________________
२२
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। रत्नकांचनराशि च दृष्ट्वा पर्वतसन्निधिं । नानावर्णप्रभाजालसमुद्गतसुरायुधं ॥ १५५ ॥ विकसन्नयनांभोजमहाकौतुकपूरिताः । कृतो विदितवृत्तांतः पोन मुदितात्मना ॥ १५६ ॥ प्राप्तबोधिरसौ पक्षी नायासीत्तौ विना कचित् । निग्रंथवचनं सर्व कुर्वन्नुद्यतमानसः ॥ १५७ ॥ स्मर्यमाणोपदेशोसौ सीतयाणुव्रताश्रमे । पद्मलक्ष्मणमार्गेण रममाणो भ्रमन्महीं ॥ १५८ ॥ धर्मस्य पश्यतौदार्य यदस्मिन्नेव जन्मनि । शाकपत्रोपमो गृध्रो जातस्तामरसोपमः ॥ १५९ ॥ पुरा योनेकमांसादो दुर्गधोभूज्जुगुप्सितः । सोयं कांचनकुंभाभः सुरभिः सुंदरोभवत् ॥१६० ।। क्वचिद्वह्निशिखाकारः क्वचिद्वैडूर्यसन्निभः । क्वचिच्चामीकरच्छायो हरिन्मणिरुचिः क्वचित् १६१ रामलक्ष्मणयोरग्रे स्थितोसौ बहुचाटकः । बुभुजे साधु संपन्नमन्नं सीतोपसाधितं ॥ १६२ ॥ चंदनेन स दिग्धांगो हेमकिंकिण्यलंकृतः । विभ्राणः शकुनो रेजे रत्नांशुजटिलं शिरः ॥१६३॥ यस्मादंशुजटास्तस्य विरेजू रत्नहेमजाः । जटायुरिति तेनासावाहृतस्तैरतिप्रियः ॥ १६४ ॥ जितहंसगतिं कांतं चारुविभ्रमभूषितं । तमन्यपक्षिणो दृष्ट्वा भयवंतो विसिस्मियुः ॥ १६५ ॥ त्रिसंध्यं सीतया साकं वंदनामकरोदसौ। भक्तिप्रहो जिनेंद्राणां सिद्धानां योगिनां तथा ॥१६६॥ तत्र प्रीतिं महाप्राप्ता जानकी करुणा परा । अप्रमत्ता सदा रक्षां कुर्वती धर्मवत्सला ॥ १६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org