________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तमं पर्व | गृहोपकारणं भूरि शून्यग्रामेषु लभ्यते । अनयस्व त्वमेवेति सा तु मां भाषते मुदुः ॥ १८९ ॥ अथवात्यंतमेवेदं तया मे जनितं हितं । देव कोऽपि भवान् दृष्टो मया येन सुकर्मणा ।। १८२ ॥ इत्युक्ते करुणाक्लिष्टः पथिकं वीक्ष्य दुःखितं । पद्मस्मै रत्नसंयुक्तं ददौ कांचनसूत्रकं ।। १८३ ।। प्रतीतः प्रणिपत्यासौ तदादाय त्वरान्वितं । प्रतियातो निजं धाम बभूव च नृपोपमः ॥ १८४ ॥ अथावोचत्ततः पद्मो लक्ष्मणोयं दिवाकरः । नैदाघो यावदत्यंतं दुस्सहत्वं न गच्छति ।। १८५ ।। तावदुत्तिष्ठ गच्छावः पुरस्यास्यांतिकं भुवं । जानकीयं तृषाश्रांता कुर्वाहारविधिं द्रुतं ॥। १८६ ॥ एवमित्युदिते जाता दशांगनगरस्य ते । समीपे चंद्रमासस्य चैत्यालयमनुत्तमं ।। १८७ ॥ तस्मिन् सजानकीरामः प्रणम्यावस्थितः सुखं । तदाहारोपलंभाय लक्ष्मणः सधनुर्गतः || १८८ || विशन सिंहोदरस्यासौ शिविरं रक्ष्यमानसैः । निरुद्ध कृति निस्वानैः समीरण इवाद्रिभिः ॥ १८९ ॥ दुमदुकुलोत्पन्नः किं विरोधेन मे समं । इति संचित्य यातोऽसौ नगरं तेन पंडितः ।। १९० ॥ गोपुरं च समासीददनेकभटरक्षितं । यस्योपरि स्थितः साक्षाद्वज्रकर्णः प्रयत्नवान् ॥ १९१ ॥ ऊचिरे तस्य भृत्यास्तं कस्त्वमेतः कुतोऽपि वा । किमर्थं वेति सोऽवोचद्दूरात्प्राप्तोन्नलिप्सया || ततस्तं बालकं कांतं दृष्ट्वा विस्मय संगतः । आगच्छ प्रविश क्षिप्रमिति वज्रश्रवा जगौ ॥ १९३ ॥
Jain Education International
११७
For Private & Personal Use Only
www.jainelibrary.org