________________
पद्मपुराणम् ।
सप्तत्रिंशत्तम पर्व । इति वनगहनान्यपि प्रयाताः । सुकृतसुसंस्कृतचेतसो मनुष्याः॥ १०३ ॥ अतिपरमगुणानुपाश्रयंते । रविरुचयः सहसा पदार्थलाभान् ॥ १०४ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्म-पुराणे पद्मायने वनमालाभिधानं नाम षट्त्रिंशत्तम पर्व ।
अथ सप्तत्रिंशत्तमं पर्व। अन्यदाथ सुखासीनं समुदीरिततत्कथं । राघवालंकृतास्थानं राजानं पृथिवीधरं ॥१॥ दुराध्वपरिखिन्नांगो लेखवाहः समाययौ । प्रणम्य च समासीनो द्रुतं लेखं समर्पयत् ॥२॥ गृहीत्वासौ ततो राज्ञा वाह्यनामांकलक्षितः । लेखकायार्पितः साधुः संधिविग्रहवेदिने ॥३॥ स विमुच्यानुवाच्यैनं वायितो राजचक्षुषा । लिपिचंचुर्विधौ चारुरित्यवाचयदुच्चगीः॥४॥ स्वस्तिस्वस्तिलकोदारप्रभावमतिकमणे । श्रीमते नतराजानमतिवीयर्याय शमेणे ॥५॥ श्रीनंद्यावर्तनगरानगराज इवोत्थितः । ख्यातः पंचमहाशब्दः शस्त्रशास्त्रविशारदः ॥६॥ राजाधिराजताश्लिष्टः प्रतापवशिताहितः । अनुरंजितसर्वक्ष्मः समुद्यद्भास्करद्युतिः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org