________________
पद्मपुराणम्।
२३९
त्रिचत्वारिंशत्तम पर्व । अपश्यच तरुच्छन्नं प्रदेशमतिदुर्गमं । लताजालावलीरुद्धं तुंगपाषाणवेष्टितं ॥ ५७ ॥ मध्ये च गहनस्यास्य सुसमं धरणीतलं । विचित्ररत्ननिर्माणमर्चितं कनकांबुजैः ॥ ५८ ॥ मध्ये तस्यापि विपुलं वंशस्तं वंशमुत्थितं । सौधर्ममिव संद्रष्टुमविज्ञानकुतूहलं ॥ ५९॥ अथांते तस्य निस्त्रंशं विस्फुरत्करमंडलं । सकीचकवनं येन प्रदीप्तमिव लक्ष्यते ॥६॥ नष्टशंकस्तमादाय लक्ष्मीवाञ्जातविस्मयः । जिज्ञासंस्तीक्ष्णतामस्य तं वेणुस्तंबमच्छिनत् ॥६१॥ गृहीतसायकं दृष्टा तं सर्वास्तत्र देवताः । अस्माकं स्वाम्यसीत्युक्ता सनमस्यमपूजयम् ॥ ६२॥ अथावोचत सीतेशः किंचिदस्राकुलेक्षणः । सौमित्रिश्चिरयत्यद्य क्वनु यातो भविष्यति ॥६३॥ भद्रोत्तिष्ठ जटायुः खं दूरमुत्पत्य सद्रुतं । लक्ष्मीधरकुमारस्य निपुणान्वेषणं कुरु ॥ ६४ ॥ इत्युक्तः करणं यावत्करोत्युत्पतितुं खगः । अंगुली तावदायुस्य (१) जनकस्यांगजावदत् ॥६५॥ अयं कुंकुमपंकन लिप्तांगो नाथ लक्ष्मणः । चित्रमाल्यांबरधरः समायाति स्वलं कृतः ॥६६॥ गृहीतश्चायमेतेन मंडलायो महाप्रभः । राजतत्यंतमेतेन शैलः केसरिणा यथा ॥ ६७ ॥ दृष्ट्वा तमीदृशं रामो विस्मयव्याप्तमानसः । असहः प्रमदं रोद्धमुत्थाय परिषस्वजे ॥ ६८ ॥ पृष्टश्च लक्ष्मणः कृत्स्नं स्ववृत्तांतमवेदयत् । स्थिताश्च ते विचित्राभिः संकथाभिर्यथासुखं ॥६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org