________________
पद्मपुराणम् ।
२३७
त्रिचत्वारिंशत्तम पर्व । विद्याभृतां सुराणां च ज्ञेयो भेदो विचक्षणैः । तिलपर्वतयोस्तुल्यः शक्तिकांत्यादिभिर्गुणैः ॥३१॥ पंकचंदनयोर्यद्वदथवोपलरत्नयोः । तद्वत खेचरलोकस्य देवलोकस्य चांतरं ॥ ३२ ॥ गर्भवासपरिक्लेशमनुभूय विधेर्वशात् । ततः समुपजायते विद्यामात्रोपजीविनः ॥ ३३ ॥ क्षेत्रवंशसमुद्भूताः खे चरंतीति खेचराः । अमराणां स्वभावस्तु मनोज्ञेयं विबुध्यतां ॥ ३४ ॥ सुरूपशुचिसर्वांगा गर्भवासविवर्जिता । मांसास्थिक्लेदरहिता देवा अनिमिषेक्षणाः ॥ ३५ ॥ जरारोगविहीनाश्च सततं यौवनान्विताः । उदारतेजसा युक्ताः सुखसौभाग्यसागराः ॥३६॥ स्वभावविद्यासंपन्ना अवधिज्ञानलोचनाः । कामरूपधरा धीराः स्वछंदगतिधारिणः ॥ ३७॥ अमी लंकाश्रिता राजन् न देवा न च राक्षसाः । रक्षति रक्षसां क्षेत्रमाहूतास्तेन राक्षसाः ॥३८॥ तद्वंशानुक्रमो ज्ञेयो युगानामंतरैः सह । पारंपर्याव्यतिक्रांतः कालो नैकार्णवोपमः ॥ ३९ ॥ रक्षःप्रभृतिषु श्लाघ्येष्वतीतेषु बहुष्वपि । खंडत्रयाधिपस्तस्य रावणोभवदन्वये ॥४०॥ भगिनी दुर्नखा तस्य रूपेण प्रतिमा भुवि । प्राप्तस्तया महावीर्यो रमणः खरदूषणः ॥४१॥ चतुर्दशसहस्राणि नृणां तस्य महात्मनां । प्रतीतो दूषणाख्यश्च सेनाधिपतिरूर्जितः ॥ ४२ ॥ दिक्कुमार इवोदारो धरणीजठरे स्थितं । अलंकारपुरं तस्य स्थानमासीन्महौजसः॥४३॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org