनोदितम् ॥ १७ ॥ पितुर्भ्रातुच दुःखेन तप्ता चन्द्रनखात्मजा । कृच्छ्रेण शमनं नीता सद्भिः प्रशमकोविदैः || १८ || जिनमार्गप्रवीणासौ बुध्वा संसारसंस्थितिम् । लोकाचारानुकूलत्वाच्चक्रे प्रेतक्रियाविधिम् ॥ १९ ॥ अन्येद्युर्दृतमाहूय पवनंजयनन्दनः । अपृच्छच्छोकसंस्पृष्टः मौललोकसमादृतः || २० || निःशेषं दूत यद्वृत्तं तन्निवेदय सांप्रतम् । इत्युक्त्वा कारणं मृत्योः खरदूषणमस्मरत् ॥ २१ ॥ ततोऽस्य क्रोधसंरुद्धसर्वांगस्य महाद्युतेः । भ्रूस्तरंगवती रेजे तडिद्रेखेव चंचला || २२ ॥ ततस्त्रासपरीतांगो मुदुर्वृतः प्रतापवान् । जगाद मधुरं प्राज्ञः कोपविध्वंसकारणम् ॥ २३ ॥ ज्ञातमेव हि देवस्य किष्किन्धाधिपतेः परम् । दयितादुःखमुत्पन्नं तत्समाकारहेतुकम् ॥ २४ ॥
Page #326
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
एकोनपंचाशत्तमं पर्व। आर्तस्तेन स दुःखेन पद्मं शरणमागमत् । प्रतीक्ष्य सोतिविध्वंसं किष्किंधनगरं गतः ॥ २५ ॥ सुग्रीवाकृतिचौरेण समं तत्र महानभूत् । चिरं श्रान्तमहायोधः संग्रामः श्वसुरस्य ते ॥ २६ ॥ उत्थाय पद्मनाभेन ततो भूयो महौजसा । तस्याहूतस्य नष्टासौ वेताली स्तेयकारणम् ॥ २७ ॥ ततः साहसगत्याख्यः स्वस्वभावं समाश्रितः । विज्ञातो रामनिमुक्तैर्मृत्युं नीतः शिलीमुखैः ॥२८॥ तच्छ्रुत्वा विगतक्रोधो जातः पवननन्दनः । पुनरुक्तं जगौ तुष्टः विकसन्मुखपंकजः ॥ २९ ॥ कृतं कृतमहो साधु प्रियं पझेन नः परम् । यत्सुग्रीवकुलं मज्जदकीतौ क्षिप्रमुद्धतम् ॥ ३०॥ हेमकुंभोपमं गोत्रं अयशःकूपगढरे। निमज्जद्गुणहस्तेन तेनसन्मतिनोद्धृतम् ॥ ३१ ॥ एवमादिपरं भूरि प्रशंसन् रामलक्ष्मणौ । कस्मिन्नपि ममज्जासौ सारसौख्यमहार्णवे ॥ ३२ ॥ श्रुत्वा पंकजरागायाः पितुः शोकपरिक्षयम् । उत्सवः सुमहान्जातो दानपूजादिसंस्तुतः ॥३३॥ उद्वेगानन्दसंपन्नं हतछायासमुज्वलम् । श्रीशैलभवनं जातं रसद्वयसमुत्कटम् ॥ ३४ ॥ एवं विषमतां प्राप्ते स्वजने पावनंजयिः । किंचित्समत्वमाधाय किष्किन्धाभिमुखं ययौ ॥ ३५ ॥ ऋध्याभिगच्छतस्तस्य बलेनात्यर्थभरिणा। जगादन्यदिवोद्भतमाकाशपरिवर्जितम् ॥३६॥ विमानं सुमहं तस्य मणिरत्नसमुज्वलम् । प्रभां दिवसरत्नस्य जहार स्वमरीचिभिः ॥ ३७ ॥
Page #327
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३१८
एकोनपचाशत्तमं पर्व। गच्छतं तं महाभाग्यं शतशो बन्धुपार्थिवाः । अनुजग्मुः सुनासीरं यथा त्रिदशपुंगवाः ॥३८॥ अग्रतः पृष्ठतश्वास्य पार्श्वतश्च जयस्वनैः । गच्छतां खेचरेंद्राणामासीच्छब्दमयं नमः ॥ ३९॥ . चित्रमासीद्यदश्वानां विहायस्तलगामिनाम् । मनोहारी गजानां च विलासः स्वतनूचितः ॥४०॥ महानुरंगसंयुक्तैः रथैरुच्छ्तकेतुभिः । विहायसस्तलं जातं मन्ये कल्पनगाकुलम् ॥४१॥ सितानामातपत्राणां मण्डलेन महीयसा । जातं च कुन्दखण्डानामिव पूर्ण वियत्तलम् ॥ ४२ ॥ गंभीरो दौंदुभो धीरो धानो ध्वस्तापरध्वनिः । चक्रबालं दिशा व्याप्य प्रतिध्वनिधनः स्थितः॥ संकुलं चलता तेन सैन्येन गगनांगणम् । खण्डखण्डेरिवच्छन्नमन्तरेषु व्यलोक्यते ॥४४॥ भासां भूषणजातानां बहुवर्णयुजां वयैः । विशिष्टशिल्पिना रक्तं नभो वस्त्रमिवाभवत् ॥ ४५ ॥ ध्वनि मारुतितूर्यस्य श्रुत्वा सना गहरम् । तोष कपिध्वजाःप्रापुः शिखिनोन्दध्वनिं यथा॥४६॥ कृतापणमहाशोभं ध्वजमालासमाकुलम् । रत्नतोरणसंयुक्तं किष्किधनगरं कृतम् ॥ ४७॥ बहुभिः पूज्यमानोऽसौ विभवैस्त्रिदशोपमैः । विवेश नगरं सम सुग्रीवस्य च पुष्कलम् ॥ ४८॥ सुग्रीवेण प्रतीष्टश्च यथार्ह रवितादरः । कथितं चाखिलं तस्य पद्मनाभादिचेष्टितम् ॥ ४९॥ अनेनैव ततो युक्ताः सुग्रीवाद्या नरेश्वराः । धारयन्तः परं हर्ष पद्मनाभमुपाययुः ॥५०॥
Page #328
--------------------------------------------------------------------------
________________
पढ़ापुराणम् ।
एकोनपचाश पर्व |
अपश्यच्च नरश्रेष्ठं तं लक्ष्मीधरपूर्वजम् । नीलकुंचितसूक्ष्मातिस्निग्धकेशं मरुत्सुतः || ५१ ॥ लक्ष्मीलताविषक्तांगं कुमार मित्र भास्करम् । शशांकमिव लिंपतं कान्तिपझेन पुष्करम् ।। ५२ ।। नयनानां समानन्दं मनोहरणकोविदम् । अपूर्वकर्मणां सर्ग स्वर्गादिव समागतम् ॥ ५३ ॥ ज्वलद्विशुद्धरुक्मांबु - रुहगर्भसमप्रभम् । मनोज्ञां गतनासाग्रं संगतश्रवणद्वयम् ॥ ५४ ॥ मूर्तिमन्तमिवानंगं पुंडरीकनिभेक्षणम् । चापानतभ्रुवं पूर्णशारदेन्दुनिभाननम् ।। ५५ ।। विम्बप्रवालरक्तोष्ठं कुंदश्वेतद्विजावलिम् | कंबुकंठमृगेन्द्राभवक्षोभाजं महाभुजम् ॥ ५६ ॥ श्रीवत्सकान्तिसंपूर्णमहाशो भस्तनान्तरम् । गंभीरनाभिवत्क्षाममध्यदेशविरा जितम् ।। ५७ ।। प्रशान्तगुणसंपूर्ण नानालक्षणभूषितम् । सुकुमारकरं वृत्तपीवरोरुद्वयस्तुतम् || ५८ ॥ कूर्मपृष्ठमहातेजः सुकुमारक्रमद्वयम् । चन्द्राकुंरारुणच्छायानखपंक्तिसमुज्वलम् ॥। ५९ ।। अक्षोभ्यसत्वगंभीरं वज्रसंघातविग्रहम् । सर्वसुन्दरसंदोहमिव कृत्वा विनिर्मितम् || ६० ॥ महाप्रभाव संपन्नं न्यग्रोधपरिमंडलम् । प्रियांगनावियोगेन बालसिंहमिवाकुलम् || ६१ ॥ शच्येव रहितं शक्रं रोहिण्येव विना विधुम् । रूपसौभाग्यसंपन्नं सर्वशास्त्रविशारदम् ।। ६२ ॥ शौर्यमाहात्म्यसंयुक्तं मेघादिगुणसंयुतम् । एवंविधं समालोक्य मारुतिः क्षोभमागतः ॥ ६३ ॥
३१९
Page #329
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૩૨૦
एकोनपंचाशत्तम पर्व। अचिंतयच्च संभ्रान्तस्तत्प्रभाववशीकृतः । तच्छरीरप्रभाजालसमालिंगितविग्रहः ॥ ६४ ॥ श्रीमानयमसौ राजा रामो दशरथात्मजः । यस्येह लक्ष्मणो भ्राता लोकश्रेष्ठः स्थितो वशे॥६५॥ यस्यालोक्य तदा संख्ये छत्रं शीतांशुसन्निभम् । सा साहसगर्माया वैताली परिनिःसृता॥६६॥ दृष्ट्वा वजधर सर्व हृदयं यन्न कंपितम् । तदद्य मम दृष्टुनं संक्षोभं परमं गतम् ॥ ६७ ।। इति विस्मयमापन्नः समनुसृत्य तान् गुणान् । ससार पावनिः पद्मं श्रीमदंभोजलोचनम् ॥६८॥ दूरादुत्थाय दृष्ट्वं पद्मलक्ष्मीधरादिभिः । असौ प्रहृष्टचेतोभिः परिष्वक्ता यथाक्रमम् ॥ ६९ ॥ परस्परं समालोक्य संभाष्य विनयोचितम् । उपधानविचित्रेषु स्वासनेष्ववतस्थिते ।। ७०॥ तत्र भद्रासने रम्ये स्थितः काकुस्थनन्दनः । केयूरभूषितभुजो ज्वलंल्लक्षम्या समंततः ॥ ७ ॥ स्वस्थनीलांबरधरश्चूडामणिरिवोज्वलः । रराज वरहारेण सोडुचन्द्र इवोद्गतः ॥ ७२ ॥ दिव्यपीताम्बरधरो हारकेयूरकुण्डली । सुमित्रातनयो रेजे सतडिज्जलदो यथा ॥७३॥ वानराभोगमुकुटसुरवारणविक्रमः । अभात्सुग्रीवराजोऽपि लोकपाल इवार्जितः ॥ ७४ ॥ विराधितः कुमारोऽपि सौमित्रेः पृष्ठतः स्थितः । अलक्ष्यत नृसिंहस्य चक्ररत्नमिवौजसः ॥७५॥ हनुमानप्यलं रेजे पद्मनाभस्य धीमतः । समीपे पूर्णचन्द्रस्य स्फीतो बुध इवोदितः ॥ ७६ ॥
Page #330
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनपंचाशत्तम पर्व । सुगंध्यमाल्यवस्खाद्यैरलंकारैश्च भूषितौ । अंगांगदावभासन्तौ यमवैश्रवणाविव ॥ ७७ ॥ नलनीलप्रभृतयः शतशोऽन्ये च पार्थिवाः । आसीना रेजुरत्यन्तमावृत्य रघुनन्दनम् ।। ७८ ॥ पंचसद्न्धताम्बूलगंधसंगतमारुता । विभूषणकृतोद्योता सा सभेन्द्रसभोपमा ॥ ७९ ॥ विस्मित्य सुचिरं रामं प्रीतः पावनिरब्रवीत् । समक्षं न गुणा ग्राह्या भवतो रघुनन्दन ॥ ८॥ इहापि निखिले लोके दृश्यते स्थितिरीदृशी । किमपि प्रियवक्तृणां प्रत्यक्षगुणकीर्तनम् ॥८१॥ आसीद्यस्याधिमाहात्म्यं श्रुतमस्माभिर्जितम् । दृष्टः सत्वहितः स त्वं सत्ववान् चक्षुषा स्वयम् ॥ सर्वसोन्दयेयुक्तस्य गुणरत्नाकरस्य ते । शुभ्रेण यशसा राजन् जगदेतदलंकृतम् ॥ ८३ ॥ धनुलोभावये लब्धे सहस्रामररक्षिते । सीतास्वयंवरेऽस्माभिः श्रुतस्तव पराक्रमः ॥ ८४ ॥ पिता दशरथो यस्य यस्य भामंडलः सुहृत् । भ्राता यस्य च सौमित्रिः स त्वं राम जगत्पतिः।। अहो शक्तिरहोरूपमेष नारायणः स्वयम् । समुद्रावर्तचापेशो यस्याज्ञाकरणे रतः ॥ ८६ ॥ अहो धैर्यमहो त्यागो यत्पितुः पालयन् वचः । महाप्रतिभयाकारं प्रविष्टो दण्डकं वनम् ॥ ८७॥ एतन्न कुरुते बन्धुस्तुष्टश्च त्रिदशाधिपः । अहो त्वया नाथ कृतं यदस्माकमतिप्रियम् ।। ८८॥ सुग्रीवरूपसंपन्नं हत्वा संयति साहसम् । यत्कपिध्वजवंशस्य कलंको दूरमुज्झितः ॥ ८९ ॥
२-२१
Page #331
--------------------------------------------------------------------------
________________
३२२
एकोनपंचाशत्तम पर्व। विद्याबलविधिज्ञैर्यद्यस्य मायामयं वपुः । अस्माभिरपि नो सह्यं दुर्जयं च विशेषतः ॥ ९ ॥ तेन सुग्रीवरूपेण गृहीतुं प्लावगं बलम् । दर्शनादेव युष्माकं तद्रूपं तस्य निसृतम् ॥ ९१ ॥ कर्तुं प्रत्युपकारं यो न शक्तोऽत्युपकारिणः । सुलभा भावशुद्धिं स तस्मै न कुरुते कुतः ॥९२॥ का तस्य बुद्धिायेषु भवेदेकमपि क्षणम् । यः कृतस्योपकारस्य विशेष नावबुध्यते ॥ ९३ ॥ स्वपाकादपि पापीयान् लुब्धकादपि निघृणः । असंभाष्यः सतां नित्यं योऽकृतज्ञो नराधमः ९४ स्वशरीरमपि त्यक्त्वा सत्यं वयमनन्यगाः । सर्वे समुद्युताः कर्तुमुपकारं तव प्रभो ॥ ९५ ॥ गत्वा प्रबोधयिष्यामि त्रिकूटाधिपतिं बुधम् । तव पत्नी महाबाहो त्वरावानानयाम्यहम् ॥१६॥ सीताया वदनांभोज प्रसन्नेन्दुमिवोदितम् । संदेहेन विनिमुक्तं शीघ्रं पश्यसि राघव ॥ ९७ ॥ मंत्री जाम्बूनदोवोचचतो वाक्यं परं हितम् । वत्स वत्स मरुत्पुत्र त्वमेकोऽस्माकमाश्रयः ॥९८॥ अप्रमत्तेन गंतव्यं कां रावणपालिताम् । न विरोधः कचित्कायेः कदाचित्केनचित्सह ॥९९॥ एवमस्त्विति संभाष्य तं संप्रस्थितमुन्नतम् । विलोक्य परमां प्रीतिं पद्मनाभः समागमत् ॥१०॥ पुनः पुनः समाहूय मारुतिं चारुलक्षणम् । सर्वादरं जगादेदं स्फीत्या राजीवलोचनः ॥१०१॥ मद्वाक्यादुच्यतां सीता त्वद्वियोगात् स राघवः। अधुना विंदते साध्वि न मनोनिवृति कचिवर०२
Page #332
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
एकोनपचाशत्तमं पर्व ।
अत्यन्तं तदहं मन्ये हतं पौरुषमात्मनः । प्रतिरोधं प्रपन्नासि वर्तमानेऽपि यन्मयि ॥ १०३ ॥ वेद्मि निर्मलशीलाढ्या यथा त्वं मदनुवृता । जीवितुं वांछसि त्यक्तुं मद्वियोगेन दुःखिता ॥ १०४ ॥ अलं तथापि सद्वक्त्रे दुःसमाधानमृत्युना । धार्यतां मैथिली प्राणा न जीवं त्यक्तुमर्हसि || १०५ ॥ दुर्लभः संगमो भूयः पूजितः सर्ववस्तुषु । ततोऽपि दुर्लभो धर्मो जिनेन्द्रवदनोद्गतः ।। १०६ ।। दुर्लभादप्यलं तस्मान्मरणं सुसमाहितम् । तस्मिन्नसति जन्मेदं तुषनिःसारमीक्षितम् ॥ १०७ ॥ इदं च प्रत्ययोत्पादि प्रियायै मम जीवतः । सततं संस्तुतं देयमंगुलीयकमुत्तमम् ॥ १०८ ॥ वायुपुत्र द्रुतं गत्वा सीतायास्तं महाप्रभम् । ममापि प्रत्ययकरं चूडामणिमिहानय ।। १०९ ॥ यथाज्ञापयसीत्युक्त्वा रत्नवानरमौलिभृत् । कृतांजलिपुटो नत्वा सौमित्रिं च कृतांजलिः ।। ११० ।। वहिर्विनिर्ययौ हृष्टः पूर्यमाणो विभूतिभिः । क्षोभयन्तेजसा सर्व सुग्रीवभवनाजिरम् ॥ १११ ॥ संदिदेश च सुग्रीवं यावदागमनं मम । स्थातव्यं तावदत्रैव प्रमादपरिवर्जितैः ।। ११२ ।। विमानं चारुशिखरमारूढो मारुतिस्ततः । विभाति मस्तके मेरो चैत्यालय इवोज्वलः ॥ ११३ ॥ प्रययौ परया द्युत्या सितछत्रोपशोभितः । विलसद्वंशसंकाशैश्चामरैरुपजीवितः ॥ ११४ ॥ बामुत्रेगसमैरश्वैर्जगामाद्रिसमैर्गजैः । सैन्यैस्त्रिदशसंकाशैर्जगाम परितो वृतः ॥ ११५ ॥
1
३२३
Page #333
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३२४
पंचाशत्तम पर्व । एवं युक्तो महाभूत्या रामादिभिरुदीक्षितः । समाक्रम्य रवेर्मार्गमयासीत्सुनिरंतरम् ॥ ११६ ॥
पूर्ण जगत्तिष्ठति जंतुवगैर्नानाविधैरुत्तमभोगयुक्तैः। . ___कश्चित्तु तेषां परमार्थकृत्ये नियुज्यते यत्परमं यशस्तत् ॥ ११७ ॥ कृतं परेणाप्युपकारयोगं स्मरन्ति नित्यं कृतिनो मनुष्याः ।
तेषां न तुल्यो भुवने शशांको नवा कुबेरो न रवि शक्रः ॥ ११८ ॥ इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे हनूमत्प्रस्थानं नाम एकोनपंचाशत्तमं पर्व ।
अथपंचाशत्तमं पर्व। अथासावांजनो गच्छन्नंबरे परमोदयः । स्वसारमिव वैदेहीमानिनीषुः रराज सः॥१॥ सुहृदाज्ञाप्रवृत्तस्य विनीतस्य महात्मनः । शुद्धभावस्य तस्यासीदुत्सवः कोऽपि चेतसः ॥२॥ पश्यतः प्रौढया दृष्टया स्थितस्य रविगोचरे । दिशा मडलमस्यासीच्छरीरावयवोपमम् ॥ ३ ॥ लंका जिगमिषोरस्य महेन्द्रनगरोपमम् । महेन्द्रनगरं दृष्टेराभिमुख्यमुपागतम् ॥४॥
Page #334
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३२५
पंचाशत्तम पर्व। वेदिकापुंडरीकाभैः प्रासादैः शशिपांडुरैः । पर्वतस्य स्थितं मूर्ध्नि तद्विदूरे प्रकाशते ॥ ५ ॥ वज्रपाणेरिवामुख्यस्तस्मिन्वालिपुरोपमे । न बभूवतरां प्रीतिः तस्मादेवमचिंतयत् ॥ ६॥ इदं शिखरिणो मूर्ध्नि तन्महेन्द्रपुरं स्थितम् । महेन्द्रको नृपो यत्र दुर्मतिः सोऽवतिष्ठते ॥ ७ ॥ दुःखतापितसर्वांगा माता येनागता मम । निवासिता मयि प्राप्ते कुक्षिवासं दुरात्मना ॥८॥ एषाऽसौ विजनेऽरण्ये गुहा यत्र स सन्मुनिः । पर्यंकयोगयुक्तात्मा नाम्नामितगतिः स्थिताः ९ अस्यां भगवता तेन साधुवाक्यैः कृपा कृता । माता मां जनिताश्वासा प्रसूता बंधुवर्जिता १० श्रुतं केसरिजं कृच्छ्रे श्रुत्वा मातुरुपप्लम् । साधोश्च संगमं सैषा रम्या रम्या च मे गुहा ॥ ११ ॥ मातरं शरणं प्राप्तां मम निवास्य यः कृती। व्यसनप्रतिदानेन महेन्द्रं किन्तु तं भजेत् ॥ १२ ॥ अहंयुरयमत्यन्तं मां किल द्वेष्टि संततम् । महेन्द्रगमेतस्य तस्मादपनयाम्यहम् ॥ १३ ॥ प्रलम्बांबुदवृन्दोरुनादा दुंदुभयस्ततः । महालंपाकभेर्यश्च पटहाश्च समाहताः ॥ १४ ॥ ध्माताः शंखा जगत्पंका भटैरुत्कटवेष्टितैः । युद्धशौंडैः समुत्कृष्टं समुल्लासितहेतिभिः ॥ १५ ॥ श्रुत्वा परवलं प्राप्त महेन्द्रः सर्वसेनया । प्रत्यक्षत विनिःक्रम्य मेघवृन्दमिवाचलः ॥ १६ ॥ संप्रहारस्ततालग्नेदृष्ट्रासीदनिज बलम् । चापमुद्यम्य माहन्द्रिः प्राप्तश्छत्री रथस्थितः ॥ १७ ॥
Page #335
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
३२६
पंचाशत्तम पर्व । हनूमानिषुभिस्तस्य धनुस्तिसृभिरायतम् । चिच्छेद गुप्तिभिर्योगी यथामानं समुत्थितम् ॥१८॥ चापं यावद्वतीयं स गृह्णात्याकुलमानसः । शरस्तावद्रथान्मुक्ताः प्रचंडास्तस्य वाजिनः ॥१९॥ रथात्ते विगतः शीघ्राश्चपला बभ्रमु(शम् । हृषीकाणीव मनसो मुक्ता निर्विषयैषिणः ॥२०॥ माहेन्द्रिरथ संभ्रान्तो विमानं वरमाश्रितः । तदप्यस्य शरैलुप्त मतं दुष्टमतेरिव ॥ २१॥ माहेन्द्रिमुदितो भूयो विद्याबलविकरगः । पतत्रिचक्रकनकैयुयुधेलातभासुरैः ॥ २२ ॥ विद्ययाऽनिलपुत्रोऽपि तं शस्त्रौघमवारयत् । यथात्मचिन्तया योगी परीपहकदंबकम् ॥ २३ ॥ निर्दयोन्मुक्तशस्त्रोऽसावास्तृणानो महाग्निवत् । गृहीतो वायुपुत्रेण गरुडेनेव पन्नगः ॥२४॥ प्राप्तरोधं सुतं दृष्ट्वा महेन्द्रः क्रोधलोहितः। रथी मारुतिमभ्यार रामं सुग्रीवरूपवत् ॥ २५ ॥ अभिः स्यंदनः सोऽपि हारिहारो धनुर्धरः । शूराणामग्रणी दीप्तो मातुः पितरमभ्यगात् ॥२६॥ तयोरभून्महत्संख्यं क्रकचासिशिलीमुखैः । परस्परकृताघातं वायुवस्याब्दयोरिव ॥ २७ ॥ सिंहाविव महारोषो तावुद्धतबलान्वितौ । ज्वलत्स्फुलिंगरक्ताक्षौ स्वसंतौ भुजगाविव ॥ २८ ॥ परस्परकृताक्षेपौ गर्वहासस्फुटस्वनौ । धिक्ते शौर्यमहोयुद्धमित्यादिवचनोद्यतौ ॥ २९ ॥ चक्रतुः परमं युद्धं मायाबलसमन्वितौ । हाकारजयकारादि कारयन्तौ मुहुनिजैः ॥ ३० ॥
Page #336
--------------------------------------------------------------------------
________________
৪২৬
पद्मपुराणम् ।
पंचाशत्तम पर्व। महेन्द्रोऽथ महावीर्यो विक्रियाशक्तिसंगतः । क्रोधस्फुरितदेहश्रीर्मुमोचायुधसंहतिम् ॥ ३१ ॥ भुपुंढीः परशून्वाणान् शतघ्रीर्मुद्गरां गदाः । शिखरिणि च शैलानां शालन्यग्रोधपादपाम् ॥३२॥ एतैरन्यैश्च विविधैरायुधौधैर्मरुत्सुतः । न विव्यथे यथा शैलो महामेघकदम्बकः ॥ ३३ ॥ तद्दिव्यमायया सृष्टं शस्त्रवर्ष महेन्द्रजम् । उल्काविद्याप्रमावेन वायुसुनुरचूर्णयत् ॥ ३४ ॥ उत्पत्य च रथे तस्य निपत्य सुमहाजवः । ककुष्करिकराकारकराभ्यां कृतरोधनम् ॥ ३५ ॥ मातामहं समादाय बलं विभ्रदनुत्तमम् । दत्तसाधुःस्वनः शूरैः समारोहनि रथम् ॥ ३६ ॥ उल्कालांगूलपाणिं तं दौहित्रं परमोदयम् । प्रशंसितुं समारब्धो महेन्द्रः सौम्यया गिरा ॥३७॥ अहो ते वत्स माहात्म्यं परमेतन्मया श्रुतम् । पूर्वमासीदिदानीं तु नियतं प्रत्यक्षगोचरम् ॥३८॥ आसीदेवेन्द्रयुद्धेऽपि निर्जितो यो न केनचित् । विजयार्धनगस्योर्द्धमहाविद्यायुधाकुले ॥ ३९ ॥ असौ प्रसन्नकीर्तिमें पुत्रो माहात्म्यसंगतः। त्वया पराजितः प्राप्तो रोईं चित्रमिदं परम् ॥४०॥ अहो पराक्रमो भद्र तव धैर्यमहो परम् । अहो रूपमनौपम्यमहो संग्रामशौंडता ॥ ४१॥ प्रजातेन त्वया वत्स महानिश्चययोोगना । कुलमुद्योतितं सर्वमस्मदीयं सुकर्मणा ॥ ४२ ॥ विनयाद्यैर्गुणैयुक्तो राशिः परमतेजसः । कल्याणमूर्तिरत्यर्थं कल्पवृक्षस्त्वमुद्गतः ॥ ४३ ॥
Page #337
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३२८
पंचाशत्तम पर्व। जगतो गुरुभूतस्त्वं बांधवानां समाश्रयः । दुःखादित्यप्रतप्तानां समस्तानां घनाघनः ॥ ४४ ॥ इति प्रशस्य तं नेहाद्रुदस्राक्षश्चलत्करः । अजिघन्मस्तके ननं पुलकी परिषस्वजे ॥ ४५ ॥ प्रणम्य वायुपुत्रोऽपि तमार्य विहितांजलिः । अतितिक्षद्विनीतात्मा क्षणाघातोऽन्यतामिव ॥४६॥ मया शिशुतया किंचिदार्य दत्ते विचेष्टितम् । दोषमेवं समस्तं मे प्रतीक्ष्य क्षांतुमर्हसि ॥ ४७ ।। समस्तं च समाख्यातं तेनागमनकारणम् । पद्मारामादिकं यावदात्मागमनमादृतम् ।। ४८ ॥ अहमार्य गमिष्यामि त्रिकूटमतिकारणम् । त्वं किष्किन्धपुरं गच्छ कार्य दाशरथेः कुरु ॥ ४९ ॥ इत्युक्त्वा वायुसंभूतः खमुत्पत्य ययौ सुखम् । त्रिकूटाभिमुखः क्षिप्रं सुरलोकमिवापरः ।। ५० ॥ गत्वा माहेन्द्रकेतुश्च तनयां नयकोविदः । प्रसन्न कीर्तिना सार्द्ध वत्सलः समपूजयत् ॥५१॥ मातापितृसमायोगं सोदरस्य च दर्शनम् । अंजनामुन्दरी प्राप्य जगाम परमां धृतिम् ॥ ५२ ॥ महेन्द्रनिभृतं श्रुत्वा किष्किन्धाभिपुखोऽगमम् । विराधितप्रभृतयस्तोषमाययुरुत्तमम् ॥५३॥
पुरा विशिष्टं चरितं कृतात्मनां सुचेतसामुत्तमचारुतेजसाम् ।
महात्मनामुन्नतगर्वशालिनो भवन्ति वश्याः पुरुषा बलान्विताः ॥५४॥
Page #338
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३२९
ततः समन्तादनुपाल्य मानसं जना यतध्वं सततं सुकर्मणि ।
फलं यदीयं समवाप्य पुष्कलं रवेःसमानामुपयाथ दीप्तताम् ।। ५५ ।। इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे महेन्द्रदुहितासमागमाभिधानं नाम पंचाशत्तमं पर्व |
एकपंचाशत्तमं पर्व |
अथैकपंचाशत्तमं पर्व |
श्रीशैलस्य वियत्युच्चैर्विमानस्थस्थ गच्छतः । बभूत्र सुगुणैर्युक्तो द्वीपो दधिमुखोऽन्तरे ॥ १ ॥ यस्मिन् दधिमुखं नाम प्रासादैर्दधिपांडुरैः । पुरं परममायाति चारुकांचनतोरणम् ॥ २ ॥ नवमेघप्रतीकाशैरुद्यानैः कुसुमोज्वलैः । प्रदेशा यस्य शोभन्ते सनक्षत्राम्बरोपमाः || ३॥ स्फटिकस्वच्छसलिला वाप्यः सोपानशोभिताः । पद्मोत्पलादिभिश्छन्ना यत्र भान्ति कचित् कचित् । तस्मिन् विप्रकृष्टेन देशे नगरगोचरात् । बृहत्तृणलतावल्लीद्रुमकंटक संकटे ।। ५ ।। roarraaiiधे रौद्रश्वापदनादिते । घोरे पतिरूपाकारे प्रचंडानिलचंचले || ६॥ पतितोदारवृक्षौघे महाभयसमावहे । विशुद्धक्षारसरसि कंकगृद्धादिसेविते ॥ ७ ॥
Page #339
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३३०
एकपचाशत्तम पर्व।
दुर्जने विजने राजत्साधुयुग्मं नभश्वरम् । अष्टाहं लंबितभुजं योगमुग्रमुपाश्रितम् ॥ ८ ॥ तस्य कोशचतुर्भागमात्रदेशे व्यवस्थिताः । मनोज्ञनयनाः कन्याः सितवस्त्रा जटाधराः ॥ ९॥ तप्यन्ते विधिवद्घोरं तपस्तिस्रः सुचेतसः । शोभालोकत्रयस्येव नवभूषणतां गतः ॥ १० ॥ अथासौ साधुयुगलं ग्रस्यमानं महाग्निना । अंजनातनयोऽपश्यत्पादपद्वयनिश्चलम् ॥ ११ ॥ असमाप्तव्रताः ताश्च कन्याः लावण्यपूरिताः । उद्गममजालेन स्पृष्टा वहलवर्तिना ॥ १२ ॥ अथातस्थौ सुनिर्गन्थौ युक्तयोगी शिवस्पृहौ । त्यक्तारागादिसंगेच्छौ निरस्तांशुकभूषणौ ॥१३॥ प्रलंबितमहाबाहू प्रशान्तवदनाकृती । युगान्तापितसदृष्टी प्रतिमास्थानमाश्रितौ ॥ १४ ॥ मृत्युजीवननिःकांक्षावनघौ शान्तमानसौ । समप्रियाप्रियासंगौ समपाषाणकांचनौ ॥ १५ ॥ दानेन महता राजन् तेनात्यासन्नातिना । अभिभूतौ समालोक्य वात्सल्यं कर्तुमुद्यतः ॥ १६ ॥ आकृष्य सागरजलं मेघहस्तः ससंभ्रमः । अवर्षदुन्नतो व्योनि परमं भक्तिसंगतः ॥ १७ ॥ सुभृशं तेन वह्निः सं-वारिपूरेण नाशितः । महाक्रोध इवोद्भुतः क्षांतिभावेन साधुना ॥ १८ ॥ यावच्च कुरुते पूजां भक्त्या पवननंदनः। तयोभेदंतयोनोनापुष्पादिद्रव्यसंपदा ॥ १९ ॥ ताकत्ताः सिद्धसंसाध्या मेरुं कृत्वा प्रदक्षिणम् । तत्सकाशमनुप्राप्ताः कुमार्यः सुमनोहराः॥२०॥
Page #340
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३३१
एकपंचाशत्तम पर्व। प्रणेमुश्च समंतेनं साधुध्यानपरायणौ । विनयान्वितया बुद्धया प्रशशंसुश्च मारुतिम् ॥ २१ ॥ अहो जिनेश्वरे भक्तिर्बजता कापि यद्रुतम् । त्वया तात परित्राता वयं साधुसमाश्रयात् ॥२२॥ अस्मद्वारसमायातो महानयमुपप्लवः । स्तोकेनाप्तो न योगिभ्यामहो नो भवितव्यता ॥२३॥ अथांजनात्मजोऽपृच्छदेवं संशुद्धमानसः । भवन्त्य इह निःशुन्ये काननेऽत्यन्तभीषणे ॥ २४ ॥ अवोचज्ज्यायसी तासां पुरे दधिमुखाइये । अत्र गंधर्वराजस्य वयं तिस्रोऽमरासुताः ॥ २५ ॥ प्रथमा चन्द्रलेखाख्या ज्ञेया विद्युत्प्रभा ततः । अन्या तरंगमालेति सर्वगोत्रस्य वल्लभाः ॥ २६ ।। यावन्तो भुवने केचिद्विजया दिसंभवाः । विद्याधरकुमारेन्द्राः कुलपुष्करभास्कराः ॥ २७॥ तेऽस्मदर्थे शिवं कापि न विंदन्तेऽर्थिनो भृशम् । दुष्टस्त्वंगारको नाम तापं धत्ते विशेषतः ॥२८॥ अन्यदापरिपृष्टश्च तातेनाष्टांगविन्मुनिः । स्थानेषु भगवन्केषु भर्ता दुहितरो मम ॥ २९ ॥ सोऽवोचत्साहसगतिं यो हनिष्यति संयुगे । आशां कतिपयाहोभी रमणोऽसौ भविष्यति ॥३०॥ निशम्यामोधवाक्यस्य मुनेस्तद्वचनं ततः। अचिन्तयत्पिताऽस्माकं विधाय स्मैरमाननम् ॥३१॥ कस्त्वसौ भविता लोके नरो वज्रायुधोपमः । विजया|त्तरश्रेणीश्रेष्ठं यों हन्ति साहसम् ।।३२॥ अथवा न मुनेर्वाक्यं कदाचिज्जायतेऽनृतम् । इति विस्मयमाविष्टः पिता माता जनस्तथा ॥३३॥
