________________
३०
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व। पृथुस्थानाधिपस्याहं सुभानुरिति नन्दनः । गोत्रिकाक्रांतदेशः सन् कुर्वनैमित्तभाषितम् ॥१६५।। पर्यटन वसुधामेतां दैवात् कूर्मपुरं गतः । आचार्येगाभियोग्येन संगं प्राप्तोऽस्मि तत्र च १६६ अयोमयमिदं तेन दत्तं मे वलयं शुभम् । मार्गदुःखाभिभूताय कारुण्याकारचेतसा ॥ १६७ ॥ एतच्च सर्वरोगाणां शमनं बुद्धिवर्धनम् । ग्रहोरगपिशाचादिवशीकरणमुत्तमम् ॥ १६८॥ नैमित्तादिष्टकालस्य संप्राप्तश्च ममावधिः । आत्मीयमधुना राज्यं कर्तुं यामि निजं पुरम् ॥१६९॥ राज्यस्थस्य प्रमादाश्च जायन्ते गणनोज्झिताः । एतच छिद्रमासाद्य नियतं नाशकारणम् ॥१७०॥ गृहाणैतत्ततस्तुभ्यं यच्छामि वलयं पुरम् । उपसर्गविनिर्मुक्तं यदि वांछसि जीवितम् ॥ १७१ ॥ लब्धस्य च पुनर्दानं शंसन्ति सुमहाफलम् । यशश्च प्राप्यते लोके पूजयन्ति च तं जनाः ॥१७२॥ ततस्तमेवीमत्युक्त्वा गृहीतांगदमायसम् । आत्मश्रेयो गतो धाम सुभानुश्च निजं निजम् ॥१७३।। यावत्पत्नी नरेन्द्रस्य दष्टा श्वसनभोगिना । निश्चेष्टा दग्धुमानीता चितोद्देशे स पश्यति ॥१७४॥ कटकस्य प्रसादेन तस्य लोहमयस्य ताम् । जीवयित्वा परं प्रापदसौ पूजां नरेन्द्रतः ॥ १७५ ॥ महान्तस्तस्य संजाता भोगाः परमसौख्यदाः । सर्वबन्धुसमेतस्य पुण्यकर्मानुभावतः ॥ १७६ ॥ उत्तरीयांशुकस्योर्द्ध निधाय वलयं सरः । प्रविष्टो यावदादाय गोधेरो नश्यदूर्द्धतः ॥ १७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org