SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पायूमुराणम् । अष्टचत्वारिंशत्तम पर्व। अथाष्टचत्वारिंशत्तम पर्व। अथोपलालनं तस्य वाछंत्यो वरकन्यकाः । बहुभेदाः क्रियाश्चक्रुर्देवलोकादिवागताः ॥१॥ वीणादिवादनैस्तासां गीतैश्वातिमनोहरैः । ललिताभिश्च लीलाभिहृतं तस्य न मानसम् ॥ २॥ सर्वाकारसमानीतो विभवस्तस्य पुष्कलः । न भोगेषु मनश्चक्रे वैदेही प्रति संहृतम् ॥३॥ अनन्यमानसोऽसौ हि मुक्तनिःशेषचेष्टितः । सीतां मुनिरिव ध्यायन् सिद्धिं मास्थान्महादरः ४ न शृणोति ध्वनि किंचिद्रूपं पश्यति नापरम् । जानकीमयमेवास्य सर्व प्रत्यवभासते ॥ ५ ॥ न करोति कथामन्यां कुरुते जानकीकथाम् । अन्यामपि च पार्श्वस्थां जानकीत्यभिभाषते ॥६॥ वायसं पृच्छति प्रीत्या गिरेव कलनादया । भ्राम्यता विपुलं देशं दृष्टा स्यान्मैथिली कचित् ॥७॥ सरस्युन्निद्रपद्मादिकिंजल्कालंकृतांभसि | चक्राहमिथुनं दृष्ट्वा किंचित्संचिन्त्य कुप्यति ॥ ८॥ सीताशरीरसंपर्कशंकया बहुमानवत् । निमील्यलोचने किंचित्समालिंगत मारुतम् ॥९॥ एतस्यां सा निषण्णेति वसुधां बहु मन्यते । जुगुप्सितस्तथा नूनमिति चन्द्रमुदीक्ष्यते ॥ १० ॥ अचिन्तयञ्च किं सीता मद्वियोगाग्निदीपिता । तामवस्थां भवेत्प्राप्ता स्यादस्या यापदैषिणाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy