________________
पद्मपुराणम् ।
१६३
सप्तत्रिंशत्तमं पर्व। अवार्यवीर्यसंप्राप्तः सिंहवीर्यो महीपतिः । वांगः सिंहरथश्चेतौ मातुलौ बलशालिनौ ॥ २१ ॥ पदातिभीरथै गैः स्थीप्रष्ठैः प्रतिष्ठितैः । वत्सस्वामी समायातो मारिदत्तोतिभूरिभिः ॥२२॥ आंवष्ठः प्रोष्ठिलो राजा सौकीरो धीरमंदिरः । प्राप्तौ दुर्वेदसंख्येन साधनेनान्विताविमौ ॥ २३ ॥ एतेऽन्ये च महासत्वा राजानः श्रुतशासनाः । अक्षोहिणीभिरायाता दशभिस्त्रिदशोपमाः॥२४॥ अमीभिरनुयातोहं प्रस्थितो भरतं प्रति । त्वामुदीक्षे यतो लेखदर्शनानंतरं ततः ॥ २५ ॥ आगंतव्यं त्वया प्रीत्या कार्याप्रेक्षितया तथा । पश्यामोत्यादरेण त्वां यथा वर्ष कृषीवलाः॥२६॥ एवं च वाचिते लेखे न यावत्पृथिवीधरः । किंचिदूचे सुमित्रायाः सूनुस्तावदभाषत ॥ २७ ॥ अतिवीर्य तथा बुद्धौ भरतस्य विचेष्टितं । तव कीदृगिति ज्ञातं भद्रस्य दूतस्य ते ॥ २८ ॥ एवं वायुगतिः पृष्टो जगाद निखिलं मम । विदितं राजचरितमंतरंगो ह्ययं परः ॥ २९ ॥ इच्छामि विशदं श्रोतुमित्युक्ते पुनरब्रवीत् । श्रृणु चित्तं समाधाय भवतश्चेत्कुतूहलं ॥३०॥ श्रुतबुद्धिरिति ख्यातो दूतः श्रुतविशारदः । प्रहितः स्वामिनास्माकं गत्वा भरतमब्रवीत् ॥३१॥ दूतोऽस्मि शक्रतुल्यस्य प्रणताखिलभूभृतः । अतिवीर्यनरेंद्रस्य नयन्यासमनीषिणः ॥ ३२॥ संप्राप्य साध्वसं यस्मान्नरकेसरिणः परं । भजते रिपुसारंगा न निद्रा वसतिष्वपि ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org