________________
पद्मपुराणम् ।
૨૪૪
त्रिपंचाशत्तमं पर्व |
उत्तमस्त्रीसहस्राणां ततो मध्यगतामिमाम् । प्रभामंडलकल्पोऽसौ पद्मपत्नीमुपागमत् ।। ४२ । निःशंकद्विपविक्रान्तः संपूर्णेन्दुसमाननः । सहश्रांशुसमो दीप्त्या माल्याम्बरविभूषितः ॥ ४३ ॥ रूपेणाप्रतिमो युक्तः कांत्या निर्मृगचन्द्रमाः । किरीटे वानरं विभ्रदामोदाहृतषट्पदः ॥ ४४ ॥ चंदनार्चितसर्वांगः पीतचर्चाविराजितः । तांबूलारक्तबिम्बोष्ठः प्रलम्यांशुकशोभितः ॥ ४५ ॥ चलत्कुंडलविद्योतविहसगंडमण्डलः । परं संहननं विभ्रद्वीर्येणान्तविवर्जितः ॥ ४६ ॥ सर्पत्सीतां समुद्दिश्य हनुमान् गुणभूषणः । महाप्रतापसंयुक्तः शोभामुपययौ पराम् ॥ ४७ ॥ कान्तिभासि मुखं दृष्ट्वा तं युतं परया श्रिया । पद्मायतेक्षणा नार्यस्ता बभूवुः समाकुलाः || ४८ || दधती हृदये कंपं मन्दोरर्याप्तविस्मया । समालोकत सीतायाः समीपे वायुनन्दनम् ॥ ४९ ॥ उपगम्य ततः सीतां विनीतः पवनात्मजः । करकुड्मलमाधाय मस्तके नम्रतायुषि ।। ५० ।। कुलं गोत्रं च संश्राव्य पितरं जननीं तथा । अवेदयच्च विश्रब्धं पद्मनाथेन चोदितम् ॥ ५१ ॥ त्रिविष्टपसमे साध्वि विमाने विभवान्विते । रतिं न लभते रामो मग्नस्त्वद्विरहार्णवे ।। ५२ ।। त्यक्तनिःशेषकर्तव्यो मौनं प्रायेण धारयन् । स त्वां मुनिरिव ध्यायन्नेकतानोऽवतिष्ठते ॥ ५३ ॥ वेणुतंत्रीसमायुक्तं गीतं प्रवरयोषिताम् । न कर्णजाहमेतस्य कदाचिद्याति पावने ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org