________________
पद्मपुराणम् ।
अष्टचत्वारिंशत्तमं पर्व |
जांबूनदो महाबुद्धिः किष्किन्धाधिपतिस्तथा । विराधितोऽर्क्रमाली च नलनीलौ विचक्षणौ १९१ पुरस्कारमारोप्य विमाने रामलक्ष्मणौ । संप्रयाता दुतं व्यानि रात्रौ तमसि गहरे ॥। १९२ ।। अवतेरुः समीपे च यत्र सा सुमनोहरा । शिला परमगंभीरा सुरासुरनमस्कृता ॥ १९३ ॥ उपसस्तुश्च ते सर्वे मस्तकन्यस्तपाणयः । आशारक्षानवस्थाप्य प्रयातान् सुसमाहितान् ॥ १९४ ॥ सुगंधिभिर्महांभोजैः पूर्णेन्दुपरिमंडलैः ! अन्यैश्च कुसुमैश्वित्रैरचिता तैरसौ शिला ॥ १९५ ॥ सितचन्दनदिग्धांगा कुंकुमांशुकधारिणी । धृतालंकरणा भाति सा शचीव मनोरमा ॥ १९६ ॥ तस्यां सिद्धान्नमस्कृत्य शिरसि करकुद्मलाः । भक्त्या प्रदक्षिणं चक्रुः क्रमेण विधिपण्डिताः १९७ ततः परिकरं बद्धवा सौमित्रिर्विनयं वहन् । नमस्कारपरो भक्तस्तुतिं कर्तुं समुद्यतः ॥ १९८ ॥ जयशब्दं समुद्घोष्य प्रहृष्टा वानरध्वजा । स्तोत्रं परिपठन्तीदमुत्तमं सिद्धमंगलम् ॥ १९९ ।। स्थितास्त्रैलोक्यशिखरे स्वयं परमभास्वरे । स्वरूपभूतया स्थित्या पुनर्जन्मविवर्जितान् ||२०० || भवार्णवसमुत्तीर्णान्निःश्रेयसः समुद्भवान् । आधारान्मुक्तिसौख्यस्य केवलज्ञानदर्शनान् ॥२०१॥ अनन्तवीर्यसंपन्नान् स्वभावसमवस्थितान् । सुसमीचीनतायुक्तान्निःशेषक्षीणकर्मणः ॥ २०२ ॥ अवगाहनधर्मोक्तानमूर्तान् सूक्ष्मतायुजः । गुरुत्वलघुतामुक्तान संख्यातप्रदेशिनः ।। २०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org