Page #341
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३३२
एकपंचाशत्तमं पर्व ।
चिरं प्रार्थयमानोऽपि यदासौ लब्धवान्न सः । तदास्मद्दुः खचिन्तास्थः संजातगारकेतुकः॥ ३४ ॥ ततः प्रभृति चास्माकमयमेव मनोरथः । द्रक्षामस्तं कदा वीरमिति साहससूदनम् ।। ३५ ।। एतच्च वनमायाता दारुणडुमसंकटम् । मनोऽनुगामिनीं नाम विद्यां साधयितुं परम् ॥ ३६ ॥ दिवस द्वादशोऽस्माकं वसन्तीनामिहान्तरे । प्राप्तस्य साधुयुग्मस्य वर्तते दिवसोऽष्टमः ।। ३७ ।। अंगारकेतुना तेन वीक्षिताश्च दुरात्मना । ततस्तेनानुबन्धेन क्रोधेन पूरितोऽभवत् ॥ ३८ ॥ ततोऽस्माकं वधं कर्तुमेता दश दिशः क्षणात् । धूमांगारकवर्षेण वह्निना पिंजरीकृताः ॥ ३९ ॥ षभिः संवत्सरैः साग्रैर्यदुसाध्यं प्रसाध्यते । दत्वांगमुपसर्गस्य तदद्यैव हि साधितम् ॥ ४० ॥ इहापदि महाभाग नाभविष्यद्भवान् यदि । अधिक्ष्याम हि योगिभ्यां सहारण्ये ततो ध्रुवम् ४१ साधु साध्विति संस्मित्य ततो मारुतिरब्रवीत् । भवतीनां श्रमः श्लाघ्यः फलयुक्तच निश्वयः ४२ अहो वो विमला बुद्धिरहो स्थाने मनोरथः । अहो भाग्यत्वमुत्तुंगं येन विद्या प्रसाधिता ॥ ४३ ॥ आख्यातं च क्रमात्सर्वं यथावृत्तं सविस्तरम् । पद्मागमादिकं यावदात्मागमनकारणम् ॥ ४४ ॥ तत्तश्च श्रुतवृत्तान्तो गंधर्वोऽमरया सह । समागतो महातेजास्तमुद्देशं सहानुगः ॥ ४५ ॥ नभश्चरसमायोगे देवागमनसन्निभे । क्षणेन तद्वनं जातं सर्व नन्दनसुन्दरम् ॥ ४६ ॥
Page #342
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्विपंचाशत्तम पर्व । किष्किन्धं च पुरं गत्वा भूत्या दुहितृभिः समम् । शासने पद्मनाभस्य गंधर्वो रतिमाश्रयत् ॥४७॥ ताश्च निस्सीमसौभाग्या विभूत्या परयान्विताः । उपनिन्ये पराः कन्या रामायाक्लिष्टकर्मणे ॥४८॥ एताभिरपराभिश्च सेव्यमानो विभूतिभिः । अपश्यन् जानकी पनो मेने शून्या दिशो दश ॥४९॥ गुणान्वितैर्भवति जनैरलंकृता समस्तभूः शुभललितैः सुसुन्दरैः।
विना जनैर्मनसि कृतास्पदं सदा बजत्यसौ गहनवनेन तुल्यताम् ॥५०॥ पुराकृतादतिनिचितात्समुत्कटाज्जनः परां रतिमनुयाति कर्मणः।
ततो जगत्सकलमिदं स्वगोचरे प्रवर्तते विधिरविणा प्रकाशते ॥ ५१ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे पद्मस्य गंधर्वकन्यालाभाभिधानं नाम एकपंचाशत्तमं पर्व ।
अथ द्विपंचाशत्तम पर्व। असौ पवनपुत्रोऽपि प्रतापाढयो महाबलः । त्रिकूटाभिमुखोऽयासीत्सोमवन्मन्दरं प्रति ॥१॥ अथास्य व्रजतो व्योमि सुमहाकामुकाकृतिम् । चक्रे मेध्याप्रतीकाशं जातं सैन्यं तिरोभवत् ॥२॥
Page #343
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३३४
त्रिपंचाशत्तम पर्व
उवाच खगतिः केन मम सैन्यस्य विघ्नता । अहो विज्ञायतां क्षिप्रं कस्येदमनुचेष्टितम् ॥ ३ ॥ किं स्यादसुरनाथोऽयं चमरो गर्वपर्वतः । आखण्डलः शिखंडी वा नैषामेकोऽपि युज्यते ॥ ४ ॥ प्रतिमा किन्तु जैनेन्द्री शिखरेऽस्य महीभृतः । भवेद्वा भगवान् कश्विन्मुनीश्वरमविग्रहः ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा वितर्ककृतवर्त्तनम् । मंत्री पृथुमतिर्नाम वाक्यमेतदुदाहरत् || ६ || निवर्त्तस्व महाबुद्धे श्रीशैल ननु किं तत्र । क्रूरयंत्रयुतेनायं मायाशालो मतिं गतः ॥ ७ ॥ चक्षुस्ततो नियुज्यासावपश्यत्पद्मलोचनः । दुःप्रवेशं महाशालं विरक्त स्त्रीमनः समम् ॥ ८ ॥ अनेकाकारवक्त्राढ्यं भीममाशालिकात्मकम् । त्रिदशैरपि दुढौंक्यं सर्वभक्ष्यं प्रभासुरम् ॥ ९ ॥ संकटोत्कटतीक्ष्णाग्रं क्रकचावलिवेष्टितम् । रुधिरोद्गारजिह्वाग्रं सहस्रविलसत्तटम् ॥ १० ॥ स्फुरद्भुजंगविस्फारि फणात्शूत्कारशब्दितम् । विषधूमान्धकारान्तज्वलदं गारदुःसहम् ॥ ११ ॥ यस्तं सर्पति मूढात्मा शौर्यमानसमुद्धतः । निःक्रामति न भूयोऽसौ मंडूकोहिमुखादिव ॥ १२ ॥ लंकाशाल परिक्षेपं सूर्यमार्गसमुन्नतम् | दुर्लभ्यं दुर्निरीक्ष्यं च सर्वदिक्षु सुयोजितम् ॥ १३ ॥ युगान्तकालमेघौघनिर्घोषसमभीषणम् । हिंसाग्रंथमिवात्यन्तपापकर्मविनिर्मितम् ॥ १४ ॥ तं दृष्ट्रा मारुतिर्दध्यावो नाथेन रक्षसाम् । दाक्षिण्यमूर्जितं पूर्व मायाप्राकारकारिणां ।। १५ ।।
Page #344
--------------------------------------------------------------------------
________________
३३५
पापुराणम् ।
द्विपंचाशत्तम पर्व उन्मूलयबिदं यत्रं विद्यावलसमूर्जितम् । मानमुन्मूलयाम्यस्य ध्यानी मोहबलं यथा ॥ १६ ॥ युद्धे च मानसं कृत्वा तत्सैन्यं सुमहास्वनम् । गगने सागराकारं समयेतिष्ठात्सुधीः ॥ १७ ॥ विद्याकवचयुक्तं च कृत्वा मानं गदाकरः । विवेश सालिकावक्त्रं राहुवक्त्रं रविर्यथा ॥ १८॥ ततः कुक्षिगुहां तस्याः परीतकैकसावृताम् । विद्यानखैरलं तीक्ष्णैः केसरीव व्यपाटयत् ॥ १९ ॥ निर्दयैश्च गदापातै|रघोषैर चूर्णयत् । घातिकर्मस्थितिं यद्वद्ध्यानी भावैः सुनिर्मलैः ॥ २०॥ अथाशालिकविद्याया यात्या भेदं भयावहः । समो नीलाम्बुवाहानामभूचटचटाध्वनिः ॥ २१ ॥ तेन संभाव्यमानोऽसौ शालो नष्टोऽतिचंचलः । स्तोत्रेणेव जिनेन्द्राणां कलुषः कर्मसंचयः॥२२॥ ततस्तन्निनदं श्रुत्वा युगान्तजलदोन्नतम् । दृष्ट्वा विशीर्यमाणं च यंत्रप्राकारमंडलम् ॥ २३ ॥ राजा वज्रमुखः क्रुद्धः शालरक्षाधिकारवान् । त्वरितं रथमारुह्य सिंहो दावमिवाभ्यगात् ॥२४॥ ततोऽभिमुखमेतस्य वीक्ष्य मारुतनन्दनम् । नानायाना युधायोद्धाः प्रचण्डा योद्धुमुद्यताः ॥२५॥ बलं वज्रमुखं दृष्ट्वा प्रबलं योद्धुमुद्यतम् । परमं क्षोभमायातं हनूमत्सैन्यमुस्थितम् ॥ २६ ॥ किमत्र बहुनोक्तेन प्रवृत्तं तत्तथा रणम् । यथा स्वामिकृते पूर्व सस्माननविमानने ॥ २७ ॥ स्वामिनो दृष्टिमार्गस्थाः सुभटाः कृतगर्जिताः । जीवितेष्वपि विस्नेहा बभूवुः किमिहोच्यताम्॥
Page #345
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
३३६
द्विपंचाशत्तमं पर्व। ततः कपिध्वजैर्योद्धाश्चिरंकृतमहाहवाः । वज्रायुधस्य निर्भनाः क्षणानेषुरितस्ततः ॥ २९ ॥ चक्रेणानिलसूनुश्च तेजोऽहरत् विद्विषाम् । ऋक्षविम्बमिवाकाशादपातयदरेः शिरः ॥ ३० ॥ संख्य पितुर्वधं दृष्ट्वा तं लंकासुन्दरी तदा । नियम्य कृच्छ्रतः शोकममविषदूषिता ॥ ३१ ॥ जवनाश्वरथारूढा कुंडलोद्योतितानना । शरासनायतोरस्का कुंचिता भूलतायुगा ॥ ३२ ॥ उल्केव संगतादित्यतेजोमंडलधारिणी । धूमोद्गारसमायुक्ता घनप्राग्भारवर्तिनी ॥ ३३ ॥ संरंभवशसंफुल्ललोहितांभोजलोचना । क्रूरसंदृष्टविंवोष्टी क्रुद्धव श्रीः शचीपतेः ॥ ३४ ॥ अधावदिषुमुहृत्य कच्छमाना मनोहरा । मया श्रीशैल दृष्टोऽसि तिष्ठ ते शक्तिरस्ति चेत् ॥३५।। अद्य ते रावणः क्रुद्धो नभश्वरमहेश्वरः । करिष्यति यदेतत्ते करोमि हतचेष्टतः ॥ ३६॥ इमं यमालयं पापं भवन्तं प्रेषयाम्यहम् । दिग्मूढ इव जातस्त्वमनिष्टस्थानगोचरः॥ ३७॥ तस्यास्त्वरितमायान्त्या यावच्छत्रमपातयत् । वाणेन तावदेतस्य तया चापं द्विधाकृतम् ॥३८॥ सा यावदगृहीच्छक्तिं तावन्मारुतिना शिरैः । नभश्छन्नं समायान्ती मिन्ना शक्तिश्च सान्तरे ३९ सा विद्यावलगंभीरा वज्रदंडसमान् शरान् । परशुकुंतचक्राणि शतघ्नीमुशलान् शिलान् ॥ ४०॥ बबर्ष वायुपुत्रस्य रथे हि भवदुनते । विकाले वारिणो भेदान्मेघसंध्या यथोन्नता ॥४१॥
Page #346
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३३७
द्विपचाशत्तम पर्व ।
तया नानायुधाटोपैः सर्ववेगसमीरितैः । आच्छाद्यत महातेजाः शुचिसूर्य इवांबुदैः ॥ ४२ ॥ विक्रान्तः स च शस्त्रौघमनिर्वाणोन्तरस्थिरम् । व्यपोहत निजैः शस्त्रैः मायाविधिविशारदः ॥ ४३ ॥ शराः शरैरलुप्यन्त तोमराद्याः स्वजातिभिः । शक्तयः शक्तिभिर्तुना समोल्का दूरमुचयुः ॥ ४४ ॥ चक्रककचसंवर्तकनकाटोपपिंजरम् । बभूव भीषणं व्योम विद्युद्भिरिव संकुलम् ॥ ४५ ॥ तं लंकासुन्दरी भूयः रूपेणालब्धसन्निभा । धीरा स्वभावतो राजलक्ष्मीः कमललोचना ॥ ४६ ॥ ज्ञानध्यानहरैः कान्तैर्दुर्द्धरैर्गुणसन्नतैः । लावण्याहत सौंदर्यैर्मनोन्तर्भेद कोविदैः ॥ ४७ ॥ नेत्रचापविनिर्मुक्तैर्विव्यधे स्मरसायकैः । तथेतरधनुमुक्तैः शरैराकर्णसंहतैः ॥ ४८ ॥ विस्मये जगतः शक्ता सौभाग्या गुणगर्विता । तस्यालसक्रियस्पेवं प्रविष्टा हृदयोदरम् ॥ ४९ ॥ शरशक्तिशतघ्नीभिर्न तथा समपीड्यत । यथा मदनबाणौघैर्मर्मदारुण कारिभिः ॥ ५० ॥ इयं मनोहराकारा ललितैर्विशखैरपि । स बाह्याभ्यंतरं हन्ति मामित्येवमचिन्तयत् ॥ ५१ ॥ वरमस्मिन्मृधे मृत्युः पूर्यमाणस्य सायकैः । अनया विप्रयुक्तस्य जीवितं न सुरालये ॥ ५२ ॥ चिन्तयत्येवमेतस्मिन् सांप्यनंगेन चोदिता । त्रिकूटसुन्दरी कन्या करुणाशक्तमानसा ॥ ५३ ॥ विकश्वरमनोदेहं पद्मच्छदलोचनम् । अबालेन्दुमुखं बालं किरीटन्यस्तवानरम् ॥ ५४ ॥
PLUR
Page #347
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૧૨૯
द्विपंचाशत्तमं पर्व ।
1
मूर्तियुक्तमिवानंगं सुन्दरं वायुनन्दनम् । हन्तुं समुद्यतां शक्ति संजहार त्वरावता ।। ५५ ।। दध्यौ च मारयाम्पेतं कथं दोषमपि श्रितम् । रूपेणानुपमानेन छित्ते मर्माणि यो मम ॥ ५६ ॥ यद्यनेन समं सक्ता कामभोगोदयद्युतिम् । न निषेवे च लोकेऽस्मिन् ततो मे जन्म निष्फलम् ५७ अतः सत्पथमुद्दिश्य स्वनामांकं हनूमते । प्रजिघाय शरं मुग्धा विह्वलेनान्तरात्मना ॥ ५८ ॥ पराजिता त्वया नाथ साहं मन्मथशायकैः । सुरैरपि न या शक्या जेतुं संघातिवर्तिभिः ॥५९॥ प्रोवाच मारुतिर्वाणमंकं स्वैरमुपागतम् । धृतिं परां परिप्राप्तो रथादरमवातरत् ॥ ६० ॥ उपसृत्य च तां कन्यां मृगेन्द्रसमविक्रमः । कृत्वांके गाढमालिंगत् कामो रतिमिवापराम् ॥ ६१ ॥ अथ प्रशान्तवैराशा वस्त्रुदुर्दिनलोचना । तातप्रयाणशोकार्ता जगदे वायुसूनुना ।। ६२ ।। मा रोदी: सौम्यवस्त्रे त्वमलं शोकेन भामिनि । विहिता गतिरेषैव क्षात्रधर्मे सनातने ॥ ६३ ॥ ननु ते ज्ञातमेवैतद्यथा राज्यविधौ स्थिताः । पित्रादीनपि निघ्नन्ति नराः कर्मबलेरिताः ||६४ || वृथा रोदिषि किंत्वेतद्ध्यानमार्तं विवर्जय । अस्मिन् हि सकले लोके विहितं भुज्यते प्रिये ॥ ६५ ॥ निहितोऽयमनेनेति द्विडत्र व्याजमात्रकम् । आयुः कर्मानुभावेन प्राप्तकालो विपद्यते ।। ६६ । वचोभिरेभिरन्यैश्च मुक्तशोका व्यराजत । सहिता वातिना यद्वदिन्दुना निर्धना निशा ।। ६७ ॥
Page #348
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३३९
द्विपंचाशत्तमं पर्व |
प्रेमनिर्झरपूर्णेन तयोरालिंगनेन सः । संग्रामजः श्रमो दूरमथायातः सुचेतसोः ॥ ६८ ॥ ततो यत्र नभोदेशे स्तंभन्या विद्यया खगाः । स्तंभिता बलमत्रैव रचिता वासमाश्रितम् ||६९ || संध्यारक्ताभ्रसंकाशं गीर्वाणनगरोपमम् । श्रीशैलस्य तदत्यन्तं शिविरं पर्यराजत ।। ७० ।। गजवाजिविमानस्था रथस्थाथ महानृपाः । तत्पुरं ध्वजमालाढयं विविशुः पृष्टवातयः ॥ ७१ ॥ स्थितास्तत्र यथान्यायं लब्धोत्साहसमुत्सवाः । कथाभिरतिचित्राभिः सूरसंग्रामजन्मभिः ॥ ७२ ॥ अथ तं त्वरितात्मानं वातिं गन्तुं समुद्यतम् । बाला विश्रब्धमप्राक्षीदिति प्रेमपरायणा ॥ ७३ ॥ विविधागोभिरापूर्णः श्रुतदुसहविक्रमः । कान्त लंकां किमर्थं त्वं वद गन्तुं समुद्यतः ॥ ७४ ॥ तस्यै जगाद वृत्तान्तमशेषं वायुनन्दनः । कृत्यं प्रत्युपकारस्य वान्धवैरनुमोदितम् ।। ७५ ॥ सीतया सह रामस्य भद्रे भद्रसमागमः । हृतया राक्षसेन्द्रेण कर्तव्यः सर्वथा मया ॥ ७६ ॥ साऽब्रवीत्समतिक्रान्तं सौदार्ह तं पुरातनम् । श्रद्धा स्नेहक्षये नष्टा प्रदीपस्य यथा शिखा ॥७७॥ आसीद्रम्योपशोभायां ध्वजमालाकुलीकृताम् । प्राविक्षदाद्यतो लंकां भवान्दिवमिवामरः ॥ ७८ ॥ अधुना त्वयि दोषाढये रावणखंडशासनः । प्रकाशं व्रजति क्रोधं गृहीष्यति न संशयः ॥ ७९ ॥ यदोपलभ्यते चार्वी विशुद्धिः कालदेशयोः । विशुद्धात्मानमव्यग्रं तदा तं दृष्टुमईसि ॥ ८० ॥
Page #349
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૪૦
त्रिपंचाशत्तम पर्व |
८१ ॥
८२ ॥
एवमेवेति सोऽवोचद्यद्रवीषि विचक्षणे । आकूतं तस्य विज्ञातुं गत्वा वाञ्छामि सुन्दरि ॥ कीशी वा सती सीता रूपेण प्रथिता भवेत् । चालितं मेरुबद्धीरं रावणस्य मनो यया ॥ एवमुक्तो मरुत्पुत्रस्तद्विन्यस्तमहाबलः । तया मुक्तो विवेकन्या त्रिकूटाभिमुखं ययौ ॥ चित्रमिदं परमत्र नृलोके, यत्परिहाय भृशं रसमेकम् ।
८३ ॥
तत्क्षणमेव विशुद्धशरीरं जन्तुरुपैति रसान्तरसंगम् ॥ ८४ ॥ कर्मविचेष्टिमेतदस्मिन् किंत्वथवाद्भुतमस्ति निसर्गे ।
सर्वमिदं स्वशरीरनिबद्धं दक्षिणमुत्तरतश्चरती हो ॥ ८५ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे हनूमल्लका सुन्दरी कन्यालाभाभिधानं नाम द्विपंचाशत्तमं पर्व ।
अथ त्रिपंचाशत्तमं पर्व |
मगन्धेन्द्र ततो वातिः प्रभावोदयसंगतः । लंकां विवेश निःशंकः स्वल्पानुगसमन्वितः ॥ १ ॥ द्वारे च रचिताभ्यर्चे विभीषणनिकेतनम् । विवेश योग्यमेतेन सम्मानं च समाहृतः ॥ २ ॥
Page #350
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३४१
त्रिपंचाशस्तमं पर्व |
ततः स्थित्वा क्षणं किंचित्संस्पृष्टाभिः परस्परम् । वार्ताभिरिति सद्वाक्यं व्याजहार मरुत्सुतः ३ उचितं किमिदं कर्तुं यद्वास्यार्द्धपतिः स्वयम् । कुरुते क्षुद्रवत्कश्चिच्चरणं परयोषितः ॥ ४ ॥ मर्यादानां नृपो मूलमापगानां यथा नगः । अनाचारे स्थिते तस्मिन् लोकस्तत्र प्रवर्तते ॥ ५ ॥ fe afed कृत्ये सर्वलोकविनिन्दिते । सहनीयं समस्तानां दुःखमेष्यति नो ध्रुवम् ॥ ६ ॥ तत्क्षेमंकरमस्माकं हिताय जगतां तथा । उच्यतां रावणः शीघ्रं वचो न्यायानुपालकम् ॥ ७ ॥ यथा किल द्वये लोके निन्दनीयं विचेष्टितम् । मा कार्षीः जगतो नाथ कीर्तिविध्वंसकारणम् ८ विमलं चरितं लोके न केवलमिहेष्यते । किन्तु गीर्वाणलोकेऽपि रचिताञ्जलिभिः सुरैः ॥ ९ ॥ कैसीनन्दन वोचशोऽभिहितो मया । ततः प्रभृति नैवासौ मया संभाषते समम् ॥ १० ॥ तथापि भवतो वाक्यान् श्वः समेत्य नरेश्वरम् । वक्तास्मि किन्तु दुःखेन त्यज्यते न ह्यसौ ग्रहम् ११ restar जातं सीताया वल्लभोज्झने । तथापि विरतिः काचिकेद्रस्य न जायते ॥ १२ ॥ तच्छ्रुत्वा वचनं सद्यः महाकारुण्य संगतः । प्रमदाह्वयमुद्यानं मारुतिर्गन्तुमुद्यतः ॥ १३ ॥ अपश्यच्च लताजालैस्तत्र वैराकुलीकृतम् । अरुणैः पल्लवैः व्याप्तं वरस्त्रीकरचारुभिः ॥ १४॥ भ्रमरप्रावृत्तैर्गुच्छैः सुजातैर्वद्धशेखरम् | फलैरानतशाखाग्रं किंचित्पवनकंपितम् ।। १५ ।।
Page #351
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
३४२
त्रिपंचाशत्तम पर्व। पादिछादितैः स्वच्छैः सरोभिः सदलंकृतम् । भासुरं कल्पवल्लीभिः संगताभिर्महातरुम् ॥१६॥ गीर्वाणकुरुदेशामं प्रसूनरजसा वृतं । नन्दनस्य दधत्साम्यमनेकाद्भुतसंकुलम् ॥ १७ ॥ ततो लीलां वहन् रम्यां वाय राजीवलोचनः । विवेश परमोद्यानं सीतादर्शनकांक्षया ॥ १८॥ प्रजिघाय च सर्वासु दिषु चक्षुरतित्वरम् । विविधद्रुमदेशेषु गहनेषु दलादिभिः ॥ १९ ॥ दृष्ट्वा च दूरतः सीतामन्यदर्शनवर्जितः । अचिन्तयदसौ सैषा रामदेवस्य सुन्दरी ॥ २० ॥ स्निग्धज्वलनसंकाशा वाष्पपूरितलोचना । करविन्यस्तवक्त्रेन्दुमुक्तकेशी कृशोदरी ॥ २१ ॥ अहो रूपमिदं लोके जिताशेषमनोहरम् । परमां ख्यातिमायातं सत्यवस्तुनिबन्धनम् ॥ २२ ॥ रहिता शतपत्रेण नास्या लक्ष्मीः समा भवेत् । दुःखाणेवं गताप्येषा सदृशी नान्ययोषिता॥२३॥ निपत्य शिखरादरेरस्य मृत्युमुपैम्यहम् । विरहे पद्मनाभस्य धारयामि न जीवितम् ॥ २४ ॥ कृतप्रचिंतनामेवं वैदेही पवनात्मजः । निःशब्दपातसंपातः प्राप्तो रूपान्तरं दधत् ॥ २५ ॥ ततोऽगुलीयकं तस्या विससर्जाकवाससि । सहसा सा तमालोक्य स्मेराऽभूत्पुलकाचिता ॥२६॥ तस्यामेवावस्थायां गत्वा नार्यस्त्वरान्विताः । तोषादवर्धयन् दिष्टया रावणं तत्परायणम् ॥२७॥ संतुष्टोंऽगगतं ताभ्यो वस्त्ररत्नादिकं ददौ । श्रुत्वा स्मेराननां सीतां सिद्धं कार्य विचिन्तयत् ॥२८॥
Page #352
--------------------------------------------------------------------------
________________
३४३
पद्मपुराणम् ।
त्रिपंचाशत्तम पर्व। विधातुं महिमानं च किंचिदादिशदुत्सुकः । सुधापूरमिव प्राप्तः समुल्लासधरे हृदि ॥ २९ ॥ स्वनाथवचनात्साध्वी सर्वान्तःपुरसंयुता । गता मन्दोदरी शीघ्रं यत्रासौ जनकात्मजा ॥३०॥ विकचास्यद्युतिं सीतां दृष्ट्वा मन्दोदरी चिरात् । जगौ बाले त्वयाऽस्माकं परमोऽनुगृहः कृतः ३१ अधुना भज लोकेशं रावणं शोकवर्जिता । सुराणां श्रीरिवाधीशं लब्धनिःशेषसंपदम् ॥ ३२ ॥ इत्युक्ता कुपितावोचद्यदीदं भवतीरतम् । पद्मः खेचरि जानाति म्रियते ते पतिर्बुवम् ॥ ३३ ॥ वार्ता समागता भतुरिति तोषमुपागता । अकार्ष वदनं स्मेरं भजन्ती परमां धृतिम् ॥ ३४ ॥ इति ता वचनं श्रुत्वा राक्षसेशस्य योषितः । ऊचुः क्षुद्भववातेन लपत्येषेति सस्मिता ॥३५॥ ततः श्रेणिक वैदेही नितान्तं तुंगया गिरा । परमं विस्मयं प्राप्ता जगादेवं समुत्सुका ॥ ३६॥ गताया व्यसनं घोरमधिद्वीपे महाभये । कोऽयं सन्निहितः साधुबन्धुभूतोऽतिवत्सलः ॥ ३७ ॥ ततो नभस्वनः सूनुरेवमर्थितदर्शनः । अभिप्रायमिमं चके साधुतायुक्तमानसः ॥ ३८ ॥ परार्थ यः पुरस्कृत्य पुनः स्वं विनिगृहति । सोऽतिभीरुतयात्यन्तं जायते निकृतो नरः ॥३९॥ परमापदि सीदन्तं जनं साधारयन्ति ये । अनुकंपनशीलानां तेषां जन्म सुनिर्मलम् ॥ ४० ॥ हानिः पुरुषकारस्य न चात्मनि निदर्शिते । प्रकाश्ये गुरुतां याति जगति श्री यशस्विनी ॥४१॥
Page #353
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૪૪
त्रिपंचाशत्तमं पर्व |
उत्तमस्त्रीसहस्राणां ततो मध्यगतामिमाम् । प्रभामंडलकल्पोऽसौ पद्मपत्नीमुपागमत् ।। ४२ । निःशंकद्विपविक्रान्तः संपूर्णेन्दुसमाननः । सहश्रांशुसमो दीप्त्या माल्याम्बरविभूषितः ॥ ४३ ॥ रूपेणाप्रतिमो युक्तः कांत्या निर्मृगचन्द्रमाः । किरीटे वानरं विभ्रदामोदाहृतषट्पदः ॥ ४४ ॥ चंदनार्चितसर्वांगः पीतचर्चाविराजितः । तांबूलारक्तबिम्बोष्ठः प्रलम्यांशुकशोभितः ॥ ४५ ॥ चलत्कुंडलविद्योतविहसगंडमण्डलः । परं संहननं विभ्रद्वीर्येणान्तविवर्जितः ॥ ४६ ॥ सर्पत्सीतां समुद्दिश्य हनुमान् गुणभूषणः । महाप्रतापसंयुक्तः शोभामुपययौ पराम् ॥ ४७ ॥ कान्तिभासि मुखं दृष्ट्वा तं युतं परया श्रिया । पद्मायतेक्षणा नार्यस्ता बभूवुः समाकुलाः || ४८ || दधती हृदये कंपं मन्दोरर्याप्तविस्मया । समालोकत सीतायाः समीपे वायुनन्दनम् ॥ ४९ ॥ उपगम्य ततः सीतां विनीतः पवनात्मजः । करकुड्मलमाधाय मस्तके नम्रतायुषि ।। ५० ।। कुलं गोत्रं च संश्राव्य पितरं जननीं तथा । अवेदयच्च विश्रब्धं पद्मनाथेन चोदितम् ॥ ५१ ॥ त्रिविष्टपसमे साध्वि विमाने विभवान्विते । रतिं न लभते रामो मग्नस्त्वद्विरहार्णवे ।। ५२ ।। त्यक्तनिःशेषकर्तव्यो मौनं प्रायेण धारयन् । स त्वां मुनिरिव ध्यायन्नेकतानोऽवतिष्ठते ॥ ५३ ॥ वेणुतंत्रीसमायुक्तं गीतं प्रवरयोषिताम् । न कर्णजाहमेतस्य कदाचिद्याति पावने ॥ ५४ ॥
Page #354
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३४५
त्रिपचाशत्तमं पर्व ।
सदा करोति सर्वस्मै कथां स्वामिनि ते मुदा । त्वदीक्षणाशया प्राणान्वध्वा धत्ते स केवलम् ५५ इति तद्वचनं श्रुत्वा पतिजीवनवेदनम् । प्रमोदं परमं प्राप्ता सीता विकसितेक्षणा ॥ ५६ ॥ विषादं संगता भूयो जलपूरितलोचना । ऊचे शान्ता हनुमन्तं विनीतं स्थितमग्रतः ॥ ५७ ॥ साहमस्यामवस्थायां निमग्ना कपिलक्षण । तुष्टा किं ते प्रयच्छामि हतेन विधिनान्विता ॥ ५८ ॥ ऊचे च वायुपुत्रेण दर्शनेनैव ते शुभे । अद्य मे सुलभं सर्व जातं जगति पूजिते ॥ ५९॥ ततो मुक्ताफलस्थूलवाष्पविन्दुचिताधरा । सीता श्रीरिव दुःखार्ता पप्रच्छ कपिलक्षणम् ।। ६० ।। मकरग्राहनक्रादिक्षोभितं भीममर्णवम् । भद्र दुस्तरमुल्लध्य विस्तीर्ण कथमागतः ॥ ६१ ॥ अवस्थां वा गतामेतां कार्यसंसिद्धिमागताम् । किमर्थं मामिहागत्य नयस्यास्वासमुत्तमाम् ||६२|| लावण्यद्युतिरूपाढ्यः कान्तिसागरसंवृतः । श्रिया कीर्त्या च संयुक्ततः प्रियो मे भद्र बान्धवः ६३ प्रदेशे स त्वया कस्मिन् प्राणनाथे ममेक्षितः । सत्यं जीवति सगोत्र कचिल्लक्ष्मण संगतः || ६४ ॥ किं नु दुःखेचरैः संख्ये भीमैः व्यापादितोऽनुजः । लक्ष्मणेनैव तुल्यः स्यात्पद्मः पद्माभलोचनः ।। किं वा मद्विरहादुग्रदुःखं नाथः समाश्रितः । संदिश्य भवतः किंचिद्वने लोकान्तरं गतः ।। ६६ ।। जिनेन्द्र विहिते मार्गे निःशेषग्रन्थवर्जितः । ते पश्यन् किमसावास्ते भवनिर्वेदपण्डितः ॥ ६७ ॥
Page #355
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३४६
त्रिपंचाशत्तमं पर्व |
शिथिली भूत निःशेषशरीरस्य वियोगतः । अंगुलीतश्च्युतं प्राप्तं त्वया स्यादंगुलीयकम् ॥ ६८ ॥ त्वया सह परिज्ञातिर्नासीदेव मम प्रभोः । कार्येण रहितः प्राप्तः कथं त्वं तस्य मित्रताम् ||६९ || न च प्रत्युपकाराय शक्ता तुष्टाप्यहं तव । अंगुलीयकमेतच्च समानीतं कृपावता ॥ ७० ॥ एतत्सर्वं मम भ्रातः समाचक्ष्व विशेषतः । सत्येन श्रावितः पित्रोर्देवस्य च मनोजुषः ॥ ७१ ॥ इति पृष्टः समाधानी शाखामृगकिरीटभृत् । शिरस्थकर जीवो जगाद विकचेक्षणः ॥ ७२ ॥ सायके रविहासाख्ये लक्ष्मणेन निजीकृते । गत्वा चन्द्रनखानिष्टा रमणं समरोषयत् || ७३ ॥ यावदाहूयते स्वामी रक्षसां सुमहाबलः । दूषणस्तावदायातो योद्धुं दाशरथिं द्रुतम् ॥ ७४ ॥ लक्ष्मणो दूषणेनामा युध्यते यावदुद्धतम् । तावद्दशमुखः प्राप्तस्तमुद्देशं बलावितः ॥ ७५ ॥ धर्माधर्मविवेकज्ञः सर्वशास्त्रविशारदः । भवतीं वीक्ष्य स क्षुद्रो बभूव मनसो वशः ॥ ७६ ॥ भ्रष्टनिःशेषनीतिश्च निस्सारीभूतचेतनः । माया सिंहस्वनं चक्रे भवतस्तेनकारणम् ॥ ७७ ॥ श्रुत्वा सिंहस्वनं पद्मो ययौ यावद्रणस्थितम् । लक्ष्मणं तावदेतेन पापेन त्वमिहाहृता ॥ ७८ ॥ प्रेषितः पद्मनाभश्च लक्ष्मणेन त्वरावता । गत्वा भूयस्तमुद्देशं न त्वामैक्षत सत्तमे ।। ७९ ।। ततश्चिरं वनं भ्रान्त्वा त्वद्गवेषणकारणम् । ईक्षांचक्रे श्लथप्राणं मृत्य्वासनं जटायुषम् ॥ ८० ॥
