________________
पद्मपुराणम् ।
१७५
अष्टमं पर्व
ततः कृत्वा जिनेद्राणां पूजां विस्मयदायिनीं । इयाय विजयस्थानं लक्ष्मणाद्यन्वितो बलः ||४|| दीक्षां त्वातिवीर्यस्य नर्तकीग्रहहेतुकां । शत्रुघ्नं हाससध्वानं निषिध्य भरतोऽवदत् ॥ ५ ॥ अतिवीर्यो महाधन्यस्तस्य किं भद्र हास्यते | त्यक्त्वा यो विषयात्कष्टान् परां शांतिमुपाश्रितः । प्रभावं तपसः पश्य त्रिदशेष्वपि दुर्लभं । मुनिर्यो रिपुरासीन्नः संप्राप्तोऽसौ प्रणम्यतां ॥ ७ ॥ श्लाघामित्यतिवीर्यस्य यावत्कुर्वन् स तिष्ठति । विजयस्यंदनस्तावत्प्राप्तः सामंतमध्यगः ॥ ८ ॥ प्रणम्य भरतायासौ स्थितः संकथया क्षणं । ज्यायसीं रतिमालाया नाम्ना विजयसुंदरीं ॥ ९ ॥ उपनिन्ये शुभां कन्यां नानालंकारधारिणीं । कोशं च विपुलं सारं साधनं च प्रसन्नदृक् ॥ १० ॥ कन्यामेकामुपादाय केकयानंदनस्ततः । तस्यैवानुमतं सर्वं स्थितिरेषा महात्मनां ॥ ११ ॥ कौतुकोत्कलिकाकीर्णमानसोऽथ महाजवैः । अश्वैः प्रववृते दृष्टुमतिवीर्यदिगंबरं ॥ १२ ॥ क्वासौ महामुनिः कासाविति पृच्छन्सुभावनः । एषोयमित्यनुं भृत्यैः कथ्यमानमियाय सः ॥ १३॥ ततो विषमपाषाणनिवहात्यंत दुर्गमं । नानाद्रुमसमाकीर्ण कुसुमामोदवस्थितं ।। १४ ।। तज्ज्ञेन कथितं रम्यं पर्वतं श्वापदाकुलं । आरुरोहावतीर्याश्वाद्विनीताकारमंडितः ॥ १५ ॥ रोषतोषविनिर्मुक्तं प्रशांतकरणं विभुं । शिलातलनिषण्णं तमेकसिंहमिवाभयं ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org