SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकोनत्रिंशत्तम पर्व। उद्यानं स महावृक्षं सयूथ इव वारणः । प्रविवेशात्मदशमो महेंद्रोदयकीर्तनं ॥ ९ ॥ तस्मिन् शिलातले रम्ये विपुले निर्मले समे । पशूनामंगनानां च पंडुकानां च दुर्गमे ॥ ९१ ॥ द्वेषिलोकविमुक्तेसौ सूक्ष्मप्राणिविवर्जिते । दूरावष्टंभशाखस्य स्थितो नागतरोरधः ॥ ९२ ॥ मार्तडमंडलच्छायो गंभीरः प्रियदर्शनः । वर्षाः क्षपयितुं तस्थौ कर्माणि च महामनाः ॥ ९३ ॥ संप्राप्तश्च महाकालः प्रवासिजनभैरवः । प्रस्फुरद्विधुदुर्गोष्टक्रूरधाराधरध्वनिः ॥ ९४ ॥ तर्जयनिव लोकस्य कृततापं दिवाकरं । भयात्पलायितं कापि स्थूलधारांधकारतः ॥ ९५ ॥ जातमुर्वीतलं सम्यक् कंचुकेन कृतावृतिः । वर्द्धते सुमहानद्यो वीचिपातितरोधसः ॥ ९६ ॥ जायते प्राप्तकंपानां चित्तोद्भांतिः प्रवासिनां । असिधारात्रतं जैनो जनो सक्तं निषेवते ॥ ९७ ॥ भूरिशोवग्रहांश्चक्रुमुनयः क्षितिगोचराः । स्वयानलब्धयश्चैते पांतु त्वा मगधाधिप ॥ ९८॥ अथ भेरीनिनादेन शंखनिस्वनशोभिना । दोषांते कोशलानाथो विवृद्धो भास्करो यथा ॥१९॥ ताम्रचूडाः खरं रेणुदंपतीनां वियोजकाः । सारसाश्चक्रवाकाश्च सरसीषु नदीषु च ॥ १० ॥ भेरीपणववीणाथैगीतैश्च सुमनोहरैः । व्यावृतश्चैत्यगेहेषु जायते विपुलो जनः ॥ १०१॥ विघूर्णमाननयनः सकलारुणलोचनः । विमुंचते जनो निद्रां प्रियामिव न्हियान्वितः॥ १०२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy