________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । ऊचेऽपराजिता हा त्वं वत्स क प्रस्थितोऽसि मां । कस्मात्यजसि सच्चेष्ट क्षिप्त्वा शोकमहोदधौ १६८ मनोरथशतैः पुत्र त्वं प्राप्तो दुर्लभो मया । प्रारोह इव शाखाया मातुरालंबनं सुतः ॥ १६९ ॥ परिदेवनमेवं तां कुर्वती हृदयंगमं । जगाद प्रणतः पयो मातृभक्तिपरायणः ॥ १७० ॥ अंब मागाद्विषादं त्वं दक्षिणस्यामहं दिशि । निरूप्य संश्रयं योग्यं नेष्यामि त्वां विसंशयं १७१ तातेन पृथिवी दत्ता जननीवरदानतः । भरतायेति ते कर्णजाहं नूनमुपागतं ॥ १७२ ॥ अंते तस्या महारण्ये विंध्याद्रौ मलयेऽथवा । अन्यस्मिन् चार्णवस्यांते पश्य मातः कृतं पदं १७३ मयि स्थिते समीपेऽस्मिन् लोके भास्करसंमते । आज्ञैश्वर्यमयी कांतिभरतेंदोने जायते ॥ १७४॥ ततः प्ररुदती माता जगादात्यंतदुःखिता। पुत्रं विनतमाश्लिष्य स्नेहकातरलोचना ॥ १७५ ॥ तनयायैव मे गंतुमुचितं भवता समं । कथं त्वाहमपश्यंती प्राणान् धारयितुं क्षमा ॥ १७६ ॥ पिता नाथोऽथवा पुत्रः कुलस्त्रीणां त्रयी गतिः । पितातिक्रांतकालो मे नाथो दीक्षासमुत्सुकः॥ जीवितस्य त्वमेवैकः सांप्रतं मेऽवलंबनं । त्वयापि रहिता साहं वद गच्छामि कां गति ॥१७८॥ सोवोचदुपलैरंब क्षितिरत्यंतकर्कशा । भवत्या विषमा पद्भयां गंतुं सा शक्यते कथं ॥ १७९ ॥ तस्मादेकक एवाहं विधाय सुखमाश्रयं । यानेन केनचिन्भेष्ये भवंती त्यजनं कुतः ॥ १८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org