Page #356
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૪૭
त्रिपंचाशत्तमं पर्व। तस्मै दत्वा स जैनेन्द्रीं म्रियमाणाय देशनाम् । अवतस्थे वने दुःखी भवतीगतमानसः ॥ ८१॥ गतश्च लक्ष्मणः पद्मं निहत्य खरदूषणम् । आनीता रत्नजटिना त्वत्प्रवृत्तिः प्रियस्य ते ॥ ८२ ॥ सुग्रीवरूपसंयुक्तः पद्मनाभेन साहसः । बलं हन्तुं समुद्युक्तो विद्यया वर्जितो हतः ॥ ८३ ॥ कृतस्यास्योपकारस्य कुलपावनकारिणः । अहं प्रत्युपकाराय प्रेषितो गुरुवान्धवैः ॥ ८४ ॥ प्रीत्या विमोचयामि त्वां विग्रहो निःप्रयोजनः । कार्यसिद्धिरिहाभीष्टा सर्वथा नयशालिभिः ८५ सोऽयं लंकापुरीनाथो घृणावान् विनयान्वितः । धर्मार्थकामवान्धीरो हृदयेन मृदुः परम् ॥८६॥ सौम्यः क्रौर्यविनिर्मुक्तः सत्यव्रतकृतस्थितिः । करिष्यति वचो नूनं मम वामपेयिष्यति ॥८७॥ कीर्तिरस्य निजा पाल्या धवला लोकविश्रुता । लोकापवादतश्चैष विभेति नितरां कृती ॥ ८८॥ ततः परं परिप्राप्ता प्रमोद जनकात्मजा । हनूमन्तमिदं वाक्यं जगाद विपुलक्षणा ॥ ८९ ॥ पराक्रमेण धैर्येण रूपेण विनयेन च । कपिध्वजास्त्वया तुल्याः कियन्तो मप्रियाश्रिताः ॥१०॥ मंदोदरी ततोऽवोचच्चाः सत्त्वयशोऽन्विताः । गुणोत्कटा न संशंति धीराः स्वं स्वयमुत्तमाः ९१ वैदेहि तव न ज्ञातः किमयं येन पृच्छसि । कपिध्वजः समानोऽस्य वास्येप्यस्मिन्न विद्यते ॥१२॥ विमानवारणघटासंघट्टपरिमंडले । रणे दशमुखस्यायं प्राप्तः साहाय्यकं परम् ॥ ९३ ॥
Page #357
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३४८
त्रिपंचाशत्तमं पर्व |
दशाननसहायत्वं कृतं येन महारणे । स हनूमानितिख्यातवां जनातनयः परः ॥ ९४ ॥ महापदि निमग्रस्य दशवक्रस्य विद्विषः । खेटामनोव्यधाभिख्या एकेनानेन निर्जिताः ।। ९५ ।। अनंगकुसुमा लब्धा येन चन्द्रनखात्मजा । गंभीरस्य जनो यस्य सदा वांच्छति दर्शनम् ||१६|| अस्य पौरसमुद्रस्य यः कांतः शिशिरांशुवत् । सहोदरसमं वेत्ति यं लंकापरमेश्वरः ॥ ९७ ॥ हनूमानिति ख्यातः सोऽयं सकलविष्टपे । गुणैः समुन्नतो नीतो दूतत्वं क्षितिगोचरैः ॥ ९८ ॥ अहो परमिदं चित्रं निन्दनीयं विशेषतः । नीतः प्राकृतवत्कश्चिद्भूगैर्य नृत्यतामयम् ॥ ९९ ॥ इत्युक्ते वचनं वातिर्जगाद स्थिरमानसः । अहो परममूढत्वं भवत्येदमनुष्ठितम् ॥ १०० ॥ सुखं प्रसादतो यस्य जीव्यते विभवान्वितः । अकार्य वांछतस्तस्य दीयते न मतिः कथम् १०१ आहारं भोक्तुकामस्य विज्ञातं विषमिश्रितम् । मित्रस्य कृतकामस्य कथं न प्रतिषिध्यते ।। १०२ ।। भवितव्यं कृतज्ञेन जनेन सुखमीयुषा । वेत्ति स्वार्थ न यस्तस्य जीवितं पशुना समम् ॥ १०३ ॥ मंदोदरी परं गर्व निःसारं वहसे मुधा । यदग्रमहिषी भूत्वा दूतीत्वमसि संश्रिता ॥ १०४ ॥ क यातमधुना तत्ते सौभाग्यं रूपमुन्नतम् | अन्यस्त्रीगतचित्तस्य दूतीत्वं संश्रितासि यत् || १०५ ।। प्राकृता परमा सा त्वं वर्त्तसे रतिवस्तुनि । महिषीत्वं न मन्येऽहं जाता गौरसि दुर्भगे ॥ १०६ ॥
Page #358
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिपंचाशत्तम पर्व। मंदोदरी ततोऽवोचत्कोपालिंगितमानसा । अहो तव सदोषस्य प्रगल्भत्वं निरर्थकम् ॥ १०७॥ दूतत्वेनागतं सीतां यदि त्वां वेत्ति रावणः । भवेत्प्रकरणं तत्ते जातं यन्नैव कस्यचित् ॥१०८ ॥ येनेवेन्दुनखानाथो दैवयोगेन मारितः । पुरस्कृत्य तमेवास्य कथं सुग्रीवकादयः ॥१०९ ॥ भृत्यत्वं दशवक्त्रस्य विस्मृत्य स्वल्पचेतसः । स्थिताः किमथषा कुर्युवराकाः कालचोदिताः॥ अतिमूढहतात्मानो निर्लज्जाः क्षुद्रवृत्तयः । अकृतज्ञा वृथोसिक्ताः स्थितास्ते मृत्युसन्निधौ ॥१११॥ इत्युक्ते वचनं सीता जगौ कोपसमाश्रिता । मन्दोदरि सुमंदा त्वमेवं या कथ्यसे वृथा ॥११२॥ शूरकोविदगोष्ठीषु कीय॑मानो न किं त्वया । प्रियो मे पद्मनाभोऽसौ श्रुतोऽत्यद्भुतविक्रमः ११३ वजावतें धनुष श्रुत्वा यस्य रणागमे । भयज्वरितकंपांगाः सीदन्ति रणशालिनः ॥ ११४॥ लक्ष्मीधरोऽनुजो यस्य लक्ष्मीनिलयविग्रहः । शत्रुपक्षक्षयं कर्तुं समर्थो वीक्षणादपि ॥ ११५ ॥ किमत्र बहुनोक्तेन समुत्तीर्य महार्णवम् । पतिरेष समायाति लक्ष्मणेन समन्वितः ॥ ११६ ॥ पश्यात्मीयं पतिं युद्ध स्वल्पकैरेव वासरैः । निहतं मम नाथेन जगदुत्कटतेजसा ॥ ११७ ।। एषा गतासि वैधव्यं क्रन्दस्येषा चिरोज्झिता । या त्वं पापरतेभेरनुकूलत्वमागता ॥ ११८॥ मयदैत्यात्मजा तीव्रमेवमुक्तातिकोपगा । परमं क्षोभमायाता कंपमानाऽधराधरा ॥ ११९ ॥
Page #359
--------------------------------------------------------------------------
________________
३५०
पद्मपुराणम् ।
त्रिपंचाशत्तम पर्व। एका नानासपत्नीनां सहस्रः संभ्रमस्पृशम् । अष्टादशभिरत्युप्रैः कोपकंपितमूर्तिमिः ॥ १२० ॥ समं करतलैर्हन्तुमुद्यता वेगधारिभिः । निर्भर्त्सनमतिरैराक्रोशैः कुर्वती भृशम् ॥ १२१ ॥ श्रीमांस्तावन्मरुत्पुत्रः समुत्थाय जवान्वितः । अवस्थितोऽन्तरे तासां सरितामिव भूधरः ॥१२२॥ ता दुःखहेतवः सर्वा वैदेहीं हन्तुमुद्यताः । वेदना इव वैयेन श्रीशैलेन निवारिताः ॥ १२३ ॥ पादताडितभूभागा विभूषादरवर्जिताः । ययुः क्रूराशयाः सवों वनितास्ता दशाननम् ॥१२४॥ आंजनेन ततः सीता प्रणिपत्य महादरम् । विज्ञापिता सुवाक्येन भोजनं प्रति साधुना १२५ समर्थितप्रतिज्ञासौ सुनिर्मलमनोरथा । अभ्युपागच्छदाहारं कालदेशज्ञमानसा ॥ १२६ ॥ ससागरा मही देवि रामदेवस्य शासने । वर्तते तेन नैवेदमन्नं संत्यकामहसि ॥ १२७ ॥ एवं हि बोधिता तेन वैदेही करुणावनिः । ऐच्छदनं यतः साध्वी सर्वाचारविचक्षणा ॥१२८॥ इरा नाम ततस्तेन चोदिता कुलपालिता । यथानं प्रवरं श्लाघ्यं द्रुतमानीयतामिति ॥ १२९ ।। मुक्ता कन्या स्वशिविरं श्रीशैलेन क्षपाक्षये । भानावभ्युदिते जातो विभीषणसमागमः ॥१३०॥ आहारो वायुपुत्रेण तत्र भुक्तो मनोहरः । एवं कर्तव्ययोगेन मुहूर्तास्ते त्रयो गताः ॥ १३१॥ मुहूर्तेऽथ चतुर्थे नु समानीतमिरास्त्रिया । आहारं मैथिलीभुक्तमिति जानन्ति कोविदाः ॥१३२॥
Page #360
--------------------------------------------------------------------------
________________
३५१
पद्मपुराणम् ।
त्रिपंचाशत्तम पर्व । चन्दनादिभिरालिप्ते भूतले दर्पणप्रभे । पुष्पोपकारसंपन्ने नलनीपत्रशोभिनि ॥ १३३ ॥ सद्गन्धविपुलं स्वच्छं पथ्यं पेयादिपूर्वकम् । स्थाल्यादिभिर्महापात्रैः सौवर्णादिभिराहृतम् ॥१३॥ घृतपूपादिभिःकाश्चित्पान्यो राजन्ति पूरिताः। कुन्दपुष्पसमच्छायैः शालीनैः काश्विदोदनैः १३५ षड्रसैरुपदंशैश्च काश्चिद्रोचनकारिभिः । व्यंजनस्तरलैः काश्चित्पिडीबन्धोचितैस्तथा ॥१३६ ॥ पयसा संस्कृतैः काश्चिदन्याःपरमदाधिकैः । लेखैः काश्चिन्महास्वादैरन्यैः पकानिषेवितैः॥१३७॥ एवं परममाहारमिरा परिजनान्विता । हनूमंतं पुरस्कृत्य भ्रातृभावेन वत्सला ॥ १३८॥ महाश्रद्धान्वितस्वान्ता प्रणिपत्य जिनेश्वरान् । समाप्य नियमं धीरा ध्यातातिथिसमागमा १३९ निधाय हृदये रामममिरामं पतिव्रता । पवित्रांगा दिने भुंक्ते साधुलोकप्रपूजितम् ।। १४० ॥ रविरश्मिकृतोद्योतं सुपवित्रं मनोहरम् । पुण्यवर्धनमारोग्यं दिवाभुक्तं प्रशस्यते ॥ १४१ ॥ निवृत्तभोजनविधिः किंचिद्विश्रब्धतां गता । विज्ञापितेति भूयोऽपि सीता पवनसूनुना ॥१४२॥ आरोह देवि मे स्कन्धे पवित्रे गुणभूषणे । समुल्लंघ्य नदीनाथं नेष्यामि भवती क्षणात् ॥१४३॥ पश्यंतं विभवैर्युक्तं राघवं त्वत्परायणम् । भवद्योगसमानन्दं जनोऽनुभवतु प्रियः ॥ १४४ ॥ ततोंजलिपुटं बद्धा रुदती जनकात्मजा । जगादादरसंयुक्ता विचिंतितयथास्थितिः ॥ १४५॥.
Page #361
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिपंचाशतं पर्व | अन्तरेण प्रभोराज्ञां गमनं मे न युज्यते । इत्यवस्थां गता दास्ये तस्मै किमहमुत्तरम् || १४६ ।। प्रत्येति नाधुना लोकः शुद्धि मे मृत्युना विना । नाथ एव ततः कृत्यं मम ज्ञास्यति सांप्रतम् ॥ यावन्नोपद्रवः कचिज्जायते दशवक्त्रकात् । तावद्वज द्रुतं भ्रातर्मालम्बनमिह क्षणम् ॥ १४८ ॥ त्वया मद्वचनाद्वाच्यः सम्यक् प्राणमहेश्वरः । अभिधानैरिमैर्मूर्ध्नि निधाय करकुड्मलम् ॥ १४९ ॥ तस्मिन् देव मया सार्द्ध मुनयो व्योमचारिणः । वंदिताः परमं भक्त्या त्वया स्तवनकारिणा १५० विमलांभसि पद्मिन्या नितरामुपशोभिते । सरसि क्रीड़तां स्वेच्छमस्माकमतिसुन्दरम् ।। १५१ ।। आरण्यकस्तदा हस्ती समायातो भयंकरः । ततो मया समाहृतस्त्वमुन्मग्नो जलान्तरात् ॥ १५२ ॥ उदामोsसौ महानागश्चाक्रीडनकारिणा । समस्तं त्याजितो दर्पं भवता निश्रलीकृतः ।। १५३ ।। आसीच्च नन्दनच्छाये वने पुष्पभरानते । शाखां पल्लवलोभेन नमयन्ती प्रयासिनी ॥ १५४ ॥ भ्रमद्भिश्चंचलैर्भृगैरतिभूता ससंभ्रमा । भुजाभ्यां भवताश्लिष्य जनिताकुलतोज्झिता ।। १५५ ॥ उद्यन्तमन्यदा भानुं माहेन्द्रीदिग्विभूषणम् । अहमं भोजखण्डस्य त्वया सह तटे स्थिता ॥ १५६ ॥ अशंसिषं ततः किंचिदीर्षारसमुपेयुषा । बालेनोत्पलनालेन मधुरं ताडिता त्वया ॥ १५७ ॥ अन्यदा रतिशैलस्य प्राग्भारस्य मया प्रियः । पृष्टस्त्वमिति विभ्रत्या कौतुकं परशोभया ।। १५८॥
३५२
Page #362
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३५३
त्रिपञ्चाशत्तमं पर्व | एतस्मिन्कुसुमैः पूर्णा विपुला स्निग्धताजुषः । किन्नामानो द्रुमा नाथ मनोहरणकोविदाः ।। १५९ ।। ततस्त्वयेति पृष्टेन प्रसन्नमुखशोभिना । आख्यातमिति देव्येते यथा नन्दिद्रुमा इति ॥ १६० ॥ कर्णकुण्डलनद्याश्च स्थितास्तीरे वयं यदा । तदा सन्निहितौ जातौ मध्याह्ने व्योमगौ मुनी ॥ १६९ ॥ त्वया मया च भिक्षार्थं तयोरागतयोस्ततः । अभ्युच्छायमहाश्राद्धं रचितं पूजनं महत् ॥ १६२ ॥ अन्नं च परमं ताभ्यां दत्तं विधिसमन्वितम् | पंच चातिशया जातास्त्वत्प्रभावेन सुन्दराः १६३ पात्रदानमहोदानं महादानमिति ध्वनिः । अंतरिक्षे मरैश्चक्रे साधु सम्यग्ध्वनिश्रितः ॥ १६४ ॥ अदृष्टतनुभिर्देवैर्दुन्दुभिः सध्वनिः कृतः । पपात गगनाद्दृष्टि: कौसुमी भृंगतादिता ॥ १६५ ॥ सुखसीतो ववौ वायुः सुगंधी नीरजो मृदुः । मणिरत्नसुवर्णांगा धाराश्रममपूरयत् ॥ १६६ ॥ चूडामणिमिमं चोद्यं दृढप्रत्यकारणम् । दर्शयिष्यसि नाथाय तस्यात्यन्तमयं प्रियः ॥ १६७ ॥ जानामि नाथ ते भावं प्रसादिनमलं मयि । तथापि यत्नतः प्राणाः पाल्याः संगमनाशया १६८ प्रमादाद्भवतो जातो वियोगोऽयं मया सह । सांप्रतं त्वयि यत्नस्थे संगमो नौ विसंशयः १६९ इत्युक्ते रुदतीं सीतां समाश्वास्य प्रयत्नतः । यथाज्ञापयसीत्युक्त्वा निरैत्सीत्तत्प्रदेशतः ॥ १७० ॥ पाण्यंगुलीयकं सीता तदाशक्तशरीरिका । मानसस्य कृताश्वासं मेने पत्युः समागमम् ॥ १७१ ॥
२–२३
Page #363
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
३५४
त्रिपञ्चाशत्तम पर्व। अथोद्यानगता नार्यस्वस्तसारंगलोचनाः । वायुनंदनमालोक्य स्मितविस्मितसंगताः ।। १७२ ।। परस्परं समालापमिति कर्तुं समुद्यताः । अस्य पुष्पनगस्योड़े कोऽप्यहो नरपुंगवः ।। १७३ ॥ अवतीर्णः किमेषः स्याद्विग्रही कुसुमायुधः । देवः कोऽपि तु शैलस्य शोभा दृष्टुं समागतः १७४ तासामाकुलिका काचिनिधाय शिरसि स्रजम् । उपवीणनमारेभे कतु किंनरनिस्वना ॥ १७५ ॥ काचिदिन्दुमुखी वामे हस्तेऽवस्थाप्य दर्पणम् । दिदृक्षन्ती समालोक्य तं बभूवान्यथामनाः १७६ ईषत्काचिदभिज्ञाय वधूरिदमचिन्तयत् । अलब्धद्वारसन्मानः कुतो मारुतिरागतः ॥ १७७ ॥ वरस्त्रीजनमुद्याने कृत्वा संभ्रान्तमानसम् । हारमाल्यांबरधरो भास्वान् वह्निकुमारवत् ॥ १७८ ॥ निसर्गकान्तया गत्या प्रदेशं किंचिदभ्यगात् । तथाविधां च तो वार्तामशृणोद्राक्षसाधिपः ॥१७९॥ क्रोधसंस्पृष्टचित्तेन निरपेक्षत्वमीयुषा । तावदाज्ञापिताः शूरा रावणेनोग्रकिंकराः ॥ १८० ॥ विचारेण न वः कृत्यं पुष्पोद्यानानिरेति यः। मद्रोही कोऽप्ययं क्षिप्रं नीयतामन्तमायुषः १८१ अमी ततः समागत्य दध्युर्विस्मयमागताः । किमिंद्रजिन्नरेशः स्याद्भास्करः श्रवणोऽथवा १८२ पश्यामस्तावदित्युक्त्वा तैरित्युक्तं समंततः । भो भो श्रृणुत निःशेषा उद्यानस्याभिरक्षकाः ॥१८३॥ किं तिष्ठत सुविश्रब्धाः किंकराः कृतितां श्रिताः। किमिति श्रुतमस्माभिः कथ्यमानमिदं वहिः ॥
Page #364
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिपञ्चाशत्तमं पर्व |
"
histyद्दामतयोद्यानं प्रविष्टो दुष्टखेचरः । स क्षिप्रं मार्यतामेष गृह्यतां दुर्विनीतकः ॥ १८५ ॥ धावध्वसको कोऽसौ सोयमेव इतः कुतः । कस्य कस्तादृशः क्वेति किंकरध्वनिरुद्गतः ॥ १८६॥ ततः कार्मुककान् दृष्ट्ा शक्तिकान् गदिकांश्च तान् । खड्डिकान् कौंतिकान् वद्धसंघातानाय तो बहून् किंचित्संभ्रान्तधीर्वातिर्मृगाधिपपराक्रमः । रत्नशाखामृगच्छायास मुद्दीपितपुष्करः || १८८ ॥ अवरोहंस्ततो देशात्तैरदृश्यत किंकरैः । आकुलत्वविनिर्मुक्तः प्रलंबं विभ्रदंबरम् ॥ १८९ ॥ ततस्तमुद्यदादित्यमंडलं प्रतिमत्विषम् । प्रदष्टाधरमालोक्य विशीर्णाः किंकरा गणाः ॥ १९० ॥ ततः किलापरैः क्रूरैः प्रक्षातैः किंकराधिपैः । तत्किकरबलं गच्छदितश्वेतश्च धारितम् ।। १९१ ॥ शक्तितोमरचक्रासिगदाकार्मुकपाणयः । सर्वतो वावृणनेतं मुखराः किंकरास्ततः ।। १९२ ॥ मुमुचुश्च घनं शस्त्रं ज्येष्ठवाता यथावुशम् | अदृष्ट भास्करोद्योताः परं संघातवर्त्तिनः ॥ १९३ ॥ उत्पाट्य वायुपुत्रोऽपि निःशस्त्रो धीरपुंगवः । संघातं तुंगवृक्षाणां शिलानां वारमक्षिपत् ॥ १९४ ॥ भीमभोगिमहद्भोगभास्वद्भुजजवेरतैः । पादपादिभिराहनत्कालमेघ इवोन्नतः ।। १९५ ।। अश्वस्थान् शालन्यग्रोधान्नन्दिचंपक केसरान्। नीपाशोककदंबांश्च पुन्नागानर्जुनान्धवान् ॥ १९६ ॥ आम्रानाम्रातकांल्लोधान शृणु राजन् (तृणराजानू ) स्थवीयसः ।
३५५
Page #365
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३५६
त्रिपञ्चाशत्तम पर्व ।
विशालान् पनसाघांश्च चिक्षेप क्षेपवर्जितः ॥ १९७ ॥ बभंज त्वरितं कांश्चिदपरानुदमूलयत् । मुष्टिपादप्रहारेण यियेषान्यान्महाबलः ॥ १९८ ॥ आकूपारसमंतेन सैन्यमेकेन तत्कृतम् । समाकुलं गतं क्वापि क्षणेन प्रियजीवितम् ॥ १९९ ॥ सहायैर्मृगराजस्य कुर्वतो मृगशासनम् । कियद्भिरपरैः कृत्यं त्यक्त्वा सत्वं सहोद्भवम् ॥२०॥ पुष्पारेरवतीर्णस्य चक्रुर्वलयरोधनम् । भूयो युद्धमभूदुग्रं प्रान्तविधस्तकिंकरम् ॥ २०१॥ सभावापीविमानानामुद्यानोत्तमसमनाम् । चूर्णितानां तदाघातैर्भूमयः केवलाः स्थिताः ॥२०२॥ पादमार्गप्रदेशेषु ध्वस्तेषु वनवेश्मसु । महारथ्या यथा जाताः शुष्कसागरसन्निभाः ॥ २०३ ॥ भग्नोत्तुंगापणाश्रेणिः पातिताऽनेककिंकरः । बभूव राजमार्गोपि महासंग्रामभूसमः ॥ २०४ ॥ पतद्भिस्तोरणैस्तुंगैः कंपितध्वजपंक्तिभिः । बभूवांवरमुत्पातादिव भ्रश्यत्सुरायुधम् ॥ २०५ ॥ जंघावेगात्समुद्यद्भी रजोभिर्वहुवर्णकैः । इंद्रायुधसहस्राणि रचितानीव पुष्करे ॥ २०६ ॥ पादावष्टंभभिन्नेषु भूभागेषु निमज्जताम् । बभूव गृहशैलानां पातालेष्विव निश्वनः ॥२०७॥ दृष्या कंचित्करेणान्यं कंचित्पादन किंकरम् । उरसा कंचिदंसेन वातेनान्यं जघान सः ॥२०८॥ आल्लीयमानमात्राणां किंकराणां सहस्रशः । पततामुत्करे रथ्या जाता पूरसमागता ॥ २०९ ॥
Page #366
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३५७
त्रिपञ्चाशत्तमं पर्व। होहाहीकारगंभीरः पौराणामुद्गतो ध्वनिः । क्वचिच्च रत्नकूटानां भंगात्कणकणस्वनः ॥ २१० ॥ वेगेनोत्पततस्तस्य समाकृष्टमहाध्वजाः । कोपादिवोद्ययुः पश्चात्कृतघंटादिनिःश्वनाः ॥२११ ॥ उन्मूलितमहालाना बभ्रमुः परमा गजाः । वायुमंडलपर्णानामश्वास्तुल्यत्वमागताः ॥ २१२ ॥ अधस्तात्स्फुटिता वाप्यः प्राप्ताः पंकावशेषताम् । चक्रारूढेव निःशेषा जाता लंका समाकुला ॥ लंकाकमलिनीखंडं ध्वस्तराक्षसमीनकम् । श्रीशैलवारणो यावद्विक्षोभ्य बहिराश्रितः ॥२१४ ॥ तावत्तोयदवाहेन समं संना वेगतः । पश्चादिन्द्रजितो लग्नो द्विपस्यन्दनमध्यगः ॥ २१५ ॥ हनूमान्यावदेतेन समं योद्धं समुद्यतः । प्राप्तं तावदितं तस्य बलं यन्मेघपृष्टगम् ।। २१६ ॥ बाह्यायां भुवि लंकायां महाप्रतिभयं रणम् । जातं हनूमतः खेटैः लक्ष्मणस्येव दोषणम् ॥२१७॥ युक्तं सुचतुरैरश्वै रथमारुह्य पावनिः । समुद्धृत्य शरं सैन्यं राक्षसानामधावत ॥ २१८ ॥ अथेन्द्रजितवीरेण पाशैर्महोरगैस्सितः । चिरमायोधितो नीतः पुरं किंचिद्विचिंतयन् ॥ २१९ ॥ ततो नगरलोकेन विश्रब्धं स निरीक्षितः । कुर्वन्भंजनमासीद्यो विद्युदंडवदीक्षितः ॥ २२० ॥ प्रवेशितस्य चास्थान्यां तस्य दोषान् दशाननः । कथ्यमानान् शृणोति स्म तद्विद्भिः पुरुषैनिजैः॥ दूताहूतः समायातः किष्किन्धं स्वपुरादयम् । महेन्द्रनगरध्वंसं चक्रे तं च वशं रिपोः ॥२२२ ॥
Page #367
--------------------------------------------------------------------------
________________
पंद्मपुराणम् ।
त्रिपञ्चाशत्तम पर्व। साधूपसर्गमथने द्वीपे दधिमुखाहये । गंधर्वकन्यकास्तिस्रः पद्मस्याभ्यनुमोदिताः ॥ २२३ ॥ विध्वंसं वज्रशालस्य चके वजमुखस्य च । कन्यामभिलपत्तस्य बहिरस्थापयदलम् ॥ २२४ ॥ भग्नं पुष्पनगोद्यानं तत्पाल्यः विह्वलीकृताः । बहवः किंकरा ध्वस्ताः प्रपादि च विनाशितम् ।। घटस्तनविमुक्तेन पुत्रस्नेहानिरंतरम् । पयसा पोषिताः स्त्रीभिर्वृक्षका ध्वसमाहृताः ॥ २२६ ॥ वृक्षर्वियोजिता वल्यस्तरलायितपल्लवाः । धरण्यां पतिता भान्ति विधवा इव योषिताः ॥२२७॥ फलपुष्पभरा नम्रा विविधास्तरुजातयः । श्मशानपादपच्छाया एतेन ध्वसिताः स्थिताः ॥२२८॥ अपराधानिमान् श्रुत्वा रावणः कोपमागतः । अबन्धयत्तमाहूय विनागं लोहशृंखलैः ॥ २२९ ॥ उपविष्टोकसंकाशो दशास्यः सिंहविष्टरे । पूजायोग्यं पुरा वातिमाक्रोशदिति निर्दयम् ॥२३०॥ उद्वृत्तोऽयमसौ पापः निरपेक्षत्रपोज्झितः । अधुनैतस्य का छाया धिगेतेनेक्षितेन किम् ॥२३१॥ व्यापादितेन किं दुष्टः कर्ता नानागसामयम् । कथं न गणितं पूर्व मम दाक्षिण्यमुन्नतम् ॥२३२।। ततस्तन्मंडलप्रान्तस्थिताः प्रवरविभ्रमाः । महाभाग्या विलासिन्यो नवयौवनपूजिताः ॥२३३॥ कोपस्मितसमायुक्ता निमीलितविलोचनाः। विधाय शिरसः कंपमेवमूचुरनादरात् ।। २३४ ॥ प्रसादाद्यस्य यातोऽसि प्रभुतां क्षितिमण्डले । पृथिव्यां विचरन्स्वेच्छं समस्तबलवर्जितः ॥२३५॥
Page #368
--------------------------------------------------------------------------
________________
पपुराणम् ।
३५९
त्रिपञ्चाशत्तम पर्व। एतत्तत्स्वामिनः प्रीतेर्भवता दर्शितं फलम् । भूमिगोचरदूतत्वं यत्प्राप्तोऽस्यतिनिदितम् ॥ २३६ ॥ सुकृतं दशवक्रस्य कथमाधाय पृष्ठतः । वसुधाहिंडनक्लिष्टौ भवता तौ पुरस्कृतौ ॥ २३७ ॥ पवनस्य सुतो न त्वं जातोऽस्यन्येन केनचित् । अदृष्टमकुलीनस्य निवेदयति चेष्टितम् ।। २३८ ।। चिह्नानि विटजातस्य संति नांगेषु कानिचित् । अनार्यमाचरन् किंचिज्जायते नीचगोचरः॥२३९॥ मत्ताः केसरिणोऽरण्ये श्रृगालानाश्रयन्ति किम् । नहि नीचं समासृत्य जीवन्ति कुलजा नराः २४० सर्वस्वेनापि यः पूज्यो यद्यप्यसकृदागतः । सुचिरादागतो द्रोही त्वं निग्राह्यस्तु वर्तसे ॥ २४१॥ इमैर्निगदितैः क्रोधात्प्रहस्योवाच मारुतिः । को जानाति विना पुण्यैर्निग्राह्यः को विधेरिति २४२ स्वयं दुमेतिना साद्धेमनेनासन्नमृत्युना । इतो दिनैः कतिपयैद्रेक्ष्यामः क प्रयास्यथ ॥ २४३ ॥ सौमित्रिः सह पझेन बलोत्तुंगः समापतत् । न मेघ इव संरोद्धं नगैः शक्यो भवेन्नृपैः ॥२४४॥ अतृप्तः परमाहारैः कामिकैरमृतोपमैः । याति कश्चिद्यथा नाशमेकेन विषबिंदुना ॥ २४५ ॥ अतृप्तः स्त्रीसहस्रोधैरिंधनैरिव पावकः । परस्त्रीतृष्णया सोऽयं विनाशं क्षिप्रमेष्यति ॥ २४६॥ या येन भाविता बुद्धिः शुभाशुभगता दृढम् । न सा शक्याऽन्यथाकत्तुं पुरंदरसमैरपि ।।२४७॥ निरर्थकं प्रियशतैर्दुमैतौ दीयते मतिः । नूनं विहितमस्यैताद्विहितेन हतो हतः॥ २४८ ।।
Page #369
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिपश्चाशत्तम पर्व।
प्राप्ते विनाशकालेऽपि बुद्धिर्जतोविनश्यति । विधिना प्रेरितस्तेन कर्मपाकं विचेष्टते ॥ २४९ ॥ मर्त्यधर्मो यथा कश्चित्सुगन्धि मधुरं पयः । प्रमादी विषसन्मिश्रं पीत्वा ध्वंसं प्रपद्यते ॥२५०॥ तथाविधो दशास्य त्वं परस्त्रीसुखलोलुपः । वमनेन विना क्षिप्रं विनाशं प्रतिपश्यते ॥ २५१ ।। गुरून्परिजनं वृद्धान्मित्राणि प्रियबांधवान् । मात्रादीनपकर्मत्वं प्रवृत्तः पापवस्तुनि ॥ २५२ ॥ कदाचारसमुद्रे त्वं मदनावतेमध्यगः । प्राप्तो नरकपातालं कष्टं दुःखमवाप्स्यसि ।। २५३ ॥ त्वया दशास्य जातेन महारत्नश्रवोनृपात् । अन्वयोऽधमपुत्रेण रक्षसां क्षयमाहृतः ॥ २५४ ॥ अनुपालितमर्यादाः क्षितौ पूजितचेष्टिताः । पुंगवा भवतो वंश्यास्त्वं नु तेषां पुलाकवत् ॥२५५॥ इत्युक्तः क्रोधसंरक्तः खडमालोक्य रावणः । जगाद दुर्विनीतोऽयं सुदुर्वचननिर्भरः ॥ २५६ ॥ त्यक्तमृत्युभयो विभ्रत्प्रगल्भत्वं ममाग्रतः द्राक् खलीक्रियतां मध्ये नगरस्य दुरीहितः ॥२५७।। सशब्देरायतैः स्थूलबद्धो रज्जुभिरायतैः । ग्रीवायां हस्तपादे च रेणुरूक्षितविग्रहः ॥ २५८॥ वेष्टितः किंकरैः क्रूरैमा॑म्यतां च गृहे गृहे । हास्यमानः खरैर्वाक्यैः कृतमंडलपूत्कृतः ॥ २५९ ॥ इमकं वनिता दृष्ट्वा नराश्च पुरवासिनः । शोचन्ति कृताधिकारा विकृताः कंपिताननाः ॥२६०॥ क्षितिगोचरदूतोऽयं सोऽयं दूतः प्रपूजितः । पश्यतैनमिति स्वानं पुरे सर्वत्र घोष्यताम् ॥३६१।।
Page #370
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३६१
त्रिपञ्चाशत्तमं पर्व | ततस्तैर्विविधाक्रोशैः संप्राप्तः कोपमुत्तमम् । अयासी द्बन्धनं छित्वा मोहपाशं यथा यतिः ॥ २६२॥ पादविन्यासमात्रेण भंक्त्वा गोपुरमुन्नतम् | द्वाराणि च तथान्यानि खमुत्पत्य ययौ मुदा २६३ शक्रप्रासादसंकाशं भवनं रक्षसां विभोः । हनूमत्पादघातेन विस्तीर्ण स्तंभसंकुलम् ॥ २६४ ॥ पतता वेश्मना तेन यंत्रितापि महानगैः । धरणी कंपमानीता पादवेगानुघाततः ।। २६५ ।। भूमिसंप्राप्तसौवर्णप्राकारं रंध्रगहरम् । वज्रचूर्णितशैलाभं जातं दाशमुखं गृहम् || २६६ ।। कपिमौलिभृतामीशं श्रुत्वैवंविधविक्रमम् । प्रमोदं जानकी प्राप्ता विषादं च मुहुर्मुहुः || २६७ ।। वज्रोदरी ततोऽवोचर्तिक वृथा देवि रोदिषि | संत्रोटय शृंखलं पश्य यातं मारुतिमंबरम् || २६८ || निशम्य वचनं तस्या विकसन्नेत्रपंकजा । गच्छन्तं मारुतिं दृष्ट्वा निजसैन्यसमागतम् ।। २६९ ।। अचिन्तयदयं वार्तां मह्यं नाथस्य मे ध्रुवम् । कथयिष्यति यस्यैष गच्छतः प्रवरो जवः || २७० || पृष्टतास्य सानन्दा पुष्पांजलिममुंचत | समाधानपरा भूत्वा श्रीरिवेशस्य तेजसा ॥ २७१ ॥ उवाच च ग्रहाः सर्वे भवन्तु सुखदास्तव | हतविघ्नश्चिरंजीव भोगवान् वायुनन्दन ॥ २७२ ॥ इति सुविहितवृत्ताः पूर्वजन्मन्युदाराः सकलभुवन वोधिश्लाघ्य कीर्तिप्रधानाः । अभिसरपरिमुक्ताः कर्म तत्कर्तुमीशाः जनयति परमं तद्विस्मयं दुर्विचित्यम् ।। २७३ ।।
Page #371
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३६२
चतुःपञ्चाशत्तम पर्व।
भजत सुकृत्संगं तेन निर्मुच्य सर्व विरसफलविधायि क्षुद्रकर्म प्रयत्नात् ।
मवत परमसौख्यास्वादलोभप्रसक्ताः परिजितरविभासो जंतवः कान्तलीलाः ॥२७४॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे हनूमत्प्राभिगमनं नाम त्रिपंचाशत्तम पर्व ।
अथ चतुःपञ्चाशत्तमं पर्व । अथाससाद कैष्किन्धं हनूमान् बलमग्रतः । विधाय पुरविध्वंसध्वजछत्रादिचारुताम् ॥ १ ॥ वहिनिष्क्रान्तकैष्किन्धिजनसागरवीक्षितः । विवेश नगरं धीरो निसर्गोदारविभ्रमः ॥ २ ॥ वीक्षितांगान्महायोधान् दृष्टुं नगरयोषिताम् । गवाक्षार्पितवक्त्राणां संभ्रमः परमोऽभवत् ॥ ३ ॥ प्राप्य च वासमात्मीयं हितो भूत्वा पिता यथा । वातिराश्वासयन् सैन्यं यथायोग्यं समंततः॥४॥ तत सुग्रीवराजेन संगत्य ज्ञापितक्रियः। जगाम पद्मनाभस्य पादमूलं निवेदितुम् ॥ ५ ॥ प्रिया जीवति ते भद्रेत्येवमागत्य मारुतिः । वेदयिष्यति मे साधुरिति चिन्तामुपागतम् ॥ ६ ॥ क्षीणमत्यभिरामांगं क्षीयमाणं निरकुंशम् । वियोगवहिना नागं दावेनैवाकुलीकृतम् ॥ ७॥
Page #372
--------------------------------------------------------------------------
________________
३६३
पद्मपुराणम् ।
चतुःपञ्चाशत्तम पर्व। वर्तमान महाशोकपाताले द्विष्टविष्टपम् । पद्म वातिरुपासर्पन मूर्धन्यस्तकराम्बुरुट् ॥ ८ ॥ प्रथमं वातिना हषध्रियमाणोरुचक्षुषा । वक्त्रेण जानकीवातो शिष्टवाचा ततोखिला ॥९॥ अभिज्ञानादिकं सर्व निवेद्योक्तं स सीतया । चूणामणिं नरेन्द्राय समर्म्यागात्कृतार्थताम् ॥१०॥ चिन्तयेव हतच्छायः निषण्णः श्रान्तवक्त्रकः । शोकक्लान्त इवासीत्स बेणीबन्धमलीमसः ॥११॥ पद्मस्यांजलिजातोऽसौ पतद्वाष्पो हतप्रभः । दृशा दृष्टो नु पीतो नु वार्ता पृष्टानुसंभ्रमात् ।।१२॥ आसीनमंजुलावेनं दौर्बल्यविरलांगुलौ । गलत्किरणदारोघः सुशोच धरणीपतिः ॥१३॥ पूरितांजलिमंशनामालोकेन तमानने । चक्रे सोऽपि रुदित्वा च नरेशः सलिलांजलिम् ।। १४ ॥ प्रियायास्तदभिज्ञानं यत्राप्यंगे नियोजितम् । तेन तस्यापि वैदेही परिष्वंग इवाभवत् ॥ १५ ॥ सर्वव्यापी समुद्भिन्नो रोमांचः कर्कशो धनः । अंगेष्वसंभवस्तस्य प्रमोद इव निर्झरः ॥ १६ ॥ अपृच्छच्च परिष्वज्य मारुतिं कृतसंभ्रमः । अपि सत्यं प्रिया प्राणान् धारयत्यतिकोमला ॥१७॥ जगाद प्रणतो वातिः नाथ जीवति नान्यथा । मया वार्ता समानीता सुखी भव इलापते ॥१८॥ किन्तु त्वद्विरहोदारदावमध्यविवर्तिनी । गुणौघनिम्नगा बाला नेत्रांबुकृतदुर्दिना ॥ १९ ॥ वेणीबंधच्युतिच्छायमूर्द्धजात्यन्तदुःखिता । मुहुर्निश्वसती दीनं चिन्तासागरवर्तिनी ॥ २० ॥
Page #373
--------------------------------------------------------------------------
________________
३६४
पद्मपुराणम् ।
चतुःपञ्चाशत्तमं पर्व |
तनूदरी स्वभावेण विशेषेण वियोगतः । आराध्यमानिका स्त्रीभिः क्रुद्धाभी रक्षसां विभोः ॥२१॥ सततं चिन्तयन्ती त्वां त्यक्तसर्वतनुस्थितिः । दुःखं जीवति ते कान्ता कुरु देव यथोचितम् ||२२|| सामीरणिवचः श्रुत्वा म्लान पद्मेक्षणश्चिरम् । चिन्तयाकुलितः पद्मो बभूवात्यन्तदुःखितः ॥ २३ ॥ दीर्घमुष्णं च निश्वस्य अस्तालशरीरभृत् । निनिंद जीवितं स्वस्य जन्म चानेकधा भृशम् ||२४| ततस्तदिंगितं ज्ञात्वा सौमित्रिरिदमब्रवीत् । किं शोचसि महाबुद्धे कर्तव्ये दीयतां मनः ।। २५ ।। लक्ष्यते दीर्घसूत्रत्वं किष्किन्धनगरप्रभोः । कृताद्वानश्च भूयोऽपि सीता भ्राता चिरायति ॥ २६ ॥ दशास्यनगरीं श्वो (हि) गंतास्मेति विसंशयम् | नौभिरर्णवमुत्तीर्य बाहुभ्यामेव वा द्रुतम् ||२७|| अथोचे सिंहनादाख्यो मधुरो खेचरो महान् । अभिमानसमं मैवं भाषिष्ट कोविदो भवान् ||२८|| भवतो या गतिः सैव जातास्माकमिहाधुना । अतो निरूप्य कर्तव्यं सर्वेभ्यो हितमादरात् ||२९|| गत्वा पवनपुत्रेण सप्राकाराद्रिगोपुरा । लंका विध्वंसिता तेन सोद्यानोपवनान्विता ॥ ३० ॥ अधुना रावणे क्रुद्धे महाविद्याधराधिपे । संघातमृत्युरस्माकं सम्प्राप्तोयं विधेर्वशात् ॥ ३१ ॥ ऊचे चन्द्रमरीचिश्व परं वचनमूर्जितम् । किं त्वं हरेरिव प्राप्तः संत्रासं मृगवत्परम् || ३२ ॥ विभेति दशवक्त्राः को वासौ किं प्रयोजनम् | अन्यायकारिणस्तस्य वर्तते मृत्युरग्रतः ॥ ३३ ॥
Page #374
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुःपञ्चाशत्तम पर्व
अस्माकं बहवः सन्ति खेचरेन्द्रा महारथाः । विद्याविभवसंपन्नाः कृताश्चर्याः सहस्रशः ॥ ३४ ॥ ख्यातो घनगतिस्तीत्रो भूतनादो गजस्वनः । क्रूरः केली किलो भीमः कुंडो गोरतिरंगदः ||३५|| नलो नीलो तडिद्वक्त्रो मन्दरोऽशनिरर्णवः । चन्द्रज्योतिर्मृगेन्द्राह्नो वज्रदंष्ट्रो दिवाकरः ॥ ३६ ॥ उल्कालांगूलदिव्यास्त्रप्रत्यूहोज्झितपौरुषः । हनुमान् सुमहाविद्यः प्रभामंडलसुन्दरः ॥ ३७ ॥ महेन्द्रकेतुरत्युग्रसमीरणपराक्रमः । प्रसन्नकीर्तिरुद्वृत्तः सुतास्तस्य महाबलाः ॥ ३८ ॥ किष्किंधस्वामिनोऽन्येपि सामन्ताः परमैौजसः । विद्यन्तेऽक्षतकर्माणो निर्भृत्याः शासनैषिणः ३९ ततस्तद्वचनं श्रुत्वा खेचराश्चक्षुरानतम् | लक्ष्मीधराग्रजं तेन निदधुर्विनयान्वितम् ॥ ४० ॥ अथेक्षांचक्रिरे तस्य वदनेऽव्यक्तसौम्यके । भ्रकुटीजालकं भीमं मृत्योरिव लतागृहम् ॥ ४१ ॥ लंकायां तेन विन्यस्तां दृष्टिं शोणस्फुरत्विषम् | केतुरेखामिवोद्याताम् राक्षसक्षयशंशिनीम् ॥४२॥ तामेव च पुनर्न्यस्तां चिरमध्यस्थतां गते । दृष्ट्वा स्थानि निजे चापे कृतान्तभ्रूलतोपमे ॥ ४३ ॥ कोपर्कपश्लथं चास्य केसभारं स्फुरद्युतिम् । निधानमिव कालस्य निरोद्धुं तमसा जगत् || ४४ ॥ तथाविधं च तद्वक्त्रं ज्योतिर्वलयमध्यगम् । जठरीभवदुत्पातप्रभाभास्करसन्निभम् ॥ ४५ ॥ गृहीतगमनं क्ष्वेडं रक्षसां नाशनायतं । दृष्ट्वा ते गमने सज्जा जाता संभ्रान्तमानसाः ॥ ४६ ॥
३६५
Page #375
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुःपञ्चाशत्तम पर्व ।
राघवाकूतनुन्नास्ते संपूज्येन्दश्रुतेगिरी । चालिताः व्योमगाश्चित्रहेतयः संपदान्विताः ॥४७॥ प्रयाणतूर्यसंघातं नादपूरितगहरम् । सोत्साहं च दापयित्वा प्रस्थितौ रघुनन्दनौ ॥ ४८ ॥ बहुले मार्गशीर्षस्य पंचम्यामुदिते रवौ । सोत्साहैः शकुनैरेभिस्तेषां ज्ञेयं प्रयाणकम् ॥ ४९ ॥ दक्षिणावर्तनिधूमज्वाला रम्यस्वनः शिखी। परमालंकृता नारी सुरभिप्रेरकोऽनिलः ॥ ५० ॥ निर्ग्रन्थसंयतश्छवं गंभीरं वाजिहेषितम् । घंटानिश्वनितं कान्तं कलशो दधिपूरितः ॥ ५१॥ उत्किरनितरां दृष्टो वामतो गोमयं नवं । वायसो विस्फुरत्पक्षो निर्मुक्तमधुरस्वरः ॥ ५२ ॥ भेरीशंखरवः सिद्धिर्जय नन्द बज द्रुतम् । निर्विघ्नमिति शब्दाश्च तेषां मंगलमुद्ययुः ॥ ५३ ॥ चतुर्दिग्भ्यः समायातैः पूर्यमाणो नभश्वरैः । सुग्रीवो गंतुमुधुक्तः सितपक्षविधूपमः ॥ ५४॥ नानायानविमानास्ते नानावाहनकेतनाः । व्रतो व्योनि वेगेन बभुः खेचरपुंगवाः ॥ ५५ ॥ किष्किंधाधिपतिर्वातिः शल्यो दुर्मर्षणो नलः । नीलः कालः सुषेणश्च कुसुदाद्यास्तथाः नृपाः ५६ एते ध्वजोपरिन्यस्तमहाभासुरवानराः । ग्रसमाना इवाकाशं प्रवृत्ताः सुमहाबलाः ॥ ५७ ॥ रेजे विराधितस्यापि हारो निझरभासुरः। जांबवस्य महावृक्षो व्याघ्रो सिंहरवस्य च ॥ ५८ ॥ वारणो मेघकान्तस्य शेषाणामन्वयागताः । ध्वजेषु चिह्नतां याता भावाश्छत्रेषु चोजला: ॥५९॥
Page #376
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३६७
चतुःपञ्चाशत्तमं पर्व |
तेषां बभूव तेजस्वी भूतनादः पुरस्सरः । लोकपालोपमस्तस्य स्थितः पश्चान्मरुत्सुतः ॥ ६० ॥ वृताः सामंतचक्रेण यथास्वं परमैौजसः । लंकां प्रति व्रजन्तस्ते रेजुः संजातसम्मदाः ।। ६१ ।। 1 सुकेशतनयाः पूर्व लंकां माल्यादयो यथा । विमानशिखरारूढाचेलुः पद्मादयो नृपाः ।। ६२ ।। पार्श्वस्थः पद्मनाभस्य विराधितनभश्वरः । पृष्ठतो जांववस्तस्थौ सचिवैरन्वितो निजैः ।। ६३ ।। वामे भुजे सुषेणश्च सुग्रीवो दक्षिणे स्थितः । निमेषेण च संप्राप्ता वेलंधरमहीधरम् ॥ ६४ ॥ वेलंधरपुरस्वामी समुद्रो नाम तत्र च । नलस्य परमं युद्धमातिथ्यं समुपानयन् ॥ ६५ ॥ ततो नलेन सस्पर्द्ध जित्वा निहतसैनिकः । बद्धो बाहुबलाढ्येन समुद्रः खेचरः परः ।। ६६ ।। संपूज्य च पुनर्मुक्तः पद्मनाभस्य शासने । स्थापितोऽवस्थिताश्चैते पुरे तत्र यथोचितं ॥ ६७ ॥ सत्यश्रीः कमला चैव गुणमाला तथापराः । रत्नचूला तथा कन्या समुद्रेण प्रमोदिना ॥ ६८ ॥ कल्पिताः पुरशोभाढ्याः योषिद्गुणविभूषिताः । लक्ष्मीधरकुमाराय सुरस्त्रीसमविभ्रमाः ॥ ६९ ॥ athi रजनीं स्थित्वा सुवेलमचलं गताः । सुवेलनगरे तत्र सुवेलो नाम खेचरः ॥ ७० ॥ जित्वा तमपि संग्रामे हेलामात्रेण खेचराः । चिक्रीडुर्मुदितास्तत्र त्रिदशा इव नन्दने ॥ ७१ ॥ तत्राक्षयवरम्ये सुक्षेपाक्षेपितक्षपाः । अन्येद्युरुद्यता गन्तुं लंकां तेन सुविभ्रमाः ॥ ७२ ॥
Page #377
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३६८
चतुःपञ्चाशत्तम पर्व। तुंगप्राकारयुक्तां तां हेमसझसमाकुलाम् । कैलाशशिखिराकारैः पुंडरीकैर्विराजिताम् ।। ७३ ॥ विचित्रैः कुट्टिमतलैरालोकेनावभासतीम् । पद्मोद्यानसमायुक्तां प्रपादिकृतिभूषगाम् ।। ७४ ॥ चैत्यालयैरलंतुंगै नावर्णसमुज्वलैः । विभूषितां पवित्रां च महेन्द्रनगरीसमाम् ॥ ७५ ॥ लंकां दृष्ट्वा समासन्नां सर्वे खेचरपुंगवाः । हंसद्वीपकृतावासा बभूवुः परमोदयाः ॥ ७६ ॥ युद्धे हंसरथं तत्र विजित्य सुमहाबलम् । रम्ये हंसपुरे क्रीडां चक्रुरिच्छानुगामिनीम् ॥ ७७ ।। मुहुः प्रेषितदूतोयमद्य श्वो वा विशंसयम् । भामंडलः समायातीत्येवमाकांक्षयास्थिताः ॥ ७८ ॥ यं यं देशं विहितसुकृताःप्राणभाजः श्रयन्ते । तस्मिस्तस्मिन्विजितरिपवो भोगसंग भजन्ते ॥ नह्येतेषां परमजगतं किंचिदापातानां । सर्व तेषां भवति मनसि स्थापित हस्तसक्तम् ॥ ७९ ॥ तस्माद्भोगं भुवनविकटं भोक्तुकामेन कृत्यः । श्लाघ्योधर्मो जिनवरमुखादुद्गतः सर्वसारः ॥ अस्तां तावत्क्रयपरिचितो भोगसंगोऽपि मोक्षम् । धमोदस्मादब्रजति रवितोऽप्युज्वलं भव्यलोकः८०
इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे लंकाप्रस्थानं नाम चतुःपंचाशत्तम पर्व ॥ ५४ ॥
Page #378
--------------------------------------------------------------------------
________________
पंद्मपुराणम् ।
पञ्चपञ्चाशत्तम पर्व ।
अथ पञ्चपञ्चाशत्तमं पर्व । अथाभ्यर्णस्थितं ज्ञात्वा प्रतिसैन्यबलं पुरु । युगान्तांभोधिवेलेव लंका क्षोभमुपागमत् ॥ १ ॥ संभ्रान्तमानसः किंचित्कोपमाप दशाननः । चके रणकथां लोको दबन्धव्यवस्थितः ॥ २ ॥ महार्णवरवा भेर्यस्ताडिताः सुभयावहाः । तूर्यशंखस्वनस्तुंगो बभ्राम गगनांगणे ॥३॥ रणभेरीनिनादेन परं प्रमुदिता भटाः। सन्नद्धा रावणं तेन प्राप्ता स्वामिहितैषिणः ॥ ४ ॥ मारीचोऽमलचन्द्रश्च भास्करः स्यन्दनो विभुः । तथा हस्तप्रहस्ताद्याः सन्नद्धाः स्वामिनं श्रिताः ५ अथ लंकेश्वरं वीरं संग्रामाय समुद्यतम् । विभीषणोऽभ्युपागम्य प्रणम्य रचितांजलिः ॥६॥ शास्त्रानुगतमत्यन्तम् शिष्टानामतिसम्मतम् । आयत्यां च तदात्वे च हितं स्वस्थ जनस्य च ॥७॥ शिवं सौम्याननो वाक्यं पदवाक्यविशारदः । प्रमाणकोविदो धीरः प्रशान्तमिदमब्रवीत् ॥ ८॥ विस्तीणों प्रवरा संपन्महेन्द्रस्येव ते प्रभोः। स्थिता च रोदसी व्याप्य कीर्तिः कुन्ददलामला ॥९॥ स्त्रीहेतोः क्षणमात्रेण सेयं मागाः परिक्षयम् । स्वामिन् संध्याभ्ररेखेव प्रसीद परमेश्वर ॥१०॥ क्षिप्रं समर्म्यतां सीता तव किं कार्यमेतया । दृश्यते न च दोषोत्र प्रस्पष्टः केवलो गुणः ॥११॥
२-२४
Page #379
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३७०
पञ्चपञ्चाशत्तम पर्व ।
सुखोदधौ निमग्नस्त्वं स्वस्थस्तिष्ठ विचक्षण । अनवद्यो महाभोगस्तवात्मीयं समंततः ॥ १२ ॥ समाने जानकी तस्मिन् पद्मनाभे नियुज्यताम् । निजः प्रकृतिसम्बन्धः सर्वथैव प्रशस्यते ॥१३॥ श्रुत्वा तदिन्द्रजिद्वाक्यं जगाद पितृचित्तवित् । स्वभावात्यन्तमानाढयमागमप्रतिकूलनम् ॥१४॥ साधो केनासि पृष्टस्त्वं कोऽधिकारोऽपि वा तव । येनैवं भाषसे वाक्यमुन्मत्तगदितोपमम् ॥१५॥ अत्यन्तं यद्यधीरस्त्वं भीरुश्व क्लीवमानसः । स्ववेश्मविवरे स्वस्थस्तिष्ठ किं तव भाषितैः ॥१६॥ यदर्थ मत्तमातंगमहावृन्दांधकारिणि । पतद्विविधशखौघे संग्रामेऽत्यंतभीषणे ॥ १७॥ हत्वा शत्रून् समुवृत्तास्तीक्ष्णया खड्गधारया । भुजेनोपार्जते लक्ष्मीः सुकृताद्वीरसुन्दरीः ॥१८॥ सुदर्लभमिदं प्राप्य तत्स्त्रीरत्नमनुत्तमम् । मूढवन्मुंचते कस्मात्त्वया व्यर्थमुदाहृतम् ॥ १९ ॥ ततो विभीषणोऽवोचदितिनिर्भर्त्सनोद्यतः । पुत्रनामासि शत्रुस्त्वमस्य दुस्थितचेतसः ॥२०॥ महाशीतपरीतस्त्वमजानन् हितमात्मनः । अन्यचिन्तानुरोधेन हिमवारिणि मज्जसि ॥ २१ ॥ उद्गतं भवने वह्नि शुष्कैः पूरयसीन्धनैः । अहो मोहग्रहार्तस्य विपरीतं तवेहितम् ॥ २२ ॥ जांबूनदमयी यावत्सप्राकारविमानिका । लक्ष्मणेन शरैस्तीक्ष्णलंका न परिचूर्ण्यते ॥ २३ ॥ तावन्नृपसुतां साध्वी पद्माय स्थिरचेतसे । क्षेमाय सर्वलोकस्य युक्तमपयितुं द्रुतम् ॥ २४ ॥
Page #380
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३७१
पञ्चपञ्चाशत्तम पर्व । नैषा सीता समानीता पित्रा तव कुबुद्धिना । रक्षोभोगिविलं लंकामेषानीता विषौषधिः ॥ २५ ॥ सुमित्रानंदनं क्रुद्धं तं लक्ष्मीधरपुंगवम् । सिंह रणमुखे शक्ता न यूयं व्यूहितुं गताः ॥ २६ ॥ अर्णवाहूं धनुर्यस्य यस्यादित्यमुखाः शराः । पक्षे भामंडलो यस्य स कथं जीयते जनैः ॥२७॥ ये तस्य प्रणतास्तुंगाः खेचराणां महाधिपाः । महेन्द्रा मलयास्तीराः श्रीपर्वततनूरुहाः ॥ २८ ॥ किष्किन्धास्त्रिपुरा रत्नद्वीपवेलंधरालकाः । कैलीकिला खतिलका संध्याहाः हैहयास्तथा ॥२९॥ प्राग्भारदधिवक्त्राश्च तथान्ये सुमहाबलाः । विद्याविभवसंपन्नास्ते तु विद्याधरा न किम् ॥३०॥ एवं प्रवदमानं तं क्रोधप्रेरितमानसः । उत्खाय रावणः खड़मुद्रतो हन्तुमुद्यतः ॥३१॥ तेनापि कोपवश्येन दृष्टान्तेनोपदेशने । उन्मूलितः प्रचण्डेन स्तंभो वज्रमयो महान् ॥ ३२ ॥ युद्धार्थमुद्गतावतो भ्रातरावुग्रतेजसौ । सचिवैवोरितो कृच्छाद्गतौ स्वं स्वं निवेशनम् ॥ ३३ ॥ कुंभकर्णेन्द्रजिन्मुख्यैरेतैः प्रत्यायितस्ततः । जगाद रावणो विभ्रन्मानसं पौरुषाशयम् ॥ ३४ ॥ आश्रयस्य इव स्वस्य स्थानस्याहिततत्परः । दुरात्मा मत्पुरीतोऽयं परिनिःक्रामतु द्रुतम् ॥३५॥ अनर्थोद्यतचित्तेन स्थितेन किमिहामुना । स्वांगेनापि न मे कृत्यं प्रतिकूलप्रवृत्तिना ॥ ३६ ॥ तिष्ठन्तमिह मृत्युं चेदेतकं न नयाम्यहम् । ततो रावण एवाहम् न भवामि विसंशयम् ॥ ३७ ॥
Page #381
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पञ्चपञ्चाशत्तम पर्व । भीरत्नश्रवसः पुत्रः सोप्यहं न भवामि किम् । इत्युक्त्वा निर्ययौ मानी लंकातोऽथ विभीषणः॥ साग्राभिश्चारुशस्त्राभिः त्रिंशद्भिः परिवारितः । अक्षौहिणीभिरुयुक्तो गंतु पद्मस्य संश्रयम् ॥३९॥ विद्युद्घनेभवजेन्द्रप्रचण्डचपलाभिधाः । उद्गताशनिसंघाताः कालाद्याश्च महाबलाः ॥ ४० ॥ शूराः परमसामन्ता विभीषणसमाश्रयाः। सान्तःपुरा ससर्वस्वा नानाशस्त्रविराजिताः ॥४१॥ व्रजन्तो वाहनश्चित्रैश्छादयित्वा नभस्थलम् । परिच्छदसमायुक्ताः हंसद्वीपं समागताः ॥ ४२ ॥ द्वीपस्य तस्य पर्यन्ते सुमनोज्ञे ततस्तटे । ते सरिच्छंबिते तस्थुः सुरा नन्दीश्वरे यथा ॥ ४३ ॥ विभीषणागमे जाते जातो वानरिणां महान् । हिमागमे दरिद्राणामिवाकपः समंततः ॥ ४४ ॥ समुद्रावर्तभृत्सूर्य-हासं लक्ष्मीभृदैक्षत । बज्रावर्त धनुः पद्मः परामृषमुदादारः ॥ ४५ ॥ अमंत्रयच्च संभूय मंत्रिणः स्वैरमाकुलाः । सिंहादिभमिव त्रस्तं वृन्दबन्धमगावलम् ॥ ४६॥ युवा विभीषणेनाथ दंडपाणिर्विचक्षणः । प्रेषितः पद्मनाथस्य सकाशं मधुराक्षरः ॥४७॥ सभायामुविष्टोसौ कृतप्रणतिराहृतः । निजगादानुपूर्वेण विरोधं भ्रातृसंभवम् ।। ४८ ॥ इति चावेदयन्नाथ तव पद्म विभीषणः । पादौ विज्ञापयत्येवं धर्मकार्यसमुद्यतः ॥ ४९ ॥ भवन्तं शरणं भक्तः प्राप्तोऽहं श्रितवत्सल । आज्ञादानेन मे तस्मात्प्रसादं कर्तुमर्हसि ॥५०॥
Page #382
--------------------------------------------------------------------------
________________
३७३
पद्मपुराणम् ।
पञ्चपञ्चाशत्तमं पर्व |
प्रदेशान्तरमेतस्मिन् प्रतीहारेण भाषिते । सन्मंत्रो मंत्रिभिः सार्द्ध पद्मस्यैवमजायत ॥ ५१ ॥ मतिकान्तोऽब्रवीत् कदाचिच्छद्मनैषकः । प्रेषितः स्यादशास्येन विचित्रं हि नृपेहितम् ||५२ || परस्पराभिघाताद्वा कलुषत्वमुपागतम् । प्रसादं पुनरप्येति कुलं जलमिव ध्रुवम् ॥ ५३ ॥ ततो मतिसमुद्रेण जगदे मतिशालिना । विरोधो हि तयोर्जातः श्रूयते जनवक्रतः ॥ ५४ ॥ धर्मको महानीतिः शास्त्रांबुक्षालिताशयः । अनुग्रहपरो नित्यं श्रूयते हि विभीषणः ।। ५५ ।। सोदर्य कारणं नात्र कर्महेतुः पृथक् पृथक् । सततं तत्प्रभावेन स्थिता जगति चित्रता ॥ ५६ ॥ प्रकृतेऽस्मिन् त्वमाख्यानं श्रुतौ कुरुत नैमिषे । गिरिगोभूतिनामानावभूतां वटुकौ किल ॥५७॥ तस्मिंश्च सूर्यदेवस्य राज्ञी नाम्ना मतिप्रिया । अददाद् व्रतकं ताभ्यामिदं सुकृतवांच्छया ||१८|| ओदनच्छादिते हेमपूर्ण पृथुकपालिके । गिरिः सुवर्णमालोक्य लोभादितरमक्षणोत् ॥ ५९ ॥ अन्यच्च खलु कौशाम्ब्यां वणिग्नाम्ना वृहद्धनः । तद्भार्या कुरुविंदाख्या तस्य पुत्रौ बभूवतुः ६० अहिदेव महादेवौ तौ मृते जनके गतौ । समुद्रे ( सुधनौ ) यानपात्रेण विभवच्छेद भीरुकौ ||६१ || सर्वभाण्डेन तौ रत्नमेकमानयतां परम् । यस्य तज्जायते हस्ते स जिघांसति हीतरम् ।। ६२ ।। परस्परं च दुश्चिन्तां तौ विवेद्य समं गतौ । मात्रे चानीय तद्रत्नं विरागाभ्यां समर्पितम् ॥ ६३ ॥
Page #383
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३७४
पञ्चपञ्चाशत्तम पर्व । 'माता विषेण तौ हन्तुमैच्छद्बोधमिता पुनः । कालिंयां तैर्विरक्तैस्तद्रत्नं क्षिप्तं झषोऽगिलत् ॥६४॥
आनायिकगृहीतोऽसौ विक्रीतस्तद्गृहे पुनः । ततस्तयोः स्वसा मत्स्यं छिंदाना रत्नमेक्षत ॥६५॥ मातरं भ्रातरौ चैषा विष्यान्कतुं ततोऽलपत् । लोभमोहप्रभावेन नेहाच्च शममागतः ॥ ६६ ॥ ग्रावा (ग्राव्णा) निश्चूर्ण्य तद्गत्नं ज्ञाताहूताः परस्परम् । संसारभावनिर्विण्णाः समस्तास्ते प्रवव्रजुः॥ तस्माद्व्यादिलोभेन भ्रात्रादीनामपि स्फुटम् । संसारे जायते वैरं यौनबंधो न कारणम् ॥६८॥ दृश्यते वैरमेतस्मिन् दैवयोगात्पुनः समः । गोभूतिः सोदरो लोभानिरिणा हत एव सः॥६९॥ तस्मात्प्रेषितदूतोऽयं महाबुद्धिविभीषणः । आनीयतां न योनीयदृष्टान्तोत्र परिस्फुटः ॥ ७० ॥ ततो दंडिनमाहूय जगुरेत्वति तेन च । गत्वा निवेदिते प्राप्तो पद्मं रत्नश्रवःसुतः ॥ ७१ ॥ ऊचे विभीषणो नत्वा प्रभुः त्वमिह जन्मनि । परत्र जिननाथश्च ममायं निश्चयः प्रभो ॥७२॥ समये हि कृते तेन प्रोचे रामो विसंशयम् । योजयामि त्वकं लंका भव संदेहवर्जितः ॥ ७३ ॥ विभीषणसमायोगे वर्त्तते यावदुत्सवः । तावत्सिद्धमहाविद्यः प्राप्तः पुष्पवतीसुतः ॥ ७४ ॥ प्रभामंडलमायातं विजया खगाधिपम् । पद्मादयः परं दृष्ट्वा समानचुः प्रभाविणम् ॥ ७५ ॥ निर्वाध दिवसानष्टौ नगरे हंसनामनि । सम्यग्निश्चितकर्तव्या लंकाभिमुखमव्रजन् ॥ ७६ ॥
Page #384
--------------------------------------------------------------------------
________________
पद्मपुराणमें ।
३७५
पञ्चपञ्चाशत्तम पर्व । स्यंदनैर्विविधैर्यानैः स्थूरीपृष्टैर्मरुज्जवैः । प्रावृषेण्यघनच्छायैरनेकपकदम्बकैः ॥ ७७ ॥ अनुरागोत्कटैर्भूत्यैः वीरैः सन्नाहभूषणैः । ययुः खेचरसामंताः समंताच्छन्नपुष्कराः ॥ ७८ ॥ अग्रप्रयाणकन्यस्ताः प्रवीराः कपिकेतवः । संग्रामधरणी प्रापुस्तद्योग्यत्वमुदाहृतम् ॥ ७९ ॥ विंशतिर्योजनान्यस्या विस्तारः(रुन्द्रता)परिकीर्तितः। आयामस्य तु नैवास्ति परिच्छेदोरणक्षितेः॥ नानायुधविचिह्नानां सहस्रैरुपलक्षिता । मृत्युचक्रमणिक्ष्मेव समवर्तत युद्धभूः ॥ ८१॥ ततो नागाश्वसिंहानां दुंदुभीनां च निःस्वनम् । श्रुत्वा हर्ष दशास्योगाद्विरागतरणोत्सवः ।।८२॥ आज्ञादानेन चाशेषान्सामंतान्समवाभवन् । नहि ते वंचितास्तेन युद्धानंदेन जातुचित् ॥ ८३ ॥ भास्करामाः पयोदाहाः कांचना व्योमवल्लभाः । गंधर्वगीतनगराः कंपनाः शिवमंदिराः ॥४॥ सूर्योदयामृताभिख्याः शोभासिंहपुराभिधाः । नृत्यगीतपुरालक्ष्मीकिन्नरस्वनसंज्ञकाः ॥८५॥ बहुनादा महाशैलाश्चक्राहा सुरनू पुराः । श्रीमन्तो मलयानन्दाः श्रीगुहा श्रीमनोहराः ॥ ८६ ॥ रिपुंजयाः शशिस्थानाः मातंडाभविशालकाः । ज्योतिदंडाः परिक्षोदा अश्वरत्नपराजयाः॥८७॥ एवमाद्याः पुराभिख्याः महाखेचरपार्थिवाः । सचिवैरन्विताः प्रीता दशाननमुपागताः ॥ ८८ ॥ अस्त्रवाहनसन्नाहप्रभृतिप्रतिपत्तिभिः । रावणोऽपूजयद्भूयः सुत्रामा त्रिदशानिव ॥ ८९ ॥
Page #385
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३७६
षट्पञ्चाशत्तमं पर्व!
