________________
७८
एकत्रिंशत्तमं पर्व |
सौधादवतरद्वेगाल्लोकहाकारनादितः । निरुद्धो भरतः पित्रा स्नेहविक्लव चेतसा ।। १२९ ॥ उपविश्यांकमारोप्य परिश्वज्य सुचुंबितं । इति चाभिदधे भूमौ तिष्ठासुर्वशः पितुः || १३० ।। राज्यं पाल वत्स त्वमहं यामि तपोवनं । स जगौ न भजे राज्यं प्रात्राज्यं तु करोम्यहं १३१ भज तावत्सुखं पुत्र सारं मनुजजन्मनः । नवेन वयसा कांतः वृद्धः संप्रवजिष्यसि ॥ १३२ ॥ इत्युक्तेऽभिदधे तात किं मोहयसि मां वृथा । मृत्युः प्रतीक्षते नैव बालं तरुणमेव वा ॥ १३३ ॥ गृहाश्रमे महावत्स श्रूयते धर्मसंचयः । अशक्यः कुनरैः कर्तुं कुरुते राज्य संगतः ॥ १३४ ॥ इत्युक्तेभिदधे तात हृषीकवशवर्तिनः । कामक्रोधादिपूर्णस्य का मुक्तिगृहसेविनः ।। १३५ ॥ मुनीनां वत्स केषांचिद्भवेनैकेन जायते । नैव मुक्तिस्ततो धर्मं कुरु समन्यवस्थितः ।। १३६ ।। इत्युक्तोऽभिदधे तात यद्यप्येवं तथापि किं । गृहधर्मेण तस्मिन् हि मुक्त्यभावः सुनिश्चितः १३७ अपि चानुक्रमान्मुक्तिर्न ममान्यस्य शोचिता । गरुड़ः किं पतंगानां वेगेन सदृशो भवेत् ॥ १३८ ॥ कामार्चिषा परं दाहं व्रजंतः कुत्सिता वराः । जिह्नाधमांगकार्याणि कुर्वते न च निर्वृतिः ॥ १३९ ॥ निक्षिप्यते हि कामानौ भोगसर्पिर्यथा यथा । नितरां वृद्धिमायाति तापकृत्स तथा तथा ॥ १४० ॥ भुक्त्वा भोगान् दुरुत्पादान् दुरक्षान् क्षणभंगिनः । नियतं दुर्गतिं याति पापात्परमदुःखदं १४१
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org