SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । चतुःपञ्चाशत्तम पर्व अस्माकं बहवः सन्ति खेचरेन्द्रा महारथाः । विद्याविभवसंपन्नाः कृताश्चर्याः सहस्रशः ॥ ३४ ॥ ख्यातो घनगतिस्तीत्रो भूतनादो गजस्वनः । क्रूरः केली किलो भीमः कुंडो गोरतिरंगदः ||३५|| नलो नीलो तडिद्वक्त्रो मन्दरोऽशनिरर्णवः । चन्द्रज्योतिर्मृगेन्द्राह्नो वज्रदंष्ट्रो दिवाकरः ॥ ३६ ॥ उल्कालांगूलदिव्यास्त्रप्रत्यूहोज्झितपौरुषः । हनुमान् सुमहाविद्यः प्रभामंडलसुन्दरः ॥ ३७ ॥ महेन्द्रकेतुरत्युग्रसमीरणपराक्रमः । प्रसन्नकीर्तिरुद्वृत्तः सुतास्तस्य महाबलाः ॥ ३८ ॥ किष्किंधस्वामिनोऽन्येपि सामन्ताः परमैौजसः । विद्यन्तेऽक्षतकर्माणो निर्भृत्याः शासनैषिणः ३९ ततस्तद्वचनं श्रुत्वा खेचराश्चक्षुरानतम् | लक्ष्मीधराग्रजं तेन निदधुर्विनयान्वितम् ॥ ४० ॥ अथेक्षांचक्रिरे तस्य वदनेऽव्यक्तसौम्यके । भ्रकुटीजालकं भीमं मृत्योरिव लतागृहम् ॥ ४१ ॥ लंकायां तेन विन्यस्तां दृष्टिं शोणस्फुरत्विषम् | केतुरेखामिवोद्याताम् राक्षसक्षयशंशिनीम् ॥४२॥ तामेव च पुनर्न्यस्तां चिरमध्यस्थतां गते । दृष्ट्वा स्थानि निजे चापे कृतान्तभ्रूलतोपमे ॥ ४३ ॥ कोपर्कपश्लथं चास्य केसभारं स्फुरद्युतिम् । निधानमिव कालस्य निरोद्धुं तमसा जगत् || ४४ ॥ तथाविधं च तद्वक्त्रं ज्योतिर्वलयमध्यगम् । जठरीभवदुत्पातप्रभाभास्करसन्निभम् ॥ ४५ ॥ गृहीतगमनं क्ष्वेडं रक्षसां नाशनायतं । दृष्ट्वा ते गमने सज्जा जाता संभ्रान्तमानसाः ॥ ४६ ॥ ३६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy