________________
पद्मपुराणम्।
२३५
त्रिचत्वारिंशत्तम पर्व। चिरात्कमलिनीगेहं प्राप्य पक्षभृतां गणाः । उद्भूतमधुरालापाः कामप्यापुः सुखासिकां ॥५॥ सिंधवः स्वच्छकीलाला उन्मज्जत्पुलिनाः परां । कांतिमीयुः समासाद्य शरत्समयकामुक ॥६॥ वर्षावातविमुक्तानि चिरात्प्राप्य सुखासिकां । काननानि व्यराजंत संगतानीव निद्रया ॥७॥ सरांसि पंकजाढ्यानि समं रोधसमुत्थितैः । पादपैः पक्षिनादेन समालापमिवाभजन ॥ ८॥ नानापुष्पकृतामोदा रजनीविमलांवरा । मृगांकतिलकं भेजे सुकाले शमिवोषती ॥९॥ केतकीसूतिरजसा पांडुरीकृतविग्रहः । ववौ समीरणो मंदं मदयन्कामिनीजनं ॥ १० ॥ इति प्रसन्नतां प्राप्ते काले सोत्साहविष्टपे । मृगेंद्रगतिराश्लिष्टविक्रमैकमहारसः ॥ ११ ॥ लब्धानुगमनं ज्येष्ठादाशानिहितवीक्षणः । कदाचिल्लक्ष्मणो भ्राम्यन्नेककस्तद्वनांतिकं ॥ १२ ॥ अजिघ्रदामरं गंधं विनीतपवनाहृतं । अचिंतयच्च कस्यैष भवेद्धो मनोहरः ॥ १३ ॥ पादपानां किमतेषां स्फुटकुसुमधारिणां । आहोस्विन्मम देहस्य कुसुमोत्करशायिनः ॥ १४ ॥ वैदेह्या संगतो रामः किमुतोपरि तिष्ठति । किंवा कश्चित्समायातो भवेदत्र त्रिविष्टपी ॥१५॥ ततो मगधराजेंद्रः पप्रच्छ श्रमणोत्तमं । भगवन् कस्य गंधोसौ चके विस्मयनं हरेः ॥ १६ ॥ ततो गणधरोऽवोचज्ज्ञातलोकविचेष्टितः । संदेहतिमिरादित्यः पापधूलीसमीरणः ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org