________________
पद्मपुराणम् ।
११८
त्रिंशत्तमं पर्व ।
ततस्तुष्टः प्रयातोसौ समीपं कुलिशश्रुतेः । विनीतवेषसंपन्नो वीक्षितं सादरं नरैः ॥ १९४ ॥ जगाद वज्रकर्णश्च नरमाप्तमयं द्रुतं । अन्नं प्रसाधितं मह्यं भोज्यतां रचितादरः ॥ १९५ ॥ सोवोचन्नात्र मुंजेहमिति मे गुरुरंतिके । तमादौ भोजयाम्यन्नं नयाम्यस्याहमंतिकं ॥ १९६ ॥ एवमस्त्विति संभाष्य नृपोन्नमतिपुष्कलं । अदीदपद्वरं तस्मै चारुव्यंजनपानकं ॥ १९७ ॥ लक्ष्मीधरस्तदादाय गतो द्विगुणरंहसा । शुक्तं च तैः क्रमेणैततृप्तिं च परमां गताः ॥ १९८ ॥ ततस्तुष्टोऽवदत्पद्मः पश्य लक्ष्मण भद्रतां । वज्रकर्णस्य येनेदं कृतं परिचयाद्विना ॥ १९९ ॥ जामात्रेऽपि सुसंपन्नमीदृगन्नं न दीयते । पानकानामहो शैत्यं व्यंजनानां च मृष्टता ॥ २०० ॥ अनेनामृतकल्पेन मुक्तेनान्नेन मार्गजः । नैदाघोऽपहृतः सद्यः श्रमोस्माकं समं ततः ॥ २०१ ॥ चंद्रमिवाचू शायोमी विनिर्मिताः । धवलत्वेन विभ्राणा मार्दवं भिन्नसिच्छकाः ॥ २०२ ॥ दुग्धेवदीधितीरिंदोः कृतमेतच्च पानकं । नितांतमच्छता युक्तं सौरभाकृष्टषट्पदं ॥ २०३ ॥ घृतक्षीरमिदं जातं कल्पधेनुस्तनादिव । रसानामीदृशी व्यक्तिर्व्यजनेषु सुदुस्तरा ॥ २०४ ॥ अणुव्रतधरः साधुर्वर्णितः पथिकेन सः । अतिथीनां करोत्यन्यः सविभागं क ईदृशं ॥ २०५ ।। शुद्धात्मा श्रूयते सोयमनन्यप्रणतिः सुधीः । भवार्तिमथनं नाथं जिनेंद्रं यो नमस्यति ॥ २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org