________________
पद्मपुराणम् ।
१९२
एकोनचत्वारिंशत्तमं पर्व ।
सजलाविव जीमूतौ गर्जितौ तौ महाप्रभौ । निर्घातमिव चंतौ समास्फालयतां धनुः ॥ ७२ ॥ ततस्तौ संभ्रमी ज्ञात्वा रामनारायणाविति । सुरो वह्निप्रभाभिख्यस्तिरोधानमुपेयिवान् ॥ ७३ ॥ ज्योतिर्वासं गते तस्मिन् समस्तं तद्विचेष्टितं । सपदि प्रलयं जातं जातं च विमलं नभः ॥ ७४ ॥ प्रातिहार्ये कृते ताभ्यामिच्छद्भया परमं हितं । उत्पन्नं केवलज्ञानं मुनिपुंगवयोः क्षणात् ।। ७५ ।। चतुर्विधास्ततो देवा नानायानसमाश्रिताः । समाजग्मुः प्रशंसंतो मुदितास्तपसः फलं ॥ ७६ ॥ प्रणम्य विधिना तत्र कृत्वा केवल पूजनं । रचितांजलयो देवा यथास्थानमुपाविशन् ॥ ७७ ॥ केवलज्ञानसंभूतिसमाकृष्टसुरागमात् । दोषादिनात्मकौ कालावभूतां भेदवर्जितौ ॥ ७८ ॥ भूमिरिण मर्त्यास्तथा विद्यामहाबलाः । उपविष्टा यथायोग्यं कृत्वा केवलिनो महं ॥ ७९ ॥ प्रसन्नमानसौ सद्यः कृत्वा केवलिपूजनं । प्रणम्य सीतया साकं निविष्टौ रामलक्ष्मणौ ॥ ८० ॥ अथ तत्क्षणसंभूतपरमाहसनस्थितौ । प्रणम्य सांजलिः पद्मः पप्रच्छैवं महामुनी ॥ ८१ ॥ भगवंतौ कृतो नक्तं केनायं वामुपद्रवः । अथवा स्वस्य युवयोरिदं जातं हितं परं ॥ ८२ ॥ त्रिकालगोचरं विश्वं विदंतावपि तौ समं । गिरं यामूचतुः साम्यपरिणाममितौ क्रमात् ॥ ८३ ॥ नगर्यां पद्मिनीनानि राजा विजयपर्वतः । गुणसस्योत्तमक्षेत्रं भामिनी यस्य धारिणी ॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org