________________
पद्मपुराणम् ।
११५
त्रयस्त्रिंशत्तमं पर्व ।
सोवोचद्देवि निद्रा मे तो व्याकुलचेतसः। न मारितो रिपुर्यावन्नमस्कारपरांमुखः ॥ १५५ ॥ अपयानेन दग्धस्य व्याकुलस्याणचिंतया । अजितप्रत्यनीकस्य विटाक्रांताबलस्य च ॥ १५६ ॥ सशल्यस्य दरिद्रस्य भीरोश्च भवदुःखिनः । निद्रा कृपापरीतेव सुदूरेण पलायते ॥ १५७ ॥ निहंतास्मि न चेदेनं नमस्कारपरांमुखं । वज्रकर्ण ततः किं मे जीवितेन हतौजसः ॥१५८ ॥ ततोहं कुलिशेनेव हृदये कृतताडनः । रहस्यरत्नमादाय त्यक्त्वा कुंडलशेमुषीं ॥ १५९ ॥ धर्मोद्यतमनस्कस्य सततं साधुसेविनः । भवतोंतिकमायातो ज्ञात्वा कुरु निवर्तनं ॥ १६० ॥ नागैरंजनशैलाभैः प्रक्षरगंडभित्तिभिः । सप्तिभिश्च महावेगैर्भटैश्च कवचावृतः ॥ १६१ ॥ तदाज्ञापनया मार्गो निरुद्धोयं पुरोखिलः । सामंतैः परमं क्रूरैर्भवंतं हंतुमुद्यतैः ॥ १६२ ॥ प्रसादं कुरु गच्छाशु प्रतीपं धर्मवत्सल । पतामि पादयोरेष तव मद्वचनं कुरु ॥ १६३ ॥ अथ प्रत्येषितो राजन् ततः पश्यैतदागतं । धृलीपटलसंच्छन्नं परचक्रं महारवं ॥ १६४ ॥ तावत्परागतं दृष्ट्वा साधनं कुलिशश्रवाः । समेतो विद्युदंगेन निवृत्तो वगिवाहनः ।। १६५ ॥ प्रविश्य च पुरं दुर्ग सुधीरः समवस्थितः । विधाय वंचितारोधं सामंताश्चावतस्थिरे ॥१६६ ॥ प्रविष्टं नगरं श्रुत्वा वज्रकर्ण रुषा ज्वलन् । सिंहोदरः समायातः सर्वसाधनसंयुतः ॥ १६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org