अक्षौहिणीसहस्त्राणि चत्वारि त्रिककुष्प्रभोः । स्वशक्तिजनितं प्रोक्तं बलस्य प्रमितं बुधैः ॥९०॥ एकमक्षौहिणीनां तु किष्किन्धनगरप्रभोः । सहस्रं साग्रमेकं तु भामण्डलविभोरपि ॥ ९१॥ सुग्रीवः सचिवैः साकं तथा पुष्पवतीसुतः । आकृत्य परमोधुक्तैस्तस्थतुः पद्मलक्ष्मणौ ॥ ९२ ॥ अनेकगोत्रचरणा नानाजात्युपलक्षणाः । नानागुणक्रियाख्याता नानाशब्दा नभश्चराः ॥ ९३ ॥
पुण्यानुभावेन महानराणां भवन्ति शत्रोरपि पार्थिवाः स्वाः । __ कुपुण्यभाजां तु चिरं स्वशक्ता विनाशकाले परतां भजन्ते ।। ९४ ॥ भ्राता ममायं सुहृदेष कश्यो ममैष बंधुः सुखदः सदेति ।
संसारवैचित्र्यविदा नरेण नैतन्मनीषारविणा विचिन्त्या ॥ ९५ ॥ इत्यार्षे रविषणाचार्यप्रोक्ते पद्मपुराणे विभीषणसमागमाभिधानं नाम पंचपंचाशत्तमं पर्व ॥ ५५ ॥
अथ षट् पञ्चाशत्तमं पर्व । मगधेन्द्रस्ततोऽपृच्छत्पुनरेवं गणेश्वरम् । अक्षोहिण्याः प्रमाणं मे वक्तुमर्हसि सन्मुने ॥ १ ॥ शक्रभूतिरथागादीच्छृणु श्रेणिक पार्थिव । अक्षोहिण्याः प्रमाणं ते संक्षेपेण वदाम्यहम् ॥२॥
Page #386
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३७७
षट्पञ्चाशत्तम पर्व ।
अष्टाविमे गताः ख्याति प्रकारा गणनाकृताः । चतुणों भेदमंगानां कीर्त्यमानं विबोध्यताम् ३ पत्तिः प्रथमभेदोऽत्र तथा सेना प्रकीर्तिता । सेनामुखं ततो गुल्म वाहिनी पृतना चमूः ॥ ४ ॥ अष्टमोऽनीकनीसंज्ञस्तत्र भेदो बुधैः स्मृतः । यथा भवन्त्यमी भेदास्तथेदानीं वदामि ते ॥५॥ एको रथो गजश्चैकस्तथा पंच पदातयः । त्रयस्तुरंगमाः सैषा पत्तिरित्यभिधीयते ॥ ६ ॥ पत्तिस्त्रिगुणिता सेना तिस्रः सेनामुखं च ताः । सेनामुखानि च त्रीणि गुल्ममित्यनुकीर्त्यते ॥७॥ वाहिनी त्रीणि गुल्मानि पृतना वाहिनीत्रयं । चमूस्त्रिपृतना ज्ञेया चमूत्रयमनीकिनी ॥ ८॥ अनीकिन्यो दश प्रोक्ता प्राज्ञैरक्षोहिणीति सा । तत्रांगानां पृथक् संख्यां चतुर्णा कथयामि ते ९ अक्षोहिण्यां प्रकीयोनि रथानां सूर्यवर्चसाम् । एकविंशतिसंख्यानि सहस्राणि विचक्षणः १० अष्टौ शतानि सप्तत्या सहितान्यपराणि च । गजानां कथितं ज्ञेयं संख्यानं रथसंख्यया ॥११।। एकलक्षं सहस्राणि नव, पंचाशदन्वितम् । शतत्रयं च विज्ञेयमक्षोहिण्याः पदातयः ॥ १२ ॥ पंचषष्ठिसहस्राणि षट्शती च दशोत्तरा । अक्षोहिण्यामियं संख्या वाजिनां परिकीर्तिता ॥१३॥ एवं संख्यबलोपेतं विज्ञायापि दशाननम् । बलं कैष्किंधमभ्यार तं भयेन विवर्जितम् ॥ १४ ॥ तस्मिन्नासन्नता प्राप्ते पद्मनाभप्रभोले । जनानामित्यभूदाणी नानापक्षागतात्मनाम् ॥ १५ ॥
Page #387
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
३७८
षट्पञ्चाशत्तम पर्व।
पश्यतां वरयानोडुगणेशः शास्त्रधीकरः । दशास्यचन्द्रमाश्छन्नः परस्त्रीच्छाबलाहकैः ॥ १६ ॥ अष्टादश सहस्राणि पत्नीनां यस्य सुत्विषाम् । सीतायाः पश्यतैकस्याः कृते तं शोकसंचितम् ।। रक्षसां वानराणां च कस्य नाम क्षयो भवेत् । एवं बभूव संदेहः सैन्यद्वितयवर्तिनां ॥ १८ ॥ बलेस्मिन्मारदेशीयो मारुतिर्नाम भीषणः । विस्फुरच्छौयतिग्मांशुः सूर्यतुल्योत्र शक्रजित् ॥१९॥ सागरोदारमत्युग्रं साक्षादितिबलोपमम् । साधनं रावणस्येति नराः केचिद्वभाषिरे ॥ २०॥ अंतरं विच्छशूरस्याशरस्य च न जातुचित् । न तज्ज्ञातमतिक्रान्तं किन्नरोधीरबोधनम् (2)॥२१॥ यद्वृत्तं दण्डकाख्यस्य वनस्य महतान्तरे । अत्यन्तदारुणं युद्धं लक्ष्मणस्य महात्मनः ॥ २२ ॥ चन्द्रोदरसुतं प्राप्य तुल्यं स्वांगेन केवलम् । मृत्योरातिथ्यमानीतो येनासौ खरदूषणः ॥ २३ ॥ अतिप्रकाटवीर्यस्य लक्ष्मीनिलयवक्षसः। भवतां तस्य न ज्ञातं किं वा बलमनुत्तमम् ॥ २४ ॥ एकेन वायुपुत्रेण निर्भत्स्य मयसंभवाम् । रामपत्नी समाश्वस्य पराथोशक्तवृत्तिना ॥ २५ ॥ रावणस्य महासैन्यं विजित्यात्यन्तदारुणम् । लंकापुरी परिध्वस्ता भग्नप्राकारतोरणा ।। २६ ॥ एवं विदिततत्वानां स्फुट वचसि निर्गतेः । जगाद प्रहसन् वाक्यं सुवक्त्रो गर्वनिर्भरः ॥२७॥ गोष्पदप्रमितं क्वैतदलं वानरलक्ष्मणम् । क्व चैतत्सागरोदारं सैन्यं त्रैकूटमुद्धतम् ।। २८ ॥
Page #388
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३७९
पचाशत्तम पर्व ।
इंद्रेण साधितो यो न पतिर्विद्याभृतामयम् । एकस्य चापिनः साध्यो रावणः संजायते ॥ २९ ॥ सर्वतेजस्विमूर्धानं विभोरस्याधितिष्ठतः । श्रोतुं नामापि कः शक्तश्वेतनश्चक्रवर्तिनः ॥ ३० ॥ सुपीवरभुजो वीरो दुर्द्धरस्त्रिदशैरपि । भुवने कस्य न ज्ञातः कुंभकर्णो महाबलः ॥ ३१ ॥ यत्रिशूलधरः संख्ये कालाग्निरिव दीप्यते । सोऽयं विजीयते केन जगदुत्कटविक्रमः ॥ ३२ ॥ यस्यातपत्रमालोक्य शरदिन्दुमिवोद्गतम् । शत्रुसैन्यतमोध्वंसमुपयाति समंततः ॥ ३३ ॥ उदात्ततेजसस्तस्य स्थातुं यस्याग्रतोऽपि कः । समर्थपुरुषो लोके निजजीवितनिस्पृहः || ३४ ॥ इति बहुविधवाचां द्वेषरागाश्रितानाम् । प्रकटितनिजचित्तप्रार्थनासंकटानाम् ॥ द्वितयबलजनानां दृष्टनानाक्रियाणाम् | अजनि जनितशंको भावमार्गो विचित्रः || ३५ ॥ चरितजनन कालाऽभ्यस्तरागेतराणाम् । भवमपरिमितानामप्ययं चित्तमार्गः ॥ भवति खलु तथैव व्यक्तमेतं हि लोकम् । स्वचरितरविरेव प्रेरयत्यात्मकार्ये || ३६ ॥ इत्यार्षे रविषेणाचार्यंप्रोक्ते पद्मपुराणे - उभयबलप्रमाणविधानं नाम षट्पंचाशत्तमं पर्व ॥ ५६ ॥
Page #389
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३८०
सप्तपञ्चाशत्तमं पर्व।
अथ सप्तपश्चाशत्तमं पर्व । परसैन्यसमाश्लेषममृष्यंतोऽथ मानवाः । उद्गच्छदर्पसंक्षोभ्या इष्टाः संन मुद्यताः ॥१॥ उद्वेज्य दयिताबाहुपाशं कृच्छ्रेण केचन । संक्षुभ्य सिंहसंकाशा लंकातो निर्ययुर्भटाः ॥ २ ॥ वीरपत्नी प्रियं काचिदालिंग्यैवमभाषत । श्रुतानेकमहायोधं परमाहवविभ्रमं ॥ ३ ॥ संग्रामे संगते पृष्टे यदि नाथागमिष्यसि । दुर्यशस्तदहं प्राणान्मोक्ष्यामि श्रुतिमात्रतः ॥४॥ किंकराणामतः पत्न्यो वीराणामपि गर्विताः । धिक्शब्दं मे प्रदास्यन्ति किं नु कष्टमतः परम् ।।५।। रणप्रत्यागतं धीरमुरोवणविभूषणम् । विशीर्णकवचं प्राप्तं जयलब्धभटस्तवम् ॥ ६॥ द्रक्ष्यामि यदि धन्याहं भवन्तमविकत्थनम् । जिनेन्द्रानर्चयिष्यामि ततो जाम्बूनदाम्बुजैः ॥७॥ आभिमुख्यगतं मृत्युं वरं प्राप्ता महाभटाः । पराङ्मुखा न जीवन्तो धिक्शब्दमलिनीकृताः ॥८॥ स्तनद्वयसमुत्पीडं काचिदालिंग्य मानवम् । जगाद पुनरेवं सा ग्रहीष्यामि जयान्वितम् ॥९॥ भवद्वक्षस्थलस्त्यानरक्तचन्दनचर्चया । परां स्तनद्वयं शोभां मम यास्यति सर्वथा ॥ १० ॥ प्रातिवेश्मिकयोध्यानामपि पत्नी जितप्रियाम् । न सहे कुत एवेश सहिष्ये त्वां विनिर्जितम् ॥११॥
Page #390
--------------------------------------------------------------------------
________________
पद्मपुराणम
३८१
सप्तपश्चाशत्तम पर्व।
काचिज्जगाद ते नाथ हतसंत्रणभूषणम् । पुराणं रूडकं जातं ततो नैवाति शोभसे ॥ १२ ॥ अतो नवव्रणन्यस्तस्तनमंडलसौख्यदम् । द्रक्ष्येऽहं वीरपत्नीभिर्विकाशिमुखपंकजैः ॥ १३ ॥ काचिदूचे यथैतत्ते वदनं चुंबितं मया । यथा वक्षसि संजातं ध्रुविष्यामि व्रणाननम् ॥ १४ ॥ अनतिप्रौढिका काचिद्वधूरभिनवोटिका । संग्रामे प्रोद्यते नाथे प्रौढत्वं समुपागता ॥ १५ ॥ चिराय रक्षितं मानं काचिन्नाथे रणोन्मुखे । तत्याजैकपदे कान्ता कांतसंश्लेषतत्परा ॥ १६ ॥ अवितृप्तभटी काचिद्भर्तृवक्त्रासवं पपौ । तथापि मदनं प्राप्ता रणयोग्यमसिक्षयत् ॥ १७ ॥ काचिदुत्तानितुं भर्तुश्चदनं वनजेक्षणा । नैमिषोज्झितमद्राक्षीत्सुचिरं कृतचुंबना ॥ १८ ॥ काचिद्वक्षस्तटे भर्तुः करजवणमुज्वलम् । भविष्यच्छस्त्रपातस्य सत्यंकारमिवार्पयत् ॥ १९ ॥ इति संजातचेष्टासु दयितासु यथायथम् । भटानामित्यभूदाणी महासंग्रामशालिनाम् ॥२०॥ नरास्ते दयिते श्लाघ्या ये गता रणमस्तकम् । त्यजन्त्यभिमुखा जीवं शत्रूणां लब्धकीर्तयः॥२१॥ उद्भिन्नदन्तिदन्ताग्रदोलादुर्लडितं भटाः । कुर्वन्ति न विना पुण्यैः शत्रुभिर्घोषितस्तवाः ।। २२॥ गजदंताग्रभिन्नस्य कुंभदारुणकारिणः । यत्सुखं नरसिंहस्य तत्कः कथयितुं क्षमः ॥ २३॥ त्रस्तं शरणमायातं दत्तपृष्ठं च्युतायुधम् । परित्यज्य पतिष्यामो दयिते शत्रुमस्तके ॥ २४ ॥
Page #391
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३८२ .
सप्तपञ्चाशत्तम पर्व ।
भवत्या वांछितं कृत्वा प्रत्यागत्य रणाजिरात् । प्रापयिष्ये समाश्लेषं भवन्तीं तोषधारिणीम् २५ एवमादिभिरालापैः परिसान्त्व्य निजप्रियाः । वीरा निर्गन्तुमुधुक्ताः संख्यसौख्यसमुत्सुकाः २६ यियासोः शस्त्रहस्तस्य कंठापितभुजद्वया । काचिद्दोलायनं चक्रे गजेन्द्रस्येव पद्मिनी ॥ २७ ॥ काचित्सन्नाहरुद्धस्य पत्युर्देहस्य संगमम् । अप्राप्य परमं प्राप्ता पीडामंकमपि श्रिता ॥ २८ ॥ अर्द्धबाहुलिकां दृष्ट्वा काचित्कांतस्य वक्षसि । इषारसेन संस्पृष्टा किंचित्कुंचितलोचना ॥ २९ ॥ अर्द्धसन्नाहनामायं मया परिहितः प्रिये । इति पुंशब्दयोगेन पुनस्तोषमुपागता ॥३०॥ ताम्बूलप्रार्थनव्यंगात्क्वचित्प्राप्यप्रियाधरम् । अमुंचत्सुखिनी कृत्वा कृत्वा व्रणविभूषितम् ॥३१॥ काचिन्निवत्यमानापि प्रियेण रणकाक्षिणा । सन्नाहकंठसूत्रस्य बन्धव्याजेन गच्छति ॥३२॥ एकतो दयितादृष्टिरन्यतः तूर्यनिस्वनः । इति हेतुद्वयादोलामारूद भटमानसम् ॥ ३३ ॥ स्त्रीणां परिहरन्तीनां वाष्पपातममंगलम् । सत्यामपि दिदृक्षायां निमपो नाभवत् दृशाम् ॥३४॥ अगृहीत्वैव सन्नाहं केचित्चरितमानसाः । यथालब्धायुधं योधा निर्ययुदेपेशालिनः ॥ ३५॥ रणसंजाततोषेण शरीरे पुष्टिमागते । कस्यचिद्रणसौंडस्य वर्म मातिस्म नो निजम् ॥ ३६॥ श्रुत्वा परचमूतूर्यस्वनं कश्चिद्भटोत्तमः । चिररूद्वैर्ऋणैः रक्तं मुमोचोच्छासविग्रहः ॥ ३७॥
Page #392
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
૨૮૩
सप्तपञ्चाशत्तमं पर्व । पिनद्धं कस्यचिद्वर्म सुदृढं तोषहारिणः । वर्द्धमानं ततःशीघ्रं पुराणं कंटकायितम् ॥ ३८ ॥ विश्रब्धं कस्यचिज्जाया समाधानपरायणा । सारयन्ती मुहुस्तस्थौ शिरस्त्राणं सुभाषिता ॥३९॥ प्रियापरिमलं कश्चिद्दीयमानः स्ववक्षसः। कंटकं प्रति नो चक्रे मनः संग्रामलालसः ॥ ४० ॥ एवं विनिर्गता योधाः कृच्छ्रतः सांवितप्रियाः। आकुलीभूतचित्ताश्च शयनीयेषु ताः स्थिताः॥४१॥ अथाग्रकीर्तिमाध्वीकरसास्वादनलालसौ । द्विरदस्यंदनारूढावसोढौ विरलस्वनौ ॥ ४२ ॥ प्रथमं निर्गतोदात्तप्रयाणे शौर्यशालिनौ । हस्तप्रहस्तनामानौ लंकातो निर्गतौ नृपौ । ४३ ॥ अनापृच्छाऽपि तत्काले स्वामिनो राजते तयोः । दोषोऽपि हि गुणीभावं प्रस्ताव प्रतिपद्यते ४४ मारीचः सिंहजघ्राणः स्वयंभूः शंभुरुत्तमः । पृथुः पृथुबलोपेतश्चन्द्रार्को शुकसारणौ ॥४५॥ गजवीभत्सनामानौ वज्राक्ष्यो वज्रभृद्युतिः । गंभीरो निनदो नको मकरः कुलिशस्वनः ॥४६॥ उग्रनादस्तथा सुंदः निकुंभकुंभशन्दितः । संध्याक्षो विभ्रमः क्रूरो माल्यवान्खरनिखनः ॥४७॥ जंबूमाली शिखावीरो दुद्धषश्च महाबलः । एते केसरिभियुक्तः सामन्ता निययू रथैः ॥४८॥ वज्रोदरोऽथ शक्राभः क्रतान्तो विघटोदरः । महाशनिरवश्चन्द्रनखो मृत्युः सुभीषणः ॥४९॥ कुलिशोदरनामाच धूम्राक्षो मुदितस्तथा । विद्युजिह्वो महामाली कनकः क्रोधनध्वनिः ॥५०॥
Page #393
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३८४
सप्तपञ्चाशत्तम पर्व ।
क्षोभणो धुंधुरुद्धामा डिंडिडिंडिमडंबराः । प्रचंडो डमरश्चंडकुंडहालाहलादयः ॥ ५१ ॥ व्याघ्रयुक्तैरिमैस्तुंगै रथैरुद्भासिताम्बरैः । अहंयवो विनिर्याताः शत्रुविध्वंसबुद्धयः ॥ ५२ ॥ विद्याकौशिकविख्यातिः सर्पबाहुमहाद्युतिः । शंखप्रशंखनामानौ रागो भिन्नांजनप्रभो ॥ ५३ ॥ पुष्पचूडो महारक्तो घटास्त्रः पुष्पखेचरः । अनंगकुसुमः कामः कामावर्त्तस्मरायणौ ॥५४॥ कामाग्निः कामराशिश्च कनकाभः शिलीमुखः । सौम्यवक्त्रो महाकामो हेमगौरादयस्तथा ॥५५।। एतेऽपि वातरंहोभी रथैर्युक्ततुरंगमैः । यथायथं विनिर्जग्मुरालयेभ्योरसदलाः ॥ ५६ ॥ कदंबविटपौ भीमो भीमनादो भयानकः । शाट्टेलक्रीडितः सिंहश्चलांगो विद्युदंबुकः ॥ ५७ ॥ ह्रदनश्चपलचोलश्चलश्चंचलकादयः । गजादिभिरिमैयुक्तैर्निर्ययुर्भास्वरै रथैः ॥ ५८ ॥ कियन्तः कथयिष्यन्ते नाना प्राग्रहराः नराः । अध्यद्धपंचमीकोट्यः कुमाराणां स्मृता बुधैः ५९ विशुद्धराक्षसानूकाः कुमारास्तुल्यविक्रमाः । प्रख्यातयशसः सर्वे विज्ञेया गुणमंडनाः ॥ ६० ॥ आवृतास्ते समुद्युक्तैः कुमारैारविभ्रमाः । बलिनो मेघवाहाद्याः कुमारेन्द्रा विनिर्ययुः ॥ ६१ ॥ अर्ककीर्तिसमो भूत्या दशाननमहाप्रियः । इंद्रजिनिययौ कान्तो जयंत इव धीरधीः ॥ ६२ ॥ विमानमर्कसंकाशं नाम्ना ज्योतिःप्रम महत् । कुंभकर्णः समारूढस्त्रिशलास्त्रो विनिगतः॥ ६३ ॥
Page #394
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३८५
सप्तपश्चाशत्तम पर्व मेरुशृंगप्रतीकाशं लोकत्रितयशब्दितम् । विमानं पुष्पकाभिख्यमारूढः शक्रविक्रमः ॥ ६४ ॥ संछाद्य रोदसी सैन्यै स्वरायुधपाणिभिः । निष्क्रान्तो रावणस्तिग्मकिरणप्रतिमद्युतिः ॥६५॥ स्यंदनैर्वारणैः सिंहैराहैः रुरुभिर्मृगैः । समरैविहगौश्चित्रैः सौरभेयैः क्रमेलकैः ॥ ६६ ॥ ययुभिर्महिषैरन्यैर्जलस्थलसमुद्भवैः । सामंता निर्ययुः शीघ्रं वाहनैर्बहरूपकैः ॥ ६७॥ भामंडलं प्रतिक्रुद्धाः किष्किन्धाधिपति तथा । हिता राक्षसनाशाय निर्ययुः खेचराधिपाः॥६॥ अथ दक्षिणतो दृष्टा भयानकमहास्वनाः । प्रयाणवारणोयुक्ता भल्लूकबद्धमंडलाः ॥ ६९ ॥ बद्धांधतमसा पक्षैद्धा विकृतनिश्वनाः । भ्राम्यन्ति गगने भीमाः कथयन्तो महाक्षयम् ॥७०॥ अन्येऽपि शकुनाः क्रूरं क्रन्दन्तो भयशंसिनः । बभूवुराकुलीभूता भौमा वैहायसास्तथा ।। ७१ ॥ शौर्यातिगर्वसंमूढा विदन्तोऽप्यशुभानिमान् । महासैन्योद्धता योद्धं रक्षोवर्मा विनिर्ययुः ॥७२॥
प्राप्ते काले कर्मणामानुरूप्यादातुं योग्यं तत्फलं निश्चयाप्यम् । . ___ शक्तो रोद्धं नैव शक्रोऽपि लोके वार्तान्येषां केव वाङ्मात्रभाजाम् ।। ७३ ॥ वीरा योद्धं दत्तचित्ता महान्तो वाहारूढाः शस्त्रभाराजिहस्ताः ।
कृत्वावज्ञां वारकाणां समेषां यान्त्यप्युद्ग्राही रवि प्रत्यभीताः ॥ ७४ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे रावणबलनिर्गमनं नाम सप्तपंचाशत्तमं पर्व ।। ५७ ॥ २-२५
Page #395
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३८६
अथाष्टपंचाशत्तमं पर्व |
आस्तृणद्वीक्ष्य तत्सैन्यमुद्वेलमिव सागरम् । नलनीलमरुत्पुत्रजांबवाद्याः सुखेचराः ॥ १ ॥ रामकार्यसमुद्युक्ताः परमोदारचेष्टिताः । महाद्विपयुतैर्दीप्तैः स्यंदनैर्निर्ययुर्वरैः ।। २ ।। सम्मानो जयमित्रश्च चन्द्राभो रतिवर्द्धनः । कुमुदावर्तसंज्ञश्च महेन्द्रो भानुमण्डलः ॥ ३ ॥ अनुद्धरो दृढरथः प्रीतिकंठो महाबलः । समुन्नतबलः सूर्यः ज्योतिः सर्वप्रियो बलः ॥ ४ ॥ सर्वसारथ दुर्बुद्धिः सर्वदः सरभो भरः । अमृष्टो निर्विनष्टश्च संत्रासो विशसूदनः ॥ ५ ॥ नादो वर्वरः पापो लोलपाटन मंडलौ । संग्रामचपलाद्याश्च परमा खेचराधिपाः ।। ६ ।। शार्दूलसंगतैस्तुंगै रथैः परमसुन्दरैः । नानायुधधृताटोपा निर्जग्मुः पृथुतेजसः ॥ ७ ॥ प्रस्तरो हिमवान् भंगः प्रियरूपादयस्तथा । एते द्विपयुतैर्योद्धुं निर्ययुः सुमहारथाः ॥ ८ ॥ दुःप्रेक्षः पूर्णचन्द्रश्च विधिः सागरनिःस्वनः । प्रियविग्रहनामा च स्कन्दचन्दनपादपाः ।। ९ ।। चन्द्रांशुरप्रतीघातो महाभैरवकीर्तनः । दुष्टसिंह कटिः क्रुष्टः समाधिबहुलो हुलः ॥ १० ॥ इन्द्रायुधो गतत्रासः संकटप्राहरादयः । एते हरियुतैस्तूर्ण सामन्ता निर्ययू रथैः ॥ ११ ॥
अष्टपञ्चाशत्तमं पर्व |
Page #396
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३८७
अष्टपञ्चाशत्तमं पर्व |
विद्युत्कर्णो बलः सील : स्वपक्षरचनो घनः । सम्मेदो विचलः सालः कालः क्षितिवर्रोऽगदः १२ विकालो लोलकः कालिगचंडो र्मिरूर्जितः । तरंगस्तिलकः कील: सुषेणस्तरलो बलिः ॥ १३ ॥ भीमो भीमरथो धर्मो मनोहरमुखः सुखः । प्रमत्तो मर्दको मत्तः सारो रत्नजटी शिवः ॥ १४ ॥ दूषण भीषणः कोणः विघटाख्यो विराधितः । मेरू रणखनिःक्षेमः बेलाक्षेपी महाधरः ||१५|| नक्षत्रलब्धसंज्ञश्च संग्रामो विजयो जयः । नक्षत्रमालकः क्षोदः तथातिविजयादयः ॥ १६ ॥ एते वाजियुतैः कान्तैर्मनोरथजवै रथैः । महासैनिकमध्यस्थैरध्यासत रणाजिरम् ॥ १७ ॥ विद्युद्वाहो मरुद्वाहुः सानुर्जलदवाहनः । रवियानः प्रचंडालिरिमेऽपि घनसन्निभैः ॥ १८ ॥ महारथवरैर्नानावाहनोद्भासितांवरैः । युद्धश्रद्धासमायुक्ता दधावुर्मारुतैः समाः ॥ १९ ॥ विमानमुत्तमाकारं नाम्ना रत्नप्रभं महत् । आरूढो यत्नवानस्थात्पद्मपक्षो विभीषणः ॥ २० ॥ युद्धावर्त्तो वसन्तश्च कांतः कौमुदनन्दनः । भूरिः कोलाहलो हेडो भावितः साधुवत्सलः ॥२१॥ अर्द्धचन्द्रो जिनप्रेमा सागरः सागरोपमः । मनोज्ञो जिनसंज्ञश्च तथा जिनमतादयः ।। २२ ।। नानावर्णविमानाग्रभूमिकास्थितमूर्त्तयः । दुर्द्धरा निर्ययुर्योढुं बद्धसन्नाहविग्रहाः ॥ २३ ॥ पद्मनाभः सुमित्राजः सुग्रीवो जनकात्मजः । एते हंसविमानस्था विरेजुर्गगनान्तरे ॥ २४ ॥
Page #397
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
'अष्टपश्चाशत्तम पर्व । महाम्बुदप्रतीकाशा नानायानसमाश्रिताः। लंकाभिमुखमुक्ता गंतु खेचरपार्थिवाः ॥ २५॥ प्रलयलंबितांभोदवृंदनि?षभैरवाः । शंखकोटिस्वनोन्मिश्रास्तूर्याणामुद्ययुः स्वनाः ॥२६॥ भंभाभेर्यो मृदंगाश्च लंपाका धुंधुमंडुकाः । झम्लाम्लातकहक्काश्च हुंकारा दुंदुकाणकाः ॥ २७ ॥ झर्झरा हेकगुंजाश्च काहला दर्दुरादयः । समाहता महानादं मुमुचुः कर्णघूर्णकम् ॥ २८॥ वेणुनादाट्टहासाश्च ताराहलहलारवाः । ययुः सिंहद्विपस्वाना महिषस्यन्दनस्वनाः ॥ २९ ॥ क्रमेलकमहारावा निनादा मृगपक्षिणाम् । उत्तस्थुः पिहिताशेषाः शेषविष्टपनिःस्वनाः ॥३०॥ तयोरन्योन्यमासंगे जाते परमसैन्ययोः । लोकः संशयमारूढः समस्तो जीवितं प्रति ॥ ३१ ॥ क्षोणी क्षोभं परं प्राप्ता विकंपितमहीधरा । प्रशोष गंतुमारब्धः प्रक्षुब्धः क्षारसागरः ॥ ३२ ॥ सदनिर्गतैर्योधैरसहैर्निजवर्गतः । दंतुरीभूतमत्युग्रं बलद्वयमलक्ष्यत ॥ ३३ ॥ चक्रक्रकचकुंतासिगदाशक्तिशिलीमुखैः। भिंडिमालादिभिश्चोग्रं प्रवृत्तं युद्धमेतयोः ॥ ३४॥ आहृयन्तः सुसन्नद्धाः शस्त्रज्वलितबाहवः । समुत्पेतुर्भटाः शूराः परसैन्यं विवक्षवः ॥ ३५ ॥ अतिवेगसमुत्पाताः प्रविष्टाः शात्रवं बलम् । शस्त्रसंचारमार्गार्थमपसश्रुः पुनर्मनाक् ॥ ३६ ॥ लंकानिवासिभिर्योधैरुद्गतैरतिभूरिभिः । सिंहैरिव गजा भंग नीता वानरपक्षिणः ॥ ३७ ॥
Page #398
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
अष्टपञ्चाशत्तमं पर्व।
पुनरन्यै टैः शीघ्रमसीदन्तः समुज्वलाः । रक्षोयोधान्विनिर्जघ्नुर्भासुरा वानरध्वजाः ॥ ३८ ॥ भेद्यमानं बलं दृष्ट्वा राक्षसेन्द्रस्य सर्वतः । स्वामिरागसमाकृष्टौ महाबलसमावृतौ ॥ ३९ ॥ गजध्वजसमालक्ष्यौ गजस्यंदनवर्तिनौ । माभैष्टेति कृतस्वानौ परमोत्कटविग्रहौ ॥ ४० ॥ हस्तप्रहस्तसामंतावुत्थाय सुमहाजवौ । निन्यतुः परमं भंगं बलं वानरलक्ष्मणम् ॥ ४१ ॥ शाखामृगध्वजौ तावत्प्रतापं विभ्रतो परम् । कोडवारणसंवृत्तवाहव्यूढमहारथौ ॥ ४२ ॥ शौर्यगर्वाविवायुक्तशरीरौ परमद्युती । नलनीलौ परिक्रुद्धौ भीषणौ योद्धुमुद्यतौ ॥ ४३ ॥ ततो बहुविधैः शस्त्रैश्चिरं जाते महाहवे । क्रमाप्तसाधुनिस्वाने निपतद्भटसंकटे ॥ ४४ ॥ नलेनोत्पत्य हस्तो वा विहलो विरथीकृतः । प्रहस्त इव नीलेन कृतश्च गतजीवितः ॥ ४५ ॥ तावालोक्य ततो राजन् विपर्यस्तौ महीतले । विनायका बभूवैतद्वाहिनीयं परान्मुखा ॥४६ ॥
विभर्ति तावदृढनिश्चयं जनः प्रभोर्मुखं पश्यति यावदुनतम् ।
गतैर्विनाशं स्वपतो विशीर्यते यथारचक्रं परिशीर्णतुम्बकम् ॥ ४७॥ सुनिश्चतानामपि सन्नराणां विना प्रधानेन न कार्ययोगः । शिरस्यपेते हि शरीरबन्धः प्रपद्यते सर्वत एव नाशम् ॥ ४८ ॥
Page #399
--------------------------------------------------------------------------
________________
३९
पद्मपुराणम् ।
एकोनषष्टितम पर्व । प्रधानसंबन्धमिदं हि सर्व जगद्यथेष्टं फलमभ्युपैति ।
राहूपसृष्टस्य रवेविनाशं प्रयाति मन्दो निकरः कराणाम् ॥ ४९ ॥ इत्याचे श्री रविषेणाचार्यप्रोक्ते पद्मपुराणे हस्तप्रहस्तवधाभिधानं नामाष्टपंचाशत्तमं पर्व ॥ ५८ ॥
अथैकोनषष्टितम पर्व । उवाच श्रेणिकोऽवं विद्याविधिविशारदौ । हस्तप्रहस्तसामन्तौ जितपूर्वी न केनचित् ॥ १ ॥ महदाश्चर्यमेतन्मे ताभ्यां तौ निहतौ कथम् । अत्र मे कारणं नाथ गणधृग्वक्तुमर्हसि ।। २ ॥ ततो गणधरोऽवोचच्छृणु तत्वविशारदः । राजन् कर्माभिनुन्नानां जन्तूनां गतिरीदृशी ॥३॥ पूर्वकर्मानुभावेन स्थितिर्दुः कृतिनामियम् । असौ मारयिता तस्य यो येन निहितः पुरा ॥४॥ असौ मोचयिता तस्य बंधनव्यसनादिषु । यो येन मोचिता पूर्वमनर्थे पतितो नरः ॥५॥ आसल्लौकिकमर्यादाः प्रातिवेश्मिकवासिनः । निस्वाः कुंटुबिनः स्थाने कुशस्थलकनामनि ॥६॥
Page #400
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९१
एकोनषष्टितम पर्व । इंधकः पल्लवश्चैव तत्रैकोदरसंभवौ । पुत्रादरपरिक्लिष्टौ विद्वौ लांगलकर्मकौ ॥ ७ ॥ सानुकंपो स्वभावेन साधुनिन्दापराङ्मुखौ । जैनमित्रपरिवंगाद्भिक्षादानादिसेविनौ ॥८॥ द्वितीयं निस्वयुगलं प्रतिवेश्मोषितं तयोः । स्वभावनिदेयं क्रूरं लौकिकोन्मार्गमोहितम् ॥ ९ ॥ बंधने राजदानस्य संजाते कलहे सति । ताभ्यामत्यन्तरौद्राभ्यां हताविधकपल्लचौ ॥ १० ॥ साधुदानाद्धरिक्षेत्रे जातौ सद्भोगभोजिनौ । पल्यद्वयक्षये जातौ देवलोकनिवेशिनौ ॥ ११ ॥ अधर्मपरिणामेण क्रूरौ तु प्राप्तपंचतौ । शशौ काले जरारण्ये जातौ दुःखातिसंकटे ॥ १२ ॥ मिथ्यादर्शनयुक्तानां साधुनिन्दनकारिणाम् । प्राणिनां पापकूटानां भवत्येवेदृशी गतिः ॥१३॥ ततस्तियक्षु सुचिरं भ्रांत्वा विविधयोनिषु । कृच्छ्रान्मनुष्यतां प्राप्तौ तापसत्वमुपागतौ ॥ १४ ॥ बृहज्जटौ वृहत्कायौ फलपर्णादिभोजिनौ । तपोभिः कर्शितौ तीनैः कुज्ञाने द्वौ मृतौ च तौ ॥१५॥ क्रमादरिंजये जातावश्विन्याः कुक्षिसंभवौ । पुत्रौ बह्रिकुमारस्य विजयार्द्धस्य दक्षिणे ॥ १६ ॥ आशुकारासुराकाराविमौ जगति विश्रुतौ । हस्तप्रहस्तनामानौ सचिवौ रक्षसां विभोः ॥ १७ ॥ पूर्वी तु प्रच्युतौ नाकात्सुमनुष्यत्वमागतौ । गृहाश्रमे तपः कृत्वा पुनर्जातौ सुरोत्तमौ ॥ १८ ॥ पुण्यक्षयात्परिभ्रष्टौ स्वर्गादिधकपल्लवौ । किष्कुसंज्ञे पुरे जातो नलनीलौ महाबलौ ॥ १९ ॥
Page #401
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९२
एकोनषष्टितमं पर्व।
यत्तद्धस्तप्रहस्ताभ्यां नलनीलौ भवांतरे । निहतौ फलमेतस्य परावृत्य तदागतम् ॥ २० ॥ हतवान् हन्यते पूर्व पालकः पाल्यतेऽधुना । उदासीनमुदासीने जायते प्राणधारिणाम् ॥ २१ ॥ यं वीक्ष्य जायते कोपो दृष्टकारणवर्जितः । निःसंदिग्धं परिज्ञेयः स रिपुः पारलौकिकः ॥ २२ ॥ यं वीक्ष्य जायते चित्तं प्रह्लादि सह चक्षुषाम् । असंदिग्धं सुविज्ञेयो मित्रमन्यत्र जन्मनि ॥२३॥ क्षुब्धोर्मिणि जले सिन्धोः शीर्णे पोतं झपादयः । स्थले म्लेच्छाश्च वाधन्ते यत्तदुःकृतजं फलम् २४ मत्तैर्गिरिनिभैनागैर्योधैबहुविधायुधैः । सुवेगैर्वाजिभिदृप्तैर्भूत्यैश्च कवचावृतैः ॥ २५ ॥ विग्रहेऽविग्रहे वापि निःप्रमादस्य संततम् । जन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते ॥ २६ ॥ निरस्तमपि नियतं यत्र यत्र स्थिरं परम् । तपोदानानि रक्ष्यन्ति न देवा न च बान्धवाः ॥२७॥ दृश्यते बन्धुमध्यस्थः पित्राप्यालिंगितो धनी । म्रियमाणोऽतिशूरश्च कोऽन्यः शक्तोऽभिरक्षितम् ।। पात्रदानैः व्रतैः शीलैः सम्यक्त्वपरितोषितैः । विग्रहेविग्रहे वापि रक्ष्यते रक्षितैनरः ॥ २९ ॥ दयादानादिना येन धर्मो नोपार्जितः पुरः । जीवितं चेष्यते दीर्घ वांच्छा तस्यातिनिःफला ३० • न विनश्यन्ति कर्माणि जनानां तपसा विना ।
इति ज्ञात्वा क्षमा कार्या विपश्चिद्भिररिष्वपि ॥ ३१ ॥
Page #402
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९३
षष्टितम पर्व।
एष ममोपकरोति सुचेताः दुष्टतरोऽपकरोति ममायं ।
बुद्धिरियं निपुणा न जनानां कारणमत्र निजार्जितकर्म ॥ ३२ ॥ इत्यधिगम्य विचक्षणमुख्यैर्वाह्यसुखासुखगौणनिमित्तैः।
रागतरं कलुषं च निमित्तं कृत्यमपोज्झितकुत्सितचेष्टैः ॥ ३३ ॥ भूविवरेषु निपातमुपैति ग्रावणि सज्जति गच्छति सर्पम् ।
संतमसा पिहिते पथि नेत्री नो रविणा जनितप्रकटत्वे ॥ ३४ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे हस्तप्रहस्तनलनीलपूर्वभवानुकीर्तनं नामैकोनषष्टितमं पर्व ॥ ५९॥
षष्टितमं पर्व। हस्तप्रहस्तसद्वीरौ विज्ञाय निहतौ ततः । अन्येचुरुद्धरक्रोधा बहवो यो मुद्यताः ॥ १॥ मारीचः सिंहजघनः स्वयंभुः शंभुरूर्जितः । शुकसारणचन्द्रार्कजगवीभत्सनिःस्वनाः ॥२॥ ज्वरोग्रनक्रमकरा वज्राक्षो घातिनिष्ठुराः । गंभीरनिनदाद्याश्च सन्नद्धरमसान्विताः॥३॥
Page #403
--------------------------------------------------------------------------
________________
षष्टितमं पर्व |
सिंहसंबद्धवाहोढस्यंदनार्पितमूर्तयः । क्षोभयन्तः परिप्राप्ताः कपिकेतुवरूथिनीम् ॥ ४ ॥ तान्समापततो दृष्ट्वा राक्षसान्पार्थिवान्परान् । इमे वानरवंशाग्राः पार्थिवा योद्धुमुद्यताः ॥ ५ ॥ मदनांकुर संतापप्रस्थिताक्रोशनंदनाः । दुरितानघपुष्पास्त्रविघ्नप्रीतिंकरादयः ॥ ६ ॥ अन्योन्याहूतमेतेषामभवत्परमं रणम् । कुर्वद्भिर्जटिलं व्योम शस्त्रैर्बहुविधैर्धनम् ॥ ७ ॥ अभिलष्यति संताप मारीचं समरे तदा । प्रथितः सिंहजघनमुद्यानं विघ्नसंज्ञकः ॥ ८ ॥ आक्रोशः सारणं पापः शुकाक्षं नन्दनो ज्वरम् । तेषां स्पर्द्धवतामेवं युद्धं जातं नियंत्रितम् ||९|| ततः क्लिष्टेन संतापो मारीचेन निपातितः । नन्दनेन हतः कृच्छ्राज्ज्वरः कुन्तेन वक्षसि ॥ १० ॥ प्रथितः सिंहकटिना विघ्नश्रोद्दामकीर्त्तिना । हतोऽथ युद्धसंहारः सवितास्तं समागमत् ॥ ११ ॥ श्रुत्वा स्वं स्वं हतं नाथं निमग्ना शोकसागरे । स्त्रियो विभावरीमेतामनन्तामिव मेनिरे ।। १२ ।। अन्येद्युः संततक्रोधाः सामन्ता योद्धुमुद्यताः । वज्राक्षः क्षपितारिव मृगेन्द्रदमनो विधि ः ||१३|| शंभुः स्वयंभुश्चन्द्रार्कस्तथा वज्रोदरादयः । राक्षसाधिपवर्गीयास्तेभ्योऽन्ये वानरध्वजाः || १४ || जन्मान्तरार्जितक्रोधकर्मबन्धोदयेन ते । योद्धुं परममासक्ता निजजीवितनिस्पृहाः ॥ १५ ॥ क्षपितारिः समाहूतः संक्रोधेन महारुषा । मृगारिदमनो बलिना संहूतो बाहुशालिना ॥ १६ ॥
पद्मपुराणम् ।
३९४
Page #404
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९५
षष्टितम पर्व । विधिर्वितापिनाऽन्योन्यमेवं जाते महाहवे । भटेष्वज्ञातसंज्ञेषु निपतत्सूपलेष्विव ॥ १७॥ शार्दूलस्ताडितः पूर्व वज्रोदरमताडयत् । सक्रोधं सुचिरं युद्धं क्षपितारिरमारयत् ॥ १८ ॥ विशालद्युतिनामा च शंभुना विनिपातितः । मृत्यु स्वयंभुवा नीतो विजयो यष्टिताडितः ॥१९॥ वितापिविधिना ध्वस्तो गदाघातेन कृच्छ्रतः । सामन्तैरिति हन्यन्ते सामन्ताः शतशस्तदा ॥२०॥ अवसीदत्ततो दृष्ट्वा स्वं किष्किन्धपतिर्बलम् । परमक्रोधसंभारो यावत्संन्न मुद्यतः ॥ २१ ॥ अंजनातनयस्तावत्तत्स्वसैन्येन युग्महीम् । वारणोढं रथं हेममारूढो योद्धुमुद्ययौ ॥ २२ ॥ रक्षःसामंतसंघातो दृष्दैव पवनात्मजम् । गवामिव गणो भ्रान्तस्त्रस्तः केशरिदर्शनात् ॥ २३ ॥ ऊचुश्च राक्षसाः सोयं हनूमान् वानरध्वजः । अद्यैव विधवा योषाः परं वहीः करिष्यति ॥२४॥ माली तस्साग्रतो भूतो युद्धार्थी राक्षसोत्तमः । समुद्भुतत्य शरं तस्य पुरो वातिरजायत ॥ २५ ॥ तयोरभून्महाद्धं शरैराकणेसंहितैः । उपात्तसाधुनिस्वान क्रमेण परमोद्धतम् ॥ २६ ॥ सचिवाः सचिवैः साकं रथिनो रथिभिस्तथा । सादिनो सादिभिः सत्रा लग्ना युक्तरणोद्धताः॥२७॥ मालिनं नष्टमालोक्य शक्त्या पवनजन्मनः । वज्रोदरोऽभवत्तस्य पुरः परमविक्रमः ।। २८ ।। चिरं कृतरणोऽथायं वातिना विरथीकृतः । रथमन्यं समारुह्य मारुतिं समधावत ॥ २९ ॥
Page #405
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९६
षष्टितमं पर्व |
कृत्वा तं विरथं भूयो मारुतिः परमोदयः । उपर्यवाहयत्तस्य रथं मारुतरंहसम् || ३० ॥ स्यन्दनोद्वाहिना गांहिचूर्णितः स रणाजिरे । अमुंचत हुतं प्राणान् हुंकारेणापि वर्जितः ॥ ३१ ॥ ततोऽस्याभिमुखं तस्थौ स्वपक्षवधकोपितः । जंबूमालीति विख्यातो रावणस्य सुतो वली ॥३२॥ असावुत्थितमात्रश्च ध्वजं वानरलांच्छनम् । चिच्छेद वायुपुत्रस्य चन्द्रार्द्धसदृशेषुणा ॥ ३३ ॥ केतुकल्पनहृष्टेन तस्य मारुतिना धनुः । कवचं च ततो नीतं पुराणतृणशीर्णताम् ॥ ३४ ॥ ततस्तनूदरीसूनुर्वध्वान्यं कवचं दृढम् । अताडयन्मरुत्सूनुं तीक्ष्णं वक्षसि सायकैः ॥ ३५ ॥ बालनीलोत्पलम्लाननालस्पर्शसमुद्भवैः । असेवत शतैः सौख्यं धरणीधरधीरधीः ॥ ३६ ॥ अथास्य वायुपुत्रेण रथयुक्तं महोद्धतम् । मुक्तं सिंहशतं षष्टीचन्द्रवक्त्रेण पत्रिणा ॥ दंष्ट्राकरालवदनैः स्फुरल्लोहितलोचनैः । तैरुत्पत्य निजं सैन्यं सकलं विडलीकृतम् ॥ महाकल्लोलसंकाशास्तस्य सैन्यार्णवस्य ते । क्रूरनक्रसमाना वा जाताः प्रबलमूर्तयः || ३९ ॥ चण्डसौदामिनीदंडमण्डलाकारहारिणः । सैन्यमेघसमूहं ते परमं क्षोभमानयन् ॥ ४० ॥ रणसंसारचक्रेऽसौ सैन्यलोकः समंततः । सिंहकर्मभिरत्यर्थमहादुखशीकृतः || ४१ || बाजिनो वारणा मत्ता रथारोहाश्च विहलाः । रणव्यापारनिर्मुक्तार्नेशुर्दश दिशस्ततः ॥ ४२ ॥
३७ ॥
३८ ॥
Page #406
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९७
षष्टितम पर्व। ततो नष्टेषु सर्वेषु सामन्तेषु यथायथम् । अपश्यद्रावणं वातिरेव स्थितमग्रतः॥४३॥ आरुह्य च रथं सिंहैर्युक्तं परमभासुरैः । अधावद्वाणमुद्धृत्य विंशत्यर्द्धमुखं प्रति ॥ ४४ ॥ दशास्यस्त्रासितं वीक्ष्य निजं केसरिभिर्बलम् । समीपं चांजनासूनुं कृतान्तमिव दुद्धरम् ॥ ४५ ॥ चके योद्धभभिप्रायं यावत्सनाहतत्परः । तावन्महोदरोऽस्यान्ते सक्रोधेन समुद्ययौ ॥ ४६॥ महोदरस्य च वातेश्च वत्तेते यावदाहवः । तावत्ते हरयः प्राज्ञेगहीताः स्वामिभिः शनैः ॥४७॥ वशीभूतेषु सिंहेषु जाता सन्तो महारुषः । वायुपुत्रं समुत्पेतुः समस्ता राक्षसध्वजाः ॥४८॥ तथाप्यनिलसूनोश्च मुंचतः शरसंहतीः । दधार मंडलीभूतान् पतत्रिसचिवैः कृती ॥४९॥ ते शिलीमुखसंघाताः प्रहितास्तस्य राक्षसैः। संयतस्य यथाऽऽक्रोशा नाभवन्कंपकारिणः । ५०॥ रक्षोभिर्वेष्टितं दृष्टा तैस्तमतिभूरिभिः । इमे वानरवर्गीणाः समराय समुधुयुः ॥५१॥ सुषेणो नलनीलौ च प्रीतिंकरो विराधितः । संत्राहको हरिकोटिः सूर्यज्योतिर्महाबलः ॥ ५२ ॥ जांबूनदसुताद्याश्च सिंहेभाश्वयुतैः रथैः । कृच्छ्राद्रावणसैन्यस्य निवारयितुमुद्यताः॥५३ ॥ तैः समापतितैः सैन्यं दशग्रीवस्य सर्वतः । परीषहैरिव ध्वस्तं महातुच्छधृतं व्रतम् ।। ५४ ॥ आत्मीयानाकुलान् दृष्ट्वा युयुत्सुं च दशाननम् । आदित्यश्रवणो योद्धमुद्गतो सुमहाबलः ॥५५॥
Page #407
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
• पर्वः ।
दृष्ट्रा तमुतं वीरं ज्वलंतंरणतेजसा । सुषेणादीनिमे प्रापुः साधारयितुमाकुलाः ॥ ५६ ॥ इंद्ररश्मिर्जयस्कन्दश्चन्द्राभो रतिवर्द्धनः । अंगोऽगदोऽथ संमेदः कुमुदः शशिमण्डलः ॥ ५७ ॥ बलिश्रंडतरंगश्च सारो रत्नजटी जयः । वेलाक्षेपी वसन्तश्च तथा कोलाहलादयः ॥ ५८ ॥ ततस्ते बहुलत्वेन प्रवीराः पद्मपक्षिणः | लग्ना महाहवं कर्तुं शत्रूणामतिदुःसहम् ॥ ५९ ॥ क्रुद्धेन कुंभकर्णेन ततस्ते रणकारिणः । विद्यया स्वापिताः सर्वे दर्शनावरणी यथा ॥ ६० ॥ निद्राघूर्णितनेत्राणां तेषां शस्त्रावसंगिनाम् । करेभ्यः सायकाः पेतुः शिथिलेभ्यः समंततः ।। ६.१ ।। निद्राविद्राणसंग्रामानेतानव्यक्तचेतनान् । दृष्ट्राऽचत सुग्रीवो विद्यां द्राक्प्रतिबोधिनीम् ॥ ६२ ॥ प्रतिबुद्धास्तया तेऽथ सुतरां जाततेजसा । हनूमदादयो योद्धुं प्रवृत्ताः संकुलं परम् ॥ ६३ ॥ शाखा केसरिचिह्नानां बलमत्यर्थपुष्कलं । छत्रासिपत्रसंकीर्ण मच्छिन्नरणलालसं ॥ ६४ ॥ स्पर्द्धमानं समालोक्य क्षुब्धसागरसन्निभम् । अवस्थां च स वाहिन्याः परिप्राप्तामसुन्दरीम् ६५ उत्सहे रावणो योद्धुं प्रणम्य च तमिन्द्रजित् । कृतांजलिरिदं वाक्यमभाषत महाद्युतिः ॥ ६६ ॥ तात तात न ते युक्तं संप्राप्तं मयि तिष्ठति । निष्फलत्वं हि मे जन्म सत्येवं प्रतिपद्यते ॥ ६७ ॥ नखच्छेद्ये तृणे किं वा परशो रुचिता गतिः । ततो भव सुविधः करोम्येष तवेप्सितम् || ६८ ॥
३९८
Page #408
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३९९
षष्टितमं पर्व |
इत्युक्त्वा मुदितोऽत्यन्तमारुह्य गिरिसन्निभम् । त्रैलोक्यकंटकाभिख्यं गजेन्द्रं परमं प्रियः ॥ ६९ ॥ गृहीतादरसर्वस्वो महासचिवसंगतः । ऋद्धथाखंडल संकाशः प्रवीरो योद्धुमुद्यतः ॥ ७० ॥ कपिध्वजवलं तेन विविधायुधसंकटम् । ग्रस्तमस्थितमात्रेण महावीर्येण मानिना ॥ ७१ ॥ किष्किन्धाधिपतेः सैन्ये न सोऽस्ति कपिकेतनः । यो न शक्रजिता विद्धः शरैराकर्णसंहितैः ७२ किमयं शक्रजिन्नायं शक्रो वह्निरियं नु किम् । उतायमपरो भानुरिति वाचः समुद्ययुः ॥ ७३ ॥ ग्रस्यमानं निजं सैन्यं वीक्ष्य शक्रजिता ततः । सुग्रीवः स्वयमुद्यातः प्रभामण्डल एव च ॥७४॥ तद्भटानामभूद्युद्धमन्योन्यादानसंकुलम् | शस्त्रांधकारिताकाशमनपेक्षितजीवितम् ॥ ७५ ॥ अश्वैरश्वैः समं लग्नाः नागा नागै रथा रथैः । निजनाथानुरागेण महोत्साहभटा भटैः ॥ ७६ ॥ जगादेन्द्रजितः कुद्धः किष्किंधेशं पुरः स्थितं । अपूर्वशस्त्रभूतेन स्वरेण गगनस्पृशा ।। ७७ ।। दशास्यशासनं त्यक्त्वा शाखामृगपशो त्वया । काधुना गम्यते पाप मयि कोपमुपागते ॥ ७८ ॥ इंदीवरनिनाद्य सायकेन तवामुना । शिरश्छिन संरक्षां कुरुतां क्षितिगोचरौ ॥ ७९ ॥ किष्किधेशस्ततोऽवोचत्किमेभिर्गर्जितैर्मुधा । मानशृङ्गमिदम्भनं तत्तु पश्य मयाधुना ॥ ८० ॥ इत्युक्ते कोपसंभारं वहनिद्रजितोद्भुतं । चापमास्फायन्नस्य समीपत्वमुपागतः ॥ ८१ ॥
Page #409
--------------------------------------------------------------------------
________________
षष्टितमं पर्व |
शशिमंडलसंकाशछत्रछायानुसेवितः । मुमोच शरसंघातं किष्किंधाधिपतिं प्रति ॥ ८२ ॥ सोऽप्याकर्णसमाकृष्यन्वाणान्नादोपलक्षितान् । निजरक्षमहारक्षश्चिक्षेपेन्द्रजितं प्रति ॥ ८३ ॥ तेन वाणसमूहेन संततेन निरंतरम् । जातं नभस्तलं सर्वं मूर्तियुक्तमिवापरम् ॥ ८४ ॥ मेघवाहनवीरेण प्रभामंडलसुन्दरः । आहूतो वज्रनकश्च विराधितमहीभृता ।। ८५ । विराधितनरेन्द्रेण वज्रनक्रनरोत्तमः । राजवक्षसि चक्रेण भासुरेणाभिपातितः ॥ ८६ ॥ ताडितो वज्रनक्रेण सोऽपि चक्रेण वक्षसि । विना हि प्रतिदानेन महती जायते त्रपा ॥ ८७ ॥ चक्रसन्नाहं निष्पेष्य जन्मवह्निकणोत्करैः । चचदुल्कास्फुलिंगौघपिंगतां गगनं गतं ॥ ८८ ॥ लंकानाथस्य पुत्रेण निरस्त्रः सूर्यनन्दनः । कृतः संग्रामसौंडेन संग्रामादनिवर्तकः ॥ ८९ ॥ तेनापि तस्य वज्रेण सर्वशस्त्रं निराकृतम् । पुण्यानुकूलितानां हि नैरंतर्य न जायते ॥ ९० ॥ अवतीर्य ततः क्रुद्धो नागादिन्द्रजितो द्रुतम् । सिंहस्यन्दनमारुह्य पिंजररीकृत पुष्करम् ॥ ९१ ॥ समाहितमतिर्नानाविद्यास्त्रगतिपंडित: । योद्धुमभ्युद्यतो विभ्रद्रसन्नवमिवाहवे ।। ९२ ।। अस्त्रं घनौघनिर्घोषं संप्रयुज्य सवारुणम् । दिशा किष्किंधराजस्य चकारालोकवर्जिता ॥ ९३ ॥ तेनापि पवनास्त्रेण कृतछत्रध्वजादिना । तदस्त्रं वारुणं कापि नीतं तूलोत्करोपमम् ॥ ९४ ॥
पद्मपुराणम् ।
४००
Page #410
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४०१
षष्टितम पर्व । धनवाहनवीरोऽपि प्रभामंडलभूभृतः । आग्नेयास्त्रनियोगेन चकार धनुरिंधनम् ॥ ९५ ॥ तस्य स्फुलिंगसंसर्गादन्येषामपि चापिनाम् । धूमोद्गारानमुंचंत धनूंषि भयवीक्षितं ॥ ९६ ॥ नितान्तबहुयोद्धानां जीवितग्रसनादिव । प्राप्तानां परमाजीणं धनुषां ते तदाभवन् ॥ ९७ ॥ वारुणेन ततोऽस्त्रेण त्वरितं जनकात्मजः । आग्नेयास्त्रं निराचके स्वचके कृतपालनः ॥ ९८ ॥ ततो मन्दोदरीसूनुश्चक्रे तं रथवर्जितम् । तथाविधमहासत्वमाकुलत्वविवर्जितम् ॥ ९९ ॥ प्रयोगकुशलश्चारुमत्रं तामसमक्षिपत् । तेनान्धकारितं सैन्यं सर्व जनकजन्मनः ॥१०॥ स नो जनो द्विषो न मा नात्मीयं न च शात्रवं । अंधध्वान्तपरिच्छन्नो मूच्छामिव समागतः१०१ अन्धीभूतो दशास्यस्य सुतेन जनकात्मजः । विमुक्तविषधृमौषैः वेष्टितो नागसायकैः ॥ १०२॥ सर्वांगे विस्फुरद्भोगभासुरैश्चन्दद्रुमः । यथा तथायं तैयुक्तः पपात वसुधातले ॥१०३ ॥ एवमिन्द्रजितेनापि कृता किष्किन्धभूभृतः । अवस्थाध्यांतनागास्त्रद्वयव्यापारकारिणा ॥१०४॥ ततो विभीषणो विद्वान् विद्यास्त्ररणवस्तुनि । कृत्वा करपुटं मूर्षि बभाषे पद्मलक्ष्मणौ ॥ १०५ ॥ पद्म पद्म महावाहो वीर लक्ष्मण लक्ष्मण । एताः पश्य दिशश्छन्नाः शरैरिन्द्रजितेरितैः ॥१०६॥ वियतलं धरित्री च तस्य वाणैर्निरन्तरैः । उत्पातभूतनागाभैरातेनेऽत्यन्तदुःखदैः॥१०७ ।।
Page #411
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४०२
षष्टितम पर्व। कृतौ सुग्रीववैदेही निरस्तौ नागसायकैः । बद्धौ निपातितौ भूमौ मयनासुतनिःसृतैः ॥१०८॥ उदारे विजिते देवे श्रीभामंडलपण्डिते । वीरे सुग्रीवराजे च बहुविद्याधराधिपे ॥ १०९ ॥ संघातमृत्युमस्माकमासनं विद्धि राघव । एतौ हि नायकावुग्रावस्मत्पक्षस्य केवलौ ॥११०॥ एतामनायकीभूतां विद्याधरवरूथिनीम् । पलायनोद्यतां पश्य समाश्रित्य दिशो दश ॥ १११॥ आदित्यश्रवणेनासौ पश्य मारुतनन्दनः । विजित्य समुहायुद्धे कराभ्यां बद्धविग्रहः ॥ ११२ ॥ शरजर्जरितच्छत्रकेतुकार्मुककंकटः । गृहीतः प्रसमं वीरः प्लवंगध्वजपुंगवः ॥ ११३॥ यावत्सुग्रीवभाचक्रौ पतितौ धरणीतले । न संभावयते क्षिप्रं रावणी रणकोविदः ॥ ११४ ॥ तावदेतौ स्वयं गत्वा निश्चेटावानयाम्यहम् । त्वं साधारय निर्नाथामिमां खेचरवाहिनीम् ॥११५॥ यावदेवमसौ पद्म लक्ष्मणं चाभिभाषते । सुतारातनयस्तावद्गत्वा स्वैरमलक्षितः ॥ ११६ ॥ अंबरं भानुकर्णस्य परिघानममुंचत । हीभाराकुलितो जातः क्षरद्धरणविह्वलः ॥११७ ॥ यावद्वास:समाधानपरोऽसौ राक्षसोऽभवत् । भुजपाशोदरादस्य निःसृतस्तावदानिलिः ॥ ११८॥ नवो बद्धो यथा पक्षी निर्गतः पंजरोदरात् । आसीत्सुचकितो वातिः प्रत्युग्रद्युतिसंगतः ॥११९॥ ततो मुदितसंप्रीतौ विमानशिखरस्थितौ । हनूमदंगदौ वीरौ रेजतुः सुरसन्निभौ ॥ १२० ॥
Page #412
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४०३
षष्टितम पर्व।
ताभ्यामंगकुमारेण चन्द्रोदरसुतेन च । समं लक्ष्मीधरः सेनां समाश्वासयितुं स्थितः ॥१२१॥ मन्दोदरीसुतं तावदभियाय विभीषणः । स पितृव्यं समालोक्य चिंतामेतामुपागतः ॥ १२२ ।। तातस्यास्य च को भेदो न्यायो यदि निरीक्ष्यते । ततोऽभिमुखमेतस्य नावस्थातुं प्रशस्यते १२३ नागपाशैरिमौ वद्धौ मृत्युं जातौ विशंसयम् । एतावचेह कर्तव्यं युक्तं तदवसर्पणम् ।। १२४ ॥ इंति संचिंत्य निर्याताविन्द्रजिन्मेघवाहनौ । गहनाहवमेदिन्याः कृतार्थत्वाभिमानिनौ ॥ १२५॥ अन्तौ सेविते ताभ्यां संभ्रान्तात्मा विभीषणः । त्रिशूलहेतिरामुक्तकंकटस्तरलेक्षणः ॥ १२६ ॥ उत्तीय स्वारथाद्वीरस्तयोनिकंपदेहयोः। अवस्थान्तरमद्राक्षीनागसायकनिर्मितम् ॥ १२७॥ ततो लक्ष्मीधरोऽवोचत्पद्मनाभं विचक्षणः । श्रूयतां नाथ यत्रेमौ महाविद्याधराधिपौ ॥ १२८ ।। अत्युर्जितौ महासैन्यौ महाशक्तिसमन्वितौ । श्रीभामंडलसुग्रीवौ नीतावस्त्रविमुक्तताम् ॥ १२९ ॥ रावणस्य कुमाराभ्यां स्फूतावुरुमागणैः । तत्र त्वया मया वापि साध्यते किं दशाननः ॥१३०॥ ततः पुण्योदयात्पद्मः स्मृत्वा लक्ष्मणमब्रवीत् । तदा स्मर वरं लब्धं योग्युपद्रवनाशने ॥ १३१ ॥ महालोचनदेवस्य तदभिध्यानमात्रतः। सुखावस्थस्य सहसा सिंहासनमकंपत ॥ १३२ ॥ आलोक्यावधिनेत्रेण ततो विज्ञाय संभ्रमी । विद्याभ्यां प्राहिणोद्युक्तं चिन्तावेगं निजं सुरम् १३३
Page #413
--------------------------------------------------------------------------
________________
४०४
पद्मपुराणम्।
षष्टितम पर्व । गत्वा कथितःक्षेमः संदेशः सादर सुरः । ताभ्यामुढे ददौ विद्ये परिवारसमन्विते ॥ १३४ ॥ तयोः पद्मावदातस्य यानमर्पयदद्भुतम् । समुद्योतितदिक्चक्रं सौमित्राय च गारुडम् ॥ १३५ ॥ विद्येशं प्राप्य संमान्य धीरौ चित्तगतिं मुदा । पृष्टवातौ जिनेन्द्राणां पूजां तौ चक्रतुः परम् १३६ परं साधुप्रसादं च प्रस्तावे संगतोदयम् । सशंसतुर्मुदोदारगुणग्रहणतत्परौ ॥ १३७ ॥ आदत्तां च सुरास्त्राणि भासुराणि सहस्रशः । वारुणाग्निमरुत्सृष्टिप्रभृतीनि सुविभ्रमौ ॥ १३८॥ चंद्रादित्यसमे छत्रे चारुचामरमंडिते । रत्नानि च प्रदत्तानि पिहितानि निजौजसा ॥ १३९ ॥ गदाप्रहरणं विद्युद्वक्त्रा लक्ष्मीधरं श्रिता । हलं समुसलं पद्मं दैत्यानां भयकारणम् ॥ १४०॥ माहेमानं परं प्राप्य ताभ्यां संमदसंगतः। आशी शतानि दत्वासौ गतो देवस्त्रिविष्टपम् ॥१४॥ धर्मस्येतद्विधियुतकृतस्यानवयस्य धीरे-ज्ञेयं स्तुत्यं फलमनुपम युक्तकालोपजातम् ॥ यत्सप्राप्य प्रमदकलिताः दूरमुक्तोपसर्गाः । संजायन्ते स्वपरकुशलं कर्तुमुद्भूतवीर्याः ॥ १४२ ॥ आस्तां तावन्मनुजजनितं संपदः कांक्षितानां । यच्छन्तीष्टादधिकमतुलं वस्तु नाकश्रितोऽपि ॥ तस्मात्पुण्यं कुरुत सततं हे जनाः सौख्यकांक्षाः । येनाने रविसमरुचः प्राप्नुताश्चर्ययोगम् १४३
इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे विद्यालाभो नाम षष्टितमं पर्वः ॥ ६० ॥
Page #414
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४०५
एकषष्टितम पर्व। अथैकषष्टितमं पर्व । एतस्मिन्नन्तरे दिव्यकवचच्छन्नविग्रहौ । लक्ष्मीश्रीवत्सलक्ष्माणौ तेजोमंडलमध्यगौ ॥ १ ॥ नागारिवाहनारूढी सकेतौ पद्मलक्ष्मणौ । सैन्यसागरमध्यस्थौ सैंहगारुडकेतनौ ॥२॥ परपक्षक्षयं कर्तुमुद्यतौ परमेश्वरौ । संग्रामधरणीमध्यं तेन संश्रतुरुत्कटौ ॥३॥ अग्रतस्त्वरितो जातः सौमित्रिमित्रवत्सलः । दिव्यातपत्रविक्षिप्तदुरुभास्करदीधितिः ॥ ४ ॥ श्रीशैलप्रमुखैर्वीरैर्वतः प्लवगकेतनैः । दधानस्वैदर्श रूपमशक्यपरिवर्णनं ॥५॥ अग्रतः प्रस्थिते तस्मिन् द्वादशादित्यभास्वरं । दृष्टं विभीषणेनेदं जगद्विस्मिततेजसा ॥६॥ गरुत्मकेतने तस्मिन्संप्राप्ते तत्तथाधनम् । अस्त्रं सांतमसं कापि गतं गरुडतेजसा ।। ७ ।। गरुत्मपक्षवातेन क्षोभितक्षारसिंधुना । नीता विषधरा नाशं कुभाव इव साधुना ॥ ८ ॥ तार्यपक्षविनिर्मुक्तमयूखालोकसंगतम् । जांबूनदरसेनेव जगदासीद्विनिर्मितम् ॥९॥ ततो नभश्चराधीशौ गतपन्नगबन्धनौ । प्रभामण्डलसुग्रीवौ समाश्वासनमापतुः ॥ १० ॥ सुखेन प्राप्य निद्रां च रत्नांशुकसमावृतौ । अलगदलतारेखासमलंकृतविग्रहः ॥ ११ ॥
Page #415
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
ધ્રુવદ્
एकषष्टितमं पर्व |
अधिकं भासमानांगौ व्यक्तोच्छ्रासविनिर्गमौ । निद्राक्षये परं कान्तौ स्वच्छसुप्ताविवोत्थितौ १२ ततो विस्मयमापन्नाः श्रीवृक्षप्रथितादयः । विद्याधरगणाधीशाः पप्रच्छुः कृत पूजनाः ।। १३ ।। नाथावापत्सु वामेषा दृष्टपूर्वा न जातुचित् । विभूतिरद्भुता जाता कुतश्चिदिति कथ्यताम् ||१४|| वाहनावस्त्रसंपत्तिरातपत्रे परा स्रुतिः । ध्वजौ रत्नानि चित्राणि श्रूयते दिव्यमीदृशम् ।। १५ ।। पद्मनाभस्ततोऽगादीत्तेभ्यो हिंडणमात्मनः । उपसर्गे च शैलाये देशगोत्रविभूषयोः ।। १६ ।। चतुराननयोगेन स्थितयोर्देवनिर्मितम् । प्रातिहार्यं समुद्भूतं केवलं च सुरागमम् ॥ १७ ॥ गरुडेन्द्रस्य तोषं च परिप्राप्तिं वरस्य च । अनुध्यानप्रयोगेन महाविद्यासमागमम् ॥ १८ ॥ ततस्तेऽवहिताः श्रुत्वा परमां योगिसंकथाम् । इदमूचुः परिप्राप्ताः प्रमोदं विकचाननाः ||१९|| इहैव लोके विकटं परं यशो मतिप्रगल्भत्वमुदारचेष्टितम् ।
अवाप्यते पुण्यविधिश्च निर्मलो नरेण भक्त्यार्पितसाधुसेवया ॥ २० ॥ तथा न माता न पिता न वा सुहृत्सहोदरो वा कुरुते नृणां प्रियम् । प्रदाय धर्मे मतिमुत्तमां यथा हितं परं साधुजनः शुभोदयाम् ॥ २१ ॥ इतिप्रशंसार्पितभाविताश्चिरं जिनेन्द्र मार्गोन्नतिविस्मिताः परम् ।
Page #416
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४०७
बलं सनारायणमाश्रिता बभ्रुर्महाविभूत्या समुपाश्रिता नृपाः ॥ २२ ॥ भव्यांभोज महान्तमुत्सवकरीं श्रुत्वा पवित्रां कथाम् ।
सर्वे हर्षमहारसोदधिगताः प्रीतिं दधानाः पराम् ॥ तौ निद्रोज्झतपुंडरीकनयनौ संप्राप्तदेवार्चनौ ।
ते विद्याधरपुंगवाः सुरसमाः सर्वात्मनापूजयन् || २३ ॥ उपात्तपुण्यो जननान्तरे जनः करोति योगं परमैरिहोत्सवैः ।
न केवलं स्वस्य परेण भूयसा रविर्यथा सर्वपदार्थदर्शनात् ॥ २४ ॥ इत्यार्षे रविषेणाचा प्रोक्ते पद्मपुराणे सुग्रीवभामंडलसमाश्वासनं नामैकषष्टितमं पर्व ॥ ६१ ॥
द्वाषष्टितमं पर्व |
अथ द्वाषष्टितमं पर्व |
अपरेद्युर्महोद्भूतविक्रमक्रमकोविदाः । युद्धार्थोपात्तसंभारा रणशौंडाः समुद्ययुः ॥ १ ॥ वानरीयैः समस्तं खं सैन्यैर्व्याप्तं निरन्तरम् । शंखदुंदुभिसन्मिश्रं श्रुत्वेभाश्वध्वनिं तथा ॥ २ ॥
Page #417
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
षष्टितमं पर्व /
अभ्यूर्जितमतिर्मानी सादरोऽमरविभ्रमः । सत्वप्रतापसंयुक्तः सैन्यार्णवसमावृतः ॥ ३॥ तेजसा शस्त्रजातेन ज्वलयन्निव विष्टपम् । कैलासोद्धारवीरोऽपि निरैद्वात्रादिभिः समम् ॥ ४ ॥ उद्गताः बद्धकवचाः संग्रामात्यर्थलालसाः । नानायानसमारूढा नानाविधमहायुधाः ॥ ५ ॥ पूर्वानुबंधसंक्रोधमहारौरवसन्निभाः । परस्परं भटा धीराः लग्नास्ताडनकर्मणि ॥ ६ ॥ चक्रक्रकचपाशासियष्ट्यादिघनमुद्गरैः । कनकैः परिघाद्यैश्च गगनं गहनीकृतम् ॥ ७ ॥ लग्नमश्वीयमश्रीयैगजता गजतामगात् । रथिनश्च महाधीरा उद्यता रथिभिः समम् ॥ ८ ॥ सैंहं सैंहेन सोद्योगं पादातेन च चंचलम् । समं महाहवं कर्तुमुद्यतं समविक्रमम् ॥ ९ ॥ ततः कपिध्वजसैन्यं रक्षोयोधैः पराजितम् । नीलादिभिः पुननीतं शस्त्रसंपातयोग्यताम् ।। १० ।। भूय जलधि कल्लोललोललं केन्द्रपार्थिवाः । इमे समुद्ययुर्दृष्ट्वा निज सैन्य पराभवं ॥ ११ ॥ विद्युद्वचनमारीच चन्द्रार्कशुकसारणाः । क्रतान्तमृत्युजीमूतनादसंक्रोधनादयः ॥ १२ ॥ भज्यमानं निजं सैन्यं वीक्ष्य तैः राक्षसोत्तमैः । कपिध्वजमहायोधाः परिप्रापुः सहस्रशः ||१३|| ग्रस्ता राक्षससैन्यास्तैरुच्छ्रितैर्विविधायुधैः । महाप्रतिभयैवीरैरत्युदात्तविचेष्टितैः ॥ १४ ॥ निजसैन्यार्णवं दृष्ट्रा पयिमानं समं ततः । शस्त्रज्वालाविलासेन कपिप्रलय वह्निना ।। १५ ।। लंकेशः कोपनो योद्धुं बलवान् स्वयमुत्थितः । शुष्कपत्रोपमं दुरं विक्षिपन् शत्रुसैनिकम् ।। १६ ।।
૪૮
Page #418
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४०९
द्वाषष्टितम पर्व। ततः पलायनायुत्कान् परिपाल्य तदा द्रुतम् । स्थितो विभीषणो योद्धं महायोधविभीषणः १७ आहवेऽभिमुखीभूतं भ्रातारं वीक्ष्य रावणः । बभाण प्रथुककोधो वाक्यमादरवर्जितः ॥ १८ ॥ कनीयानसि स त्वं मे भ्राता हंतुं न युज्यते । अपसपोग्रतो मास्थाः न त्वां शक्तोस्मि वीक्षितुम् ।। विभीषणकुमारेण जगदे पूर्वजस्ततः । कालेन गोचरत्वं मे नीतः किमवसर्पते ॥२०॥ ततः कुमारकोपस्तं पुनरप्याह रावणः । क्लीव क्लिष्ट धिगस्तु त्वां नरकास कुचेष्टितं ॥ २१ ॥ त्वया व्यापादितेनापि नैव मे जन्यते धृतिः । भवद्विधा हि नो योग्याः कर्तुं हर्ष न दीनता २२ यद्विद्याधरसंतानं त्यक्त्वा मूढोऽन्यमाश्रितः । कर्मणामतिदौरात्म्याज्जैनं त्यक्त्वेव शासनम् २३ ततो विभीषणोऽवोचकिमत्र बहुभाषितैः । शृणु रावण कल्याणं भण्यमानमनुत्तमम् ॥ २४ ॥ एवं गतोऽपि चेत्कर्तुं स्वस्य श्रेयः समेच्छसि । राघवेण समं प्रीतिं कुरु सीतां समर्पय ॥२५॥ अभिमानोन्नतिं त्यक्त्वा प्रसादय रघूत्तमम् । मा कलंकं स्ववंशस्य कार्पोषिन्निमित्तकम् ॥२६॥ अथवा मर्तुमिष्टं ते कुरुषे यन्न मद्वचः । मोहस्य दुस्तरं किं वा बलिनो बलिनामपि ॥ २७ ॥ विनिशम्य वचस्तस्य तरुणक्रोधसंगतः । निशातं वाणमुद्धत्य समधावत रावणः ॥२८॥ रथाश्ववारणारूढाः स्वामितोषे हि तत्पराः । अन्येऽपि पार्थिवा लग्ना रणे सुभटदारुणे ॥२९॥
Page #419
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४१०
द्वाषष्टितम पर्व। आयातोऽभिमुखं तस्य राक्षसेन्द्रस्य रहंसा । अष्टमीचन्द्रवक्रेण ध्वजं भ्रान्तेषुणाच्छिनत् ॥३०॥ तेनापि तस्य संरंभं संभाराकान्तसाधनम् । धनुर्द्विधाकृतं क्षिप्त्वा सायकं निशिताननम् ॥३१॥ ततो परमुपादाय चापमाशु विभीषणः । द्विधाकरोद्धनुस्तस्य प्रतिकारविचक्षणः ॥ ३२ ॥ एवं तयोर्महायुद्धे प्रवृत्ते वीरसंक्षये । जनकस्य परं भक्तः शक्रजियोद्धमुद्ययौ ॥ ३३ ॥ लक्ष्मीधरेण रुद्धोऽसौ पर्वतेनेव सागरः । पद्मनेत्रेण पझेन भानुकर्णोऽग्रतः कृतः ॥ ३४ ॥ ययौ सिंहकटिं नीलो युद्धशंभुं तथा नलः । स्वयंभुं दुर्मतिः क्रुद्धो दुर्मर्षोऽपि घटोदरम् ॥ ३५॥ दुष्टः शक्राशनि कालिस्तथा चन्द्रनखं नृपम् । स्कन्दो भिन्नांजनं विघ्नं विराधितनराधिपः ॥३६॥ ख्यातं मयमहादैत्यमंगदो भासुरांगदः । कुंभकर्णसुतं कुंभ समीरणसमुद्भवः ॥ ३७॥ किष्किंधेशम् समाल्याख्यं केतुं जनकनन्दनः । कामं दृढरथः क्षुब्धः क्षोभणाभिख्यमूर्जितम् ३८ अन्येऽप्येवं महायोधा यथायोग्यं परस्परम् | आरेमिरे रणं कर्तुमाहानमुखराननाः ॥ ३९ ॥ गृहाण प्रहरागच्छ जहि व्यापादयोद्गिरः । छिंधि भिन्धि क्षिपोत्तिष्ठ तिष्ठ दारय धारय ॥ ४०॥ बधान स्फोटयाकर्ष मुंच चूर्णय नाशय । सहस्व दत्स्व निःसर्प संधत्स्वोच्छ्य कल्पय ।। ४१ ।। किं भीतोऽसि न हन्मि त्वां धिक्त्वां कातरको भवान् । कस्त्वं विभेसि नष्टोऽसि मा कंपिष्ठा क गम्यते
Page #420
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४११
द्वाषष्टितमं पर्व ।
अयं स वर्तते कालः शूराशूरविचारकः । भुंजतेऽन्नं यथा मृष्टं न तथा युध्यते रणे ॥ ४३ ॥ गर्जितैरिति धीराणां तूर्यनादैस्तदुन्नतैः । नर्दतीव दिशो मत्ताः क्षतजातान्धकरिताः ॥ ४४ ॥ चक्रशक्तिगदायष्टिकन कार्ष्टिघनादिभिः । दंष्ट्रालमिव संजातं गगनं भीषणं परम् ॥ ४५ ॥ रक्ताशोकवनं किं तत् किं वा किंशुककाननम् । परिभद्रकुमाराणामुत जातं क्षतम् बलम् ॥४६॥ कश्चिद्विघटितं दृष्ट्रा कंकटं छिन्नबन्धनम् । संधत्ते त्वरितं भूयः स्नेहं साधुजनो यथा ॥ ४७ ॥ कञ्चित्संधार्य दंतायैः खड़े परिकरं दृढम् । बध्वा दीप्रः पुनर्योद्धुं श्रममुक्तः प्रवर्तते ॥ ४८ ॥ मत्तवारणदंताग्रक्षतवक्षस्थलोऽपरः । चलत्कर्णसमुद्भूतैवजितः कर्णचामरैः ॥ ४९ ॥ उत्तीर्णस्वामिकर्तव्यो निराकुलमतिः परम् । दंतोत्संगे ततः शिश्ये संप्रसार्य भुजद्वयम् ॥ ५० धातुपर्वतसंकाशाः केचित् क्षतजनिर्झरा । मुमुचः शीकरासारसेक बोधितमूर्च्छिताम् || ५१ ॥ पर्यास्ता भूतले केचिद्दष्टौष्ठाः शास्त्रपाणयः । कुंचितभ्रुदुरीक्षास्या वीरा मुंचति जीवितम् ।। ५२ ।। उपसंहृत्य संरंभं त्यक्तशस्त्रास्तथापरे । मुंचति जीवितं धीरा ध्यायन्तः परमाक्षरम् ॥ ५३ ॥ विषाणकोटिसंसक्तपाणयः केचिदुत्कटाः । आंदोलनं गजेन्द्राणामग्रतः समुपासिरे ॥ ५४ ॥ रक्तच्छटां विमुंचन्ति चंचलाः शस्त्रपाणयः । कबन्धा नर्त्तनं चक्रुः शतशोऽतिभयानकम् ॥५५॥
Page #421
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
द्वाषष्टितमं पर्व 1
केचिदस्त्रविनिर्मुक्ता जर्जरीभूतकंकटाः । प्रविष्टाः सलिलं क्लिष्टा जीविताशापराङ्मुखाः || ५६॥ ईदृशे समरे जाते लोकसंत्रासकारिणि । परस्परसमुद्भूतमहाभटपरिक्षये ॥ ५७ ॥ महेन्द्रजिदसौ वाणैर्लक्ष्मीमन्तं सिताननैः । लग्नश्छादयितुं वीरस्तथा तमपि लक्ष्मणः ॥ ५८ ॥ महातामसशस्त्रं च भीमं शक्रजिदक्षिपत् । विनाशं मानवीयेन तदस्त्रेणानयद्रिपुम् ॥ ५९ ॥ तमुग्रैः शक्रजिद्भूयः शरैराशीविषात्मकैः । आरब्धो वेष्टितुं क्रुद्धः सरथं शस्त्रवाहनम् || ६० ॥ वैनतेयास्त्रयोगेन नागास्त्र स निराकरोत् । पूर्वोपात्तं यथा पापजालं योगी महातपाः ॥ ६१ ॥ ततोऽमात्यगणान्तस्थं हस्तिवृन्दस्थलावृतम् । विरथं लक्ष्मणश्चक्रे दशवक्त्रसमुद्भवम् ॥ ६२ ॥ पालयन् स निजं सैन्यं वचसा कर्मणा तथा । प्रायुक्तास्त्रं महाध्वान्तपिहितारिदशास्यकम् || ६३ ॥ विद्यया तपनास्त्रं च हृत्वा तस्य विचितितम् । चिक्षेपेच्छा धृताकारानाशी मुखशिलीमुखान् ॥ ६४ ॥ संग्रामाभिमुखो नागैः कुटिलं व्याप्तविग्रहः । इन्द्रजित्पतितो भूमौ पुरा भामंडलों यथा ॥ ६५ ॥ assess मुद्धा विरथीकृतः । आदित्यास्त्रं शनैर्हत्वा नागास्त्रं संप्रयुज्य च ॥ ६६ ॥ संवेष्ट्य सर्वतो नागैः पतितो धरणीतले । पुरेव बाहुबलिना श्रीकंठो नमिनन्दनः || ६७ ॥ चित्रं श्रेणिक ते वाणाः भवन्ति धनुराश्रिताः । उल्कामुखास्तु गच्छन्तः शरीरे नागमूर्त्तयः ६८
४१२
Page #422
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४१३
द्वाषष्टितम पर्व ।
निजसैन्यार्णवं दृष्ट्वा पीयमानं समंततः । शस्त्रज्वालाविलासेन कपिप्रलयवह्निना ॥ १५ ॥ क्षणं बाणाः क्षणं दंडाः क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते यथा चिंतितरूपगाः॥६९।। कपाशैर्यथा जीवो नागपाशैः स वेष्टितः । भामंडलेन पद्माज्ञां प्राप्याऽऽत्मीये रथे कृतः ॥७॥ मंदोदरीसुतोऽप्येष बद्धो नारायणाज्ञया । विराधितेन याने स्वे स्थापित: क्लान्तविग्रहः ॥७॥ तावद्रणमुखेऽभाणीदशवक्त्रो विभीषणम् । संक्रुद्वोऽभिमुखीभूतं चिरं सोढा रणक्रियम् ॥ ७२ ॥ प्रहारामिममेकं मे प्रतीच्छ यदि मन्यसे । सत्यं पुरुषमात्मानं रणकंडूप्रचंडकम् ।। ७३ ॥ इत्युक्त्वा विस्फुरत्पिगस्फुलिंगालिंगिताम्बरम् । शुलं चिक्षेप लुप्तोऽसौ लक्ष्मणेनांतरे शरैः॥७४॥ तं भस्मीकृतमालोक्य शूलमत्युग्रमायुधम् । अधिकं रावणः क्रुद्धः शक्ति जग्राह दारुणाम् ॥७५॥ यावत्पश्यति संजातमग्रतो गरुडध्वजम् । प्रौढेन्दीवरसंकाशं भासुरं पुरुषोत्तमम् ।। ७६ ॥ प्रलंपांभोदसंभारगंभीरोदारनिस्वनः । विंशत्यद्धमुखोऽवोचत्तमेवं ताडयान्नव ॥ ७७ ॥ अन्यस्यैव मया शस्त्रमुद्यतं बंधकारणम् । यदि तत्कोऽधिकारस्ते स्थातुमासन्नतो मम ॥ ७८ ॥ अभिवांछसि मर्तुं वा यदि दुर्मत लक्ष्मण | प्रतीच्छेमं प्रहारं मे तिष्ठ प्रगुणविग्रहः ॥ ७९ ।।। विभीषणं समुत्सार्य सोऽपि कृच्छ्रेण मानवान् । दशास्यमभिदुद्राव चिरं संग्रामखदितम् ॥८॥
Page #423
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४१४
द्वाषष्टितमं पर्व । निःसर्पत्तारकाकारस्कुलिंगनिकरां ततः । चिक्षेप रावणः शक्ति कोपसंभारसंगतः ॥ ८१ ॥ वक्षस्तस्य तया भिन्नं महाशैलतटोपमम् । अमोघक्षेपया शक्त्या दिव्ययात्यन्तदीप्रया ॥ ८२ ॥ लक्ष्मणोरसि सा सक्ता भासुरांगमनोहरा । परमप्रेमसंबद्धा शोभते स्म वधुरिव ॥ ८३ ॥ गाढं प्रहारदुःखातः स परायत्तविग्रहः । महीतलं परिप्राप्तो गिरिर्वाहतो यथा ॥ ८४ ॥ दृष्टा तं पतितं भूमौ पद्मः पद्माभलोचनः । विनियम्य परं शोकं शत्रुघातार्थमुद्यतः॥८५ ॥ सिंहयुक्तं समारूढं स्यन्दनं क्रोधपूरितः । शत्रुमायातमात्रेण चकार विरथं बली ॥ ८६ ॥ रथान्तरसमारूढश्छिन्नपूर्वशरासनः । यावचापं समादत्ते भूयोऽथ विरथीकृतः ॥८७॥ पद्माभस्य शरैर्ग्रस्तो दशास्यो विह्वलीकृतः । न समर्थो बभूवेधुं ग्रहीतुं न च कार्मुकम् ॥ ८८ ॥ लोठितोऽपि शरैस्तीत्रैस्तथापि धरणीतले । रथे विलोक्यते भूयो रावणः खेदसंगतः ॥ ८९ ॥ विच्छिन्नचापकवचः षड़ारं विरथीकृतः । तथापि शक्यते नैव स साधयितुमद्भुतः ॥ ९॥ प्रोक्तश्च पद्मनाभेन परं प्राप्तेन विस्मयम् । नाल्पायुष्को भवानेव यो न प्राप्तोऽसि पंचताम् ॥११॥ मदाहुप्रेरितैर्वाणैर्वेगवद्भिः सिताननैः । महीभृतोऽपि शीर्यन्ते मन्येऽन्यत्र किमुच्यताम् ॥ ९२ ।। तथापि रक्षितः पुण्यैर्जन्मान्तरसमर्जितैः । शृणु जल्पामि किंचित्ते वचनं खेचराधिप ॥ ९३ ॥
Page #424
--------------------------------------------------------------------------
________________
४१५
पद्मपुराणम् ।
द्वाषष्टितम पर्व। संग्रामेऽभिमुखो भ्राता यो मे शक्त्या त्वया यतः । प्रेतस्याभिमुखं तस्य वीक्ष्ये यद्यनुगम्यते ९४ एवमस्त्विति संभाष्य प्रार्थनाभंगदुर्विधः । ययौ दशाननो लंकामृद्धयाऽऽखंडलसन्निभः ॥१५॥ एकस्तावदयं ध्वस्तो मया शत्रुमहोत्कटः । इति किंचिद्धृति प्राप्तो विवेश भवनं निनम् ॥ ९६॥ अन्विष्य विक्षतांस्तत्र योधान्विक्रांतवत्सलः । विवेशांतःपुरं धीरो दर्शनश्रमनोदनः ॥ ९७ ॥ निरुद्रं भ्रातरं श्रुत्वा पुत्रौ चरणकारिणौ । शोचन प्रियजनं पश्यनाशां चक्रे दशाननः ॥९८॥
इति निजचरितस्यानेकरूपस्य हेतोय॑तिगतभवजस्यावश्यलभ्योदयस्य । ___ इह जनुषि विचित्रं कर्मणो भावयन्ते फलमविरतयोगाजंतवो भूतिभावाः ॥९९ ॥ व्रजति विधिनियोगात्कश्चिदेवेह नाशं हतरिपुरपरश्च स्वं पदं याति धीरः । __विफलितपृथुशक्तिर्वधनं सेवतेऽन्यो रविरुचितपदार्थोद्भासने हि प्रवीणः ॥१०० ॥ इत्याचे श्री रविषेणाचार्यप्रोक्ते पद्मपुराणे शक्तिसंतापाभिधानं नाम द्वाषष्टितमं पर्व ॥ ६२ ॥
Page #425
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
त्रिषष्टितम पर्व ।
त्रिषष्टितमं पर्व।
ततः समाकुलस्वान्तः पद्मः शोकेन ताडितः । परिप्राप्तस्तमुद्देशं यत्र तिष्ठति लक्ष्मणः ॥१॥ निर्विचेष्टं तमालोक्य क्षितिमंडलमंडनम् । शक्त्याऽऽलिंगितवक्षस्कं पद्मो मूर्छामुपागतः ॥२॥ संप्राप्य च चिरात्संज्ञा महाशोकसमन्वितः । दुःखाग्निदीपितोऽत्यन्तं विप्रलापमसेवत ॥ ३ ॥ हा वत्स विधियोगेन महादुर्लङ्घयमर्णवम् । उत्तीर्य संगतोऽस्येतामवस्थामतिदारुणाम् ॥४॥ अयि मद्भक्तिसन्चेष्टो मदर्थ सततोद्यत । क्षिप्रं प्रयच्छ मे वाचं किं मोनैनावतिष्ठसे ॥५॥ जानास्येव वियोगं ते मुहूर्तमपि नो सहे । कुर्वालिंगनमुत्तिष्ठ क गतोऽसौ तवादरः ॥६॥ अद्य केयूरदष्टौ मे भुजावेतौ महायतौ । भावमात्रकरौ जातौ निष्क्रियौ निष्प्रयोजनौ ॥७॥ निक्षेपो गुरुभिस्त्वं मे प्रयत्नेन समाप्तिः । गत्वा किमुत्तरं तेभ्यो दास्यामि त्रपयोज्झितः ॥८॥ क सौमित्रिः क सौमित्रिरिति गाढं समुत्सुकः । लोकोऽपि सहि समस्तो मे प्रेक्ष्यति प्रेमनिर्भरः॥ रत्नं पुरुषवीराणां हारयित्वा त्वकामहम् । मन्ये जीवितमात्मीयं हतं निहतपौरुषः॥१०॥ दुष्कृतस्योदयस्थस्य रचितस्य भवान्तरे । फलमेतन्मया प्राप्तं सीतया मे किमन्यथा ॥११॥
Page #426
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४१७
त्रिषष्टितम पर्व ।
यस्याः कृते क्षितौ रक्तं शक्त्या निर्दयनुनया । भवंतं भूतले सुप्तं पश्यामि दृढमानसः ॥ १२ ॥ कामार्थाः सुलभाः सर्वे पुरुषस्यागमास्तथा । द्विविधाश्चैव संबंधा विष्टपेऽस्मिन् यथा तथा १३ पर्यट्य पृथिवीं सर्वां स्थानं पश्यामि तन्ननु । यस्मिन्नवाप्यते भ्राता जननी जनकोऽपि वा १४ हे सुग्रीव सुहृत्त्वं ते दर्शितं खेचराधिप । बजाऽधुना निजं देशं भामंडल भवानपि ॥ १५ ॥ जीविताशां परित्यज्य दयितां जानकीमिव । ज्वलनं श्वः प्रवेष्टास्मि समं भ्रात्रा विसंशयम् १६ विभीषण न मे शोकस्तथा सीताऽनुजोद्भवः । यथा निरुपकारित्वं मम संबाधते त्वयि ॥१७॥ उत्तमा उपकुर्वन्ति पूर्व पश्चात्तु मध्यमाः । पश्चादपि न ये तेषामधमत्वं हतात्मनाम् ॥ १८॥ कृतपूर्वोपकारस्य साधोबन्धुविरोधिनः । यत्ते नोपकृतं किंचित्तेन दह्येतरामहम् ॥ १९ ।। भो भामंडलसुग्रीवौ चितां रचयतां द्रुतम् । परलोकं गमिष्यामि कुरुतं युक्तमात्मनः ॥ २० ।। ततो लक्ष्मीधरं स्पष्टुमिच्छन्तं रघुनंदनम् । अवारयन्महाबुद्धिांबूनदमहत्तरः ॥ २१ ॥ मा स्पाक्षीलक्ष्मणं देव दिव्यास्त्रपरिमूच्छितम् । प्रमादो जायते ह्येवं प्रायो हि स्थितिरीदृशी २२ प्रपद्यस्व च धीरत्वं कातरत्वं परित्यज । भवन्तीह प्रतीकाराः प्रायो विपदमीयुषाम् ॥ २३ ॥ प्रतीकारो विलापोऽत्र नानुदात्तजनोचितः । परमार्थानुसारेण क्रियतां धीरमानसम् ॥ २४ ॥
२-२७
Page #427
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४१८
त्रिषष्टितम पर्व ।
उपायः सर्वथा कश्चिदिह देव भविष्यति । जीविष्यति तव भ्राता ननु नारायणो ह्ययम् ॥२५॥ ततो विषादिनः सर्वे परं विद्याधराधिपाः । उपायचिंतनासक्ताश्चारित्यंतरात्मनि ॥ २६ ॥ दिव्या शक्तिरियं शक्या न निराकर्तुमौषधैः । उद्गते ज्योतिषामीशे दुःखं जीवति लक्ष्मणः॥२७॥ अथोत्सार्य कबंधांदीनिमिषार्द्धन सा मही। किंकरैर्विहितोत्तुंगदुष्यप्राकारमडपा ॥ २८ ॥ सप्तकक्ष्माद्रिसंपन्ना कृतदिक्क्रयनिर्गमा । बहिः कवचितैर्योधैर्गुप्ता कार्मुकधारिभिः ।। २९ ॥ प्रथमे गोपुरे नीलश्चापपाणिः प्रतिष्ठितः । द्वितीये तु नलस्तस्थौ गदाहस्तो घनोपमः ॥ ३० ॥ विभीषणस्तृतीये तु शूलपाणिर्महामनाः । स्रङ्माल्यचित्ररत्नांशुरीशानवदशोभत ॥ ३१॥ संनद्धबद्धतूणीरस्तुरीये कुमुदः स्थितः । सुषेणः पंचमे ज्ञेयः कुंतहस्तः प्रतापवान् ॥ ३२ ॥ सुपीवरभुजो वीरः सुग्रीवः स्वयमेव च । रराज भिंडिमालेन षष्ठे वज्रधरोपमः ॥ ३३ ॥ प्रदेशे सप्तमे राजमहारिपुबलांतकः । मंडलाग्रं समाकृष्य स्वयं भामंडल: स्थितः ॥ ३४ ॥ पूर्वद्वारेण संचार शरभः शरभध्वजः । रराज पश्चिमे द्वारे कुमारो जांबवो यथा ॥ ३५ ॥ प्रदेशमौत्तरद्वारं व्याप्यामात्यौघसंकुलम् । स्थितश्चन्द्रमरीचिश्व बालिपुत्रो महाबलः ॥ ३६ ।। एवं विरचिता क्षोणी खेचरेशैः प्रयनिभिः । रराज द्यौरिवात्यर्थ निर्मलैरुडुमंडलैः ॥ ३७॥
Page #428
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
चतुःषष्टितम पर्व।
यावन्तः केचिदन्ये तु समरादनिवर्तिनः । ते स्थिता दक्षिणामाशां व्याप्य वानरकेतवः ॥३८॥
एवं प्रयत्नाः कृतयोग्यरक्षाः संदेहिनो लक्ष्मणजीवयोगे।
सविस्मयाः सोरुशुचः समानाः स्थिताः समस्ता गगनायनेशाः ।। ३९ ।। न तन्नरा नो ययवो न नागा न चापि देवा विनिवारयन्ति ।
यदात्मना संजनितस्य लभ्य-फलं नृणां कर्मरवेः प्रकाशम् ॥ ४० ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे शक्तिभेदरामविलापाभिधानं नाम त्रिषष्टितमं पर्व ॥ ६३ ॥
अथ चतुःषष्टितमं पर्व। नियतं मरणं ज्ञात्वा लक्ष्मणस्य दशाननः । पुत्रभ्रातृवधं बुद्धौ चकारात्यन्त दुःखितः ॥१॥ हा भ्रातः परमोदार ममात्यन्तहितोद्यतः । कथमेतामवाप्नोसि बंधावस्थामसंगताम् ॥२॥ हा पुत्रौ सुमहावीर्यों भुजाविव दृढौ मम । विधेनियोगतः प्राप्तौ भवतौ बंधनं नवम् ॥ ३॥ किं करिष्यति वः शत्रुरित्याकुलितमानसः । न वेनि दुरितात्माहं विरसं वा करिष्यति ॥४॥
Page #429
--------------------------------------------------------------------------
________________
पद्मपुराणम 1
चतुःषष्टितमं पर्व ।
भवद्भिरुत्तमैः प्रीतैर्बन्धदुःखं समागतैः । बाध्येऽहं नितरां कष्टं यदिदं मम वर्त्तते ॥ ५ ॥ एवं गजेन्द्रवद्वद्ध निजयूथमहागजः । अप्रकाशं परं शोकमसेवत स संततम् || ६ || शक्त्या हतं गतं भूमिं श्रुत्वा लक्ष्मीधरं परम् । संप्राप्ता जानकी शोकमकरोत्परिदेवनम् ॥ ७ ॥ हा भद्र लक्ष्मण प्राप्तस्त्वमवस्थामिमां हताम् । कृते मे मंदभाग्याया विनीत गुणभूषण ॥ ८ ॥ ईदृक्षमपि वांछामि भवन्तमहमीक्षितुम् । विमुक्ता हतदैवेन न लेभे पापकारिणी ॥ ९ ॥ भवन्तं तादृशं वीरं घ्नता पापेन शत्रुणा । क मे कृतो न संदेहः प्रवीरे मरणं प्रति ॥ १० ॥ वियुक्तो बंधुभिः भ्रातुरिष्टे संसक्तमानसः । अवस्थामा गतोऽस्येतां कृच्छ्रादुत्तीर्य सागरम् ॥ ११ ॥ अपि नाम पुनः क्रीडाकोविदं विनयान्वितम् । पश्येयं चारुवाक्यं त्वां परमाद्भुतकारिणम् ॥ १२ ॥ कुर्वन्तु सर्वथा देवास्तव जीवितपालनम् । विशल्यतां द्रुतं गच्छ सर्वलोकमनोहरः ॥ १३ ॥ एवं विलापिनी कृच्छ्राच्छोकिनी जनकात्मजा । भावप्रीतिभिरानीता खेचरीभिः प्रसांत्वनम् १४ ज्ञायते देवि नाद्यापि निश्चयो देवरस्य ते । अतो न वर्त्तते कर्तुमेतस्मिन्परिदेवनम् ।। १५ ।। भव धीरा प्रवीराणां भवत्येवेदृशी गतिः । भवंति च प्रतीकाराचिरं हि जगतीहितम् ॥ १६ ॥ इति विद्याधरीवाक्यात्किचित्साऽभूदनाकुला । मृण्विदानीं यदेतस्मिञ्जातं लक्ष्मणपर्वणि ॥१७॥
४२०
Page #430
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४२१
चतुःषष्टितमं पर्व! प्राप्तो दुःखग्रहद्वारं पुरुषश्चारुदर्शनः । प्रभामंडलबीरेण प्रविशन्निति नोदिता ॥ १८ ॥ कस्त्वं कस्य कुतो वाऽसि किमर्थ वा विवक्षसि । तिष्ठ तिष्ठ समन्वश्व नात्राविदितसंगमः १९ सोऽवोचदद्य मे मासः साग्रः प्राप्तस्य वर्त्तते । पद्मं समाश्रयामीति प्रस्तावो ननु लभ्यते ॥२०॥ अधुना दर्शये शीघ्रं जीवंतं यदि लक्ष्मणम् । द्रष्टुं भवति वांछा वस्तत्रोपायं वदाम्यहम् ॥२१॥ इत्युक्ते परितुष्टेन भामंडलमहीभृता । दत्वा प्रतिविधि द्वारे नीतोऽसौ पद्मगोचरम् ॥ २२ ॥ संप्रयुज्य प्रणामं च स जगाद महादरः । मा खित्स्थास्त्वं महाराज कुमारो जीवति ध्रुवम् ॥२३॥ सुप्रभा नाम मे माता जनकः शशिमंडलः । देवगीते पुरेऽहं च चंद्रप्रतिमसंज्ञकः ॥ २४ ॥ जातुचिद्विचरन् व्योम्मि वेलाध्यक्षस्यसूनुना । सहस्रविजयाख्येन वैरिणाऽहं निरीक्षितः॥२५॥ ततो मैथुनको वैरं स्मृत्वा क्रोधं समीयुषा । तस्य जातं मया सार्द्ध रणे सुभटदारुणम् ॥ २६ ॥ ततोऽहं चंडरवया शक्त्या तेन समाहतः । खान्महेन्द्रोदयोद्याने नक्तं निपतितो घने ॥ २७ ॥ पतंतं मां समालोक्य तारकाबिंबसन्निभम् । साकेताधिपतिस्तार्की भरतः समढौकत ।। २८ ॥ शक्तिशल्यितवक्षश्च सिक्तश्चंदनवारिणा । तेनाहं करुणार्गेन साधुना जीवदायिना ॥ २९ ॥ शक्तिः पलायिता काऽपि जातं रूपं च पूर्वकम् । अधिकं च सुखं जातं तेन मे गंधवारिणा ३०
Page #431
--------------------------------------------------------------------------
________________
४२२
पद्मपुराणम् ।
चतुःषष्टितमं पर्व ।
तेन मे पुरुषेन्द्रेण भरतेन महात्मना । जन्मान्तरमिदं दत्तं फलं यस्य त्वदीक्षणे ॥ ३१ ॥ अत्रान्तरे स संभ्रान्तः सुरूपो रघुनंदनः । प्रयच्छ भद्र जानासि तद्धोदकसंभवम् ॥ ३२ ॥ सोsवोचद्देव जानामि श्रूयतां वेदयामि ते । पृष्टो हि स मया राजा तेन चेति निवेदितम् ||३३|| यथा किल समस्तोऽयं देशः पुरसमन्वितः । अभिभूतो महारोगैरासीदप्रतिकारकैः ॥ ३४ ॥ उरोघातमहादाहज्वरलालापरिस्रवाः । सर्वशलारुचिच्छर्दिश्वयथुस्फोटकादयः ॥ ३५ ॥ क्रुद्धा इव परं तीव्राः सर्वे रोगास्तदाऽभवन् । यैरत्र विषये प्राणी नैकोऽप्यस्ति न पातितः ३६ केवलो द्रोणमेघाहः सामात्यपशुबांधवः । नृपो देव इवारोगः श्रुतो निजपुरे मया ॥ ३७ ॥ आह्वाय स मयाऽवाचि माम त्वं नीरुजो यथा । कालक्षेपविनिर्मुक्तं तथा मां कर्तुमर्हसि ॥ ३८ ॥ ततः सौरभसंरुद्धदुरदिग्वलयं जलम् । तेन सिक्तोऽहमानाद्य प्राप्तोल्लाघतां पराम् ॥ ३९ ॥ न केवलमहं तेन वारिणांतःपुरं मम । पुरं देशच संजातं सर्वरोगविवर्जितम् ॥ ४० ॥ कर्ता रोगसहस्राणां वायुरत्यन्तदुःसहः । प्रणष्टो वारिणा तेन मर्मसंभेदकोविदः ॥ ४१ ॥ मयैवं सततं पृष्टो मामेतदुदकं कुतः । येनाऽऽश्वर्यमिदं शीघ्रं कृतं रोगविनाशनम् ॥ ४२ ॥ सोऽवोचच्छूयतां राजन्नस्ति मे गुणशालिनी । विशल्या नाम दुहिता सर्वविज्ञानकोविदा ॥४३॥
Page #432
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
चतुःषष्टितम पर्व । यस्यां गर्भप्रपन्नायामनेकव्याधिपीडिता । देवी ममोपकाराऽभूत्सर्वरोगविवर्जिता ॥ १४ ॥ जिनेन्द्रशासनासक्ता नित्यं पूजासमुद्यता । शेषेव सर्वबंधूनां पूजनीया मनोहरा ॥ ४५ ॥ स्नानोदकमिदं तस्या महासौरम्यसंगतम् । कुरुते सर्वरोगाणां यत्क्षणेन विनाशनम् ।। ४६ ॥ ततस्तदहमाकर्ण्य द्रोणमेघस्य भाषितम् । परं विस्मयमापन्नाः संपदा तामयजयम् ।। ४७ ॥ नगरीतश्च निष्क्रम्य नाम्ना सत्त्वहितं मुनिम् । गणेश्वरं समप्राक्षं प्रणम्य विनयान्वितः॥४८॥ ततः खेचरपृष्टोऽसौ समाख्यासीन्महायतिः । वैशल्यं चरितं दिव्यं चतुर्ज्ञानी सुवत्सलः ॥४९॥ विदेहे पौंडरीकाख्ये विजये स्वर्गसनिभे । चक्री त्रिभुवनानंदः पुरे चक्रधरोऽभवत् ॥ ५० ॥ नाम्नाऽनंगशरा तस्य तनया गुणमंडला | अपूर्वा कर्मणां सृष्टिलावण्यप्लवकारिणी ॥ ५१ ॥ तां प्रतिष्ठपुराधीशः सामंतोऽस्य पुनर्वसुः । दु(राहरदारोग्य विमानं स्मरचोदितः ॥ ५२ ॥ क्रुद्धाचक्रधरादाज्ञां संप्राप्यामुष्य किंकरैः । चिरं कृतवतो युद्धं विमानं चूर्णितं भृशम् ॥ ५३ ।। चूर्ण्यमानविमानेन मुक्ता तेनाकुलात्मना । पपात नभसः कान्तिरिव चन्द्रस्य शारदी ॥ ५४ ॥ विद्यया पर्णलव्याप्सौ पुनर्वसुनियुक्तया । अटवीमागता स्वैरं नाम्ना श्वापदरौरवाम् ।। ५५ ॥ महाप्रतिभयाकारां महाविद्याभृतामपि । दुःप्रवेशां कृतध्वान्तां महाविटपसंकटैः ॥ ५६ ॥
Page #433
--------------------------------------------------------------------------
________________
४२४
पद्मपुराणम्।
चतुःषष्टितम पर्व । नानावलीसमाश्लिष्टविविधोत्तुंगपादपाम् । पल्लवोद्वासितैर्मुक्तां भीतैरिव रवेः करैः ॥ ५७ ॥ तरक्षशरभद्वीपिव्याघ्रसिंहादिसेविताम् । उच्चावचखरक्षोणी महाविवरसंगताम् ॥ ५८ ।। अरण्यानीं गता सेयं महाभयसमागता । कान्ता शिखेव दीपस्य सीदति स्म वराकिका ॥५९॥ नदीतीरं समागम्य कृत्या दिगवलोकनम् । महाखेदसमायुक्ता स्मृतबंधुः म्म रोदिति ॥ ६० ॥ तेनाहं लोकपालेन देवेन्द्रप्रतिभासिना । सुचक्रवर्त्तिना जाता महादुर्ललितात्मिका ॥ ६१ ॥ विधिना वारयेनेमामवस्थामनुसारिता । किं करोमि परिप्राप्ता वनं दुःखनिरीक्षणम् ॥ ६२ ॥ हा तात सकलं लोकं त्वं पालयसि विक्रमी । कथं मामपरित्राणां विपिने नानुकंपसे ॥ ६३ ॥ हा मातस्तादृशं दुःखं कुक्षिधारणपूर्वकम् । विषय सांप्रतं कस्मात्कुरुषे नानुकंपनम् ।। ६४ ॥ हा मातः करणच्छायापरिवगंगुणोत्तमाम् । अमुक्तां क्षणमप्येकं कथं त्यजसि सांप्रतम् ॥ ६५ ॥ जातमात्रा मृता नाऽहं कस्माद्दुःखस्य भूमिका । अथवा न विना पुण्यैरभिवांछितमाप्यते ॥६६॥ किं करोमि क गच्छमि दुःखिनी संश्रयामि कम् । कं पश्यामि महाऽरण्ये कथं तिष्ठामि पापिनी ॥ स्वप्नः किमेष संप्राप्तं जन्मेदं नरके मया। सैव किं स्यादहं कोऽयं प्रकारः सहसोद्गतः ॥६८॥ एवमादि चिरं कृत्वा विप्रलापं सुविहला । पशूनामपि तीव्राणां मनोवणकारणम् ॥ ६९ ॥
Page #434
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४२५
चतुःषष्टितमं पर्व ।
क्षुत्तृष्णापरिदग्धांगा शोकसागरवर्तिनी । फलपर्णादिभिर्वृत्तिमकरोद्दीनमानसा ॥ ७० ॥ अरण्यांबुजखंडानां शोभासर्वस्वमर्दनः । हिमकालस्तया निन्ये ध्रुवं कर्मानुभावतः ॥ ७१ ॥ श्वसन्पशुगणस्तीत्रः शोषितानेकपादपः । सोढस्तथैव रूक्षांगो ग्रीष्मसूर्यातपस्तया ॥ ७२ ॥ स्फुरचंडाचिरंज्योतिः शीतधारांधकारितः । घनकालोऽपि निस्तीर्णः प्रवृत्तौघो यथा तथा ॥७३॥ निश्छायं स्फुटितं क्षामं शीर्णकेशं मलावृतम् । वर्षोपहतचित्रांभं स्थितं तस्याः शरीरकम् ।।७४॥ सूर्यालोकहतच्छाया क्षीणेव शशिनः कला । जाता तन्वी तनुस्तस्था लावण्यपरिवर्जिता ॥७५॥ कपित्थवनमानदं फलैः पाकाभिधूसरैः । श्रित्वा तातमनुयाय करणं सा स्म रोदिति ॥७६॥ जाता चक्रधरेणाऽहं प्राप्तावस्थामिमां वने । ध्रुवं कर्मानुभावेन सुपापेनान्यजन्मना ॥ ७७ ॥ इत्यश्रुदुर्दिनीभूतवदना वीक्षितक्षितिः । फलान्यादाय सा शांता पतितानि स्वपाकतः ॥ ७८ ।। शयनीयगतैः पुष्पैर्या स्वकेशच्युतैरपि । अग्रहीत्खेदमेवासौ स्थंडिले श्वेतकेवले ॥ ८० ॥ पितुः संगीतकं श्रुत्वा या प्रबोधमसेवत । सेयं शिवादिनिर्मुक्तैरधुना भीषणैः स्वनैः ।। ८१ ॥ एवं वर्षसहस्राणि त्रीणि दुःखमहासहा । अकरोत्सा तपो बाह्यं प्रासुकाहारपारणा ।। ८२ ॥ ततो निर्वेदमापन्ना त्यक्ताहारं चतुर्विधम् । निराशतां गता धीरा श्रिता सल्लेखनामसौ ॥ ८३ ।।
Page #435
--------------------------------------------------------------------------
________________
पद्मपुराणमें।
४२६
चतुःषष्टितम पर्व । बाह्य हस्तशतामि न गंतव्यं मयेति च । जग्राह नियम पूर्व श्रुतं जैनेन्द्रशासने ॥ ८४ ॥ नियमावधितोऽतीते षडरात्रेऽथ नभश्चरः । लब्धिदास इति ख्यातो वंदित्वा मेरुमावजत् ॥८५।। तामपश्यत्ततो नेतुमारेभे तां समुद्यतः । पितुः स्थान निषिद्धश्च तया सल्लेखनोक्तितः ॥ ८६ ॥ लन्धिदासो लघु प्राप्तः सकाशं चक्रवर्तिनः । समं तेन समायातस्तमुद्देशमसौ गतः ॥ ८७ ॥ अथ तामतिरौद्रेण शयुनाऽतिस्थवीयसा । भक्ष्यमाणामसौ दृष्टा समाधानप्रदोऽभवत् ॥ ८८ ॥ प्राप्तसल्लेखनां क्षीणां संवृत्तामपरामिव । तादृशीं तां सुतां दृष्ट्वा चक्री निर्वेदमागतः ।। ८९ ॥ समं पुत्रसहस्राणां द्वाविंशत्या गतस्पृहः । महावैराग्यसंपन्नः श्रमणत्वमुपागतः ॥ ९ ॥ कन्या चाऽथ क्षुधार्नेन प्राप्तेनातिस्थवीयसा । भक्षिताज्जगरणागात्सती सानत्कुमारताम् ॥९१ ॥ जानत्याऽपि तया मृत्युं न समुत्सारितः शयुः । माभूत्स्वल्पापि पीडाऽस्प काचिदितित्यनुकंपया ॥ उत्सार्य खेचरान् संख्ये समस्तांश्च पुनर्वसुः । तदानंगशरामिष्टामपश्यद्विरहावनौ ॥ ९३ ॥ द्रुमसेनमुनेः पार्श्वे गृहीतं श्रमणव्रतम् । अत्यंतदुःखितस्तप्त्वा तपः परमदुश्चरम् ।। ९४ ।। कृत्वा निदानमेतस्याः कृतघ्यं प्राप्तपंचताम् (तः)। सुरो जातश्युतश्चायं जातो लक्ष्मणसुंदरः ९५ प्रभ्रष्टा सुरलोकाच्च जाताग्नंगशरा चरी । सुतेयं द्रोणमेघस्य विशल्येति प्रकीर्तिता ॥ ९६ ।।
Page #436
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४२७
चतुःषष्टितम पर्व ।
सैतस्मिन्नगरे देशे भरते वा महागुणा । पूर्वकर्मानुभावेन संजाताऽत्यन्तमुत्तमा ॥ ९७ ॥ परमं स्नानवादीदं तेन तस्या महागुणम् । सोपसर्ग कृतं पूर्व तया येन महातपः ।। ९८ ।। अनेन वारिणाऽमुस्मिन्देशेऽयं विषमोऽनिलः । महारोगकरो जातः क्षयं शासितविष्टपः ॥९९ ॥ कुतोऽयमीदृशो वायुरिति पृष्टेन भाषितम् । मुनिना भरतायैवं तदा कौतुकयोगिने ।। १०० ॥ गजाहानगरादत्य विंध्यो नामा महाधनः । अयोध्यां सार्थवाहेशः खरोष्ट्रमहिषादिभिः ॥१०१॥ मासानेकादशामुष्यां सन्नगयोमसौ स्थितः । तस्यैकमहिषस्तीव्ररोगभारेण पीडितः ॥१०२ ॥ पुरमध्ये महादुःखं कृत्वा कालं व्रणान्वितः । अकामनिर्जरायोगाद्देवभूयमशिश्रियत् ॥ १०३ ॥ जातो वायुकुमारोऽसावश्वकेतुर्महाबलः । बाह्यावर्त इति ख्यातो वायुदेवमहेश्वरः ।। १०४ ॥ श्रेयस्करपुरः स्वामी रसातलगतो महान् । असुरो भासुरः क्रूरो मनोयातक्रियासहः ॥ १०५ ॥ अज्ञासीत्सावधिज्ञानः प्राप्तपूर्वपराभवम् । सोऽहं महिषकोऽभूवं प्राप्तोऽयोध्यां तदा वणी ॥१०६॥ क्षुत्तष्णापरिदिग्धांगो महारोगनिपीडितः । रथ्याकर्दमनिमग्नस्ताडितो जनसंपदा ॥ १०७ ॥ कृत्वा मे मस्तके पादं तदाभ्यासीज्जनोऽखिलः । पतितस्य विचेष्टस्य निर्दयो विड्मलांचितम् ॥ अचिरान्निग्रहं घोरं तस्य चेन्न करोम्यहम् । अनर्थकं सुरत्वं मे तदेवं जायते महत् ॥ १०९ ॥
Page #437
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४२८
पंचषष्टितमं पर्व। इति ध्यात्वा पुरेऽमुस्मिन् सदेशे क्रोधपूरितः । प्रावर्त्तयदसौ वायुं नानारोगसमावहम् ॥११०॥ सोऽयं भीतो विशल्याया वारिणा प्रलयं क्षणात् । भवंति हि बलीयांसो बलिनामपि विष्टपे १११ यथा सत्त्वहितेनेदं भरताय निवेदितम् । भरतेनापि मे तद्वन्मया ते पद्म वेदितम् ॥ ११२ ॥ अभिषेकजलं तस्या तदा नेतुमतित्वरम् । यत्नं कुरुत नास्त्यन्या गतिर्लक्ष्मणजीविते ॥ ११३ ॥
इति स्थितानामपि मृत्युमार्गे जनैरशेषैरपि निश्चितानाम् । __ महात्मनां पुण्यफलोदयेन भवंत्युपायो विहितोऽसुदायी ॥ ११४ ॥ अहो महान्तः परमा जनास्ते येषां महापत्तिसमागतानाम् ।
___ जनो वदत्युद्भवनाभ्युपायं वः समस्तत्वनिवेदनेन ॥ ११५ ॥ इत्याचे श्रीरविषेणाचार्यप्रोक्त पद्मपुराणे विशल्यापूर्वभवाभिधानं नाम चतुःषष्टितम पर्व ।। ६४ ॥
अथ पंचषष्टितमं पर्व। . प्रतीन्दोर्वचनं श्रुत्वा राघवोऽत्यन्तसंमदः । समं विद्याधराधीशैर्विस्मितस्तमपूजयत् ॥ १॥ अंजनाजविदेहाजसुताराजास्ततः कृताः । अयोध्यां गमिनः कृत्वा सन्मंत्रं निश्चितं द्रुतम् ॥२॥
Page #438
--------------------------------------------------------------------------
________________
पद्मपुराणमें ।
४२९
पंचषष्टितम पर्व । ततश्चिंतितमात्रेण ते ययुर्यत्र पार्थिवः । भरतः प्रवरः कीर्त्या प्रतापी गुणसंगतः ॥३॥ सुप्तस्योत्थाप्यमानस्य सहसास्यासुखासिका । मा भूदिति सुखं गीतं वैदेहादिभिराश्रितम् ॥४॥ ततः संगीतमाकर्ण्य दिव्यं श्रुतिमनोहरम् । शनैर्भावसमारूढमुत्तस्थौ कोशलेश्वरः ॥५॥ ज्ञापिताः सेवितद्वारास्ततस्तस्मै समागताः । वैदेह्या हरणं प्रोचुनिपातं लक्ष्मणस्य च ॥६॥ अथ शोकरसादुग्रात्क्षणमात्रभुवः परम् । राजा क्रोधरसं भेजे परमं भरतश्रुतिः ॥७॥ महाभेरीध्वनि चाशु रणनीतिमकारयत् । सकला येन साकेता संप्राप्ताऽऽकुलतां परम् ।। ८॥ लोको जगाद किं वेतद्वर्तते राजसद्मनि । महान् कलकलः शब्दः श्रूयतेऽत्यन्तभीषणः ॥९॥ किन्तु रात्रौ निशीथेऽस्मिन् काले दुष्टमतिः परः । अतिवीयसुतः प्राप्तो भवेदापातपंडितः ॥१०॥ कश्चिदंकगतां कान्तां त्यक्त्वा सन्नद्रुमुद्यतः । सन्नाहनिरेपक्षोऽन्यः सायके करमर्पयत् ॥११॥ मुग्धबालकमादाय काचिदंके मृगेक्षणा । हस्तं स्तनतटे न्यस्य चक्रे दिगवलोकनम् ।। १२ ॥ काचिदी|कृतं त्यक्त्वा निद्रारहितलोचना | सुप्तमाश्रयते कान्तं शयनीयैकपार्श्वगम् ॥ १३ ॥ पार्थिव प्रथमः कश्चिद्धनी कान्तामुदाहरन् । कान्ते बुद्धयस्व किं शेषे किमपीदमशोभनम् ॥१४॥ राजालये समुद्योतो लक्ष्यते जात्वलक्षितः । सन्नद्धा रथिनो मत्ता करिणोऽमी च संहिताः १५
Page #439
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४३०
पंचषष्ठितमं पर्व । नीतिज्ञैः सततं भाव्यमप्रमत्तैः सुपंडितैः । उत्तिष्ठोत्तिष्ठ गोपाय स्वापतेयं प्रयत्नतः ॥ १६ ॥ शातकौं भानिमान्कुंभान् कलधौतमयांस्तथा | मणिरत्नकरंडांथ कुरु भूमिगृहान्तरे ।। १७ ।। पट्टवस्त्रादिसंपूर्णानिमान् गर्भालयान् द्रुतम् । तालयान्यदपि द्रव्यं दुःस्थितं सुस्थितं कुरु ॥ १८ ॥ शत्रुघ्नोपि सुसंभ्रान्तो निद्रारुणितलोचनः । आरुह्य द्विरदं शीघ्रं घंटाटंकारनादिनम् ॥ १९ ॥ सचिवैः परमैर्युक्तः शस्त्राधिष्ठितपाणिभिः । विमुंचन् वकुलामोदं चलदम्बरपल्लवः ॥ २० ॥ भरतस्यालयं प्राप्तस्तथाऽन्ये नरपुंगवाः । शस्त्रहस्ताः सुसंनद्धा नरेन्द्रहिततत्पराः ॥ २१ ॥ यच्छन्नाज्ञां नरेशानां युद्धाय स्वयमुद्यतः । विनीताधिपतिः प्रोक्तो नत्त्वा भामंडलादिभिः २२ दूरे लंकापुरी देव गन्तुं नार्हति तां विभुः । क्षुब्धोमिंजलजो घोरो वर्त्तते सागरोत्तरे ॥ २३ ॥ मया किं तर्हि कर्त्तव्यमिति राज्ञि कृतस्वने । उच्चारितं विशल्यायाश्चरितं तैर्मनोहरम् ॥ २४ ॥ अवप्रमथनं नाथ पुण्यं जीवितपालनम् । द्रोणमेघसुतास्नानवारिदानं द्रुतं भज || २५ ॥ प्रसादं कुरु यास्यामो यावन्नोदेति भास्करः । हतोऽरिमथनः शक्त्या दुःखं तिष्ठति लक्ष्मणः २६ भरतेन ततोsवाचि किंवा ग्रहणमंभसा | स्वयं सा सुभगा तत्र यातु द्रोणघनात्मजा ॥ २७ ॥ मुनीशेन समादिष्टा तस्यैवासौ सुभामिनी । स्त्रीरत्नमुत्तमं सा हि कस्य वाऽन्यस्य युज्यते २८
Page #440
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४३१
पंचषष्टितम पर्व ।
ततो द्रोणघनाह्यस्य सकाशं प्रेषितो निजः । स चाऽपि कुपितो योद्धं मानस्तंभसमुद्यतः॥२९॥ संक्षुब्धास्तनयास्तस्य सन्नद्धाः सचिवैः सह । परमाकुलतां प्राप्ता महादुर्लडितक्रियाः ॥ ३० ॥ भरतस्य ततो मात्रा स्वयं गत्वा महादरम् । प्रतिबोधमुपानीतः सा तेन तनयामदात् ॥ ३१ ॥ सा भामंडलचन्द्रेण विमानशिखरं निजम् । आरोपिता महारथ्य कान्तिपूरितदिङ्मुखा ॥३२॥ सहस्रमधिकं चान्यत्कन्यानां सुमनोहरम् । राजगोत्रप्रसूतानां कृतं गामि समं तया ॥ ३३ ॥ ततो निमेषमात्रेण प्राप्ता संग्राममेदिनीम् । अध्यादिभिः कृताभ्यर्चाः सर्वैः खेचरपुंगवैः ॥३४॥ अवतीणों विमानाग्रात्ततः कन्याभिरावृता । चारुचामरसंघातैः वीज्यमाना शनैः सुखम् ॥३५॥ पश्यंती तुरगान् द्वारे मत्तांश्च वरवारणान् । महत्तरैः कृतानुज्ञा पुंडरीकनिभानना ।। ३६ ॥ यथा यथा महाभाग्या विशल्या सोपसर्पति । तथा तथाऽभजत्सौम्यं सुमित्रातनयोऽद्भुतम् ३७ प्रभाकरकरा शक्तिस्ततो लक्ष्मणवक्षसः । चकिता दुष्टयोपेव कामुकास्परिनिःसृता ॥ ३८ ॥ स्फुरत्स्फुलिंगज्याला च लंघयन्ती द्रुतं नमः। उत्पत्य वायुपुत्रेण गृहीता वेगशालिना ॥ ३९ ॥ दिव्यस्त्रीरूपसंपन्ना ततः संगतपाणिका । सा जगाद हनूमंतं संभ्रान्ता बद्धवेपथुः ॥४०॥ प्रसीद नाथ मुंचस्व न मे दोषोऽस्ति कश्चन । कुत्सितास्मद्विधानां हि प्रेष्याणां स्थितिरीद्दशी।
Page #441
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
पंचषष्टितम पर्व । अमोघविजया नाम प्रज्ञप्तेरहकं स्वसा । विद्या लोकत्रये ख्याता रावणेन प्रसाधिता ॥ ४२ ॥ कैलासपर्वते पूर्व बालौ प्रतिमया स्थिते । सन्निधौ जिनविवानां गायता भावितात्मना ॥४३॥ निज भुजे समुत्कृत्य शिरातंत्री मनोहराम् । उपवीणायिता दिव्यं जिनेन्द्रचरितं शुभम् ॥४४॥ लब्धाऽहं दशवक्त्रेण धरणान्नागराजतः । कंपितासनकं प्राप्तात्प्रमोदं विभ्रता परम् ॥ ४५ ॥ अनिच्छन्नप्यसौ तेन रक्षसां परमेश्वरः । मां परिग्राहितः कृच्छात्स हि ग्रहणदुर्विधः ॥ ४६ ॥ साऽहं न कस्यचिच्छक्या भुवनेऽत्र व्यपोहितुम् । विशल्यासुंदरीमेकां मुक्त्वा दुःसहतजसाम् ४७ मन्ये पराजये देवान् बलिनो नितरामपि । अनया तु विकीर्णाहं महत्या दूरगोचरा ॥ ४८ ॥ अनुष्णं भास्करं कुर्यादशीतं शशलक्ष्मणम् । अनया हि तपोऽत्युग्रं चरितं पूर्वजन्मनि ॥ ४९ ॥ शिरीषकुसुमासारं शरीरमनया पुरा । निर्युक्तं तपसि प्रायो मुनीनामपि दुःसहे ॥ ५० ॥ एतावतैव संसारः सुसारः प्रतिभाति मे । ईदृशानि प्रसाध्यन्ते यत्तपांसीह जंतुभिः ॥५१॥ वर्षाशीतातपैोरैर्महावातसुदुःसहैः । एषा न कंपिता तन्वी मंदरस्येव चूलिका ॥ ५२ ॥ अहो रूपमहो सत्त्वमहो धर्मदृढं मनः । अशक्यं ध्यातुमप्यस्याः सुतपोऽन्यांगनाजनैः ॥ ५३ ॥ सर्वथा जिनचन्द्राणां मतेनोद्वहते तपः । लोकत्रये जयत्येकं यस्येदं फलमीदृशम् ॥ ५४॥
Page #442
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४३३
पंचषष्टितमं पर्व |
अथवा नैव विज्ञेयमाश्चर्यमिदमीदृशम् । प्राप्यते येन निर्वाणं किमन्यत्तस्य दुष्करम् ॥ ५५ ॥ पराधीनक्रिया साऽहं तपसा निर्जिताऽनया । व्रजामि स्वं पदं साध्ये क्षम्यतां दुर्विचेष्टितम् ||५६ || एवं कृतसमालापां तत्त्वज्ञः शक्तिदेवताम् । विसृज्यावस्थितो वातिः स्वसैन्येऽद्भुतचेष्टितः ॥५७॥ सुता तु द्रोणमेघस्य हियालंकृतदेहिका । पादपद्मद्वयं पद्मं प्रणम्य विहितांजलिः ॥ ५८ ॥ विद्याधरमहामंत्रिवचोभिः कृतशंसना । वंदिता खेचरैरन्यैराशीभिरभिनंदिता ॥ ५९ ॥ शक्रस्येव शची पार्श्वे लक्ष्मणस्य सुलक्ष्मणा । अवस्थिता महाभाग्या सखीवचनकारिणी ॥ ६० ॥ मुग्धा मुग्धमृगीनेत्रा पूर्णचन्द्रनिभानना । महानुरागसंभारप्रेरितोदारमानसा ॥ ६१ ॥ परिष्वज्य रहो नाथं सुखसुप्तं महीतले । सुकुमारकरांभोजसंवाहनसुचारुणा || ६२ ॥ गोशीर्षचन्दनेनैवमन्वपित सर्वतः । तथा पद्ममपि व्रीडा किंचित्कंपितपाणिका ॥ ६३ ॥ शेषाः कन्या यथायोग्यं शेषाणां खेचरेशिनाम् । चंदनेनास्पृशद्गात्रं विशल्याहस्तसंगिना ॥ ६४ ॥ विशल्याहस्तसंस्पृष्टं चन्दनं पद्मवाक्यतः । कान्तमिन्द्रजितादीनामुपनीतं यथाक्रमम् ।। ६५ ।। शीतलं तं समाघ्राय कृत्वांगेषु च सादरम् । निर्वृतिं परमां प्राप्ताः शुद्धात्मानो गतज्वराः ॥ ६६ ॥ अन्ये च योधाः क्षतविक्षतांगा द्विपास्तुरंगाः पदकारिणश्च ।
२-२८
Page #443
--------------------------------------------------------------------------
________________
पद्मपुराणम्।
पंचषष्टितमं पर्व।
अभ्युक्षितास्तत्सलिलेन जाता प्रणष्टशल्या नवभास्करांगाः ॥ ६७ ॥ जन्मान्तरं प्राप्त इवाथ कान्तः स्वभावनिद्रामिव सेवमानः।
उत्थाप्यते स्म प्रवरैनितान्तं संगीतकर्वेणुनिनादगीतैः ॥ ६८॥ ततः शनैरुच्छसितोरुवक्षो नेत्रे समुन्मील्य तिगिंछताने ।
विक्षिप्तबाहुः शनकैर्निकुंच्य लक्ष्मीधरोऽमुंचत मोहशय्याम् ॥ ६९ ॥ त्वत्कोपपादांगशिलामिवासौ रणक्षितिं देव इवोद्यकायः।
उत्थाय रुष्टः ककुभो निरीक्ष्य कासो गतो रावण इत्युवाच ।। ७० ॥ ततः प्रफुल्लांबुजलोचनेन महाभिनंदं भजताग्रजेन ।
उदाररोमांचसुककेशेन प्रोक्तः परिस्वज्य सद्गुजेन ॥ ७१ ॥ कृतार्थवत्तात दशाननोऽसौ हत्त्वा भवन्तं विजहार शक्त्या ।
त्वमप्यमुष्याश्चरितेन जीवं भूयो भुजः संस्तुतकन्यकायाः ॥७२॥ निःशेषतश्चास्य निवेदितं तच्छक्क्या हतिप्रेरणवस्तुवृत्तम् ।
अपूर्वमाश्चर्यमुदारभावं सुविस्मितांववसुधराद्यैः ।। ७३ ॥
Page #444
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४३५
तावत्त्रिवर्णान्जविलासिनेत्रां शरत्समृद्धेन्दुसमानवक्त्राम् । शातोदरीं दिग्गजकुंभशोभिस्तनद्वयां नूतनयौवनस्थाम् ॥ ७४ ॥ शरीरबद्धामिव मन्मथस्य क्रीडां विशालालससनितंबाम् ।
संगृह्य शोभामिव सार्वलोकां विनिर्मितां कर्मभिरेकतानैः ॥ ७५ ॥ तां वीक्ष्य लक्ष्मीनिलयोंऽतिकस्थाम चिन्तयद्विस्मयरुद्धचित्तः । लक्ष्मीरियं किन्नु सुरेश्वरस्य कान्तिर्नु चन्द्रस्य नु भानुदीप्तिः ॥ ७६ ॥ ध्यायन्तमेवं परिगम्य योषा - स्तमेवमूचुः कुशलप्रधानाः
स्वामिन्विवाहोत्सवमेतया ते द्रष्टुं जनो वांछति संगतोऽयम् ॥ ७७ ॥ तस्मितोऽसावदत्समीपे ससंशये युक्तमिदं कथं नु ।
ऊचुः पुनस्ते ननुवृत्त एव स्पर्शो न याते प्रकटस्तु नासीत् ॥ ७८ ॥ भवत्प्रभावक्षतसर्वविघ्नं पाणिग्रहं नाथ भज त्वमस्याः । इत्यर्थनागौरवतश्च वाक्या- दियेष लक्ष्मीनिलयो विवाहम् ।। ७९ ।।
पंचषष्टितमं पर्व |
Page #445
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
४३६
पंचषष्टितम पर्व। क्षणविरचितसर्वश्लाघ्यकर्त्तव्ययोगः पवनपथविहारिस्फीतभूतिप्रपंचः ।
अभवदमरसंपत्कल्पितानंदतुल्यः प्रधनभुवि विशल्यालक्ष्मणोद्वाहकल्पः ॥८॥ इति विहितसुचष्टाः पूर्वजन्मन्युदाराः परमपि परिजित्य प्राप्तमायुर्विनाशम् ।।
द्रुतमुपगतचारुद्रव्यसंबंधभाजो विधुरविगुणतुल्यां स्वामवस्था भजन्ते ॥ ८१॥ इत्याचे श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मचरिते विशल्यासमागमाभिधानं नाम पंचषष्टितम पर्व ॥ ६५ ॥
Page #446
--------------------------------------------------------------------------
________________ Jain cuucation international