________________
पद्मपुराणम् ।
२२०
एकचत्वारिंशत्तम पर्व। प्रशांतो भव मा पीड़ा कार्षीः सर्वासुधारिणां । अनृतं स्तेयतां भार्या परकीयां विवर्जय ॥१४२।। एकांतब्रह्मचर्य वा गृहीत्वा सत्क्षमान्वितः । रात्रिभुक्ति परित्यज्य भव शोभनचेष्टितः ॥१४३॥ प्रयतोऽघिक्षिपायां च जिनेंद्रान्बहुचेतसा । उपवासादिकं शक्त्या सुधीनियममाचर ॥ १४४ ।। इंद्रियाण्यप्रमत्तः सन्नुत्सुकान्यात्मगोचरे । कुरु युक्तव्यवस्थानि साधूनां भक्तितत्परः ॥ १४५ ॥ इत्युक्त्वा सांजलिः पक्षी शिरो विनमयन्मुहुः । कुर्वाणो मधुरं शब्दं जग्राह मुनिभाषितं ॥१४६॥ श्रावकोयं विनीतात्मा जातोस्माकं विनोदकृत् । इत्युक्ता सस्मिता सीतातं कराभ्यां समस्पृशत् ।। साधुभ्यामुक्तमित्येतं रक्षितुं वाधुनोचितं । तपस्वी शांतचित्तोयं क वा गच्छतु पक्षभृत् ॥१४८॥ अस्मिन्सुगहनेऽरण्ये क्रूरपाणिनिषेविते । सम्यग्दृष्टेः खगस्यास्य रक्षा कार्या त्वया सदा ॥१४९।। ततो गुरुवचः प्राप्य सुतरां स्नेहपूर्णया । सीतयानुगृहीतोऽसौ परिपालनचिंतया ॥ १५० ॥ पल्लवस्पर्शहस्ताभ्यां तं परामृशती सती । जनकस्यांगजा रेजे विनीता गरुडं यथा ॥ १५१ ।। निग्रंथपुंगवावेभिः स्तुतिपूर्व नमस्कृतौ । बहूपकारिसंचारौ यातावात्मोचितं पदं ॥ १५२ ॥ नभः समुत्पतंतौ तौ शुशुभाते महामुनी । दानधर्मसमुद्रस्य कल्लोलाविव पुष्कलौ ।। १५३ ॥ प्रभिन्नं वारुणं तावद्वशीकृत्य वनोत्थितं । आरुह्य लक्ष्मणः श्रुत्वा ध्वनिमागात्समाकुलः ॥१५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org