SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २३४ त्रिचत्वारिंशत्तमं पर्व | 1 अयं सस्यवं मुक्त्वा मेघो भूभृति वर्षति । अनिश्चितविशेषः सन् कुपात्रे द्रविणी यथा ॥ १०० ॥ अतिज हि काले सिंघवः संप्रवृत्ताः । विषमतमविहारोदारपंका धरित्री ॥ जलपरिमलशीतो वाति चंडच वायुः । न तव गमनयुक्तं ते न मन्ये सुभावाः १०१ इति निगदति केकीसूनुरूचे | प्रवदसि यदधीशस्त्वं तथाहं करोमि || विविधरसकथाभिः सुंदरे स्वाश्रये ते । रविपरिचयमुक्तं कालमस्थुः सुखेन ॥ १०२ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे दंडकारण्यनिवासाभिधानं नाम द्विचत्वारिंशत्तमं पर्व | अथ त्रिचत्वारिंशत्तमं पर्व | ततः शरदृतुर्जित्वा शशांककर पत्रिभिः । घनौघं विशदं चक्रे राज्यमाक्रांतविष्टपः ॥ १ ॥ विकसत्पुष्प संघातात्पादपान् स्निग्धचेतसः । अलंकारोत्तमांस्तस्य जगृहुः ककुबंगनाः ॥ २ ॥ जीमूतमलनिर्मुक्तं भिन्नांजनसमद्युति । अंबुनेव चिरं धौतं रराज गगनांगणं ॥ ३ ॥ प्रावृट्रकालगजो मेघकलशैर्धरिणीश्रियं । अभिषिच्य गतः क्वापि विद्युत्कक्षाविराजितः ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy