________________
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व। वेगनिक्षिप्तनिःशेषराजाधिकृतमाननः । प्रविश्य तद्गृहं दृष्ट्वा सुग्रीवमिदमभ्यधात् ॥ २५ ॥ आः पाप दयितादुःखनिमग्ने परमेश्वरे । भार्यया सहितः सौख्यं कथं भजास दुर्मते ॥ २६ ॥ अहं त्वां खेचरध्वांक्ष भोगे दुर्लड़ितं खल । नयामि तत्र नाथेन यत्र नीतस्त्वदाकृतिः ॥ २७ ॥ एवमुग्रान्विमुंचंतं वर्णान् कोपकणानि च । लक्ष्मीधरं प्रणामेन सुग्रीवः शममानयत् ॥ २८ ॥ उवाच चेदमेक मे क्षम्यतां देव विस्मृतम् । क्षुद्राणां हि भवत्येवं मादृशां दुर्विचेष्टितम् ॥ २९ ॥ तस्यार्थपाणयो दाराः संभ्रान्ताः कंपमूर्तयः । संप्रणामेन निःशेषं जहुर्लक्ष्मणसंभ्रमम् ॥ ३०॥ सज्जनांभोदवाक्तोयधारानिकरसंगतः । प्रयाति विलयं कापि जनारणिभवोऽनलः ॥ ३१ ॥ प्रणाममात्रसाध्यो हि महतां चेतसः समः । महद्भिरपि नो दानरुपशम्यन्ति दुर्जनाः ॥ ३२ ।। प्रतिज्ञां स्मारयंस्तस्य चक्रे लक्ष्मीधरः परम् । उपकारं यथा योगी यक्षदत्तस्य मातरम् ॥३३॥ पप्रच्छ मगधाधीशो गणेश्वरमिहान्तरे । यक्षदत्तस्य वृत्तान्तं नाथेच्छामि विवेदितुम् ॥ ३४ ॥ ततो गणधरोऽवोचच्छृणु श्रेणिकभूपते । चकार यक्षदत्तस्य यथा मातुः स्मृतिं मुनिः ॥ ३५ ॥ अस्ति क्रौंचपुरं नाम नगरं तत्र पार्थिवः । यक्षसंज्ञः प्रिया तस्य राजिलेति प्रकीर्तिता ॥ ३६ ।। तत्पुत्रो यक्षदत्ताख्यः स वाह्यां विरहत्सुखम् । अपश्यत्परमां नारी स्थितां दुर्विधपाटके ॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org