________________
पद्मपुराणम् ।
१७६
अष्टत्रिंशत्तम पर्व। अतिवीर्यमुनि दृष्टा सुघोरतपसि स्थितं । शुभध्यानगतात्मानं ज्वलंतं श्रमणश्रिया ॥ १७ ॥ उत्फुल्लनयनो लोकः सर्वो हृष्टतनूरुहः । विस्मयं परमं प्राप्तो ननाम रचितांजलिः ॥१८॥ कृत्वास्य महतीं पूजां भरतः श्रमणप्रियः । प्रणम्य पादयोरुचे भक्त्या विनतविग्रहः ॥ १९ ॥ नाथ शूरस्त्वमेवैकः परमार्थविशारदः । येनेयं दुर्धरा दीक्षा धृता जिनवरोदिता ॥ २० ॥ विशुद्धकुलजातानां पुरुषाणां महात्मनां । ज्ञातसंसारसाराणामीडगेव विचेष्टितं ॥ २१ ॥ मनुष्यलोकमासाद्य फलं यदभिवांछयते । तदुपात्तं त्वया साधो वयमत्यतदुःखिताः ॥ २२ ॥ क्षंतव्यं दुरितं किचिद्यदस्माभिस्त्वयीहितं । कृतार्थोसि नमस्तुभ्यं प्राप्तायातिप्रतीक्ष्यतां ॥२३॥ इत्युक्त्वा सांजलिं कृत्वा महासाधोः प्रदक्षिणां । अवतीर्णः कथां मौनी कुर्वाणो धरणीधरात् ॥ स्थूरीपृष्ठं समारुह्य पूर्यमाणः सहस्रशः । सामंत प्रस्थितोऽयोध्यां विभवाम्भोधिमध्यगः ॥२५॥ महासाधनसामंतमंडलस्यांतरे स्थितः । शुशुभेसौ यथा जंबुद्वीपोऽन्यद्वीपमध्यगः ॥२६॥ क्व गतास्ता नु नर्तक्यः कृतलोकानुरंजनाः। स्वजीवितेऽपि निर्लोभा विदधुर्या मयि प्रियं ॥२७॥ पुरः कृत्वातिवीर्यस्य मदीयां परमां स्तुति । नर्तकीभिः कृतं कर्म चित्रमेतदहो परं ॥२८॥ स्त्रीणां कुतोथवा शक्तिरीदृशी विष्टपेऽखिले । जिनशासनदेवीभिर्नूनमेतदनुष्ठितं ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org