________________
पद्मपुराणम् ।
त्रिचत्वारिंशत्तमं पर्व |
शंबूको नाम सुंदश्व सुतौ तस्य बभूवतुः । बंधुतश्च दशग्रीवाद्भुवि गौरवमाप सः ॥ ४४ ॥ गुरुभिर्वार्यमाणोऽपि मृत्युपाशावलोकितः । शंबूकः सूर्यहासार्थं प्राविशद्भीषणं वनं ॥ ४५ ॥ यथोक्तमाचरन् राजन्नाराधयितुमुद्यतः । एकान्नभुग्विशुद्धात्मा ब्रह्मचारी जितेंद्रियः ॥ ४६ ॥ असमाप्तोपयोगस्य यो मे दृष्टिपथे स्थितः । वध्योऽसाविति भाषित्वा वंशस्थलमुपाविशत् ॥४७॥ दंडकारण्यभागांत तां च क्रौंचरवां नदीं । सागरस्योत्तरं तीरं संसृत्यासाववस्थितः ॥ ४८ ॥ नीत्वा द्वादशवर्षाणि ततोसावसिरुगतः । ग्राह्यः सप्तदिनं स्थित्वा हन्यात्साधकमन्यथा ॥ ४९ ॥ कैकसेयी सुतस्नेहाद्द्द्ष्टुमा गात्क्षणे क्षणे । अपश्यच्चासिमुद्भूतं काले देवैरधिष्ठितं ॥ ५० ॥ प्रसन्नवदना भर्तुर्निजगाद यथाविधि । शंबूकस्य महाराज सिद्धं तद्योगकारणं ॥ ५१ ॥ आगमिष्यति मे पुत्रो मेरुं कृत्वा प्रदक्षिणं । अहोभिस्त्रिभिरद्यापि नियमो न समाप्यते ॥ ५२ ॥ एवं मनोरथं सिद्धं दध्यौ चंद्रनखा सदा । लक्ष्मणश्च तमुद्देशं संप्राप्तः पर्यटन्वने ॥ ५३ ॥ सहस्रामरपूज्यस्य सद्धस्य स्वभावतः । अनंतस्यादिहीनस्य खड़रत्नस्य तस्य सः ॥ ५४ ॥ दिव्यगंधानुलिप्तस्य दिव्यसग्भूषितस्य च । गंधो भास्करहासस्य लक्ष्मीधरमुपेयिवान् ॥ ५५ ॥ लक्ष्मणो विस्मयं प्राप्तः परित्यज्य क्रियांतरं । अयासीगंधमार्गेण केसरीव भयोज्झितः ॥ ५६ ॥
Jain Education International
२३८
For Private & Personal Use Only
www.jainelibrary.org