________________
पद्मपुराणम् ।
३४५
त्रिपचाशत्तमं पर्व ।
सदा करोति सर्वस्मै कथां स्वामिनि ते मुदा । त्वदीक्षणाशया प्राणान्वध्वा धत्ते स केवलम् ५५ इति तद्वचनं श्रुत्वा पतिजीवनवेदनम् । प्रमोदं परमं प्राप्ता सीता विकसितेक्षणा ॥ ५६ ॥ विषादं संगता भूयो जलपूरितलोचना । ऊचे शान्ता हनुमन्तं विनीतं स्थितमग्रतः ॥ ५७ ॥ साहमस्यामवस्थायां निमग्ना कपिलक्षण । तुष्टा किं ते प्रयच्छामि हतेन विधिनान्विता ॥ ५८ ॥ ऊचे च वायुपुत्रेण दर्शनेनैव ते शुभे । अद्य मे सुलभं सर्व जातं जगति पूजिते ॥ ५९॥ ततो मुक्ताफलस्थूलवाष्पविन्दुचिताधरा । सीता श्रीरिव दुःखार्ता पप्रच्छ कपिलक्षणम् ।। ६० ।। मकरग्राहनक्रादिक्षोभितं भीममर्णवम् । भद्र दुस्तरमुल्लध्य विस्तीर्ण कथमागतः ॥ ६१ ॥ अवस्थां वा गतामेतां कार्यसंसिद्धिमागताम् । किमर्थं मामिहागत्य नयस्यास्वासमुत्तमाम् ||६२|| लावण्यद्युतिरूपाढ्यः कान्तिसागरसंवृतः । श्रिया कीर्त्या च संयुक्ततः प्रियो मे भद्र बान्धवः ६३ प्रदेशे स त्वया कस्मिन् प्राणनाथे ममेक्षितः । सत्यं जीवति सगोत्र कचिल्लक्ष्मण संगतः || ६४ ॥ किं नु दुःखेचरैः संख्ये भीमैः व्यापादितोऽनुजः । लक्ष्मणेनैव तुल्यः स्यात्पद्मः पद्माभलोचनः ।। किं वा मद्विरहादुग्रदुःखं नाथः समाश्रितः । संदिश्य भवतः किंचिद्वने लोकान्तरं गतः ।। ६६ ।। जिनेन्द्र विहिते मार्गे निःशेषग्रन्थवर्जितः । ते पश्यन् किमसावास्ते भवनिर्वेदपण्डितः ॥ ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org