SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २३६ २३६ त्रिचत्वारिंशत्तमं पर्व । द्वितीयस्य जिनेंद्रस्य द्युतिवाससमागमे । विद्याधराय विनाय पाताय शरणं विभुं ॥ १८ ॥ राक्षसानामधीशेन महाभीमेन धीमता । अंभोदवाहनायासीत्कृपयेत्युदितो वरः ॥ १९ ॥ विपुले राक्षसद्वीपे त्रिकूटं नाम पर्वतं । मेघवाहनविश्रब्धो गच्छ दक्षिणसागरे ॥ २० ॥ जंबूद्वीपस्य जगतीमिमामाश्रित्य दक्षिणं । लंकेति नगरी तत्र रक्षोभिर्विनिवेशिता ॥ २१॥ रहस्यमिदमेकं च विद्याधर परं श्रृणु । जंबूभरतवर्षस्य दक्षिणाशां समाश्रयत् ॥ २२ ॥ आश्रयित्वोत्तरं तीरं लवणस्य महोदधेः । वसुंधरोदरस्थानस्वभावार्पितमायतं ॥ २३ ॥ योजनस्याष्टमं भागं दंडकाग्री गुहाश्रयं । अधोगत्वा महाद्वारं प्रविश्य मणितोरणं ॥ २४ ॥ अलंकरोदयं नाम स्थितं पुरमनुत्तमं । स्थानीयशतधर्मस्थं दिव्यदेशं निरीक्ष्यते ॥ २५ ॥ नानाप्रकाररत्नांशुसंतानपरिराजितं । विस्मयोत्पादने शक्तमपि त्रिदिवस मनां ॥ २६ ॥ अप्रतक्यं गगनगैर्दुर्ग विद्याविवर्जितैः । सर्वकामगुणोपेतं विचित्रालयसंकुलं ॥ २७ ॥ परचक्रसमाक्रांतो यद्यापत्सु कदाचन । भवे दुर्ग समासृत्य तिष्ठस्त्वं निर्भयस्ततः ॥ २८ ॥ इत्युक्तस्तेन यातोसौ यो विद्याधरवालकः । लंकापुरीमभूत्तस्मात्संतानोऽनेकपुंगवः ॥ २९ ॥ यथावस्थितभावानां श्रद्धानं परमं सुखं । मिथ्याविकल्पितार्थानां ग्रहणं दुःखमुत्तमं ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy