________________
२१९
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व । वृकेण मारिता मेषी महिषी च ततः पितुः । मातुलस्य विलासस्य भविष्यति शरीरजा ॥१२९॥ एवमस्त्विति संभाष्य प्रणम्य प्रमादी गुरुं । सुकेतुः क्रमतः प्राप्तस्तापसानां निकेतनं ॥ १३० ।। गुरुणा च यथादिष्टं तां दृष्ट्वा तमुदाहरत् । तथा वृत्तं च तत्सर्व यातमनेः समक्षतां ॥ १३ ॥ ततोऽसौ विधुरा नाम्ना विलासस्य शरीरजा । याचिता श्रेष्ठिना लब्धा प्रवरेण मनोहरा ॥१३२॥ विवाहसमये प्राप्ते प्रवराय न्यवेदयत । अग्निकेतुर्यथेयं तं दुहितासीद्भवांतरे ॥ १३३ ॥ विलासायापि ते सर्वे भवास्तेन निवेदिताः । श्रुत्वा तत्कन्यका जाता जातिस्मरणकोविदा १३४ ततः प्रत्रजितुं वांछां सा संवेगपराकरोत् । प्रवरश्च विलासेन व्यवहारं दुराशयः ॥ १३५ ॥ सभायां पितुरस्माकं प्रवरे भंगतां गते । आर्यिकात्वमिता कन्या श्रमणत्वं च तापसः ॥१३६।। वृत्तांतमीदृशं श्रुत्वा वयं वैराग्यपूरिताः । सकाशेऽनंतवीर्यस्य जैनेंद्रव्रतमाश्रिताः ॥ १३७ ॥ एवं मोहपरीतानां प्राणिनामतिभूरिशः । जायंते कुत्सिताचारा भवसंततिदायिनः ॥ १३८ ॥ मातापितृसुहृन्मित्रभार्यापत्यादिकं जनः । सुखदुःखादिकं चायं विवर्त लभते भवे ॥ १३९ ॥ तच्छ्रुत्वा सुतरां पक्षी भीतोऽभूद्भवदुःखतः । चकार च मुहुःशब्दं धर्मग्रहणवांछया ॥ १४० ।। उक्तं च गुरुणा भद्र माभैषीरधुना व्रतं । गृहाण येन नो भूयः प्राप्यते दुःखसंततिः ॥ १४१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org