________________
पद्मपुराणम् ।
१२०
त्रयस्त्रिंशत्तम पर्व वज्रकर्णो दुरात्मायं मानी नैकृतिकः परः । पिशुनः क्रोधनः क्षुद्रः सुहृनिंदापरायणः॥२२० ॥ आलस्योपहतो मूढो वायुग्रहगृहीतधीः । विनयाचारनिर्मुक्तो दुर्विदग्धो दुरीहितः ॥ २२१ ।। एतं मुंचत्वमी दोषा दमेन मरणेन वा । तमुपायं करोम्यस्य स्वैरमत्रास्यतां त्वया ॥ २२२ ॥ ततो लक्ष्मीधरोऽवोचकिमत्र प्रचुरोत्तरैः । कुरुतेयं हितं यस्मात्क्षम्यतां सर्वमस्य तत् ॥२२३ । इत्युक्तः प्रकटक्रोधः संधिदूरपरांमुखः । सिंहोदरोऽवदत्तारं वीक्ष्य सामंतसंहति ॥ २२४ ॥ न केवलमसौ मानी हतात्मा वज्रकर्णकः । तत्कार्यवांछया प्राप्तो भवानपि तथाविधः ॥२२५।। पाषाणेनैव ते गात्रमिदं दूत विनिर्मितं । न नाममीषदप्येति दुर्भत्यः कोशलापतेः ॥ २२६ ॥ तत्र देशे नरा नूनं सर्व एव भवद्विधाः । स्थालीपुलाकधर्मेण परोक्षं ज्ञायते ननु ॥ २२७ ।। इत्युक्ते कोपमायातःकिंचिल्लक्ष्मीधरोऽवदत् । साम्यहेतोरहं प्राप्तो न ते कर्तुं नमस्कृति ॥२२८॥ बहुनात्र किमुक्तेन हरे संक्षेपतः शृणु । प्रतीच्छ संधिमद्यैव मरणं वा समाश्रय ॥ २२९॥ इत्युक्ते परिपत्सर्वा परं क्षोभमुपागता । नानाप्रकारदुर्वाक्या नानाचेष्टाविधायिनी ॥ २३० ।। आकृष्य छुरिका केचिनिस्त्रिंशानपरे भटाः । वधार्थमुद्यतास्तस्य कोपकंपितमूतेयः ॥ २३१ ॥ बेगनिर्मुक्तहुंकाराः परस्परसमाकुलाः । ते तं समंततो बब्रुर्मशका इव पर्वतं ॥ २३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org