SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अपचत्वारिंशत्तम पर्व। अप्रमेयगुणाधारान् क्रमादिपरिवर्जितान् । साधारणान् स्वरूपेण स्वार्थकाष्ठामुपागतान् ।।२०४॥ . सर्वथा शुद्धभावांश्च ज्ञातज्ञेयान्निरंजनान् । दग्धकर्ममहाकक्षान् विशुद्धध्यानतेजसा ॥ २०५॥ तेजःपटपरीतेन भक्तितो वज्रपाणिना । संस्तुतान् भवभीतेन चक्रवादिभिस्तथा ॥२०६॥ संसारधर्मनिर्मुक्तान् सिद्धधर्मसमाश्रितान् । सर्वान् वंदामहे सिद्धान् सर्वसिद्धिसमावहान् २०७ अस्यां च ये गताः सिद्धिं शिलायां शीलधारिणः । उपगीताः पुराणेषु सर्वकर्मविवर्जिताः २०८ जिनेन्द्रसमतां याताः कृतकृत्या महौजसः । मंगलस्मरणेनैतान् भक्त्या वंदामहे मुहुः ॥२०९॥ एवं च सुचिरं श्रुत्वा पुनरेवं बाषिरे । लक्ष्मीधरं समुद्दिश्य स्थापितैकाग्रमानसाः ॥ २१ ॥ शिलायामिह ये सिद्धा ये चान्ये हतकिल्विषाः । ते विघ्नशूदनाः सर्वे भवन्तु तव मंगलम् २११ अर्हन्तो मंगलं सन्तु तव सिद्धाश्च मंगलम् । मंगलं साधवः सर्वे मंगलं जिनशासनम् ॥२१२॥ इति मंगलनिस्वानर्विहाय तलचारिणाम् । शिलामचालयत् क्षिप्रं लक्ष्मणो विमलद्युतिः ॥२१३॥ सा लक्ष्मणकुमारेण नानालंकारभूषणा । केयूरकान्तबाहुभ्यां धृता कुलवधूरिव ॥ २१४ ।। अथांतरिक्षे देवानां महाशब्दो महानभूत् । सुग्रीवाद्याश्च राजेन्द्रा विस्मयं परमं ययुः ॥ २१५ ॥ ततः सिद्धान् प्रमोदाढ्याः प्रणम्य भयवर्जितान् । सम्मेदशिखरस्थं च जिनेन्द्रं मुनिसुव्रतम् २१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy