SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकत्रिंशत्तमं पर्व । तातेन भ्रातरुक्तं यत्कोन्यस्तद्गदितुं क्षमः । नहि सागररत्नानामुपपत्तिः सरसो भवेत् ॥१५५|| वयस्तपोधिकारे ते जायतेऽद्यापि नोचितं । कुरु राज्यं पितुः कीर्तिरुह्यानु शशिनिर्मला १५६ इयं च शोकतप्तांगा माता यद्याति पंचतां । न तद्युक्तं महाभागे नंदने त्वादृशे सति ॥१५७।। पितुः पालयितुं सत्यं त्यजामोऽपि वयं तनुं । कथं त्वं तु कृतं प्राज्ञः श्रियं न प्रतिपद्यसे ॥१५८॥ नद्यां गिरावरण्ये वा तत्र वासं करोम्यहं । यत्र कश्चिन्न जानाति कुरु राज्यं यथेप्सितं ॥१५९।। भोगं सर्व परित्यज्य पंथानमपि संश्रितः । न करोमि पृथिव्यां ते कांचित्पीडां गुणालय १६० माश्वसीदीर्घमुष्णं च मुंच तावद्भवाद्यं । कुरु वाक्यं पितुः क्षोणी रक्ष न्यायपरायणः ॥१६॥ इक्ष्वाकूणां कुलं श्रीमद्भषयामलविभ्रमं । अत्यंतविपुलं भ्रातः शशी गृहकुलं यथा ॥ १६२ ॥ भ्राजते त्रायमानः सन् वाक्यं तत्पितृकस्य यत् । लब्धवर्णैरिदं भ्रातुभ्रातृत्वं परिकीर्तितं १६३ इत्युक्त्वा भावतः पादौ शिरसा भूतलस्पृशा । पितुः प्रणम्य तप्ताश्वीनिर्गतो लक्ष्मणान्वितः ॥ अत्रांतरे नृपो मूर्छा संप्राप्तोऽपि न केनचित् । ज्ञातः स्तंभसमायुक्तवपुः पुस्तसमाकृतिः ॥१६५॥ स तूर्ण धनुरादायगत्वा नत्वा च मातरं । आपृच्छयतां च गच्छामि तावदन्यमहीमिति १६६ सखीत्वं मूर्छया तस्या दुःखज्ञाननिवारणात् । क्षणं कृतं परिप्राप्तसंज्ञाचास्त्राकुले क्षणा ॥१६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy