________________
३०९
पद्मपुराणम् ।
अष्टचत्वारिंशत्तमं पर्व। महातरोरधस्तावत् प्रविवेश विलं महत् । शिलानिकरसंछन्नं निर्यारं घोरनिश्वनम् ॥ १७८ ॥ तेन गोधेरशब्देन किल नित्यप्रवृत्तिना । बभूव स्थानमप्येतत्प्रलयाशंकि मानसम् ।। १७९ ॥ आत्मश्रेयस्ततो वृक्षमुन्मूल्य स शिलाघनम् । गोधेरं नाशयित्वा तं निधानं प्राप्य सांगदम् १८० आत्मश्रेयः समः पद्मः सीता वलयमूर्तिवत् । प्रमादवच्च कोसीद्यं शब्दस्तच्छन्दवद्रियोः (१) १८१ महानिधानवल्लंका गोधेरो दशवक्रकः । जनास्त इव निर्मीता यूयं भवत सांप्रतम् ॥ १८२ ॥ तच्छ्रुत्वा समुपाख्यानं जितजाम्बूनदोदितम् । बहवो विस्मयापन्ना बभूवुः स्मितकारिणः॥१८३॥ जाम्बूनदादयः सर्वे ततः कृत्वा प्रधारणम् । इदमूचुः पुनः पद्म श्रृणु राजन् समाहितः ॥१८४॥ अनन्तवीर्ययोगीन्द्रं संप्रणम्य पुरा मुदा । रावणेनात्मनो मृत्यु परिपृष्टः समादिशत् ॥ १८५ ।। यो निर्वाणशिला पुण्यामतुलामर्चितां सुरैः । समुद्यतां स ते मृत्योः कारणत्वं गमिष्यति ॥१८६॥ सर्वज्ञोक्तं निशम्यैतदचिन्तयदसाविदम् । भविता पुरुषः कोसौ तां यश्चालयितुं क्षमः ।। १८७ ।। नास्त्येव मरणे हेतुर्ममेत्युक्तं भवत्यदः । वचोयुक्तिर्विचित्रा हि विदुषामर्थदेशने ॥ १८८॥ ततो लक्ष्मीधरोऽवोचद्गच्छामो न चिरं हितम् । ईक्षामहे शिलां सैद्धी भव्यानां रोमहर्षणीम् १८९ रहस्यमेतत्सन्मंत्र्य सुनिश्चित्य समं ततः। सर्वे ते गन्तुमुद्युक्ताः प्रमादपरिवर्जिताः ॥ १९० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org