________________
GIG
पद्मपुराणम्।
एकत्रिंशत्तम पर्व । वत्स पूर्व रणे घोरे कलापारगयानया । कृतं केकयया साधु सारथ्यं मम दक्षया ॥ ११६ ॥ तदा तुष्टेन पत्नीनां भूभृतां च पुरो मया । मनीषितं प्रतिज्ञातं नीतं न्यासत्वमेतया ॥११७ ॥ देहि पुत्रस्य मे राज्यमिति तं याचतेऽधुना । किमप्याकूतमापन्ना निरपेक्षा मनस्विनी ॥११८॥ प्रतिज्ञाय तदेदानीं ददाम्यस्य न चेन्मतं । प्रव्रज्यां भरतः कुर्यात्संसारालंबनोज्झितः ॥ ११९ ।। इयं च पुत्रशोकेन कुर्यात्प्राणविवर्जनं । भ्रमेच्च मम लोकेस्मिन्नकीर्तिर्वितथोद्भवा ।। १२० ॥ मयोदा नच नामेयं यद्विधायाग्रज क्षमं । राज्यलक्ष्मीवधृसंगं कनीयान् पाप्यते सुतः ॥१२॥ भरतस्याखिले राज्ये दत्ते स त्वं सलक्ष्मणः । क गच्छेत्परमं तेजो दधानः क्षत्रगोचरं ॥१२२॥ तदहं वत्स नोवेद्मि किं करोमीति पीडितं । अत्यंतदुःखवेगोरुचिंतावातिरस्थितः ॥ १२३ ॥ ततः पद्मो जगादेवं विद्विनयमुत्तमं । सद्भावप्रीतिचेतस्कः पादन्यस्तनिरीक्षणः॥ १२४ ॥ तात रक्षात्मनःसत्यं त्यजास्मत्परिचिंतनं । शक्रास्यापि श्रिया किं मे त्वय्यकीर्तिमुपागते॥१२५॥ जातेन ननु पुत्रेण तत्कर्तव्यं गृहैषिणा । येन नो पितरौ शोकं कनिष्टमपि गच्छतः ॥ १२६ ॥ पुनाति त्रायते चार्य पितरं येन शोकतः । एतत्पुत्रस्य पुत्रत्वं प्रवदंति मनीषिणः ॥ १२७ ॥ सभानुरंजनी यावत्कथेयं वर्तते तयोः । तावद्भवंति हन्मीति कठोरीकृतमानसः ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org