SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३४६ त्रिपंचाशत्तमं पर्व | शिथिली भूत निःशेषशरीरस्य वियोगतः । अंगुलीतश्च्युतं प्राप्तं त्वया स्यादंगुलीयकम् ॥ ६८ ॥ त्वया सह परिज्ञातिर्नासीदेव मम प्रभोः । कार्येण रहितः प्राप्तः कथं त्वं तस्य मित्रताम् ||६९ || न च प्रत्युपकाराय शक्ता तुष्टाप्यहं तव । अंगुलीयकमेतच्च समानीतं कृपावता ॥ ७० ॥ एतत्सर्वं मम भ्रातः समाचक्ष्व विशेषतः । सत्येन श्रावितः पित्रोर्देवस्य च मनोजुषः ॥ ७१ ॥ इति पृष्टः समाधानी शाखामृगकिरीटभृत् । शिरस्थकर जीवो जगाद विकचेक्षणः ॥ ७२ ॥ सायके रविहासाख्ये लक्ष्मणेन निजीकृते । गत्वा चन्द्रनखानिष्टा रमणं समरोषयत् || ७३ ॥ यावदाहूयते स्वामी रक्षसां सुमहाबलः । दूषणस्तावदायातो योद्धुं दाशरथिं द्रुतम् ॥ ७४ ॥ लक्ष्मणो दूषणेनामा युध्यते यावदुद्धतम् । तावद्दशमुखः प्राप्तस्तमुद्देशं बलावितः ॥ ७५ ॥ धर्माधर्मविवेकज्ञः सर्वशास्त्रविशारदः । भवतीं वीक्ष्य स क्षुद्रो बभूव मनसो वशः ॥ ७६ ॥ भ्रष्टनिःशेषनीतिश्च निस्सारीभूतचेतनः । माया सिंहस्वनं चक्रे भवतस्तेनकारणम् ॥ ७७ ॥ श्रुत्वा सिंहस्वनं पद्मो ययौ यावद्रणस्थितम् । लक्ष्मणं तावदेतेन पापेन त्वमिहाहृता ॥ ७८ ॥ प्रेषितः पद्मनाभश्च लक्ष्मणेन त्वरावता । गत्वा भूयस्तमुद्देशं न त्वामैक्षत सत्तमे ।। ७९ ।। ततश्चिरं वनं भ्रान्त्वा त्वद्गवेषणकारणम् । ईक्षांचक्रे श्लथप्राणं मृत्य्वासनं जटायुषम् ॥ ८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy