SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। एकत्रिंशसमं पर्व। अनुमन्यस्य मां तात नितांतं जन्मभीरुकं । करोमि विधिनारण्ये तपोनिवृतिकारणं ॥ १४२ ॥ अथ गेहेऽपि लभ्येत श्रेयो जनकनैर्वृतं । त्वमेव कुरुषे कस्मादस्य त्यागं महामति ॥ १४३ ॥ तार्यते दुःखतो यस्मात्तपश्चाभ्यनुमोदते । एतत्तातस्य तातत्वं प्रवदंति विचक्षणाः ॥ १४४ ॥ जीवितं वनितामिष्टं पितरं मातरं धनं । भ्रातरं च परित्यज्य याति जीवोयमेककः ॥ १४५ ॥ सुचिरं देवभोगेऽपि यो न तृप्तो हताशकः । स कथं तृप्तिमागच्छेन्मनुष्यभवभोगकैः ॥ १४६ ॥ पिता तद्वचनं श्रुत्वा हृष्टरोमा प्रमोदतः । जगाद वत्स धन्योऽसि विबुद्धो भव्यकेसरी ॥१४॥ तथापि धीर नो भंगः कदाचित्प्रणयस्य मे । त्वया कृतो विनीतानां भवान् हि शिरसि स्थितः।। शृणु सारथ्यतुष्टेन मयासौं जीवसंशये । प्रतिज्ञातं जनन्यास्ते वांछितं नृपसाक्षिकं ॥ १४९ ॥ ऋणतां तच्चिरं नीतमद्याहं प्रापितोऽनया । राज्यं प्रयच्छ पुत्रस्य ममेति बहुमानतः ॥ १५० ॥ स त्वं निष्कंटकं तात राज्यं शक्रोपमं कुरु । असत्यसंधानकीर्तिम माभ्रमीनिखिलं जगत् १५१ इयं च तव शोकेन परमेणाभितापिता । माता म्रियेत सौख्येन सततं लालितांगिका ॥ १५२ ॥ न करोति यतः पातं पित्रोः शोकमहोदधौ । अपत्यत्वमपत्यस्य तद्वदंति सुमेधसः ॥ १५३ ॥ ततः पद्योऽपि तत्पाणौ गृहीत्वैवमभाषत । प्रेमनिर्भरया पश्यन् दृष्टया मधुरनिस्वनः ॥१५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy