________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तम पर्व । ईदृक् शीलगुणोपेतो यद्येषोस्माकमग्रतः । तिष्ठत्यरातिना रुद्धस्ततो नो जीवितं वृथा ॥२०७॥ अपराधविमुक्तस्य साधुसेवार्पितात्मनः । समस्ताश्चास्य सामंता एकनाथाविरोधिनः ॥ २०८ ॥ तोद्यमानमिमं नूनं सिंहोदरकुभूभृता । भरतोऽपि न शक्रोति रक्षितुं नूतनेशतः ॥२०९॥ तस्मादन्यपरित्राणरहितस्यास्य सन्मतेः । क्षिप्रं कुरु परित्राणं व्रज सिंहोदरं वद ॥ २१० ॥ इदं वाच्यमिदं वाच्यमिति किं शिक्ष्यते भवान् । उत्पन्नः प्रज्ञया साकं प्रभयेव महामणिः२११ गुणोच्चारणसवीडः कृत्वा शिरसि शासनं । यथाज्ञापयसीत्युक्त्वा प्रणम्य प्रमदान्वितः ॥२१२॥ विनीतं धारयन् वेषमनुपादाय कार्मुकं । प्रयातो रयसंपन्नो लक्ष्मणः कंपितक्षितिः ॥ २१३ ॥ दृष्टा संरक्षकैः पृष्टः कतरस्य पुमान् भवान् । सोवोचद्भरतस्याहमेतो दूतस्य कर्मणा ॥ २१४ ॥ क्रमेणातीत्य शिविरं भूरि प्राप्तो नृपास्पदं । अविशद्वेदितो द्वाःस्यैः सदः सिंहोदरस्य सः २१५ प्रस्पष्टमिति चोवाच मन्यमानस्तृणं नृपं । ज्येष्ठभ्रातृवचोवाहं सिंहोदर नृपाधमम् (निबोध मां)॥ आज्ञापयत्यसौ देवो भवंतमिति सद्गुणः । यथा किल किमेतेन विरोधेन विहेतुना ॥ २१७॥ ततः सिंहोदरोऽवादीन्मनः कर्कशमुद्वहन् । दूत ब्रूतां विनीतेशमिति मद्वचनाद्भवान् ॥ २१८ ॥ यथा किलाविनीतानां भृत्यानां विनयाहृतौ । कुर्वति स्वामिनो यत्नं विरोधः कोत्र दृश्यते २१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org