SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १६२ सप्तत्रिंशत्तम पर्व। अतिवीर्यः समस्तेषु कर्तव्येषु महानयः । राजमानगुणः श्रीमानतिवीर्यः क्षितीश्वरः ॥८॥ आज्ञापयति नगरे विजये पृथिवीधरं । अक्षरैर्लेखसंक्रांतैः कुशलप्रश्नपूर्वकं ॥९॥ यथा मे केचिदेतस्मिन्सामंता धरणीतले । सकोषवाहनास्ते मे वर्तते पार्श्ववर्तिनः ॥१०॥ आयाद्बहुविधा म्लेच्छाश्चतुरंगसमन्विताः । नानाशस्त्रकरा वाक्यमर्चति समभूरयः ॥११॥ वरांजननगाभानां करिणामष्टभिः शतैः । समीरशावतुल्यानां सहस्राजिनां त्रिभिः ॥ १२ ॥ महाभोगो महातेजा मद्गुणाकृष्टमानसः । राजा विजयशार्दूलः सोद्य प्राप्तो ममांतिकं ॥ १३ ॥ मृगध्वजो रणोर्मिश्च कलभः केसरी तथा । अंगा महीभृतः षड्भिरमी करटिनां शनैः ॥ १४ ॥ प्रत्येकं पंचभिः सप्तिसहस्रैश्च समावृताः । प्राप्ताः कृतमहोत्साहा नयपंडितबुद्धयः ॥ १५ ॥ उत्साहयन् छलोवृत्तं नयशास्त्रविशारदं । पंचालाधिपमात्मार्थकारिणं ज्ञातकारणं ॥ १६ ॥ द्विरदानां सहस्रेण तैर्ययूनां च सप्तभिः । पौंड्रक्ष्मापतिगलीनः प्रतापं परमं वहन् ॥ १७ ॥ साधनेन तदग्रेण संप्राप्तो मगधाधिपः । पूर्यमाणो नृपैहो रैवो नदशतैरिव ॥ १८ ॥ सहस्रैरागतोऽष्टाभिर्दतिनां जलदत्विषां । अश्वीयेन सुकेशश्च दुर्लभांतेन वज्रधृक् ॥ १९ ॥ सुभद्रो मुनिभद्रश्च साधुभद्रश्च नंदनः । तुल्या वज्रधरस्यैते संप्राप्ता यवनाधिपाः ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy