________________
१२१
पद्मपुराणम् ।
अयस्त्रिंशत्तम पर्व । अप्राप्तानेव धीरोऽसौ क्रियालाघवपंडितः । चिक्षेप चरणाघातैरं तान् विहलान्समं ॥ २३३ ॥ जघान जानुना कांश्चित्कूपरेणापरान् भ्रमं । कांश्चिन्मुष्टिप्रहारेण चकार शतशर्करान् ॥ २३४ ॥ कचेषु कांश्चिदाकृष्य निपात्य धरणीतले । पादेनाचूर्णयत्कांश्चिदंसघातैरपानयत् ॥ २३५ ॥ कांश्चिदन्योन्यघातेन परिचूर्णितमस्तकान् । चकार जंघया कांश्चिदरं प्राप्तविमूर्छनान् ॥२३६ ॥ एवमेकाकिना तेन परिषत्सा तथाविधा । महाबलेन विध्वंसं नीता भयसमाकुलाः ।। २३७ ॥ एवं विध्वंसयन् यावनिष्क्रांतो भवनाजिरं । तावद्योधशतैरन्यैः लक्ष्मणः परिवेष्टितः ।। २३८ ॥ सामंतैरथ सनद्धारणैः सप्तिभीरथैः । परस्परविमर्दैन बभूवाकुलता परा ॥ २३९ ॥ नानाशस्त्रकरेवेषु लक्ष्म्यालिंगितविग्रहः । चकार चेष्टितं वीरः श्रृगालेष्विव केसरी ॥ २४० ॥ ततोनेकपमारुह्य प्रावृषेण घनाकृतिं । स्वयं सिंहोदरो रोर्बु लक्ष्मीनिलयमुद्यतः ।। २४१ ॥ तस्मिन् रणशिरोजाते किंचिद्वैर्यमुपागतः । दूरगाः पुनराजग्मुः सामंता लक्ष्मणं प्रति ॥ २४२ ॥ घनानामिव संघास्ते बब्रुस्तं शशिनं यथा । वातूल इव तानेष तूलराशीनिवाकरत् ॥ २४३ ॥ उदारभटकामिन्यो गंडविन्यस्तपाणयः । जगुराकुलताभाजः प्रविरोलविलोचनाः ॥ २४४ ॥ पश्यतैनं महाभीमं सख्यः पुरुषमेककं । वेष्टितं बहुभिः क्रूरैरसांप्रतमिदं परं ॥ २४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org