SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १०३ अथ त्रयस्त्रिंशत्तमं पर्व | ततो जनोपभोग्यानां प्रदेशानां समीपतः । रमणीयान् परिप्राप पद्मस्तापससंश्रयान् ॥ १ ॥ तापसा जटिलास्तत्र नानावल्कलधारिणः । सुस्वादुफलसंपूर्णाः पादपा इव भूरयः ॥ २ ॥ विशालपत्रसंछन्ना मठकाः सवितर्द्दिकाः । पलाशोदुंबरैधानां पूलिकाभिर्युताः कचित् ॥ ३ ॥ अकृष्टपच्यमानेन शुष्यता पूरितांगणाः । वर्तयद्भिः सुविश्रब्धैः रोमंथं राजिता मृगैः ॥ ४ ॥ सजटैर्वदुभिर्युक्ता रद्भिः सततं पटु । ललतोच्छ्रितपुच्छ्रेण तार्णकेन कृताजिराः ॥ ५ ॥ पठद्भिर्विशदं युक्ताः शारिकाशुककौशिकैः । वीरुधां पुष्परम्याणां छायासु समवस्थितैः ॥ ६ ॥ कन्याभिर्घटकैः स्वादु वारिणा भ्रातृतेक्षितैः । पूर्णालवालकैर्वालस्तरुभिः कृतराजनः ॥ ७ ॥ फलैर्बहुविधैः पुष्पैर्वासितैः स्वादुवारिभिः । सादरैः स्वागतस्वानैः सार्घदानैस्तथाशनैः ॥ ८ ॥ संभाषणैः कुटीदानैः शयनैर्मृदुपल्लवैः । तापसैरुपचारैस्ते पूजिता श्रमहारिभिः ॥ ९ ॥ आतिथेयाः स्वभावेन तेहि सर्वत्र तापसाः । रूपेश्वेवं प्रकारेषु विशेषेण सुवृत्तयः ॥ १० ॥ उषित्वा गच्छतां तेषां ययुर्मार्गेण तापसाः । पाषाणानपि तद्रूपं द्रवीकुर्यात्किमन्यकैः ॥ ११ ॥ Jain Education International त्रयस्त्रिंशत्तमं पर्व | For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy