________________
पद्मपुराणम् ।
२९६
अष्टचत्वारिंशत्तमं पर्व ।
किमियं जानकी नैषा लता मंदानिलेरिता । किमंशुकमिदं नैतच्चलत्पत्रकदम्बकम् ॥ १२ ॥ एते किं लोचने तस्या नैते पुष्पेषु षट्पदाः । करोऽयं किं चलस्तस्या नाद्यं प्रत्यग्रपल्लवः ॥ १३॥ केशभारं मयूरीषु तस्याः पश्यामि सुन्दरम् | अपर्याप्तशशांकेव लक्ष्मीमलिकसंभवाम् ॥ १४ ॥ त्रिवर्णाभोजखण्डेषु श्रियं लोचनगोचराम् । शोणपल्लवमध्यस्थसितपुष्पेस्मितत्विषाम् ॥ १५ ॥ स्तबकेषु सुजातेषु कान्तिमत्सु नतश्रियम् । जिनस्नपनवेदीनां शोभां मध्येषु मध्यमाम् ।। १६ ।। तासामेवोर्द्धभागेषु नितंबभरताकृतिम् । उरुशोभांशुजातासु कदलीस्तंभिका सुताम् ॥ १७ ॥ पद्मेषु चरणाभिख्यां स्थलसंप्रायनजन्मसु । शोभां तु समुदायस्य तस्याः पश्यामि न कचित् ९८ चिरायति कथं सोऽपि सुग्रीवः कारणं नु किम् । दृष्ट्वा नाम भवेत्सीता किं तेन शुभदर्शिना १९ मद्वियोगेन तप्तां वा विलीनां तां सुशीलकाम् । ज्ञात्वा निवेदने शक्तः किमसौ नैति दर्शनम् २० किं वा कृतार्थतां प्राप्तां प्राप्ये राज्यं पुनर्निजम् । स्वस्थिभूतो भवेदुःखं मम विस्मृत्य खेचरः २१ एवं चिंतयतस्तस्य वाष्प विप्लुतचक्षुषः । स्रस्तालसशरीरस्य विवेदावरजो मनः ॥ २२ ॥ ततः ससंभ्रमः स्वान्तः कोपारुणितलोचनः । ययौ सुग्रीवमुद्दिश्य नमासिविलसत्करः ॥ २३ ॥ गच्छतस्तस्य वातेन जंघास्तंभाप्त जन्मना । दोलायितमभूत् सर्वं महोत्पाताकुलं पुरम् ॥ २४ ॥
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org