________________
पद्मपुराणम् ।
११६
त्रयस्त्रिंशत्तमं पर्व ।
१६८ ॥
पुरस्यात्यंत दुर्गत्वात्साधनक्षयकातरः । न स तद्ग्रहणे बुद्धिं चकार सहसा नृपः समावस्य समीपे च त्वरितं प्राहिणोन्नरं । वज्रकर्ण स गत्वेति बभ्राणात्यंत निष्ठुरं ॥ १६९ ॥ जिनशासनवर्गेण सदावष्टब्धमानसः । ऐश्वर्यकंटकस्त्वं मे जातः सद्भाववर्जितः ॥ १७० ॥ कुटुंबभेदने दक्षैः श्रमणैर्दुर्विचेष्टितैः । प्रोत्साहितो गतोस्यैतामवस्थां नयवर्जितः || १७१ ।। भुंक्षे देश मया दत्तमर्हतं च नमस्यति । अहो ते परमा माया जातेयं दुष्टचेतसः || १७२ ।। आगच्छाशु ममाभ्यासं प्रणामं कुरु सम्मतिः । अन्यथा पश्य जातोऽसि मृत्युना सह संगतं ॥ १७३ ॥ ततस्तद्वचनाद्गत्वा दूतोऽवददिदं पुनः । एवं वज्रश्रुतिनाथ ब्रवीति कृतनिश्चयः || १७४ ॥ नगरं साधनं कोषं गृहाण विषयं विभो । धर्मद्वारं सभार्यस्य यच्छ मे केवलस्य वा ।। १७५ ।। कृता मया प्रतिज्ञेयं मुंचाम्येनां मृतोऽपि न । द्रविणस्य भवान् स्वामी शरीरस्य तु नो मम ॥ १७६ ॥ इत्युक्तोऽप्यपरित्यक्तक्रोधः सिंहोदरः पुरः । कृत्वा रोधमिमं देशमुद्वासयदुज्ज्वलं ।। १७७ ॥ इदं ते कथितं देव देशोद्वासनकारणं । गच्छामि सांप्रतं शुन्यग्रामधानमितोंतिकं ।। १७८ ।। तस्मिन् विमानतुल्येषु दह्यमानेषु सद्मसु । मदीया दुष्कुटी दग्धा तृणकाष्ठविनिर्मिता ॥ १७९ ॥ तत्र गोपायितं सूर्पं घटं पिठरमेव च । आनयामि कुगेहिन्या प्रेरितः क्रूरवाक्यया ॥ १८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org